AgniPur, 21
Select a line for its word-by-word analysis.
सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश् च सर्वदान् । (१।२)
sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān |
धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा । (२।१)
dhātre vidhātre gaṅgāyai yamunāyai nidhī tathā |
द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम् ॥ (२।२)
dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam ||
पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च । (३।१)
pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca |
ऋग्वेदाद्यं कृताद्यं च सत्त्वाद्यर्कादिमण्डलम् । (४।१)
ṛgvedādyaṃ kṛtādyaṃ ca sattvādyarkādimaṇḍalam |
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत् ॥ (४।२)
vimalotkarṣiṇī jñānā kriyā yogā ca tā yajet ||
प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम् । (५।१)
prahvīṃ satyāṃ tatheśānānugrahāsanamūrtikām |
दुर्गां गिरङ्गणं क्षेत्रं वासुदेवादिकं यजेत् ॥ (५।२)
durgāṃ giraṅgaṇaṃ kṣetraṃ vāsudevādikaṃ yajet ||
Data courtesy of The Digital Corpus of Sanskrit.