अग्निपुराणAgnipurāṇa

AgniPur, 12

12 of 25 · 111 verses

Select a line for its word-by-word analysis.

1.1१.१

अग्निर् उवाच । (१।१)

agnir uvāca

1.2१.२

हरिवंशं प्रवक्ष्यामि विष्णुनाभ्यम्बुजादजः । (१।२)

harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ |

1.3१.३

ब्रह्मणो ऽत्रिस्ततः सोमः सोमाज्जातः पुरूरवाः ॥ (१।३)

brahmaṇo 'tristataḥ somaḥ somājjātaḥ purūravāḥ ||

2.1२.१

तस्मादायुरभूत्तस्मान् नहुषो ऽतो ययातिकः । (२।१)

tasmādāyurabhūttasmān nahuṣo 'to yayātikaḥ |

2.2२.२

यदुं च तुर्वसुं तस्माद् देवयानी व्यजायत ॥ (२।२)

yaduṃ ca turvasuṃ tasmād devayānī vyajāyata ||

3.1३.१

द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी । (३।१)

druhyaṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī |

3.2३.२

यदोः कुले यादवाश् च वसुदेवस्तदुत्तमः ॥ (३।२)

yadoḥ kule yādavāś ca vasudevastaduttamaḥ ||

4.1४.१

भुवो भारावतारार्थं देवक्यां वसुदेवतः । (४।१)

bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ |

4.2४.२

हिरण्यकशिपोः पुत्राः षड्गर्भा योगनिद्रया ॥ (४।२)

hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā yoganidrayā ||

5.1५.१

विष्णुप्रयुक्तया नीता देवकीजठरं पुरा । (५।१)

viṣṇuprayuktayā nītā devakījaṭharaṃ purā |

5.2५.२

अभूच्च सप्तमो गर्भो देवक्या जठराद् बलः ॥ (५।२)

abhūcca saptamo garbho devakyā jaṭharād balaḥ ||

6.1६.१

संक्रामितो ऽभूद्रोहिण्यां रौहिणेयस्ततो हरिः । (६।१)

saṃkrāmito 'bhūdrohiṇyāṃ rauhiṇeyastato hariḥ |

6.2६.२

कृष्णाष्टम्यां च नभसि अर्धरात्रे चतुर्भुजः ॥ (६।२)

kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ ||

7.1७.१

देवक्या वसुदेवेन स्तुतो बालो द्विबाहुकः । (७।१)

devakyā vasudevena stuto bālo dvibāhukaḥ |

7.2७.२

वसुदेवः कंसभयाद् यशोदाशयने ऽनयत् ॥ (७।२)

vasudevaḥ kaṃsabhayād yaśodāśayane 'nayat ||

8.1८.१

यशोदाबालिकां गृह्य देवकीशयने ऽनयत् । (८।१)

yaśodābālikāṃ gṛhya devakīśayane 'nayat |

8.2८.२

कंसो बालध्वनिं श्रुत्वा तां चिक्षेप शिलातले ॥ (८।२)

kaṃso bāladhvaniṃ śrutvā tāṃ cikṣepa śilātale ||

9.1९.१

वारितो ऽपि स देवक्या मृत्युर्गर्भो ऽष्टमो मम । (९।१)

vārito 'pi sa devakyā mṛtyurgarbho 'ṣṭamo mama |

9.2९.२

श्रुत्वाशरीरिणीं वाचं मत्तो गर्भास्तु मारिताः ॥ (९।२)

śrutvāśarīriṇīṃ vācaṃ matto garbhāstu māritāḥ ||

10.1१०.१

समर्पितास्तु देवक्या विवाहसमयेरिताः । (१०।१)

samarpitāstu devakyā vivāhasamayeritāḥ |

10.2१०.२

सा क्षिप्ता बालिका कंसम् आकाशस्थाब्रवीदिदम् ॥ (१०।२)

sā kṣiptā bālikā kaṃsam ākāśasthābravīdidam ||

11.1११.१

किं मया क्षिप्तया कंस जातो यस्त्वां वधिष्यति । (११।१)

kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati |

11.2११.२

सर्वस्वभूतो देवानां भूभारहरणाय सः ॥ (११।२)

sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ ||

12.1१२.१

इत्युक्त्वा सा च शुम्भादीन् हत्वेन्द्रेण च संस्तुता । (१२।१)

ityuktvā sā ca śumbhādīn hatvendreṇa ca saṃstutā |

12.2१२.२

आर्या दुर्गा वेदगर्भा अम्बिका भद्रकाल्यपि ॥ (१२।२)

āryā durgā vedagarbhā ambikā bhadrakālyapi ||

13.1१३.१

भद्रा क्षेम्या क्षेमकरी नैकबाहुर् नमामि ताम् । (१३।१)

bhadrā kṣemyā kṣemakarī naikabāhur namāmi tām |

13.2१३.२

त्रिसन्ध्यं यः पठेन्नाम सर्वान् कामानवाप्नुयात् ॥ (१३।२)

trisandhyaṃ yaḥ paṭhennāma sarvān kāmānavāpnuyāt ||

14.1१४.१

कंसो ऽपि पूतनादींश् च प्रेषयद्बालनाशने । (१४।१)

kaṃso 'pi pūtanādīṃś ca preṣayadbālanāśane |

14.2१४.२

यशोदापतिनन्दाय वसुदेवेन चार्पितौ ॥ (१४।२)

yaśodāpatinandāya vasudevena cārpitau ||

15.1१५.१

रक्षणाय च कंसादेर् भीतेनैव हि गोकुले । (१५।१)

rakṣaṇāya ca kaṃsāder bhītenaiva hi gokule |

15.2१५.२

रामकृष्णौ चेरतुस्तौ गोभिर्गोपालकैः सह ॥ (१५।२)

rāmakṛṣṇau ceratustau gobhirgopālakaiḥ saha ||

16.1१६.१

सर्वस्य जगतः पालौ गोपालौ तौ बभूवतुः । (१६।१)

sarvasya jagataḥ pālau gopālau tau babhūvatuḥ |

16.2१६.२

कृष्णश्चोलूखले बद्धो दाम्ना व्यग्रयशोदया ॥ (१६।२)

kṛṣṇaścolūkhale baddho dāmnā vyagrayaśodayā ||

17.1१७.१

यमलार्जुनमध्ये ऽगाद् भग्नौ च यमलार्जुनौ । (१७।१)

yamalārjunamadhye 'gād bhagnau ca yamalārjunau |

17.2१७.२

परिवृत्तश् च शकटः पादक्षेपात् स्तनार्थिना ॥ (१७।२)

parivṛttaś ca śakaṭaḥ pādakṣepāt stanārthinā ||

18.1१८.१

पूतना स्तनपानेन सा हता हन्तुमुद्यता । (१८।१)

pūtanā stanapānena sā hatā hantumudyatā |

18.2१८.२

वृन्दावनगतः कृष्णः कालियं यमुनाह्रदात् ॥ (१८।२)

vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt ||

19.1१९.१

जित्वा निःसार्य चाब्धिस्थं चकार बलसंस्तुतः । (१९।१)

jitvā niḥsārya cābdhisthaṃ cakāra balasaṃstutaḥ |

19.2१९.२

क्षेमं तालवनं चक्रे हत्वा धेनुकगर्दभं ॥ (१९।२)

kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ ||

20.1२०.१

अरिष्टवृषभं हत्वा केशिनं हयरूपिणम् । (२०।१)

ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam |

20.2२०.२

शक्रोत्सवं परित्यज्य कारितो गोत्रयज्ञकः ॥ (२०।२)

śakrotsavaṃ parityajya kārito gotrayajñakaḥ ||

21.1२१.१

पर्वतं धारयित्वा च शक्राद्वृष्टिर् निवारिता । (२१।१)

parvataṃ dhārayitvā ca śakrādvṛṣṭir nivāritā |

21.2२१.२

नमस्कृतो महेन्द्रेण गोविन्दो ऽथार्जुनो ऽर्पितः ॥ (२१।२)

namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ ||

22.1२२.१

इन्द्रोत्सवस्तु तुष्टेन भूयः कृष्णेन कारितः । (२२।१)

indrotsavastu tuṣṭena bhūyaḥ kṛṣṇena kāritaḥ |

22.2२२.२

रथस्थो मथुरां चागात् कंसोक्ताक्रूरसंस्तुतः ॥ (२२।२)

rathastho mathurāṃ cāgāt kaṃsoktākrūrasaṃstutaḥ ||

23.1२३.१

गोपीभिरनुरक्ताभिः क्रीडिताभिर् निरीक्षितः । (२३।१)

gopībhiranuraktābhiḥ krīḍitābhir nirīkṣitaḥ |

23.2२३.२

रजकं चाप्रयच्छन्तं हत्वा वस्त्राणि चाग्रहीत् ॥ (२३।२)

rajakaṃ cāprayacchantaṃ hatvā vastrāṇi cāgrahīt ||

24.1२४.१

सह रामेण मालाभृन् मालाकारे वरं ददौ । (२४।१)

saha rāmeṇa mālābhṛn mālākāre varaṃ dadau |

24.2२४.२

दत्तानुलेपनां कुब्जाम् ऋजुं चक्रे ऽहनद् गजं ॥ (२४।२)

dattānulepanāṃ kubjām ṛjuṃ cakre 'hanad gajaṃ ||

25.1२५.१

मत्तं कुवलयापीडं द्वारि रङ्गं प्रविश्य च । (२५।१)

mattaṃ kuvalayāpīḍaṃ dvāri raṅgaṃ praviśya ca |

25.2२५.२

कंसादीनां पश्यतां च मञ्चस्थानां नियुद्धकं ॥ (२५।२)

kaṃsādīnāṃ paśyatāṃ ca mañcasthānāṃ niyuddhakaṃ ||

26.1२६.१

चक्रे चाणूरमल्लेन मुष्टिकेन बलो ऽकरोत् । (२६।१)

cakre cāṇūramallena muṣṭikena balo 'karot |

26.2२६.२

चाणूरमुष्टिकौ ताभ्यां हतौ मल्लौ तथापरे ॥ (२६।२)

cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare ||

27.1२७.१

मथुराधिपतिं कंसं हत्वा तत्पितरं हरिः । (२७।१)

mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ |

27.2२७.२

चक्रे यादवराजानम् अस्तिप्राप्ती च कंसगे ॥ (२७।२)

cakre yādavarājānam astiprāptī ca kaṃsage ||

28.1२८.१

जरासन्धस्य ते पुत्र्यौ जरासन्धस्तदीरितः । (२८।१)

jarāsandhasya te putryau jarāsandhastadīritaḥ |

28.2२८.२

चक्रे स मथुरारोधं यादवैर् युयुधे शरैः ॥ (२८।२)

cakre sa mathurārodhaṃ yādavair yuyudhe śaraiḥ ||

29.1२९.१

रामकृष्णौ च मथुरां त्यक्त्वा गोमन्तमागतौ । (२९।१)

rāmakṛṣṇau ca mathurāṃ tyaktvā gomantamāgatau |

29.2२९.२

जरासन्धं विजित्याजौ पौण्ड्रकं वासुदेवकं ॥ (२९।२)

jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakaṃ ||

30.1३०.१

पुरीं च द्वारकां कृत्वा न्यवसद् यादवैर् वृतः । (३०।१)

purīṃ ca dvārakāṃ kṛtvā nyavasad yādavair vṛtaḥ |

30.2३०.२

भौमं तु नरकं हत्वा तेनानीताश् च कन्यकाः ॥ (३०।२)

bhaumaṃ tu narakaṃ hatvā tenānītāś ca kanyakāḥ ||

31.1३१.१

देवगन्धर्वयक्षाणां ता उवाच जनार्दनः । (३१।१)

devagandharvayakṣāṇāṃ tā uvāca janārdanaḥ |

31.2३१.२

षोडशस्त्रीसहस्राणि रुक्मिण्याद्यास् तथाष्ट च ॥ (३१।२)

ṣoḍaśastrīsahasrāṇi rukmiṇyādyās tathāṣṭa ca ||

32.1३२.१

सत्यभामासमायुक्तो गरुडे नरकार्दनः । (३२।१)

satyabhāmāsamāyukto garuḍe narakārdanaḥ |

32.2३२.२

मणिशैलं सरत्रं च इन्द्रं जित्वा हरिर्दिवि ॥ (३२।२)

maṇiśailaṃ saratraṃ ca indraṃ jitvā harirdivi ||

33.1३३.१

पारिजातं समानीय सत्यभामागृहे ऽकरोत् । (३३।१)

pārijātaṃ samānīya satyabhāmāgṛhe 'karot |

33.2३३.२

सांदीपनेश् च शस्त्रास्त्रं ज्ञात्वा तद्बालकं ददौ ॥ (३३।२)

sāṃdīpaneś ca śastrāstraṃ jñātvā tadbālakaṃ dadau ||

34.1३४.१

जित्वा पञ्चजनं दैत्यं यमेन च सुपूजितः । (३४।१)

jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ |

34.2३४.२

अवधीत् कालयवनं मुचुकुन्देन पूजितः ॥ (३४।२)

avadhīt kālayavanaṃ mucukundena pūjitaḥ ||

35.1३५.१

वसुदेवं देवकीं च भक्तविप्रांश् च सो ऽर्चयत् । (३५।१)

vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat |

35.2३५.२

रेवत्यां बलभद्राच्च यज्ञाते निशठोन्मुकौ ॥ (३५।२)

revatyāṃ balabhadrācca yajñāte niśaṭhonmukau ||

36.1३६.१

कृष्णात् शाम्बो जाम्बवत्यामन्यास्वन्ये ऽभवन् सुताः । (३६।१)

kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ |

36.2३६.२

तं मत्स्यं शम्बरायादान्मायावत्यै च शम्बरः ॥ (३६।२)

taṃ matsyaṃ śambarāyādānmāyāvatyai ca śambaraḥ ||

37.1३७.१

मायावती मत्स्यमध्ये दृष्ट्वा स्वं पतिमादरात् । (३७।१)

māyāvatī matsyamadhye dṛṣṭvā svaṃ patimādarāt |

37.2३७.२

पपोष सा तं चोवाच रतिस्ते ऽहं पतिर्मम ॥ (३७।२)

papoṣa sā taṃ covāca ratiste 'haṃ patirmama ||

38.1३८.१

कामस्त्वं शम्भुनानङ्गः कृतो ऽहं शम्बरेण च । (३८।१)

kāmastvaṃ śambhunānaṅgaḥ kṛto 'haṃ śambareṇa ca |

38.2३८.२

हृता न तस्य पत्नी त्वं मायाज्ञः शम्बरं जहि ॥ (३८।२)

hṛtā na tasya patnī tvaṃ māyājñaḥ śambaraṃ jahi ||

39.1३९.१

तच् छ्रुत्वा शम्बरं हत्वा प्रद्युम्नः सह भार्यया । (३९।१)

tac chrutvā śambaraṃ hatvā pradyumnaḥ saha bhāryayā |

39.2३९.२

मायावत्या ययौ कृष्णं कृष्णो हृष्टो ऽथ रुक्मिणी ॥ (३९।२)

māyāvatyā yayau kṛṣṇaṃ kṛṣṇo hṛṣṭo 'tha rukmiṇī ||

40.1४०.१

प्रद्युम्नाद् अनिरुद्धो ऽभूद् उषापतिर् उदारधीः । (४०।१)

pradyumnād aniruddho 'bhūd uṣāpatir udāradhīḥ |

40.2४०.२

बाणो बलिसुतस्तस्य सुतोषा शोणितं पुरं ॥ (४०।२)

bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ ||

41.1४१.१

तपसा शिवपुत्रो ऽभूत् मायूरध्वजपातितः । (४१।१)

tapasā śivaputro 'bhūt māyūradhvajapātitaḥ |

41.2४१.२

युद्धं प्राप्स्यसि बाण त्वं बाणं तुष्टः शिवो ऽभ्यधात् ॥ (४१।२)

yuddhaṃ prāpsyasi bāṇa tvaṃ bāṇaṃ tuṣṭaḥ śivo 'bhyadhāt ||

42.1४२.१

शिवेन क्रीडतीं गौरीं दृष्ट्वोषा सस्पृहा पतौ । (४२।१)

śivena krīḍatīṃ gaurīṃ dṛṣṭvoṣā saspṛhā patau |

42.2४२.२

तामाह गौरी भर्ता ते निशि सुप्तेति दर्शनात् ॥ (४२।२)

tāmāha gaurī bhartā te niśi supteti darśanāt ||

43.1४३.१

वैशाखमासद्वादश्यां पुंसो भर्ता भविष्यति । (४३।१)

vaiśākhamāsadvādaśyāṃ puṃso bhartā bhaviṣyati |

43.2४३.२

गौर्युक्ता हर्षिता चोषा गृहे सुप्ता ददर्श तं ॥ (४३।२)

gauryuktā harṣitā coṣā gṛhe suptā dadarśa taṃ ||

44.1४४.१

आत्मना संगतं ज्ञात्वा तत्सख्या चित्रलेखया । (४४।१)

ātmanā saṃgataṃ jñātvā tatsakhyā citralekhayā |

44.2४४.२

लिखिताद्वै चित्रपटाद् अनिरुद्धं समानयत् ॥ (४४।२)

likhitādvai citrapaṭād aniruddhaṃ samānayat ||

45.1४५.१

कृष्णपौत्रं द्वारकातो दुहिता बाणमन्त्रिणः । (४५।१)

kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ |

45.2४५.२

कुम्भाण्डस्यानिरुद्धो ऽगाद् रराम ह्य् उषया सह ॥ (४५।२)

kumbhāṇḍasyāniruddho 'gād rarāma hy uṣayā saha ||

46.1४६.१

बाणध्वजस्य सम्पातै रक्षिभिः स निवेदितः । (४६।१)

bāṇadhvajasya sampātai rakṣibhiḥ sa niveditaḥ |

46.2४६.२

अनिरुद्धस्य बाणेन युद्धमासीत्सदारुणम् ॥ (४६।२)

aniruddhasya bāṇena yuddhamāsītsadāruṇam ||

47.1४७.१

श्रुत्वा तु नारदात् कृष्णः प्रद्युम्नबलभद्रवान् । (४७।१)

śrutvā tu nāradāt kṛṣṇaḥ pradyumnabalabhadravān |

47.2४७.२

गरुडस्थो ऽथ जित्वाग्नीन् ज्वरं माहेश्वरं तथा ॥ (४७।२)

garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā ||

48.1४८.१

हरिशङ्करयोर्युद्धं बभूवाथ शराशरि । (४८।१)

hariśaṅkarayoryuddhaṃ babhūvātha śarāśari |

48.2४८.२

नन्दिविनायकस्कन्दमुखास्तार्क्षादिभिर्जिताः ॥ (४८।२)

nandivināyakaskandamukhāstārkṣādibhirjitāḥ ||

49.1४९.१

जृम्भते शङ्करे नष्टे जृम्भणास्त्रेण विष्णुना । (४९।१)

jṛmbhate śaṅkare naṣṭe jṛmbhaṇāstreṇa viṣṇunā |

49.2४९.२

छिन्नं सहस्रं बाहूनां रुद्रेणाभयमर्थितम् ॥ (४९।२)

chinnaṃ sahasraṃ bāhūnāṃ rudreṇābhayamarthitam ||

50.1५०.१

विष्णुना जीवितो बाणो द्विबाहुः प्राब्रवीच्छिवम् । (५०।१)

viṣṇunā jīvito bāṇo dvibāhuḥ prābravīcchivam |

50.2५०.२

त्वया यदभयं दत्तं बाणस्यास्य मया च तत् ॥ (५०।२)

tvayā yadabhayaṃ dattaṃ bāṇasyāsya mayā ca tat ||

51.1५१.१

आवयोर् नास्ति भेदो वै भेदी नरकमाप्नुयात् । (५१।१)

āvayor nāsti bhedo vai bhedī narakamāpnuyāt |

51.2५१.२

शिवाद्यैः पूजितो विष्णुः सो ऽनिरुद्ध उषादियुक् ॥ (५१।२)

śivādyaiḥ pūjito viṣṇuḥ so 'niruddha uṣādiyuk ||

52.1५२.१

द्वारकां तु गतो रेमे उग्रसेनादियादवैः । (५२।१)

dvārakāṃ tu gato reme ugrasenādiyādavaiḥ |

52.2५२.२

अनिरुद्धात्मजो वज्रो मार्कण्डेयात्तु सर्ववित् ॥ (५२।२)

aniruddhātmajo vajro mārkaṇḍeyāttu sarvavit ||

53.1५३.१

बलभद्रः प्रलम्बघ्नो यमुनाकर्षणो ऽभवत् । (५३।१)

balabhadraḥ pralambaghno yamunākarṣaṇo 'bhavat |

53.2५३.२

द्विविदस्य कपेर्भेत्ता कौरवोन्मादनाशनः ॥ (५३।२)

dvividasya kaperbhettā kauravonmādanāśanaḥ ||

54.1५४.१

हरी रेमे ऽनेकमूर्तो रुक्मिण्यादिभिरीश्वरः । (५४।१)

harī reme 'nekamūrto rukmiṇyādibhirīśvaraḥ |

54.2५४.२

पुत्रानुत्पादयामास त्वसंख्यातान् स यादवान् । (५४।२)

putrānutpādayāmāsa tvasaṃkhyātān sa yādavān |

54.3५४.३

हरिवंशं पठेत् यः स प्राप्तकामो हरिं व्रजेत् ॥ (५४।३)

harivaṃśaṃ paṭhet yaḥ sa prāptakāmo hariṃ vrajet ||

55.1५५.१

इत्य् आदिमहापुराणे आग्नेये हरिवंशवर्णनं नाम द्वादशो ऽध्यायः ॥ (५५।१)

ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AgniPur, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit