AgniPur, 2
Select a line for its word-by-word analysis.
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् । (१।२)
matsyādirūpiṇaṃ viṣṇuṃ brūhi sargādikāraṇam |
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम् ॥ (१।३)
purāṇaṃ brahma cāgneyaṃ yathā viṣṇoḥ purā śrutam ||
मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः । (२।२)
matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ |
तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत । (५।१)
tasyāñjalyudake matsyaḥ svalpa eko 'bhyapadyata |
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम ॥ (५।२)
kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama ||
ग्राहादिभ्यो भयं मे ऽद्य तच् छ्रुत्वा कलशे ऽक्षिपत् । (६।१)
grāhādibhyo bhayaṃ me 'dya tac chrutvā kalaśe 'kṣipat |
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे बृहत् ॥ (६।२)
sa tu vṛddhaḥ punarmatsyaḥ prāha taṃ dehi me bṛhat ||
स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चने ऽक्षिपत् । (७।१)
sthānametadvacaḥ śrutvā rājāthodañcane 'kṣipat |
तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो ॥ (७।२)
tatra vṛddho 'bravīdbhūpaṃ pṛthu dehi padaṃ mano ||
ऊचे देहि बृहत् स्थानं प्राक्षिपच्चाम्बुधौ ततः ॥ (८।२)
ūce dehi bṛhat sthānaṃ prākṣipaccāmbudhau tataḥ ||
मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः ॥ (९।२)
matsyaṃ tamadbhutaṃ dṛṣṭvā vismitaḥ prābravīn manuḥ ||
को भवान् ननु वै विष्णुर् नारायण नमो ऽस्तु ते । (१०।१)
ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te |
मायया मोहयसि मां किमर्थं त्वं जनार्दन ॥ (१०।२)
māyayā mohayasi māṃ kimarthaṃ tvaṃ janārdana ||
मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् । (११।१)
manunokto 'bravīnmatsyo manuṃ vai pālane ratam |
सप्तमे दिवसे त्व् अब्धिः प्लावयिष्यति वै जगत् । (१२।१)
saptame divase tv abdhiḥ plāvayiṣyati vai jagat |
उपस्थितायां नावि त्वं बीजादीनि विधाय च ॥ (१२।२)
upasthitāyāṃ nāvi tvaṃ bījādīni vidhāya ca ||
सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि । (१३।१)
saptarṣibhiḥ parivṛto niśāṃ brāhmīṃ cariṣyasi |
इत्युक्त्वान्तर्दधे मत्स्यो मनुः कालप्रतीक्षकः । (१४।१)
ityuktvāntardadhe matsyo manuḥ kālapratīkṣakaḥ |
नावम् बबन्ध तच्छृङ्गे मत्स्याख्यं च पुराणकम् ॥ (१५।२)
nāvam babandha tacchṛṅge matsyākhyaṃ ca purāṇakam ||
शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश् च तं । (१६।१)
śuśrāva matsyātpāpaghnaṃ saṃstuvan stutibhiś ca taṃ |
प्राप्ते कल्पे ऽथ वाराहे कूर्मरूपो ऽभवद्धरिः ॥ (१७।२)
prāpte kalpe 'tha vārāhe kūrmarūpo 'bhavaddhariḥ ||
इत्य् आदिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः ॥ (१८।१)
ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.