RājNigh, 10
Select a line for its word-by-word analysis.
पारिभद्रो ऽथ खदिरस् त्रिधारिः खादिरः स्मृतः ॥ (१।२)
pāribhadro 'tha khadiras tridhāriḥ khādiraḥ smṛtaḥ ||
पक्वाण्डेङ्गुदिका प्रोक्ता निष्पत्त्री च स्नुही द्विधा ॥ (२।२)
pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā ||
कन्थारिका त्रिधैरण्डो घोण्टा वल्लीकरञ्जकः । (३।१)
kanthārikā tridhairaṇḍo ghoṇṭā vallīkarañjakaḥ |
कारिका मदनस् त्रेधा बिल्वान्तरस् तरट्टिका ॥ (३।२)
kārikā madanas tredhā bilvāntaras taraṭṭikā ||
श्रीवल्ली कुञ्जिका चैव रामकाण्डस् तथापरः । (४।१)
śrīvallī kuñjikā caiva rāmakāṇḍas tathāparaḥ |
गोमूत्री शिल्पी निश्रेणी गर्मोटी मज्जरास् तथा । (६।१)
gomūtrī śilpī niśreṇī garmoṭī majjarās tathā |
गिरिभूर् वंशपत्त्री च मन्थानः पल्लिवाहकः ॥ (६।२)
giribhūr vaṃśapattrī ca manthānaḥ pallivāhakaḥ ||
पटुतृणशुको ज्ञेयः त्रिपण्यान्धः त्रिगुण्डकः । (७।१)
paṭutṛṇaśuko jñeyaḥ tripaṇyāndhaḥ triguṇḍakaḥ |
कसेरुश् चणिका प्रोक्ता गुण्डाला शूलिका तथा । (७।२)
kaseruś caṇikā proktā guṇḍālā śūlikā tathā |
शाल्मलिश् चिरजीवी स्यात् पिच्छिलो रक्तपुष्पकः । (८।१)
śālmaliś cirajīvī syāt picchilo raktapuṣpakaḥ |
कुक्कुटी तूलवृक्षश् च मोचाख्यः कण्टकद्रुमः ॥ (८।२)
kukkuṭī tūlavṛkṣaś ca mocākhyaḥ kaṇṭakadrumaḥ ||
दीर्घद्रुमः स्थूलफलो दीर्घायुस् तिथिभिर् मितः ॥ (९।२)
dīrghadrumaḥ sthūlaphalo dīrghāyus tithibhir mitaḥ ||
शाल्मली पिच्छिलो वृष्यो बल्यो मधुरशीतलः । (१०।१)
śālmalī picchilo vṛṣyo balyo madhuraśītalaḥ |
कषायश् च लघुः स्निग्धः शुक्रश्लेष्मविवर्धनः ॥ (१०।२)
kaṣāyaś ca laghuḥ snigdhaḥ śukraśleṣmavivardhanaḥ ||
पुष्पं तद्वच् च निर्दिष्टं फलं तस्य तथाविधम् ॥ (११।२)
puṣpaṃ tadvac ca nirdiṣṭaṃ phalaṃ tasya tathāvidham ||
मोचरसो मोचस् तु मोचस्रावश् च मोचनिर्यासः । (१२।१)
mocaraso mocas tu mocasrāvaś ca mocaniryāsaḥ |
पिच्छिलसारः सुरसः शाल्मलिवेष्टश् च मोचसारश् च ॥ (१२।२)
picchilasāraḥ surasaḥ śālmaliveṣṭaś ca mocasāraś ca ||
मोचरसस् तु कषायः कफवातहरो रसायनो योगात् । (१३।१)
mocarasas tu kaṣāyaḥ kaphavātaharo rasāyano yogāt |
बलपुष्टिवर्णवीर्यप्रज्ञायुर्देहसिद्धिदो ग्राही ॥ (१३।२)
balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī ||
रोहीतको रोहितकश् च रोहितः कुशाल्मलिर् दाडिमपुष्पसंज्ञकः । (१४।१)
rohītako rohitakaś ca rohitaḥ kuśālmalir dāḍimapuṣpasaṃjñakaḥ |
सदाप्रसूनः स च कूटशाल्मलिर् विरोचनः शाल्मलिको नवाह्वयः ॥ (१४।२)
sadāprasūnaḥ sa ca kūṭaśālmalir virocanaḥ śālmaliko navāhvayaḥ ||
सप्ताह्वः श्वेतरोहितः सितपुष्पः सिताह्वयः । (१५।१)
saptāhvaḥ śvetarohitaḥ sitapuṣpaḥ sitāhvayaḥ |
सिताङ्गः शुक्लरोहितो लक्ष्मीवान् जनवल्लभः ॥ (१५।२)
sitāṅgaḥ śuklarohito lakṣmīvān janavallabhaḥ ||
पारिभद्रअथ भवति पारिभद्रो मन्दारः पारिजातको निम्बतरुः । (१९।१)
pāribhadraatha bhavati pāribhadro mandāraḥ pārijātako nimbataruḥ |
रक्तकुसुमः क्रिमिघ्नो बहुपुष्पो रक्तकेसरो वसवः ॥ (१९।२)
raktakusumaḥ krimighno bahupuṣpo raktakesaro vasavaḥ ||
पारिभद्रः कटूष्णः स्यात् कफवातनिकृन्तनः । (२०।१)
pāribhadraḥ kaṭūṣṇaḥ syāt kaphavātanikṛntanaḥ |
खदिरखदिरो बालपत्त्रश् च खाद्यः पत्त्री क्षिती क्षमा । (२१।१)
khadirakhadiro bālapattraś ca khādyaḥ pattrī kṣitī kṣamā |
सुशल्यो वक्रकण्टश् च यज्ञाङ्गो दन्तधावनः ॥ (२१।२)
suśalyo vakrakaṇṭaś ca yajñāṅgo dantadhāvanaḥ ||
गायत्री जिह्मशल्यश् च कण्टी सारद्रुमस् तथा । (२२।१)
gāyatrī jihmaśalyaś ca kaṇṭī sāradrumas tathā |
कुष्ठारिर् बहुसारश् च मेध्यः सप्तदशाह्वयः ॥ (२२।२)
kuṣṭhārir bahusāraś ca medhyaḥ saptadaśāhvayaḥ ||
खदिरस् तु रसे तिक्तः शीतः पित्तकफापहः । (२३।१)
khadiras tu rase tiktaḥ śītaḥ pittakaphāpahaḥ |
खदिर::श्वेतसारखदिरः श्वेतसारो ऽन्यः कार्मुकः कुब्जकण्टकः । (२४।१)
khadira::śvetasārakhadiraḥ śvetasāro 'nyaḥ kārmukaḥ kubjakaṇṭakaḥ |
श्वेतस् तु खदिरस् तिक्तः कषायः कटुर् उष्णकः । (२५।१)
śvetas tu khadiras tiktaḥ kaṣāyaḥ kaṭur uṣṇakaḥ |
रक्तखदिरस रक्तो रक्तसारश् च सुसारस् ताम्रकण्टकः । (२६।१)
raktakhadirasa rakto raktasāraś ca susāras tāmrakaṇṭakaḥ |
स प्रोक्तो बहुशल्यश् च याज्ञिकः कुष्ठतोदनः । (२६।२)
sa prokto bahuśalyaś ca yājñikaḥ kuṣṭhatodanaḥ |
यूपद्रुमो ऽस्रखदिरो ऽपरुश् च दशधा स्मृतः ॥ (२६।३)
yūpadrumo 'srakhadiro 'paruś ca daśadhā smṛtaḥ ||
विट्खदिरविट्खदिरः काम्भोजी कालस्कन्धश् च गोरटो मरुजः । (२८।१)
viṭkhadiraviṭkhadiraḥ kāmbhojī kālaskandhaś ca goraṭo marujaḥ |
पत्त्रतरुर् बहुसारः संसारः खादिरो ग्रहैर् महासारः ॥ (२८।२)
pattratarur bahusāraḥ saṃsāraḥ khādiro grahair mahāsāraḥ ||
विट्खदिरः कटुर् उष्णस् तिक्तो रक्तव्रणोत्थदोषहरः । (२९।१)
viṭkhadiraḥ kaṭur uṣṇas tikto raktavraṇotthadoṣaharaḥ |
कण्डूतिविषविसर्पज्वरकुष्ठोन्मादभूतघ्नः ॥ (२९।२)
kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ ||
अरिअरिः संदानिका दाला ज्ञेया खदिरपत्त्रिका । (३०।१)
ariariḥ saṃdānikā dālā jñeyā khadirapattrikā |
अरिः कषायकटुका तिक्ता रक्तार्तिपित्तनुत् ॥ (३०।२)
ariḥ kaṣāyakaṭukā tiktā raktārtipittanut ||
खादिरखादिरः खदिरोद्भूतस् तत्सारो रङ्गदः स्मृतः । (३१।१)
khādirakhādiraḥ khadirodbhūtas tatsāro raṅgadaḥ smṛtaḥ |
ज्ञेयः खदिरसारश् च तथा रङ्गः षडाह्वयः ॥ (३१।२)
jñeyaḥ khadirasāraś ca tathā raṅgaḥ ṣaḍāhvayaḥ ||
कटुकः खादिरः सारस् तिक्तोष्णः कफवातहृत् । (३२।१)
kaṭukaḥ khādiraḥ sāras tiktoṣṇaḥ kaphavātahṛt |
व्रणकण्ठामयघ्नश् च रुचिकृद् दीपनः परः ॥ (३२।२)
vraṇakaṇṭhāmayaghnaś ca rucikṛd dīpanaḥ paraḥ ||
शमीशमी शान्ता तुङ्गा कचरिपुफला केशमथनी शिवेशा नौर् लक्ष्मीस् तपनतनुनष्टा शुभकरी । (३३।१)
śamīśamī śāntā tuṅgā kacaripuphalā keśamathanī śiveśā naur lakṣmīs tapanatanunaṣṭā śubhakarī |
हविर्गन्धा मेध्या दुरितशमनी शङ्कुफलिका सुभद्रा मङ्गल्या सुरभिर् अथ पापशमनी ॥ (३३।२)
havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī ||
भद्राथ शंकरी ज्ञेया केशहन्त्री शिवाफला । (३४।१)
bhadrātha śaṃkarī jñeyā keśahantrī śivāphalā |
सुपत्त्रा सुखदा चैव पञ्चविंशाभिधा मता ॥ (३४।२)
supattrā sukhadā caiva pañcaviṃśābhidhā matā ||
तत्फलं तु गुरु स्वादु तिक्तोष्णं केशनाशनम् ॥ (३५।२)
tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam ||
शमी::शान्ताद्वितीया तु शमी शान्ता शुभा भद्रापराजिता । (३६।१)
śamī::śāntādvitīyā tu śamī śāntā śubhā bhadrāparājitā |
बर्बुरबर्बुरो युगलाक्षश् च कण्टालुस् तीक्ष्णकण्टकः । (३७।१)
barburabarburo yugalākṣaś ca kaṇṭālus tīkṣṇakaṇṭakaḥ |
गोशृङ्गः पङ्क्तिबीजश् च दीर्घकण्टः कफान्तकः । (३७।२)
gośṛṅgaḥ paṅktibījaś ca dīrghakaṇṭaḥ kaphāntakaḥ |
दृढबीजः श्वासभक्ष्यो ज्ञेयश् चेति दशाह्वयः ॥ (३७।३)
dṛḍhabījaḥ śvāsabhakṣyo jñeyaś ceti daśāhvayaḥ ||
जालबर्बुरकजालबर्बुरकस् त्व् अन्यश् छत्त्राकः स्थूलकण्टकः । (३९।१)
jālabarburakajālabarburakas tv anyaś chattrākaḥ sthūlakaṇṭakaḥ |
सूक्ष्मशाखस् तनुच्छायो रन्ध्रकण्टः षडाह्वयः ॥ (३९।२)
sūkṣmaśākhas tanucchāyo randhrakaṇṭaḥ ṣaḍāhvayaḥ ||
पित्तकृच् च कषायोष्णः कफहृद् दाहकारकः ॥ (४०।२)
pittakṛc ca kaṣāyoṣṇaḥ kaphahṛd dāhakārakaḥ ||
इरिमेदैरिमेदो ऽरिमेदश् च गोधास्कन्धो ऽरिमेदकः । (४१।१)
irimedairimedo 'rimedaś ca godhāskandho 'rimedakaḥ |
पक्वाण्डपक्वाण्डः पञ्चकृत् पञ्चवर्धनः पञ्चरक्षकः । (४३।१)
pakvāṇḍapakvāṇḍaḥ pañcakṛt pañcavardhanaḥ pañcarakṣakaḥ |
दृष्ट्यञ्जनविधौ शस्तः कटुः जीर्णज्वरापहः ॥ (४३।२)
dṛṣṭyañjanavidhau śastaḥ kaṭuḥ jīrṇajvarāpahaḥ ||
इङ्गुदीइङ्गुदी हिङ्गुपत्त्रश् च विषकण्टो ऽनिलान्तकः । (४४।१)
iṅgudīiṅgudī hiṅgupattraś ca viṣakaṇṭo 'nilāntakaḥ |
गौरस् तूक्तः सुपत्त्रश् च शूलारिस् तापसद्रुमः ॥ (४४।२)
gauras tūktaḥ supattraś ca śūlāris tāpasadrumaḥ ||
तीक्ष्णकण्टस् तैलफलः पूतिगन्धो विगन्धकः । (४५।१)
tīkṣṇakaṇṭas tailaphalaḥ pūtigandho vigandhakaḥ |
ज्ञेयः क्रोष्टुफलश् चैव वह्नीन्दुगणिताह्वयः ॥ (४५।२)
jñeyaḥ kroṣṭuphalaś caiva vahnīndugaṇitāhvayaḥ ||
इङ्गुदी मदगन्धिः स्यात् कटूष्णा फेनिला लघुः । (४६।१)
iṅgudī madagandhiḥ syāt kaṭūṣṇā phenilā laghuḥ |
करीरनिष्पत्त्रकः करीरश् च करीरग्रन्थिलस् तथा । (४७।१)
karīraniṣpattrakaḥ karīraś ca karīragranthilas tathā |
कृकरो गूढपत्त्रश् च करकस् तीक्ष्णकण्टकः ॥ (४७।२)
kṛkaro gūḍhapattraś ca karakas tīkṣṇakaṇṭakaḥ ||
करीरम् आध्मानकरं कषायं कटूष्णम् एतत् कफकारि भूरि । (४८।१)
karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri |
श्वासानिलारोचकसर्वशूलविच्छर्दिखर्जूव्रणदोषहारि ॥ (४८।२)
śvāsānilārocakasarvaśūlavicchardikharjūvraṇadoṣahāri ||
स्नुहीस्नुही सुधा महावृक्षः क्षीरी निस्त्रिंशपत्त्रिका । (४९।१)
snuhīsnuhī sudhā mahāvṛkṣaḥ kṣīrī nistriṃśapattrikā |
शाखाकण्टश् च गुण्डाख्यः सेहुण्डो वज्रकण्टकः ॥ (४९।२)
śākhākaṇṭaś ca guṇḍākhyaḥ sehuṇḍo vajrakaṇṭakaḥ ||
बहुशाखो वज्रवृक्षो वातारिः क्षीरकाण्डकः । (५०।१)
bahuśākho vajravṛkṣo vātāriḥ kṣīrakāṇḍakaḥ |
भद्रो व्याघ्रनखश् चैव नेत्रारिर् दण्डवृक्षकः । (५०।२)
bhadro vyāghranakhaś caiva netrārir daṇḍavṛkṣakaḥ |
समन्तदुग्धो गण्डीरो ज्ञेयः स्नुक् चेति विंशतिः ॥ (५०।३)
samantadugdho gaṇḍīro jñeyaḥ snuk ceti viṃśatiḥ ||
स्नुही चोष्णा पित्तदाहकुष्ठवातप्रमेहनुत् । (५१।१)
snuhī coṣṇā pittadāhakuṣṭhavātapramehanut |
स्नुही::त्रिधारास्नुही चान्या त्रिधारा स्यात् तिस्रो धारास् तु यत्र सा । (५२।१)
snuhī::tridhārāsnuhī cānyā tridhārā syāt tisro dhārās tu yatra sā |
पूर्वोक्तगुणवत्य् एषा विशेषाद् रससिद्धिदा ॥ (५२।२)
pūrvoktaguṇavaty eṣā viśeṣād rasasiddhidā ||
कन्थारीकन्थारी कथरी कन्था दुर्धर्षा तीक्ष्णकण्टका । (५३।१)
kanthārīkanthārī katharī kanthā durdharṣā tīkṣṇakaṇṭakā |
तीक्ष्णगन्धा क्रूरगन्धा दुष्प्रवेशाष्टकाभिधा ॥ (५३।२)
tīkṣṇagandhā krūragandhā duṣpraveśāṣṭakābhidhā ||
शोफघ्नी दीपनी रुच्या रक्तग्रन्थिरुजापहा ॥ (५४।२)
śophaghnī dīpanī rucyā raktagranthirujāpahā ||
श्वेतैरण्डश्वेतैरण्डः सितैरण्डश् चित्रो गन्धर्वहस्तकः । (५५।१)
śvetairaṇḍaśvetairaṇḍaḥ sitairaṇḍaś citro gandharvahastakaḥ |
आमण्डस् तरुणः शुक्लो वातारिर् दीर्घदण्डकः । (५५।२)
āmaṇḍas taruṇaḥ śuklo vātārir dīrghadaṇḍakaḥ |
पञ्चाङ्गुलो वर्धमानो रुवुको द्वादशाह्वयः ॥ (५५।३)
pañcāṅgulo vardhamāno ruvuko dvādaśāhvayaḥ ||
रक्तैरण्डरक्तैरण्डो ऽपरो व्याघ्रो हस्तिकर्णो रुवुस् तथा । (५६।१)
raktairaṇḍaraktairaṇḍo 'paro vyāghro hastikarṇo ruvus tathā |
उरुवुको नागकर्णश् चञ्चुर् उत्तानपत्त्रकः ॥ (५६।२)
uruvuko nāgakarṇaś cañcur uttānapattrakaḥ ||
करपर्णो याचनकः स्निग्धो व्याघ्रदलस् तथा । (५७।१)
karaparṇo yācanakaḥ snigdho vyāghradalas tathā |
तत्करश् चित्रबीजश् च ह्रस्वैरण्डस् त्रिपञ्चधा ॥ (५७।२)
tatkaraś citrabījaś ca hrasvairaṇḍas tripañcadhā ||
श्वेतैरण्डः सकटुकरसस् तिक्त उष्णः कफार्तिध्वंसं धत्ते ज्वरहरमरुत्कासहारी रसार्हः । (५८।१)
śvetairaṇḍaḥ sakaṭukarasas tikta uṣṇaḥ kaphārtidhvaṃsaṃ dhatte jvaraharamarutkāsahārī rasārhaḥ |
रक्तैरण्डः श्वयथुपचनः वान्तिरक्तार्तिपाण्डुभ्रान्तिश्वासज्वरकफहरो ऽरोचकघ्नो लघुश् च ॥ (५८।२)
raktairaṇḍaḥ śvayathupacanaḥ vāntiraktārtipāṇḍubhrāntiśvāsajvarakaphaharo 'rocakaghno laghuś ca ||
स्थूलैरण्डस्थूलैरण्डो महैरण्डो महापञ्चाङ्गुलादिकः । (५९।१)
sthūlairaṇḍasthūlairaṇḍo mahairaṇḍo mahāpañcāṅgulādikaḥ |
स्थूलैरण्डो गुणाढ्यः स्याद् रसवीर्यविपक्तिषु ॥ (५९।२)
sthūlairaṇḍo guṇāḍhyaḥ syād rasavīryavipaktiṣu ||
घोण्टाघोण्टा बदरिका घोटी गोलिका शत्रुकण्टकः । (६०।१)
ghoṇṭāghoṇṭā badarikā ghoṭī golikā śatrukaṇṭakaḥ |
कर्कटी च तुरंगी च तुरगाह्वाष्टधा स्मृता ॥ (६०।२)
karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā ||
लताकरञ्जलताकरञ्जो दुःस्पर्शो वीरास्यो वज्रवीरकः । (६२।१)
latākarañjalatākarañjo duḥsparśo vīrāsyo vajravīrakaḥ |
धनदाक्षः कण्टफलः कुबेराक्षश् च सप्तधा ॥ (६२।२)
dhanadākṣaḥ kaṇṭaphalaḥ kuberākṣaś ca saptadhā ||
लताकरञ्ज:: मेदिच्। प्रोपेर्तिएस्लताकरञ्जपत्त्रं तु कटूष्णं कफवातनुत् । (६३।१)
latākarañja:: medic. propertieslatākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut |
तद्बीजं दीपनं पथ्यं शूलगुल्मव्यथापहम् ॥ (६३।२)
tadbījaṃ dīpanaṃ pathyaṃ śūlagulmavyathāpaham ||
कारीकारी तु कारिका कार्या गिरिजा कटुपत्त्रिका । (६४।१)
kārīkārī tu kārikā kāryā girijā kaṭupattrikā |
तत्रैका कण्टकारी स्याद् अन्या त्व् आकर्षकारिका ॥ (६४।२)
tatraikā kaṇṭakārī syād anyā tv ākarṣakārikā ||
दीपनी ग्राहिणी रुच्या कण्ठशोधकरी गुरुः ॥ (६५।२)
dīpanī grāhiṇī rucyā kaṇṭhaśodhakarī guruḥ ||
मदनमदनः शल्यकैडर्यः पिण्डी धाराफलस् तथा । (६६।१)
madanamadanaḥ śalyakaiḍaryaḥ piṇḍī dhārāphalas tathā |
तरटः करहाटश् च राहुः पिण्डातकः स्मृतः ॥ (६६।२)
taraṭaḥ karahāṭaś ca rāhuḥ piṇḍātakaḥ smṛtaḥ ||
कण्टालो विषमुष्टिश् च छर्दनो विषपुष्पकः । (६७।१)
kaṇṭālo viṣamuṣṭiś ca chardano viṣapuṣpakaḥ |
घण्टालो मादनो हर्षो घण्टाख्यो वस्तिरोधनः । (६७।२)
ghaṇṭālo mādano harṣo ghaṇṭākhyo vastirodhanaḥ |
ग्रन्थिफलो गोलफलो मदनाह्वश् च विंशतिः ॥ (६७।३)
granthiphalo golaphalo madanāhvaś ca viṃśatiḥ ||
मदन::वाराहवाराहो ऽन्यः कृष्णवर्णो महापिण्डीतको महान् । (६९।१)
madana::vārāhavārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān |
स्निग्धपिण्डीतकश् चान्यः स्थूलवृक्षफलस् तथा ॥ (६९।२)
snigdhapiṇḍītakaś cānyaḥ sthūlavṛkṣaphalas tathā ||
अन्यौ च मदनौ श्रेष्ठौ कटुतिक्तरसान्वितौ । (७०।१)
anyau ca madanau śreṣṭhau kaṭutiktarasānvitau |
बिल्वान्तरबिल्वान्तरश् चीरवृक्षः क्षुधाकुशलसंज्ञकः । (७१।१)
bilvāntarabilvāntaraś cīravṛkṣaḥ kṣudhākuśalasaṃjñakaḥ |
दीर्घमूलो वीरवृक्षः कृच्छ्रारिश् च षडाह्वयः ॥ (७१।२)
dīrghamūlo vīravṛkṣaḥ kṛcchrāriś ca ṣaḍāhvayaḥ ||
बिल्वान्तरः कटूष्णश् च कृच्छ्रघ्नः संधिशूलनुत् । (७२।१)
bilvāntaraḥ kaṭūṣṇaś ca kṛcchraghnaḥ saṃdhiśūlanut |
तरटीतरटी तारटी तीव्रा खर्बुरा रक्तबीजका । (७३।१)
taraṭītaraṭī tāraṭī tīvrā kharburā raktabījakā |
श्रीवल्लीश्रीवल्ली शिववल्ली च कण्टवल्ली च शीतला । (७४।१)
śrīvallīśrīvallī śivavallī ca kaṇṭavallī ca śītalā |
अम्ला कटुफलाश्वत्था दुरारोहा च साष्टधा ॥ (७४।२)
amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā ||
तत्फलं तैललेपघ्नम् अत्यम्लं रुचिकृत् परम् ॥ (७५।२)
tatphalaṃ tailalepaghnam atyamlaṃ rucikṛt param ||
श्रीवल्ली::निकुञ्जिकाअन्या निकुञ्जिकाम्लाख्या कुञ्जिका कुञ्जवल्लरी । (७६।१)
śrīvallī::nikuñjikāanyā nikuñjikāmlākhyā kuñjikā kuñjavallarī |
निकुञ्जिका बुधैर् उक्ता श्रीवल्लीसदृशी गुणैः ॥ (७६।२)
nikuñjikā budhair uktā śrīvallīsadṛśī guṇaiḥ ||
अपर्वदण्डअपर्वदण्डो दीर्घश् च रामबाणो नृपप्रियः । (७७।१)
aparvadaṇḍaaparvadaṇḍo dīrghaś ca rāmabāṇo nṛpapriyaḥ |
रामकाण्डजमूलं स्याद् ईषद् उष्णं रुचिप्रदम् । (७८।१)
rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam |
वावनालयावनालो ऽथ नदीजो दृढत्वग् वारिसम्भवः । (७९।१)
vāvanālayāvanālo 'tha nadījo dṛḍhatvag vārisambhavaḥ |
शरशरो बाण इषुः काण्ड उत्कटः सायकः क्षुरः । (८१।१)
śaraśaro bāṇa iṣuḥ kāṇḍa utkaṭaḥ sāyakaḥ kṣuraḥ |
इक्षुरः क्षुरिकापत्त्रो विशिखश् च दशाभिधः ॥ (८१।२)
ikṣuraḥ kṣurikāpattro viśikhaś ca daśābhidhaḥ ||
स्थूलशरस्थूलो ऽन्यः स्थूलशरो महाशरः स्थूलसायकमुखाख्यः । (८२।१)
sthūlaśarasthūlo 'nyaḥ sthūlaśaro mahāśaraḥ sthūlasāyakamukhākhyaḥ |
इक्षुरकः क्षुरपत्त्रो बहुमूलो दीर्घमूलको मुनिभिः ॥ (८२।२)
ikṣurakaḥ kṣurapattro bahumūlo dīrghamūlako munibhiḥ ||
शर:: मेदिच्। प्रोपेर्तिएस्शरद्वयं स्यान् मधुरं सुतिक्तं कोष्णं कफभ्रान्तिमदापहारि । (८३।१)
śara:: medic. propertiesśaradvayaṃ syān madhuraṃ sutiktaṃ koṣṇaṃ kaphabhrāntimadāpahāri |
बलं च वीर्यं च करोति नित्यं निषेवितं वातकरं च किंचित् ॥ (८३।२)
balaṃ ca vīryaṃ ca karoti nityaṃ niṣevitaṃ vātakaraṃ ca kiṃcit ||
मुञ्जमुञ्जो मौञ्जीतृणाख्यः स्याद् ब्रह्मण्यस् तेजनाह्वयः । (८४।१)
muñjamuñjo mauñjītṛṇākhyaḥ syād brahmaṇyas tejanāhvayaḥ |
वानीरजो मुञ्जनकः शारी दर्भाह्वयश् च सः ॥ (८४।२)
vānīrajo muñjanakaḥ śārī darbhāhvayaś ca saḥ ||
रञ्जनः शत्रुभङ्गश् च स्याच् चतुर्दशसंज्ञकः ॥ (८५।२)
rañjanaḥ śatrubhaṅgaś ca syāc caturdaśasaṃjñakaḥ ||
मुञ्जस् तु मधुरः शीतः कफपित्तजदोषजित् । (८६।१)
muñjas tu madhuraḥ śītaḥ kaphapittajadoṣajit |
काशकाशः काण्डेक्षुर् इक्ष्वारिः काकेक्षुर् वायसेक्षुकः । (८७।१)
kāśakāśaḥ kāṇḍekṣur ikṣvāriḥ kākekṣur vāyasekṣukaḥ |
इक्षुरश् चेक्षुकाण्डश् च शारदः सितपुष्पकः ॥ (८७।२)
ikṣuraś cekṣukāṇḍaś ca śāradaḥ sitapuṣpakaḥ ||
नादेयो दर्भपत्त्रश् च लेखनः काण्डकाण्डकौ । (८८।१)
nādeyo darbhapattraś ca lekhanaḥ kāṇḍakāṇḍakau |
कण्ठालंकारकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ (८८।२)
kaṇṭhālaṃkārakaś caiva jñeyaḥ pañcadaśāhvayaḥ ||
काशश् च शिशिरो गौल्यो रुचिकृत् पित्तदाहनुत् । (८९।१)
kāśaś ca śiśiro gaulyo rucikṛt pittadāhanut |
काश::अशिरीअन्यो ऽशिरी मिशिर् गण्डा अश्वालो नीरजः शरः । (९०।१)
kāśa::aśirīanyo 'śirī miśir gaṇḍā aśvālo nīrajaḥ śaraḥ |
मिशिर् मधुरशीतः स्यात् पित्तदाहक्षयापहः ॥ (९०।२)
miśir madhuraśītaḥ syāt pittadāhakṣayāpahaḥ ||
दर्भ::सितदर्भसितदर्भो ह्रस्वकुम्भः पूतो यज्ञियपत्त्रकः । (९१।१)
darbha::sitadarbhasitadarbho hrasvakumbhaḥ pūto yajñiyapattrakaḥ |
वज्रो ब्रह्मपवित्रश् च तीक्ष्णो यज्ञस्य भूषणः । (९१।२)
vajro brahmapavitraś ca tīkṣṇo yajñasya bhūṣaṇaḥ |
सूचीमुखः पुण्यतृणो वह्निः पूततृणो द्विषट् ॥ (९१।३)
sūcīmukhaḥ puṇyatṛṇo vahniḥ pūtatṛṇo dviṣaṭ ||
दर्भमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । (९२।१)
darbhamūlaṃ himaṃ rucyaṃ madhuraṃ pittanāśanam |
दर्भ::कुशकुशो ऽन्यः शरपत्त्रश् च हरिद्गर्भः पृथुच्छदः । (९३।१)
darbha::kuśakuśo 'nyaḥ śarapattraś ca haridgarbhaḥ pṛthucchadaḥ |
शारी च रूक्षदर्भश् च दीर्घपत्त्रः पवित्रकः ॥ (९३।२)
śārī ca rūkṣadarbhaś ca dīrghapattraḥ pavitrakaḥ ||
दर्भौ द्वौ च गुणे तुल्यौ तथापि च सितो ऽधिकः । (९४।१)
darbhau dvau ca guṇe tulyau tathāpi ca sito 'dhikaḥ |
यदि श्वेतकुशाभावस् त्व् अपरं योजयेत् भिषक् ॥ (९४।२)
yadi śvetakuśābhāvas tv aparaṃ yojayet bhiṣak ||
बल्वजाबल्वजा दृढपत्त्री च तृणेक्षुस् तृणबल्वजा । (९५।१)
balvajābalvajā dṛḍhapattrī ca tṛṇekṣus tṛṇabalvajā |
मौञ्जीपत्त्रा दृढतृणा पानीयाश्वा दृढक्षुरा ॥ (९५।२)
mauñjīpattrā dṛḍhatṛṇā pānīyāśvā dṛḍhakṣurā ||
कुतृणकुतृणं कत्तृणं भूतिर् भूतिकं रोहिषं तृणम् । (९७।१)
kutṛṇakutṛṇaṃ kattṛṇaṃ bhūtir bhūtikaṃ rohiṣaṃ tṛṇam |
श्यामकं ध्यामकं पूतिर् मुद्गलं दवदग्धकम् ॥ (९७।२)
śyāmakaṃ dhyāmakaṃ pūtir mudgalaṃ davadagdhakam ||
कुतृण::रोहिषकअन्यद् रोहिषकं दीर्घं दृढकाण्डो दृढच्छदम् । (९९।१)
kutṛṇa::rohiṣakaanyad rohiṣakaṃ dīrghaṃ dṛḍhakāṇḍo dṛḍhacchadam |
द्राघिष्ठं दीर्घनालश् च तिक्तसारश् च कुत्सितम् ॥ (९९।२)
drāghiṣṭhaṃ dīrghanālaś ca tiktasāraś ca kutsitam ||
दीर्घरोहिषकं तिक्तं कटूष्णं कफवातजित् । (१००।१)
dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit |
नलनालो नडो नलश् चैव कुक्षिरन्ध्रो ऽथ कीचकः । (१०१।१)
nalanālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ |
वंशान्तरश् च धमनः शून्यमध्यो विभीषणः ॥ (१०१।२)
vaṃśāntaraś ca dhamanaḥ śūnyamadhyo vibhīṣaṇaḥ ||
छिद्रान्तो मृदुपत्त्रश् च रन्ध्रपत्त्रो मृदुच्छदः । (१०२।१)
chidrānto mṛdupattraś ca randhrapattro mṛducchadaḥ |
नालवंशः पोटगल इत्य् अस्याह्वास् त्रिपञ्चधा ॥ (१०२।२)
nālavaṃśaḥ poṭagala ity asyāhvās tripañcadhā ||
रक्तपित्तप्रशमनो दीपनो वीर्यवृद्धिदः ॥ (१०३।२)
raktapittapraśamano dīpano vīryavṛddhidaḥ ||
महानलअन्यो महानलो वन्यो देवनलो नलोत्तमः । (१०४।१)
mahānalaanyo mahānalo vanyo devanalo nalottamaḥ |
स्थूलनालः स्थूलदण्डः सुरनालः सुरद्रुमः ॥ (१०४।२)
sthūlanālaḥ sthūladaṇḍaḥ suranālaḥ suradrumaḥ ||
नलः स्याद् अधिको वीर्ये शस्यते रसकर्मणि ॥ (१०५।२)
nalaḥ syād adhiko vīrye śasyate rasakarmaṇi ||
नीलदूर्वास्यान् नीलदूर्वा हरिता च शाम्भवी श्यामा च शान्ता शतपर्विकामृता । (१०६।१)
nīladūrvāsyān nīladūrvā haritā ca śāmbhavī śyāmā ca śāntā śataparvikāmṛtā |
पूता शतग्रन्थिर् अनुष्णवल्लिका शिवा शिवेष्टापि च मङ्गला जया ॥ (१०६।२)
pūtā śatagranthir anuṣṇavallikā śivā śiveṣṭāpi ca maṅgalā jayā ||
अमृता विजया गौरी शान्ता स्याद् एकविंशतिः ॥ (१०७।२)
amṛtā vijayā gaurī śāntā syād ekaviṃśatiḥ ||
श्वेतदूर्वास्याद् गोलोमी श्वेतदूर्वा सिताख्या चण्डा भद्रा भार्गवी दुर्मरा च । (१०९।१)
śvetadūrvāsyād golomī śvetadūrvā sitākhyā caṇḍā bhadrā bhārgavī durmarā ca |
गौरी विघ्नेशानकान्ताप्य् अनन्ता श्वेता दिव्या श्वेतकाण्डा प्रचण्डा ॥ (१०९।२)
gaurī vighneśānakāntāpy anantā śvetā divyā śvetakāṇḍā pracaṇḍā ||
सहस्रवीर्या च सहस्रकाण्डा सहस्रपर्वा सुरवल्लभा च । (११०।१)
sahasravīryā ca sahasrakāṇḍā sahasraparvā suravallabhā ca |
शुभा सुपर्वा च सितच्छदा च स्वच्छा च कच्छान्तरुहाब्धिहस्ता ॥ (११०।२)
śubhā suparvā ca sitacchadā ca svacchā ca kacchāntaruhābdhihastā ||
श्वेतदूर्वातिशिशिरा मधुरा वान्तिपित्तजित् । (१११।१)
śvetadūrvātiśiśirā madhurā vāntipittajit |
मालादूर्वामालादूर्वा वल्लिदूर्वालिदूर्वा मालाग्रन्थिर् ग्रन्थिला ग्रन्थिदूर्वा । (११२।१)
mālādūrvāmālādūrvā vallidūrvālidūrvā mālāgranthir granthilā granthidūrvā |
मूलग्रन्थिर् वल्लरी ग्रन्थिमूला रोहत्पर्वा पर्ववल्ली सिताख्या । (११२।२)
mūlagranthir vallarī granthimūlā rohatparvā parvavallī sitākhyā |
वल्लिदूर्वा सुमधुरा तिक्ता च शिशिरा च सा । (११२।३)
vallidūrvā sumadhurā tiktā ca śiśirā ca sā |
गण्डालीगण्डाली स्याद् गण्डदूर्वातितीव्रा मत्स्याक्षी स्याद् वारुणी मीननेत्रा । (११३।१)
gaṇḍālīgaṇḍālī syād gaṇḍadūrvātitīvrā matsyākṣī syād vāruṇī mīnanetrā |
श्यामग्रन्थिः ग्रन्थिला ग्रन्थिपर्णी सूचीपत्त्रा श्यामकाण्डा जलस्था ॥ (११३।२)
śyāmagranthiḥ granthilā granthiparṇī sūcīpattrā śyāmakāṇḍā jalasthā ||
शकुलाक्षी कलाया च चित्रा पञ्चदशाह्वया ॥ (११४।१)
śakulākṣī kalāyā ca citrā pañcadaśāhvayā ||
शिशिरा द्वंद्वदोषघ्नी भ्रमतृष्णाश्रमापहा ॥ (११५।२)
śiśirā dvaṃdvadoṣaghnī bhramatṛṣṇāśramāpahā ||
दूर्वा::मेद्। प्रोपेर्तिएस् इन् गेनेरल्दूर्वाः कषाया मधुराश् च शीताः पित्तात्तृषारोचकवान्तिहन्त्र्यः । (११६।१)
dūrvā::med. properties in generaldūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ |
सदाहमूर्च्छाग्रहभूतशान्तिश्लेष्मश्रमध्वंसनतृप्तिदाश् च ॥ (११६।२)
sadāhamūrcchāgrahabhūtaśāntiśleṣmaśramadhvaṃsanatṛptidāś ca ||
कुन्दुरुकुन्दुरुः कन्दुरो रुण्डी दीर्घपत्त्रः खरच्छदः । (११७।१)
kundurukunduruḥ kanduro ruṇḍī dīrghapattraḥ kharacchadaḥ |
रसाभः क्षेत्रसम्भूतः सुतृष्णो मृगवल्लभः ॥ (११७।२)
rasābhaḥ kṣetrasambhūtaḥ sutṛṣṇo mṛgavallabhaḥ ||
गौल्यं कुन्दुरुमूलं च शीतं पित्तातिसारनुत् । (११८।१)
gaulyaṃ kundurumūlaṃ ca śītaṃ pittātisāranut |
प्रशस्तं शोधनानां च बलपुष्टिविवर्धनम् ॥ (११८।२)
praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam ||
भूतृणभूतृणो रोहिणो भूतिर् भूतिको ऽथ कुटुम्बकः । (११९।१)
bhūtṛṇabhūtṛṇo rohiṇo bhūtir bhūtiko 'tha kuṭumbakaḥ |
मालातृणं सुमाली च छत्त्रो ऽतिछत्त्रकस् तथा ॥ (११९।२)
mālātṛṇaṃ sumālī ca chattro 'tichattrakas tathā ||
गुह्यबीजः सुगन्धश् च गुलालः पुंस्त्वविग्रहः । (१२०।१)
guhyabījaḥ sugandhaś ca gulālaḥ puṃstvavigrahaḥ |
बधिरश् चातिगन्धश् च शृङ्गरोहः रसेन्दुकः ॥ (१२०।२)
badhiraś cātigandhaś ca śṛṅgarohaḥ rasendukaḥ ||
हन्ति भूतग्रहावेशान् विषदोषांश् च दारुणान् ॥ (१२१।२)
hanti bhūtagrahāveśān viṣadoṣāṃś ca dāruṇān ||
भूतृण::सुगन्धभूतृणसुगन्धभूतृणश् चान्यः सुरसः सुरभिस् तथा । (१२२।१)
bhūtṛṇa::sugandhabhūtṛṇasugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā |
गन्धतृणः सुगन्धश् च मुखवासः षडाह्वयः ॥ (१२२।२)
gandhatṛṇaḥ sugandhaś ca mukhavāsaḥ ṣaḍāhvayaḥ ||
गन्धतृणं सुगन्धि स्याद् ईषत् तिक्तं रसायनम् । (१२३।१)
gandhatṛṇaṃ sugandhi syād īṣat tiktaṃ rasāyanam |
स्निग्धं मधुरशीतं च कफपित्तश्रमापहम् ॥ (१२३।२)
snigdhaṃ madhuraśītaṃ ca kaphapittaśramāpaham ||
उखलौखलो भूरिपत्त्रश् च सुतृणश् च तृणोत्तमः । (१२४।१)
ukhalaukhalo bhūripattraś ca sutṛṇaś ca tṛṇottamaḥ |
उखलो बलदो रुच्यः पशूनां सर्वदा हितः ॥ (१२४।२)
ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ ||
इक्षुदर्भाइक्षुदर्भा सुदर्भा च पत्त्रालुस् तृणपत्त्रिका ॥ (१२५।१)
ikṣudarbhāikṣudarbhā sudarbhā ca pattrālus tṛṇapattrikā ||
इक्षुदर्भा सुमधुरा स्निग्धा चेषत् कषायका । (१२६।१)
ikṣudarbhā sumadhurā snigdhā ceṣat kaṣāyakā |
कफपित्तहरा रुच्या लघुः संतर्पणी स्मृता ॥ (१२६।२)
kaphapittaharā rucyā laghuḥ saṃtarpaṇī smṛtā ||
गोमूत्रिकागोमूत्रिका रक्ततृणा क्षेत्रजा कृष्णभूमिजा । (१२७।१)
gomūtrikāgomūtrikā raktatṛṇā kṣetrajā kṛṣṇabhūmijā |
गोमूत्रिका तु मधुरा वृष्या गोदुग्धदायिनी ॥ (१२७।२)
gomūtrikā tu madhurā vṛṣyā godugdhadāyinī ||
शिल्पिकाशिल्पिका शिल्पिनी शीता क्षेत्रजा च मृदुच्छदा । (१२८।१)
śilpikāśilpikā śilpinī śītā kṣetrajā ca mṛducchadā |
शिल्पिका मधुरा शीता तद्बीजं बलवृष्यदम् ॥ (१२८।२)
śilpikā madhurā śītā tadbījaṃ balavṛṣyadam ||
निःश्रेणिकानिःश्रेणिका श्रेणिका च नीरसा वनवल्लरी । (१२९।१)
niḥśreṇikāniḥśreṇikā śreṇikā ca nīrasā vanavallarī |
निःश्रेणिका नीरसोष्णा पशूनाम् अबलप्रदा ॥ (१२९।२)
niḥśreṇikā nīrasoṣṇā paśūnām abalapradā ||
गर्मोटिकागर्मोटिका सुनीला च जरडी च जलाश्रया ॥ (१३०।१)
garmoṭikāgarmoṭikā sunīlā ca jaraḍī ca jalāśrayā ||
मज्जरमज्जरः पवनः प्रोक्तः सुतृणः स्निग्धपत्त्रकः । (१३२।१)
majjaramajjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ |
मृदुग्रन्थिश् च मधुरो धेनुदुग्धकरश् च सः ॥ (१३२।२)
mṛdugranthiś ca madhuro dhenudugdhakaraś ca saḥ ||
तृणाढ्यतृणाढ्यं पर्वततृणं पत्त्राढ्यं च मृगप्रियम् । (१३३।१)
tṛṇāḍhyatṛṇāḍhyaṃ parvatatṛṇaṃ pattrāḍhyaṃ ca mṛgapriyam |
बलपुष्टिकरं रुच्यं पशूनां सर्वदा हितम् ॥ (१३३।२)
balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam ||
वंशपत्त्रीवंशपत्त्री वंशदला जीरिका जीर्णपत्त्रिका । (१३४।१)
vaṃśapattrīvaṃśapattrī vaṃśadalā jīrikā jīrṇapattrikā |
मन्थानकमन्थानकस् तु हरितो दृढमूलस् तृणाधिपः । (१३५।१)
manthānakamanthānakas tu harito dṛḍhamūlas tṛṇādhipaḥ |
स्निग्धो धेनुप्रियो दोग्धा मधुरो बहुवीर्यकः ॥ (१३५।२)
snigdho dhenupriyo dogdhā madhuro bahuvīryakaḥ ||
पल्लिवाहपल्लिवाहो दीर्घतृणः सुपत्त्रस् ताम्रवर्णकः । (१३६।१)
pallivāhapallivāho dīrghatṛṇaḥ supattras tāmravarṇakaḥ |
अदृढः शाकपत्त्रादिः पशूनाम् अबलप्रदः ॥ (१३६।२)
adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ ||
लवणतृणलवणतृणं लोणतृणं तृणाम्लं पटुतृणकम् अम्लकाण्डं च । (१३७।१)
lavaṇatṛṇalavaṇatṛṇaṃ loṇatṛṇaṃ tṛṇāmlaṃ paṭutṛṇakam amlakāṇḍaṃ ca |
कटुतृणकं क्षाराम्लं कषायस्तन्यम् अश्ववृद्धिकरम् ॥ (१३७।२)
kaṭutṛṇakaṃ kṣārāmlaṃ kaṣāyastanyam aśvavṛddhikaram ||
पण्यान्धपण्यान्धः कङ्गुनीपत्त्रः पण्यान्धा पणधा च सा ॥ (१३८।१)
paṇyāndhapaṇyāndhaḥ kaṅgunīpattraḥ paṇyāndhā paṇadhā ca sā ||
पण्यान्धा समवीर्या स्यात् तिक्ता क्षारा च सारिणी । (१३९।१)
paṇyāndhā samavīryā syāt tiktā kṣārā ca sāriṇī |
दीर्घा मध्या तथा ह्रस्वा पण्यान्धा त्रिविधा स्मृता । (१४०।१)
dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā |
गुण्डगुण्डस् तु काण्डगुण्डः स्याद् दीर्घकाण्डस् त्रिकोणकः । (१४१।१)
guṇḍaguṇḍas tu kāṇḍaguṇḍaḥ syād dīrghakāṇḍas trikoṇakaḥ |
छत्त्रगुच्छो ऽसिपत्त्रश् च नीलपत्त्रस् त्रिधारकः ॥ (१४१।२)
chattraguccho 'sipattraś ca nīlapattras tridhārakaḥ ||
गुण्ड::वृत्तगुण्डवृत्तगुण्डो ऽपरो वृत्तो दीर्घनालो जलाश्रयः । (१४२।१)
guṇḍa::vṛttaguṇḍavṛttaguṇḍo 'paro vṛtto dīrghanālo jalāśrayaḥ |
तत्र स्थूलो लघुश् चान्यस् त्रिधायं द्वादशाभिधः ॥ (१४२।२)
tatra sthūlo laghuś cānyas tridhāyaṃ dvādaśābhidhaḥ ||
गुण्डास् तु मधुराः शीताः कफपित्तातिसारहाः । (१४३।१)
guṇḍās tu madhurāḥ śītāḥ kaphapittātisārahāḥ |
दाहरक्तहरास् तेषां मध्ये स्थूलतरो ऽधिकः ॥ (१४३।२)
dāharaktaharās teṣāṃ madhye sthūlataro 'dhikaḥ ||
गुण्डकन्दगुण्डकन्दः कसेरुः स्यात् क्षुद्रमुस्ता कसेरुका । (१४४।१)
guṇḍakandaguṇḍakandaḥ kaseruḥ syāt kṣudramustā kaserukā |
शूकरेष्टः सुगन्धिश् च सुकन्दो गन्धकन्दकः ॥ (१४४।२)
śūkareṣṭaḥ sugandhiś ca sukando gandhakandakaḥ ||
कसेरुकः कषायो ऽल्पमधुरो ऽतिखरस् तथा । (१४५।१)
kaserukaḥ kaṣāyo 'lpamadhuro 'tikharas tathā |
चणिकाचणिका दुग्धदा गौल्या सुनीला क्षेत्रजा हिमा । (१४६।१)
caṇikācaṇikā dugdhadā gaulyā sunīlā kṣetrajā himā |
वृष्या बल्यातिमधुरा बीजैः पशुहिता तृणैः ॥ (१४६।२)
vṛṣyā balyātimadhurā bījaiḥ paśuhitā tṛṇaiḥ ||
गुण्डासिनीगुण्डासिनी तु गुण्डा गुण्डाला गुच्छमूलका चिपिटा । (१४७।१)
guṇḍāsinīguṇḍāsinī tu guṇḍā guṇḍālā gucchamūlakā cipiṭā |
तृणपत्त्री जलवासा पृथुला सुविष्टरा च नवाह्वा ॥ (१४७।२)
tṛṇapattrī jalavāsā pṛthulā suviṣṭarā ca navāhvā ||
गुण्डासिनी कटुः स्वादे पित्तदाहश्रमापहा । (१४८।१)
guṇḍāsinī kaṭuḥ svāde pittadāhaśramāpahā |
तिक्तोष्णा श्वयथुघ्नी च व्रणदोषनिबर्हणी ॥ (१४८।२)
tiktoṣṇā śvayathughnī ca vraṇadoṣanibarhaṇī ||
शूलीशूली तु शूलपत्त्री स्याद् अशाखा धूम्रमूलिका । (१४९।१)
śūlīśūlī tu śūlapattrī syād aśākhā dhūmramūlikā |
शूली तु पिच्छिला चोष्णा गुरुर् गौल्या बलप्रदा । (१५०।१)
śūlī tu picchilā coṣṇā gurur gaulyā balapradā |
पित्तदाहहरा रुच्या दुग्धवृद्धिप्रदायिका ॥ (१५०।२)
pittadāhaharā rucyā dugdhavṛddhipradāyikā ||
परिपेल्लपरिपेल्लं प्लवं धान्यं गोपुटं स्यात् कुटन्नटम् । (१५१।१)
paripellaparipellaṃ plavaṃ dhānyaṃ gopuṭaṃ syāt kuṭannaṭam |
सितपुष्पं दासपुरं गोनर्दं जीर्णबुध्नकम् ॥ (१५१।२)
sitapuṣpaṃ dāsapuraṃ gonardaṃ jīrṇabudhnakam ||
हिज्जलहिज्जलो ऽथ नदीकान्तो जलजो दीर्घपत्त्रकः । (१५३।१)
hijjalahijjalo 'tha nadīkānto jalajo dīrghapattrakaḥ |
नदीजो निचुलो रक्तः कार्मुकः कथितश् च सः ॥ (१५३।२)
nadījo niculo raktaḥ kārmukaḥ kathitaś ca saḥ ||
हिज्जलः कटुर् उष्णश् च पवित्रो भूतनाशनः । (१५४।१)
hijjalaḥ kaṭur uṣṇaś ca pavitro bhūtanāśanaḥ |
शैवालशैवालं जलनीली स्यात् शैवलं जलजं च तत् । (१५५।१)
śaivālaśaivālaṃ jalanīlī syāt śaivalaṃ jalajaṃ ca tat |
शैवालं शीतलं स्निग्धं संतापव्रणनाशनम् ॥ (१५५।२)
śaivālaṃ śītalaṃ snigdhaṃ saṃtāpavraṇanāśanam ||
इत्थं नानाकण्टकिविटपिप्रस्तावव्याख्यातैरण्डादिकतृणविस्ताराढ्यम् । (१५६।१)
itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam |
वर्गं विद्वान् वैद्यकविषयप्रावीण्यज्ञेयं पण्यारण्यकगुणम् ईयाद् वैद्यः ॥ (१५६।२)
vargaṃ vidvān vaidyakaviṣayaprāvīṇyajñeyaṃ paṇyāraṇyakaguṇam īyād vaidyaḥ ||
दुर्वारां विकृतिं स्वसेवनविदां भिन्दन्ति ये भूयसा दुर्वाहाश् च हठेन कण्टकितया सूक्ष्माश् च ये केचन । (१५७।१)
durvārāṃ vikṛtiṃ svasevanavidāṃ bhindanti ye bhūyasā durvāhāś ca haṭhena kaṇṭakitayā sūkṣmāś ca ye kecana |
तेषाम् एष महागमान्तरभुवाम् आरण्यकानां किल क्रूरातङ्कभयार्तनिर्वृतिकरो वर्गः सतां संमतः ॥ (१५७।२)
teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ ||
द्विजानां यो राजा जयति रचयन्न् ओषधिगणं प्रतीतो ऽयं नॄणाम् अमृतकरतां धारयति च । (१५८।१)
dvijānāṃ yo rājā jayati racayann oṣadhigaṇaṃ pratīto 'yaṃ nṝṇām amṛtakaratāṃ dhārayati ca |
अमुष्यायं वर्गो नृहरिकृतिनः काङ्क्षति कृतौ स्थितिं शाल्मल्यादिर् वसुभिर् अभिधाशेखरमणौ ॥ (१५८।२)
amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau ||
Data courtesy of The Digital Corpus of Sanskrit.