अग्निपुराणAgnipurāṇa

AgniPur, 4

4 of 25 · 43 verses

Select a line for its word-by-word analysis.

1.1१.१

अग्निर् उवाच । (१।१)

agnir uvāca

1.2१.२

अवतारं वराहस्य वक्ष्ये ऽहं पापनाशनम् । (१।२)

avatāraṃ varāhasya vakṣye 'haṃ pāpanāśanam |

1.3१.३

हिरण्याक्षो ऽसुरेशो ऽभूत् देवान् जित्वा दिवि स्थितः ॥ (१।३)

hiraṇyākṣo 'sureśo 'bhūt devān jitvā divi sthitaḥ ||

2.1२.१

देवैर् गत्वा स्तुतो विष्णुर् यज्ञरूपो वराहकः । (२।१)

devair gatvā stuto viṣṇur yajñarūpo varāhakaḥ |

2.2२.२

अभूत् तं दानवं हत्वा दैत्यैः साकं च कण्टकम् ॥ (२।२)

abhūt taṃ dānavaṃ hatvā daityaiḥ sākaṃ ca kaṇṭakam ||

3.1३.१

धर्मदेवादिरक्षाकृत् ततः सो ऽन्तर्दधे हरिः । (३।१)

dharmadevādirakṣākṛt tataḥ so 'ntardadhe hariḥ |

3.2३.२

हिरण्याक्षस्य वै भ्राता हिरण्यकशिपुस् तथा ॥ (३।२)

hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā ||

4.1४.१

जितदेवयज्ञभागः सर्वदेवाधिकारकृत् । (४।१)

jitadevayajñabhāgaḥ sarvadevādhikārakṛt |

4.2४.२

नारसिंहवपुः कृत्वा तं जघान सुरैः सह ॥ (४।२)

nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha ||

5.1५.१

स्वपदस्थान् सुरांश् चक्रे नारसिंहः सुरैः स्तुतः । (५।१)

svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ |

5.2५.२

देवासुरे पुरा युद्धे बलिप्रभृतिभिः सुराः ॥ (५।२)

devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ ||

6.1६.१

जिताः स्वर्गात्परिभ्रष्टा हरिं वै शरणं गताः । (६।१)

jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ |

6.2६.२

सुराणामभयं दत्त्वा अदित्या कश्यपेन च ॥ (६।२)

surāṇāmabhayaṃ dattvā adityā kaśyapena ca ||

7.1७.१

स्तुतो ऽसौ वामनो भूत्वा ह्य् अदित्यां स क्रतुं ययौ । (७।१)

stuto 'sau vāmano bhūtvā hy adityāṃ sa kratuṃ yayau |

7.2७.२

बलेः श्रीयजमानस्य राजद्वारे ऽगृणात् श्रुतिं ॥ (७।२)

baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ ||

8.1८.१

देवान् पठन्तं तं श्रुत्वा वामनं वरदो ऽब्रवीत् । (८।१)

devān paṭhantaṃ taṃ śrutvā vāmanaṃ varado 'bravīt |

8.2८.२

निवारितो ऽपि शुक्रेण बलिर् ब्रूहि यद् इच्छसि ॥ (८।२)

nivārito 'pi śukreṇa balir brūhi yad icchasi ||

9.1९.१

तत्ते ऽहं सम्प्रदास्यामि वामनो बलिमब्रवीत् । (९।१)

tatte 'haṃ sampradāsyāmi vāmano balimabravīt |

9.2९.२

पदत्रयं हि गुर्वर्थं देहि दास्ये तमब्रवीत् ॥ (९।२)

padatrayaṃ hi gurvarthaṃ dehi dāsye tamabravīt ||

10.1१०.१

तोये तु पतिते हस्ते वामनो ऽभूदवामनः । (१०।१)

toye tu patite haste vāmano 'bhūdavāmanaḥ |

10.2१०.२

भूर्लोकं स भुवर्लोकं स्वर्लोकं च पदत्रयं ॥ (१०।२)

bhūrlokaṃ sa bhuvarlokaṃ svarlokaṃ ca padatrayaṃ ||

11.1११.१

चक्रे बलिं च सूतलं तच्छक्राय ददौ हरिः । (११।१)

cakre baliṃ ca sūtalaṃ tacchakrāya dadau hariḥ |

11.2११.२

शक्रो देवैर् हरिं स्तुत्वा भुवनेशः सुखी त्वभूत् ॥ (११।२)

śakro devair hariṃ stutvā bhuvaneśaḥ sukhī tvabhūt ||

12.1१२.१

वक्ष्ये परशुरामस्य चावतारं शृणु द्विज । (१२।१)

vakṣye paraśurāmasya cāvatāraṃ śṛṇu dvija |

12.2१२.२

उद्धतान् क्षत्रियान् मत्वा भूभारहरणाय सः ॥ (१२।२)

uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ ||

13.1१३.१

अवतीर्णो हरिः शान्त्यै देवविप्रादिपालकः । (१३।१)

avatīrṇo hariḥ śāntyai devaviprādipālakaḥ |

13.2१३.२

जमदग्ने रेणुकायां भार्गवः शस्त्रपारगः ॥ (१३।२)

jamadagne reṇukāyāṃ bhārgavaḥ śastrapāragaḥ ||

14.1१४.१

दत्तात्रेयप्रसादेन कार्त्तवीर्यो नृपस्त्वभृत् । (१४।१)

dattātreyaprasādena kārttavīryo nṛpastvabhṛt |

14.2१४.२

सहस्रबाहुः सर्वोर्वीपतिः स मृगयां गतः ॥ (१४।२)

sahasrabāhuḥ sarvorvīpatiḥ sa mṛgayāṃ gataḥ ||

15.1१५.१

श्रान्तो निमन्त्रितो ऽरण्ये मुनिना जमदग्निना । (१५।१)

śrānto nimantrito 'raṇye muninā jamadagninā |

15.2१५.२

कामधेनुप्रभावेण भोजितः सबलो नृपः ॥ (१५।२)

kāmadhenuprabhāveṇa bhojitaḥ sabalo nṛpaḥ ||

16.1१६.१

अप्रार्थयत् कामधेनुं यदा स न ददौ तदा । (१६।१)

aprārthayat kāmadhenuṃ yadā sa na dadau tadā |

16.2१६.२

हृतवानथ रामेण शिरश्छित्त्वा निपातितः ॥ (१६।२)

hṛtavānatha rāmeṇa śiraśchittvā nipātitaḥ ||

17.1१७.१

युद्धे परशुना राजा धेनुः स्वाश्रममाययौ । (१७।१)

yuddhe paraśunā rājā dhenuḥ svāśramamāyayau |

17.2१७.२

कार्त्तवीर्यस्य पुत्रैस्तु जमदग्निर्निपातितः ॥ (१७।२)

kārttavīryasya putraistu jamadagnirnipātitaḥ ||

18.1१८.१

रामे वनं गते वैराद् अथ रामः समागतः । (१८।१)

rāme vanaṃ gate vairād atha rāmaḥ samāgataḥ |

18.2१८.२

पितरं निहतं दृष्ट्वा पितृनाशाभिमर्षितः ॥ (१८।२)

pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ ||

19.1१९.१

त्रिःसप्तकृत्वः पृथिवीं निःक्षत्रामकरोद्विभुः । (१९।१)

triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ |

19.2१९.२

कुरुक्षेत्रे पञ्च कुण्डान् कृत्वा संतर्प्य वै पितॄन् ॥ (१९।२)

kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn ||

20.1२०.१

काश्यपाय महीं दत्त्वा महेन्द्रे पर्वते स्थितः । (२०।१)

kāśyapāya mahīṃ dattvā mahendre parvate sthitaḥ |

20.2२०.२

कूर्मस्य च वराहस्य नृसिंहस्य च वामनं । (२०।२)

kūrmasya ca varāhasya nṛsiṃhasya ca vāmanaṃ |

20.3२०.३

अवतारं च रामस्य श्रुत्वा याति दिवं नरः ॥ (२०।३)

avatāraṃ ca rāmasya śrutvā yāti divaṃ naraḥ ||

21.1२१.१

इत्य् आदिमहापुराणे आग्नेये वराहनृसिंहाद्यवतारो नाम चतुर्थो ऽध्यायः ॥ (२१।१)

ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

AgniPur, 4

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit