राजनिघण्टुRājanighaṇṭu

RājNigh, 24

24 of 35 · 137 verses

Select a line for its word-by-word analysis.

1.1१.१

यान्यौषधानि मिलितानि परस्परेण संज्ञान्तरैर् व्यवहृतानि च योगकृद्भिः । (१।१)

yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ |

1.2१.२

तेषां स्वरूपकथनाय विमिश्रकाख्यं वर्गं महागुणमुदारम् उदीरयामः ॥ (१।२)

teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ ||

2.1२.१

पिप्पली मरिचं शुण्ठी त्रयमेतद्विमिश्रितम् । (२।१)

pippalī maricaṃ śuṇṭhī trayametadvimiśritam |

2.2२.२

त्रिकटु त्र्यूषणं त्र्यूषं कटुत्रयकटुत्रिकम् ॥ (२।२)

trikaṭu tryūṣaṇaṃ tryūṣaṃ kaṭutrayakaṭutrikam ||

3.1३.१

हरीतकी चामलकं विभीतकमिति त्रयम् । (३।१)

harītakī cāmalakaṃ vibhītakamiti trayam |

3.2३.२

त्रिफला त्रिफली चैव फलत्रयफलत्रिके ॥ (३।२)

triphalā triphalī caiva phalatrayaphalatrike ||

4.1४.१

द्राक्षाकाश्मर्यखर्जूरीफलानि मिलितानि तु । (४।१)

drākṣākāśmaryakharjūrīphalāni militāni tu |

4.2४.२

मधुरत्रिफला ज्ञेया मधुरादिफलत्रयम् ॥ (४।२)

madhuratriphalā jñeyā madhurādiphalatrayam ||

5.1५.१

जातीफलं पूगफलं लवंगकलिकाफलम् । (५।१)

jātīphalaṃ pūgaphalaṃ lavaṃgakalikāphalam |

5.2५.२

सुगन्धित्रिफला प्रोक्ता सुरभित्रिफला च सा ॥ (५।२)

sugandhitriphalā proktā surabhitriphalā ca sā ||

6.1६.१

चन्दनं कुङ्कुमं वारि त्रयमेतद् वरार्धकम् । (६।१)

candanaṃ kuṅkumaṃ vāri trayametad varārdhakam |

6.2६.२

त्रिभागकुङ्कुमोपेतं तदुक्तं चाद्यपुष्पकम् ॥ (६।२)

tribhāgakuṅkumopetaṃ taduktaṃ cādyapuṣpakam ||

7.1७.१

लवणत्रयसैन्धवं च विडं चैव रुचकं चेति मिश्रितम् । (७।१)

lavaṇatrayasaindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam |

7.2७.२

लवणत्रयम् आख्यातं तच्च त्रिलवणं तथा ॥ (७।२)

lavaṇatrayam ākhyātaṃ tacca trilavaṇaṃ tathā ||

8.1८.१

क्षारत्रयसर्जिक्षारं यवक्षारं टङ्कक्षारमेव च । (८।१)

kṣāratrayasarjikṣāraṃ yavakṣāraṃ ṭaṅkakṣārameva ca |

8.2८.२

क्षारत्रयं समाख्यातं त्रिक्षारं च प्रकीर्तितम् ॥ (८।२)

kṣāratrayaṃ samākhyātaṃ trikṣāraṃ ca prakīrtitam ||

9.1९.१

हरीतकी नागरं च गुडश्चेति त्रयं समम् । (९।१)

harītakī nāgaraṃ ca guḍaśceti trayaṃ samam |

9.2९.२

समत्रितयमित्युक्तं त्रिसमं च समत्रयम् ॥ (९।२)

samatritayamityuktaṃ trisamaṃ ca samatrayam ||

10.1१०.१

सितामाक्षिकसर्पींषि मिलितानि यदा तदा । (१०।१)

sitāmākṣikasarpīṃṣi militāni yadā tadā |

10.2१०.२

मधुरत्रयमाख्यातं त्रिमधु स्यान्मधुत्रयम् ॥ (१०।२)

madhuratrayamākhyātaṃ trimadhu syānmadhutrayam ||

11.1११.१

गुडोत्पन्ना हिमोत्पन्ना मधुजातेति मिश्रितम् । (११।१)

guḍotpannā himotpannā madhujāteti miśritam |

11.2११.२

त्रिशर्करा च त्रिसिता सितात्रयसितात्रिके ॥ (११।२)

triśarkarā ca trisitā sitātrayasitātrike ||

12.1१२.१

अञ्जनत्रितयकालाञ्जनसमायुक्ते पुष्पाञ्जनरसाञ्जने । (१२।१)

añjanatritayakālāñjanasamāyukte puṣpāñjanarasāñjane |

12.2१२.२

अञ्जनत्रितयं प्राहुस्त्र्यञ्जनं चाञ्जनत्रयम् ॥ (१२।२)

añjanatritayaṃ prāhustryañjanaṃ cāñjanatrayam ||

13.1१३.१

वातः पित्तं कफश्चेति त्रयमेकत्र संयुतम् । (१३।१)

vātaḥ pittaṃ kaphaśceti trayamekatra saṃyutam |

13.2१३.२

दोषत्रयं त्रिदोषं स्याद्दोषत्रितयमित्यपि ॥ (१३।२)

doṣatrayaṃ tridoṣaṃ syāddoṣatritayamityapi ||

14.1१४.१

वातपित्तकफा यत्र समतां यान्ति नित्यशः । (१४।१)

vātapittakaphā yatra samatāṃ yānti nityaśaḥ |

14.2१४.२

त्रिदोषसमम् इत्येतत् समदोषत्रयं तथा ॥ (१४।२)

tridoṣasamam ityetat samadoṣatrayaṃ tathā ||

15.1१५.१

बृहती चाग्निदमनी दुःस्पर्शा चेति तु त्रयम् । (१५।१)

bṛhatī cāgnidamanī duḥsparśā ceti tu trayam |

15.2१५.२

कण्टकारीत्रयं प्रोक्तं त्रिकण्टं कण्टकत्रयम् ॥ (१५।२)

kaṇṭakārītrayaṃ proktaṃ trikaṇṭaṃ kaṇṭakatrayam ||

16.0१६.०

नागरातिविषा मुस्ता त्रयमेतत्त्रिकार्षिकम् ॥ (१६।०)

nāgarātiviṣā mustā trayametattrikārṣikam ||

17.0१७.०

गुडूच्या मिलितं तच्च चातुर्भद्रकमुच्यते ॥ (१७।०)

guḍūcyā militaṃ tacca cāturbhadrakamucyate ||

18.1१८.१

त्वगेलापत्त्रकैस् तुल्यैस् त्रिसुगन्धि त्रिजातकम् । (१८।१)

tvagelāpattrakais tulyais trisugandhi trijātakam |

18.2१८.२

नागकेशरसंयुक्तं चातुर्जातकम् उच्यते ॥ (१८।२)

nāgakeśarasaṃyuktaṃ cāturjātakam ucyate ||

19.1१९.१

एलात्वक्पत्त्रकैस् तुल्यैर् मरिचेन समन्वितैः । (१९।१)

elātvakpattrakais tulyair maricena samanvitaiḥ |

19.2१९.२

कटुपूर्वम् इदं चान्यच्चातुर्जातकमुच्यते ॥ (१९।२)

kaṭupūrvam idaṃ cānyaccāturjātakamucyate ||

20.1२०.१

श्रीखण्डागुरुकर्पूरकाश्मीरैस् तु समांशकैः । (२०।१)

śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ |

20.2२०.२

मृगाङ्कमुकुटार्हो ऽयं मिलितैर् देवकर्दर्मः ॥ (२०।२)

mṛgāṅkamukuṭārho 'yaṃ militair devakardarmaḥ ||

21.1२१.१

कर्पूरागुरुकस्तूरीकक्कोलैर् यक्षधूपकः । (२१।१)

karpūrāgurukastūrīkakkolair yakṣadhūpakaḥ |

21.2२१.२

एकीकृतमिदं सर्वं यक्षकर्दम इष्यते ॥ (२१।२)

ekīkṛtamidaṃ sarvaṃ yakṣakardama iṣyate ||

22.1२२.१

कुङ्कुमागुरुकुरङ्गनाभिकाचन्द्रचन्दनसमांशसम्भृतम् । (२२।१)

kuṅkumāgurukuraṅganābhikācandracandanasamāṃśasambhṛtam |

22.2२२.२

त्र्यक्षपूजनपरैकगोचरं यक्षकर्दमम् इमं प्रचक्षते ॥ (२२।२)

tryakṣapūjanaparaikagocaraṃ yakṣakardamam imaṃ pracakṣate ||

23.1२३.१

कर्पूरकक्कोललवंगपुष्पगुवाकजातीफलपञ्चकेन । (२३।१)

karpūrakakkolalavaṃgapuṣpaguvākajātīphalapañcakena |

23.2२३.२

समांशभागेन च योजितेन मनोहरं पञ्चसुगन्धिकं स्यात् ॥ (२३।२)

samāṃśabhāgena ca yojitena manoharaṃ pañcasugandhikaṃ syāt ||

24.1२४.१

पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः । (२४।१)

pippalīpippalīmūlacavyacitrakanāgaraiḥ |

24.2२४.२

सर्वैरेकत्र मिलितैः पञ्चकोलकमुच्यते ॥ (२४।२)

sarvairekatra militaiḥ pañcakolakamucyate ||

25.1२५.१

न्यग्रोधोदुम्बराश्वत्थप्लक्षवेतसवल्कलैः । (२५।१)

nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ |

25.2२५.२

सर्वैरेकत्र मिलितैः पञ्चवेतसमुच्यते ॥ (२५।२)

sarvairekatra militaiḥ pañcavetasamucyate ||

26.1२६.१

शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका । (२६।१)

śāliparṇī pṛśniparṇī bṛhatī kaṇṭakārikā |

26.2२६.२

तथा गोक्षुरकश्चेति लघ्विदं पञ्चमूलकम् ॥ (२६।२)

tathā gokṣurakaśceti laghvidaṃ pañcamūlakam ||

27.1२७.१

बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटला तथा । (२७।१)

bilvo'gnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalā tathā |

27.2२७.२

सर्वैस्तु मिलितैरेतैः स्यान्महापञ्चमूलकम् ॥ (२७।२)

sarvaistu militairetaiḥ syānmahāpañcamūlakam ||

28.1२८.१

पञ्चमूलकयोर् एतद्द्वयं च मिलितं यदा । (२८।१)

pañcamūlakayor etaddvayaṃ ca militaṃ yadā |

28.2२८.२

तदा भिषग्भिराख्यातं गुणाढ्यं दशमूलकम् ॥ (२८।२)

tadā bhiṣagbhirākhyātaṃ guṇāḍhyaṃ daśamūlakam ||

29.1२९.१

बलापुनर्नवैरण्डसूप्यपर्णीद्वयेन च । (२९।१)

balāpunarnavairaṇḍasūpyaparṇīdvayena ca |

29.2२९.२

एकत्र योजितेनैतन्मध्यमं पञ्चमूलकम् ॥ (२९।२)

ekatra yojitenaitanmadhyamaṃ pañcamūlakam ||

30.1३०.१

पञ्चामृत (१)गुडूची गोक्षुरश्चैव मूषली मुण्डिका तथा । (३०।१)

pañcāmṛta (1)guḍūcī gokṣuraścaiva mūṣalī muṇḍikā tathā |

30.2३०.२

शतावरीति पञ्चानां योगः पञ्चामृताभिधः ॥ (३०।२)

śatāvarīti pañcānāṃ yogaḥ pañcāmṛtābhidhaḥ ||

31.1३१.१

पञ्चामृत (२)गव्यमाज्यं दधि क्षीरं माक्षिकं शर्करान्वितम् । (३१।१)

pañcāmṛta (2)gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam |

31.2३१.२

एकत्र मिलितं ज्ञेयं दिव्यं पञ्चामृतं परम् ॥ (३१।२)

ekatra militaṃ jñeyaṃ divyaṃ pañcāmṛtaṃ param ||

32.1३२.१

पञ्चगव्यगोमूत्रं गोमयं क्षीरं गव्यमाज्यं दधीति च । (३२।१)

pañcagavyagomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca |

32.2३२.२

युक्तमेतद्यथायोगं पञ्चगव्यमुदाहृतम् ॥ (३२।२)

yuktametadyathāyogaṃ pañcagavyamudāhṛtam ||

33.1३३.१

निम्बस्य पत्त्रत्वक्पुष्पफलमूलैर् विमिश्रितैः । (३३।१)

nimbasya pattratvakpuṣpaphalamūlair vimiśritaiḥ |

33.2३३.२

पञ्चनिम्बं समाख्यातं तत् तिक्तं निम्बपञ्चकम् ॥ (३३।२)

pañcanimbaṃ samākhyātaṃ tat tiktaṃ nimbapañcakam ||

34.1३४.१

कोलदाडिमवृक्षाम्लं चुल्लकी साम्लवेतसा । (३४।१)

koladāḍimavṛkṣāmlaṃ cullakī sāmlavetasā |

34.2३४.२

फलं पञ्चाम्लमुद्दिष्टमम्लपञ्चफलं स्मृतम् ॥ (३४।२)

phalaṃ pañcāmlamuddiṣṭamamlapañcaphalaṃ smṛtam ||

35.1३५.१

जम्बीरनारङ्गसहाम्लवेतसैः सतिन्तिडीकैश् च सबीजपूरकैः । (३५।१)

jambīranāraṅgasahāmlavetasaiḥ satintiḍīkaiś ca sabījapūrakaiḥ |

35.2३५.२

समांशभागेन तु मेलितैरिदं द्वितीयमुक्तं च फलाम्लपञ्चकम् ॥ (३५।२)

samāṃśabhāgena tu melitairidaṃ dvitīyamuktaṃ ca phalāmlapañcakam ||

36.1३६.१

चाङ्गेरी लिकुचाम्लवेतसयुतं जम्बीरकं पूरकं नारङ्गं फलषाडवस्त्विति तु पिण्डाम्लं च बीजाम्लकम् । (३६।१)

cāṅgerī likucāmlavetasayutaṃ jambīrakaṃ pūrakaṃ nāraṅgaṃ phalaṣāḍavastviti tu piṇḍāmlaṃ ca bījāmlakam |

36.2३६.२

अम्बष्ठासहितं द्विर् एतदुदितं पञ्चाम्लकं तद्द्वयं विज्ञेयं करमर्दनिम्बुकयुतं स्यादम्लवर्गाह्वयम् ॥ (३६।२)

ambaṣṭhāsahitaṃ dvir etaduditaṃ pañcāmlakaṃ taddvayaṃ vijñeyaṃ karamardanimbukayutaṃ syādamlavargāhvayam ||

37.1३७.१

तैलकन्दः सुधाकन्दः क्रोडकन्दो रुदन्तिका । (३७।१)

tailakandaḥ sudhākandaḥ kroḍakando rudantikā |

37.2३७.२

सर्पनेत्रयुताः पञ्च सिद्धौषधिकसंज्ञकाः ॥ (३७।२)

sarpanetrayutāḥ pañca siddhauṣadhikasaṃjñakāḥ ||

38.1३८.१

शैरीषं कुसुमं मूलं फलं पत्त्रं त्वगित्ययम् । (३८।१)

śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam |

38.2३८.२

कीटारिः कथितो योगः पञ्चशैरीषकाभिधः ॥ (३८।२)

kīṭāriḥ kathito yogaḥ pañcaśairīṣakābhidhaḥ ||

39.1३९.१

पञ्चाङ्गत्वक्पत्त्रकुसुमं मूलं फलमेकस्य शाखिनः । (३९।१)

pañcāṅgatvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ |

39.2३९.२

एकत्र मिलितं तच्चेत् पञ्चाङ्गमिति संज्ञितम् ॥ (३९।२)

ekatra militaṃ taccet pañcāṅgamiti saṃjñitam ||

40.1४०.१

विदारिगन्धा बृहती पृश्निपर्णी निदिग्धिका । (४०।१)

vidārigandhā bṛhatī pṛśniparṇī nidigdhikā |

40.2४०.२

श्वदंष्ट्रा चेति सम्प्रोक्तो योगः पञ्चगणाभिधः ॥ (४०।२)

śvadaṃṣṭrā ceti samprokto yogaḥ pañcagaṇābhidhaḥ ||

41.1४१.१

अत्यम्लपर्णीकाण्डीरमालाकन्दद्विशूरणैः । (४१।१)

atyamlaparṇīkāṇḍīramālākandadviśūraṇaiḥ |

41.2४१.२

प्रोक्तो भवति योगोऽयं पञ्चशूरणसंज्ञकः ॥ (४१।२)

prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ ||

42.1४२.१

शृङ्गिकः कालकूटश्च मुस्तको वत्सनाभकः । (४२।१)

śṛṅgikaḥ kālakūṭaśca mustako vatsanābhakaḥ |

42.2४२.२

सक्तुकश्चेति योगोऽयं महापञ्चविषाभिधः ॥ (४२।२)

saktukaśceti yogo'yaṃ mahāpañcaviṣābhidhaḥ ||

43.1४३.१

उपविषस्नुह्यर्ककरवीराणि लाङ्गली विषमुष्टिका । (४३।१)

upaviṣasnuhyarkakaravīrāṇi lāṅgalī viṣamuṣṭikā |

43.2४३.२

एतान्युपविषाण्याहुः पञ्च पाण्डित्यशालिनः ॥ (४३।२)

etānyupaviṣāṇyāhuḥ pañca pāṇḍityaśālinaḥ ||

44.1४४.१

गवाम् अजानां मेषीणां महिषीणां च मिश्रितम् । (४४।१)

gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam |

44.2४४.२

मूत्रेण गर्दभीनां यत्तन्मूत्रं मूत्रपञ्चकम् ॥ (४४।२)

mūtreṇa gardabhīnāṃ yattanmūtraṃ mūtrapañcakam ||

45.0४५.०

सुवर्णं रजतं ताम्रं त्रयमेतत्त्रिलोहकम् ॥ (४५।०)

suvarṇaṃ rajataṃ tāmraṃ trayametattrilohakam ||

46.0४६.०

वङ्गनागसमायुक्तं तत्प्राहुः पञ्चलोहकम् ॥ (४६।०)

vaṅganāgasamāyuktaṃ tatprāhuḥ pañcalohakam ||

47.1४७.१

सुवर्णं रजतं ताम्रं त्रपु कृष्णायसं समम् । (४७।१)

suvarṇaṃ rajataṃ tāmraṃ trapu kṛṣṇāyasaṃ samam |

47.2४७.२

ग्रहाङ्गमिति बोद्धव्यं द्वितीयं पञ्चलोहकम् ॥ (४७।२)

grahāṅgamiti boddhavyaṃ dvitīyaṃ pañcalohakam ||

48.1४८.१

पञ्चक्षारयवमुष्ककसर्जानां पलाशतिलयोस्तथा । (४८।१)

pañcakṣārayavamuṣkakasarjānāṃ palāśatilayostathā |

48.2४८.२

क्षारैस्तु पञ्चभिः प्रोक्तः पञ्चक्षाराभिधो गणः ॥ (४८।२)

kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ ||

49.0४९.०

काचसैन्धवसामुद्रविडसौवर्चलैः समैः ॥ (४९।०)

kācasaindhavasāmudraviḍasauvarcalaiḥ samaiḥ ||

50.0५०.०

स्यात्पञ्चलवणं तच्च मृत्स्नोपेतं षडाह्वयम् ॥ (५०।०)

syātpañcalavaṇaṃ tacca mṛtsnopetaṃ ṣaḍāhvayam ||

51.1५१.१

षट्क्षाराःधवापामार्गकुटजलाङ्गलीतिलमुष्कजैः । (५१।१)

ṣaṭkṣārāḥdhavāpāmārgakuṭajalāṅgalītilamuṣkajaiḥ |

51.2५१.२

क्षारैरेतैस्तु मिलितैः क्षारषट्कमुदाहृतम् ॥ (५१।२)

kṣārairetaistu militaiḥ kṣāraṣaṭkamudāhṛtam ||

52.1५२.१

सप्तधातवःरसासृङ्मांसमेदोऽस्थिमज्जाशुक्रसमाह्वयैः । (५२।१)

saptadhātavaḥrasāsṛṅmāṃsamedo'sthimajjāśukrasamāhvayaiḥ |

52.2५२.२

शरीरस्थैर्यदैर् एतैः सप्तधातुमयो गणः ॥ (५२।२)

śarīrasthairyadair etaiḥ saptadhātumayo gaṇaḥ ||

53.1५३.१

महारसाःदरदः पारदं सस्यो वैक्रान्तं कान्तमभ्रकम् । (५३।१)

mahārasāḥdaradaḥ pāradaṃ sasyo vaikrāntaṃ kāntamabhrakam |

53.2५३.२

माक्षिकं विमलं चेति स्युर् एतेऽष्टौ महारसाः ॥ (५३।२)

mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ ||

54.1५४.१

उपरसाःखेचराञ्जनकङ्गुष्ठगन्धालगैरिकक्षितीः । (५४।१)

uparasāḥkhecarāñjanakaṅguṣṭhagandhālagairikakṣitīḥ |

54.2५४.२

शैलेयाञ्जनसम्मिश्राः शंसन्त्युपरसान् बुधाः ॥ (५४।२)

śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ ||

55.1५५.१

सामान्यरसाःकम्पिल्लगौरीचपलाकपर्दसशैलसिन्दूरकवह्निजारान् । (५५।१)

sāmānyarasāḥkampillagaurīcapalākapardasaśailasindūrakavahnijārān |

55.2५५.२

पाषाणिनो वोदरशृङ्गयुक्तानित्यष्ट सामान्यरसानि चाहुः ॥ (५५।२)

pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ ||

56.1५६.१

अष्टलोहपञ्चलोहसमायुक्तैः कान्तमुण्डकतीक्ष्णकैः । (५६।१)

aṣṭalohapañcalohasamāyuktaiḥ kāntamuṇḍakatīkṣṇakaiḥ |

56.2५६.२

कल्पितः कथितो धीरैर् अष्टलोहाभिधो गणः ॥ (५६।२)

kalpitaḥ kathito dhīrair aṣṭalohābhidho gaṇaḥ ||

57.1५७.१

शिग्रुमूलकपलाशचुक्रिकाचित्रकार्द्रकसनिम्बसम्भवैः । (५७।१)

śigrumūlakapalāśacukrikācitrakārdrakasanimbasambhavaiḥ |

57.2५७.२

इक्षुशैखरिकमोचकोद्भवैः क्षारपूर्वदशकं प्रकीर्तितम् ॥ (५७।२)

ikṣuśaikharikamocakodbhavaiḥ kṣārapūrvadaśakaṃ prakīrtitam ||

58.1५८.१

मूत्राणि हस्तिमहिषोष्ट्रगवाजकानां मेषाश्वरासभकमानुषमानुषीणाम् । (५८।१)

mūtrāṇi hastimahiṣoṣṭragavājakānāṃ meṣāśvarāsabhakamānuṣamānuṣīṇām |

58.2५८.२

यत्नेन यत्र मिलितानि दशेति तानि शास्त्रेषु मूत्रदशकाह्वयभाञ्जि भान्ति ॥ (५८।२)

yatnena yatra militāni daśeti tāni śāstreṣu mūtradaśakāhvayabhāñji bhānti ||

59.2५९.२

जीव्या मधूकयुतया मधुराह्वयोऽयं योगो महानिह विराजति जीवकादिः ॥ (५९।२)

jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ ||

60.1६०.१

जीवकर्षभकौ मेदे काकोल्यावृद्धिवृद्धिके । (६०।१)

jīvakarṣabhakau mede kākolyāvṛddhivṛddhike |

60.2६०.२

एकत्र मिलितैरेतैरष्टवर्गः प्रकीर्तितः ॥ (६०।२)

ekatra militairetairaṣṭavargaḥ prakīrtitaḥ ||

61.1६१.१

कुष्ठमांसीहरिद्राभिर् वचाशैलेयचन्दनैः । (६१।१)

kuṣṭhamāṃsīharidrābhir vacāśaileyacandanaiḥ |

61.2६१.२

मुराकर्चूरमुस्ताभिः सर्वौषधम् उदाहृतम् ॥ (६१।२)

murākarcūramustābhiḥ sarvauṣadham udāhṛtam ||

62.1६२.१

अजाजी मरिचं शुण्ठी ग्रन्थि धान्यं निशाह्वयम् । (६२।१)

ajājī maricaṃ śuṇṭhī granthi dhānyaṃ niśāhvayam |

62.2६२.२

पिप्पली मरिचं चेति वेशवारगणो मतः ॥ (६२।२)

pippalī maricaṃ ceti veśavāragaṇo mataḥ ||

63.1६३.१

सर्वौषधिसमायुक्ताः शुष्काश्चामलकत्वचः । (६३।१)

sarvauṣadhisamāyuktāḥ śuṣkāścāmalakatvacaḥ |

63.2६३.२

यदा तदायं योगः स्यात् सुगन्धामलकाभिधः ॥ (६३।२)

yadā tadāyaṃ yogaḥ syāt sugandhāmalakābhidhaḥ ||

64.1६४.१

द्राक्षादाडिमखर्जूरकदलीशर्करान्वितम् । (६४।१)

drākṣādāḍimakharjūrakadalīśarkarānvitam |

64.2६४.२

लाजाचूर्णं समध्वाज्यं संतर्पणम् उदाहृतम् ॥ (६४।२)

lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam ||

65.1६५.१

सक्तुभिः सर्पिषाभ्यक्तैः शीतवारिपरिप्लुतैः । (६५।१)

saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ |

65.2६५.२

नात्यच्छो नातिसान्द्रश्च मन्थः इत्यभिधीयते ॥ (६५।२)

nātyaccho nātisāndraśca manthaḥ ityabhidhīyate ||

66.1६६.१

रक्तवर्गदाडिमं किंशुकं लाक्षा बन्धूकं च निशाह्वयम् । (६६।१)

raktavargadāḍimaṃ kiṃśukaṃ lākṣā bandhūkaṃ ca niśāhvayam |

66.2६६.२

कुसुम्भपुष्पं मञ्जिष्ठा इत्येतै रक्तवर्गकः ॥ (६६।२)

kusumbhapuṣpaṃ mañjiṣṭhā ityetai raktavargakaḥ ||

67.1६७.१

शुक्लवर्गखटिनीश्वेतसंयुक्ताः शङ्खशुक्तिवराटिकाः । (६७।१)

śuklavargakhaṭinīśvetasaṃyuktāḥ śaṅkhaśuktivarāṭikāḥ |

67.2६७.२

भृष्टाश्मशर्करा चेति शुक्लवर्ग उदाहृतः ॥ (६७।२)

bhṛṣṭāśmaśarkarā ceti śuklavarga udāhṛtaḥ ||

68.1६८.१

भार्गीशटीपुष्करवत्सबीजदुरालभाशृङ्गिपटोलतिक्ताः । (६८।१)

bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ |

68.2६८.२

किरातविश्वेन्द्रकणेन्द्रबीजधान्यानि तिक्तं सुरदारुकं च ॥ (६८।२)

kirātaviśvendrakaṇendrabījadhānyāni tiktaṃ suradārukaṃ ca ||

69.1६९.१

अष्टादशाङ्गाभिध एष योगः समागमे स्याद्दशमूलकेन । (६९।१)

aṣṭādaśāṅgābhidha eṣa yogaḥ samāgame syāddaśamūlakena |

69.2६९.२

द्विधा च भार्ग्यादिक एक एष ज्ञेयो द्वितीयस्तु किरातकादिः ॥ (६९।२)

dvidhā ca bhārgyādika eka eṣa jñeyo dvitīyastu kirātakādiḥ ||

70.1७०.१

द्वात्रिंशत्पलसम्मितं दधि पलान्यष्टौ च खण्डं पलस्यार्धं चेन्मरिचस्य तेन तुलितं युक्तं त्वगेलाह्वयम् । (७०।१)

dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam |

70.2७०.२

मध्वाज्यं च युतं तदर्धमिलितं संशोधितैर् योजिता भाण्डे स्याद्धिमवासिते शिखरिणी श्रीकण्ठभोग्या गुणैः ॥ (७०।२)

madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ ||

71.1७१.१

इत्थं नानामिश्रयोगाभिधानादेनं वर्गं मिश्रकाख्यं विदित्वा । (७१।१)

itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā |

71.2७१.२

वैद्यः कुर्याद् योगम् अत्रत्यसंज्ञाप्रज्ञासंज्ञो बन्धुभिर्येन धीरः ॥ (७१।२)

vaidyaḥ kuryād yogam atratyasaṃjñāprajñāsaṃjño bandhubhiryena dhīraḥ ||

72.1७२.१

शौर्यासङ्गरता रमा स्वयमुमा शश्वच्छिवासङ्गिनी सा वाणी चतुराननप्रणयिनी श्रीसम्मिता यं श्रिता । (७२।१)

śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā |

72.2७२.२

तस्यागाद् अभिधानशेखरमणौ वर्गो नृसिंहेशितुर् द्वाविंशो ऽवसितिं कृतौ कृतधियां यो मिश्रकाख्यो मतः ॥ (७२।२)

tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RājNigh, 24

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit