AgniPur, 3
Select a line for its word-by-word analysis.
वक्ष्ये कूर्मावतारं च श्रुत्वा पापप्रणाशनम् । (१।२)
vakṣye kūrmāvatāraṃ ca śrutvā pāpapraṇāśanam |
पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः ॥ (१।३)
purā devāsure yuddhe daityair devāḥ parājitāḥ ||
दुर्वाससश् च शापेन निःश्रीकाश् चाभवंस्तदा । (२।१)
durvāsasaś ca śāpena niḥśrīkāś cābhavaṃstadā |
स्तुत्वा क्षीराब्धिगं विष्णुम् ऊचुः पालय चासुरात् ॥ (२।२)
stutvā kṣīrābdhigaṃ viṣṇum ūcuḥ pālaya cāsurāt ||
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः । (३।१)
brahmādikān hariḥ prāha sandhiṃ kurvantu cāsuraiḥ |
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये ऽसुराः ॥ (३।२)
kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ ||
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् । (५।१)
manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim |
क्षीराब्धिं मत्सहायेन निर्मथध्वम् अतन्द्रिताः ॥ (५।२)
kṣīrābdhiṃ matsahāyena nirmathadhvam atandritāḥ ||
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः । (६।१)
viṣṇūktāṃ saṃvidaṃ kṛtvā daityaiḥ kṣīrābdhimāgatāḥ |
ततो मथितुमारब्धाः यतः पुच्छं ततः सुराः ॥ (६।२)
tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ ||
मथ्यमाने ऽर्णवे सो ऽद्रिर् अनाधारो ह्य् अपो ऽविशत् ॥ (७।२)
mathyamāne 'rṇave so 'drir anādhāro hy apo 'viśat ||
कूर्मरूपं समास्थाय दध्रे विष्णुश् च मन्दरम् । (८।१)
kūrmarūpaṃ samāsthāya dadhre viṣṇuś ca mandaram |
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्य् अभूत् ॥ (८।२)
kṣīrābdhermathyamānācca viṣaṃ hālāhalaṃ hy abhūt ||
ततो ऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः ॥ (९।२)
tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ ||
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिंगता । (१०।१)
gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā |
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियो ऽभवन् ॥ (१०।२)
paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan ||
ततो धन्वन्तरिर्विष्णुर् आयुर्वेदप्रवर्तकः । (११।१)
tato dhanvantarirviṣṇur āyurvedapravartakaḥ |
बिभ्रत् कमण्डलुं पूर्णम् अमृतेन समुत्थितः ॥ (११।२)
bibhrat kamaṇḍaluṃ pūrṇam amṛtena samutthitaḥ ||
अमृतं तत्कराद् दैत्याः सुरेभ्यो ऽर्धं प्रदाय च । (१२।१)
amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca |
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक् ततः ॥ (१२।२)
gṛhītvā jagmurjanmādyā viṣṇuḥ strīrūpadhṛk tataḥ ||
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः । (१३।१)
tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ |
भव भार्यामृतं गृह्य पाययास्मान् वरानने ॥ (१३।२)
bhava bhāryāmṛtaṃ gṛhya pāyayāsmān varānane ||
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् । (१४।१)
tathetyuktvā haristebhyo gṛhītvāpāyayatsurān |
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः ॥ (१४।२)
candrarūpadharo rāhuḥ pibaṃścārkendunārpitaḥ ||
हरिणाप्यरिणा छिन्नं स राहुस्तच्छिरः पृथक् । (१५।१)
hariṇāpyariṇā chinnaṃ sa rāhustacchiraḥ pṛthak |
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः । (१६।१)
rāhurmattastu candrārkau prāpsyete grahaṇaṃ grahaḥ |
तस्मिन् कले च यद्दानं दास्यन्ते स्यात् तदक्षयं ॥ (१६।२)
tasmin kale ca yaddānaṃ dāsyante syāt tadakṣayaṃ ||
तथेत्याहाथ तं विष्णुस् ततः सर्वैः सहामरैः । (१७।१)
tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ |
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय ॥ (१७।२)
strīrūpaṃ samparityajya hareṇoktaḥ pradarśaya ||
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः । (१८।१)
darśayāmāsa rudrāya strīrūpaṃ bhagavān hariḥ |
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः ॥ (१८।२)
māyayā mohitaḥ śambhuḥ gaurīṃ tyaktvā striyaṃ gataḥ ||
नग्न उन्मत्तरूपो ऽभूत् स्त्रियः केशानधारयत् । (१९।१)
nagna unmattarūpo 'bhūt striyaḥ keśānadhārayat |
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च तां गताम् ॥ (१९।२)
agādvimucya keśān strī anvadhāvacca tāṃ gatām ||
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि । (२०।१)
skhalitaṃ tasya vīryaṃ kau yatra yatra harasya hi |
तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च ॥ (२०।२)
tatra tatrābhavat kṣetraṃ liṅgānāṃ kanakasya ca ||
मायेयमिति तां ज्ञात्वा स्वरूपस्थो ऽभवद्धरः । (२१।१)
māyeyamiti tāṃ jñātvā svarūpastho 'bhavaddharaḥ |
न जेतुम् एनां शक्तो मे त्वदृते ऽन्यः पुमान् भुवि । (२२।१)
na jetum enāṃ śakto me tvadṛte 'nyaḥ pumān bhuvi |
अप्राप्याथामृतं दैत्या देवैर् युद्धे निपातिताः । (२२।२)
aprāpyāthāmṛtaṃ daityā devair yuddhe nipātitāḥ |
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत् ॥ (२२।३)
tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet ||
इत्य् आदिमहापुराणे आग्नेये कूर्मावतारो नाम तृतीयो ऽध्यायः ॥ (२३।१)
ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.