AgniPur, 22
Select a line for its word-by-word analysis.
चतुष्पादं धनुर्वेदं वेदे पञ्चविधं द्विज । (१।२)
catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija |
रथनागाश्वपत्तीनां योधांश्चाश्रित्य कीर्तितं ॥ (१।३)
rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ ||
अमुक्तं बाहुयुद्धं च पञ्चधा तत् प्रकीर्तितं ॥ (२।२)
amuktaṃ bāhuyuddhaṃ ca pañcadhā tat prakīrtitaṃ ||
तत्र शस्त्रास्त्रसम्पत्त्या द्विविधं परिकीर्तितं । (३।१)
tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ |
क्षेपिणीचापयन्त्राद्यैर् यन्त्रमुक्तं प्रकीर्तितं । (४।१)
kṣepiṇīcāpayantrādyair yantramuktaṃ prakīrtitaṃ |
शिलातोमरयन्त्राद्यं पाणिमुक्तं प्रकीर्तितं ॥ (४।२)
śilātomarayantrādyaṃ pāṇimuktaṃ prakīrtitaṃ ||
मुक्तसंधारितं ज्ञेयं प्रासाद्यमपि यद्भवेत् । (५।१)
muktasaṃdhāritaṃ jñeyaṃ prāsādyamapi yadbhavet |
खड्गादिकम् अमुक्तं च नियुद्धं विगतायुधं ॥ (५।२)
khaḍgādikam amuktaṃ ca niyuddhaṃ vigatāyudhaṃ ||
कुर्याद्योग्यानि प्रात्राणि योद्धुमिच्छुर्जितश्रमः । (६।१)
kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ |
धनुःश्रेष्ठानि युद्धानि प्रासमध्यानि तानि च ॥ (६।२)
dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca ||
धनुर्वेदे गुरुर्विप्रः प्रोक्तो वर्णद्वयस्य च ॥ (७।२)
dhanurvede gururvipraḥ prokto varṇadvayasya ca ||
युद्धाधिकारः शूद्रस्य स्वयं व्यापादि शिक्षया । (८।१)
yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā |
देशस्थैः शङ्करै राज्ञः कार्या युद्धे सहायता ॥ (८।२)
deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā ||
अङ्गुष्ठगुल्फपाण्यङ्घ्यः श्लिष्टाः स्युः सहिता यदि । (९।१)
aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi |
बाह्याङ्गुलिस्थितौ पादौ स्तब्धजानुबलावुभौ । (१०।१)
bāhyāṅgulisthitau pādau stabdhajānubalāvubhau |
त्रिवितस्त्यन्तरास्थानम् एतद् वैशाखम् उच्यते ॥ (१०।२)
trivitastyantarāsthānam etad vaiśākham ucyate ||
हंसपङ्क्त्याकृतिसमे दृश्येते यत्र जानुनी । (११।१)
haṃsapaṅktyākṛtisame dṛśyete yatra jānunī |
चतुर्वितस्तिविच्छिन्ने तदेतन्मण्डलं स्मृतं ॥ (११।२)
caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ ||
वितस्त्यः पञ्च विस्तारे तदालीढं प्रकीर्तितं ॥ (१२।२)
vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrtitaṃ ||
तिर्यग्भूतो भवेद्वामो दक्षिणो ऽपि भवेदृजुः ॥ (१३।२)
tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ ||
गुल्फौ पार्ष्णिग्रहौ चैव स्थितौ पञ्चाङ्गुलान्तरौ । (१४।१)
gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau |
स्थानं जातं भवेदेतद् द्वादशाङ्गुलमायतं ॥ (१४।२)
sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ ||
अथवा दक्षिणं जानु कुब्जं भवति निश्चलं ॥ (१५।२)
athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ ||
किंचिद् विवर्तितौ पादौ समदण्डायतौ स्थिरौ । (१८।१)
kiṃcid vivartitau pādau samadaṇḍāyatau sthirau |
स्वस्तिकेनात्र कुर्वीत प्रणामं प्रथमं द्विज । (१९।१)
svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija |
कार्मुकं गृह्य वामेन बाणं दक्षिणकेन तु ॥ (१९।२)
kārmukaṃ gṛhya vāmena bāṇaṃ dakṣiṇakena tu ||
वैशाखे यदि वा जाते स्थितौ वाप्यथवायतौ । (२०।१)
vaiśākhe yadi vā jāte sthitau vāpyathavāyatau |
गुणान्तं तु ततः कृत्वा कार्मुके प्रियकार्मुकः ॥ (२०।२)
guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ ||
धरण्यां स्थापयित्वा तु तोलयित्वा तथैव च ॥ (२१।२)
dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca ||
भुजाभ्यामत्र कुञ्जाभ्यां प्रकोष्ठाभ्यां शुभव्रत । (२२।१)
bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata |
यस्य बाणं धनुः श्रेष्ठं पुङ्गदेशे च पत्रिणः ॥ (२२।२)
yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ ||
ज्यया विशिष्टः कर्तव्यो नातिहीनो न चाधिकः ॥ (२३।२)
jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ ||
निवेश्य कार्मुकं नभ्यां नितम्बे शरसङ्करं । (२४।१)
niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ |
उत्क्षिपेदुत्थितं हस्तमन्तरेणाक्षिकर्णयोः ॥ (२४।२)
utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ ||
पूर्वेण मुष्टिना ग्राह्यस्तनाग्रे दक्षिणे शरः । (२५।१)
pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ |
हरणं तु ततः कृत्वा शीघ्रं पूर्वं प्रसारयेत् ॥ (२५।२)
haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet ||
नाभ्यन्तरा नैव बाह्या नोर्ध्वका नाधरा तथा । (२६।१)
nābhyantarā naiva bāhyā nordhvakā nādharā tathā |
न च कुब्जा न चोत्ताना न चला नातिवेष्टिता ॥ (२६।२)
na ca kubjā na cottānā na calā nātiveṣṭitā ||
समा स्थैर्यगुणोपेता पूर्वदण्डमिव स्थिता । (२७।१)
samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā |
छादयित्वा ततो लक्ष्यं पूर्वेणानेन मुष्टिना ॥ (२७।२)
chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā ||
स्रस्तांशो निश्चलग्रीवो मयूराञ्चितमस्तकः ॥ (२८।२)
srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ ||
ललाटनासावक्त्रांसाः कुर्युर् अश्वसमम्भवेत् । (२९।१)
lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet |
अन्तरं त्र्यङ्गुलं ज्ञेयं चिबुकस्यांसकस्य च ॥ (२९।२)
antaraṃ tryaṅgulaṃ jñeyaṃ cibukasyāṃsakasya ca ||
प्रथमं त्र्यङ्गुलं ज्ञेयं द्वितीये द्व्यङ्गुलं स्मृतं । (३०।१)
prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ |
तृतीये ऽङ्गुलम् उद्दिष्टम् आयतं चिबुकांसयोः ॥ (३०।२)
tṛtīye 'ṅgulam uddiṣṭam āyataṃ cibukāṃsayoḥ ||
गृहीत्वा सायकं पुङ्खात्तर्जन्याङ्गुष्ठकेन तु । (३१।१)
gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu |
एवंविधम् उपक्रम्य मोक्तव्यं विधिवत् खगं ॥ (३२।२)
evaṃvidham upakramya moktavyaṃ vidhivat khagaṃ ||
दृष्टिमुष्टिहतं लक्ष्यं भिन्द्याद् बाणेन सुव्रतः । (३३।१)
dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ |
मुक्त्वा तु पश्चिमं हस्तं क्षिपेद्वेगेन पृष्ठतः ॥ (३३।२)
muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ ||
एतदुच्छेदमिच्छन्ति ज्ञातव्यं हि त्वया द्विज । (३४।१)
etaducchedamicchanti jñātavyaṃ hi tvayā dvija |
कूर्परं तदधः कार्यमाकृष्य तु धनुष्मता ॥ (३४।२)
kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā ||
ऊर्ध्वं विमुक्तके कार्ये लक्षश्लिष्टं तु मध्यमं । (३५।१)
ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ |
श्रेष्ठं प्रकृष्टं विज्ञेयं धनुःशास्त्रविशारदैः ॥ (३५।२)
śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ ||
ज्येष्ठस्तु सायको ज्ञेयो भवेद्द्वादशमुष्टयः । (३६।१)
jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ |
चतुर्हस्तं धनुः श्रेष्ठं त्रयः सार्धं तु मध्यमं । (३७।१)
caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ |
कनीयस्तु त्रयः प्रोक्तं नित्यमेव पदातिनः ॥ (३७।२)
kanīyastu trayaḥ proktaṃ nityameva padātinaḥ ||
अश्वे रथे गजे श्रेष्ठे तदेव परिकीर्तितं ॥ (३८।१)
aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ ||
इत्य् आग्नेये महापुराणे धनुर्वेदो नाम अष्टचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥ (३९।१)
ity āgneye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.