अग्निपुराणAgnipurāṇa

AgniPur, 5

5 of 25 · 32 verses

Select a line for its word-by-word analysis.

1.1१.१

अग्निर् उवाच । (१।१)

agnir uvāca

1.2१.२

रामायणमहं वक्ष्ये नारदेनोदितं पुरा । (१।२)

rāmāyaṇamahaṃ vakṣye nāradenoditaṃ purā |

1.3१.३

वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ॥ (१।३)

vālmīkaye yathā tadvat paṭhitaṃ bhuktimuktidam ||

2.1२.१

नारद उवाच । (२।१)

nārada uvāca

2.2२.२

विष्णुनाभ्यब्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः । (२।२)

viṣṇunābhyabjajo brahmā marīcirbrahmaṇaḥ sutaḥ |

2.3२.३

मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ॥ (२।३)

marīceḥ kaśyapastasmāt sūryo vaivasvato manuḥ ||

3.1३.१

ततस्तस्मात्तथेक्ष्वाकुस् तस्य वंशे ककुत्स्थकः । (३।१)

tatastasmāttathekṣvākus tasya vaṃśe kakutsthakaḥ |

3.2३.२

ककुत्स्थस्य रघुस्तस्माद् अजो दशरथस्ततः ॥ (३।२)

kakutsthasya raghustasmād ajo daśarathastataḥ ||

4.1४.१

रावणादेर् वधार्थाय चतुर्धाभूत् स्वयं हरिः । (४।१)

rāvaṇāder vadhārthāya caturdhābhūt svayaṃ hariḥ |

4.2४.२

राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ॥ (४।२)

rājño daśarathādrāmaḥ kauśalyāyāṃ babhūva ha ||

5.1५.१

कैकेय्यां भरतः पुत्रः सुमित्रायां च लक्ष्मणः । (५।१)

kaikeyyāṃ bharataḥ putraḥ sumitrāyāṃ ca lakṣmaṇaḥ |

5.2५.२

शत्रुघ्न ऋष्यशृङ्गेण तासु संदत्तपायसात् ॥ (५।२)

śatrughna ṛṣyaśṛṅgeṇa tāsu saṃdattapāyasāt ||

6.1६.१

प्राशिताद्यज्ञसंसिद्धाद् रामाद्याश् च समाः पितुः । (६।१)

prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ |

6.2६.२

यज्ञविघ्नविनाशाय विश्वामित्रार्थितो नृपः ॥ (६।२)

yajñavighnavināśāya viśvāmitrārthito nṛpaḥ ||

7.1७.१

रामं संप्रेषयामास लक्ष्मणं मुनिना सह । (७।१)

rāmaṃ saṃpreṣayāmāsa lakṣmaṇaṃ muninā saha |

7.2७.२

रामो गतो ऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत् ॥ (७।२)

rāmo gato 'straśastrāṇi śikṣitastāḍakāntakṛt ||

8.1८.१

मारीचं मानवास्त्रेण मोहितं दूरतो ऽनयत् । (८।१)

mārīcaṃ mānavāstreṇa mohitaṃ dūrato 'nayat |

8.2८.२

सुबाहुं यज्ञहन्तारं सबलं चावधीत् बली ॥ (८।२)

subāhuṃ yajñahantāraṃ sabalaṃ cāvadhīt balī ||

9.1९.१

सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह । (९।१)

siddhāśramanivāsī ca viśvāmitrādibhiḥ saha |

9.2९.२

गतः क्रतुं मैथिलस्य द्रष्टुं चापं सहानुजः ॥ (९।२)

gataḥ kratuṃ maithilasya draṣṭuṃ cāpaṃ sahānujaḥ ||

10.1१०.१

शतानन्दनिमित्तेन विश्वामित्रप्रभावितः । (१०।१)

śatānandanimittena viśvāmitraprabhāvitaḥ |

10.2१०.२

रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ॥ (१०।२)

rāmāya kathito rājñā samuniḥ pūjitaḥ kratau ||

11.1११.१

धनुरापूरयामास लीलया स बभञ्ज तत् । (११।१)

dhanurāpūrayāmāsa līlayā sa babhañja tat |

11.2११.२

वीर्यशुक्लां च जनकः सीतां कन्यां त्वयोनिजाम् ॥ (११।२)

vīryaśuklāṃ ca janakaḥ sītāṃ kanyāṃ tvayonijām ||

12.1१२.१

ददौ रामाय रामो ऽपि पित्रादौ हि समागते । (१२।१)

dadau rāmāya rāmo 'pi pitrādau hi samāgate |

12.2१२.२

उपयेमे जानकीं ताम् ऊर्मिलां लक्ष्मणस् तथा ॥ (१२।२)

upayeme jānakīṃ tām ūrmilāṃ lakṣmaṇas tathā ||

13.1१३.१

श्रुतकीर्तिं माण्डवीं च कुशध्वजसुते तथा । (१३।१)

śrutakīrtiṃ māṇḍavīṃ ca kuśadhvajasute tathā |

13.2१३.२

जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ॥ (१३।२)

janakasyānujasyaite śatrughnabharatāvubhau ||

14.1१४.१

कन्ये द्वे उपयेमाते जनकेन सुपूजितः । (१४।१)

kanye dve upayemāte janakena supūjitaḥ |

14.2१४.२

रामो ऽगात्सवशिष्ठाद्यैर् जामदग्न्यं विजित्य च । (१४।२)

rāmo 'gātsavaśiṣṭhādyair jāmadagnyaṃ vijitya ca |

14.3१४.३

अयोध्यां भरतो ऽभ्यागात् सशत्रुघ्नो युधाजितः ॥ (१४।३)

ayodhyāṃ bharato 'bhyāgāt saśatrughno yudhājitaḥ ||

15.1१५.१

इत्य् आदिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमो ऽध्यायः ॥ (१५।१)

ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AgniPur, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit