RājNigh, 9
Select a line for its word-by-word analysis.
मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुर् उच्यते । (१।१)
mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate |
वंशो द्विर् वेत्रो माकन्दी हरिद्रा वनजा तथा ॥ (१।२)
vaṃśo dvir vetro mākandī haridrā vanajā tathā ||
शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकम् अथापरम् । (२।१)
śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam |
रसोनो द्विविधः प्रोक्तः पलाण्डुश् च द्विधा मतः ॥ (२।२)
rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ ||
विंशत्येकोत्तरं मूलं शरणं द्वंद्वम् उच्यते । (३।१)
viṃśatyekottaraṃ mūlaṃ śaraṇaṃ dvaṃdvam ucyate |
चण्डालस् तैलकन्दश् च त्रिपर्णी पुष्करस् तथा । (५।१)
caṇḍālas tailakandaś ca triparṇī puṣkaras tathā |
मुसली द्विविधा चाथ त्रिधा गुच्छास् तथैव च ॥ (५।२)
musalī dvividhā cātha tridhā gucchās tathaiva ca ||
वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकम् ॥ (६।२)
vāstukaṃ cukrakaṃ cillī trividhaṃ śigrupattrakam ||
कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥ (७।२)
kuṇañjaraḥ kusumbhākhyaḥ śatāhvā patrataṇḍulī ||
वसुकः फञ्जिकादिश् च मिश्रको ऽङ्ककराह्वयः । (९।१)
vasukaḥ phañjikādiś ca miśrako 'ṅkakarāhvayaḥ |
अतः परं च कुष्माण्डी कुम्भतुम्बी त्व् अलाबुका ॥ (९।२)
ataḥ paraṃ ca kuṣmāṇḍī kumbhatumbī tv alābukā ||
भूतुम्बिका कलिङ्गश् च द्विधा कोशातकी तथा । (१०।१)
bhūtumbikā kaliṅgaś ca dvidhā kośātakī tathā |
शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका । (११।१)
śimbī ca kāravallī ca karkoṭī svādutumbikā |
निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा । (११।२)
niṣpāvīdvayavārttākī ḍaṅgarī kharbujā tathā |
कर्कटी त्रपुसैर्वारुर् वालुकी चीनकर्कटी ॥ (११।३)
karkaṭī trapusairvārur vālukī cīnakarkaṭī ||
चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः । (१२।१)
cirbhiṭā ca śaśāṇḍūlī kuḍuhuñcī munīkṣaṇaiḥ |
वेदभेदाः क्रमान् मूलकन्दपत्त्रफलात्मकाः ॥ (१२।२)
vedabhedāḥ kramān mūlakandapattraphalātmakāḥ ||
शाकवर्गे ऽत्र कथ्यन्ते मनोहरगुणाश्रयाः । (१३।१)
śākavarge 'tra kathyante manoharaguṇāśrayāḥ |
एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतम् ॥ (१३।२)
evaṃ caturvidhaṃ dravyaṃ bāṇakhaṃ candrasaṃyutam ||
मूलकमूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकम् । (१४।१)
mūlakamūlakaṃ nīlakaṇṭhaṃ ca mūlāhvaṃ dīrghamūlakam |
भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥ (१४।२)
bhūkṣāraṃ kandamūlaṃ syāddhastidantaṃ sitaṃ tathā ||
शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकम् । (१५।१)
śaṅkhamūlaṃ haritparṇaṃ ruciraṃ dīrghakandakam |
मूलकं तीक्ष्णम् उष्णं च कटूष्णं ग्राहि दीपनम् । (१६।१)
mūlakaṃ tīkṣṇam uṣṇaṃ ca kaṭūṣṇaṃ grāhi dīpanam |
चाणाख्यमूलकचाणाख्यमूलकं चान्यच् छालेयं विष्णुगुप्तकम् । (१७।१)
cāṇākhyamūlakacāṇākhyamūlakaṃ cānyac chāleyaṃ viṣṇuguptakam |
स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवम् । (१७।२)
sthūlamūlaṃ mahākandaṃ kauṭilyaṃ marusambhavam |
शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधम् ॥ (१७।३)
śālāmarkaṭakaṃ miśraṃ jñeyaṃ caiva navābhidham ||
कफवातक्रिमीन् गुल्मं नाशयेद् ग्राहकं गुरु ॥ (१८।२)
kaphavātakrimīn gulmaṃ nāśayed grāhakaṃ guru ||
गृञ्जनगृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलम् । (१९।१)
gṛñjanagṛñjanaṃ śikhimūlaṃ ca yavaneṣṭaṃ ca vartulam |
ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकम् ॥ (१९।२)
granthimūlaṃ śikhākandaṃ kandaṃ ḍiṇḍīramodakam ||
रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनम् ॥ (२०।२)
rucyaṃ ca dīpanaṃ hṛdyaṃ durgandhaṃ gulmanāśanam ||
पिण्डमूलपिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकम् । (२१।१)
piṇḍamūlapiṇḍamūlaṃ gajāṇḍaṃ ca piṇḍakaṃ piṇḍamūlakam |
सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नम् । (२२।१)
soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam |
कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यात् उष्णं जीर्णं च शोषप्रदम् उदितम् इदं दाहपित्तास्रदायि ॥ (२२।२)
kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi ||
आमं संग्राहि रुच्यं कफपवनहरं पक्वम् एतत् कटूष्णं भुक्तेः प्राग्भक्षितं चेत् सपदि वितनुते पित्तदाहास्रकोपम् । (२३।१)
āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam |
भुक्त्या सार्धं तु जग्धं हितकरबलकृद् वेशवारेण तच् चेत् पक्वं हृद्रोगशूलप्रशमनम् उदितं शूलरुग्घारि मूलम् ॥ (२३।२)
bhuktyā sārdhaṃ tu jagdhaṃ hitakarabalakṛd veśavāreṇa tac cet pakvaṃ hṛdrogaśūlapraśamanam uditaṃ śūlarugghāri mūlam ||
गर्जरगर्जरं पिङ्गमूलं च पीतकं च सुमूलकम् । (२४।१)
garjaragarjaraṃ piṅgamūlaṃ ca pītakaṃ ca sumūlakam |
गर्जरं मधुरं रुच्यं किंचित् कटु कफापहम् । (२५।१)
garjaraṃ madhuraṃ rucyaṃ kiṃcit kaṭu kaphāpaham |
शिग्रुशिग्रुर् हरितशाकश् च शाकपत्त्रः सुपत्त्रकः । (२६।१)
śigruśigrur haritaśākaś ca śākapattraḥ supattrakaḥ |
शिग्रुश् च कटुतिक्तोष्णस् तीक्ष्णो वातकफापहः । (२७।१)
śigruś ca kaṭutiktoṣṇas tīkṣṇo vātakaphāpahaḥ |
शोभाञ्जनशोभाञ्जनो नीलशिग्रुस् तीक्ष्णगन्धो जनप्रियः । (२८।१)
śobhāñjanaśobhāñjano nīlaśigrus tīkṣṇagandho janapriyaḥ |
मुखामोदः कृष्णशिग्रुश् चक्षुष्यो रुचिरञ्जनः ॥ (२८।२)
mukhāmodaḥ kṛṣṇaśigruś cakṣuṣyo rucirañjanaḥ ||
शोभाञ्जनस् तीक्ष्णकटुः स्वादूष्णः पिच्छिलस् तथा । (२९।१)
śobhāñjanas tīkṣṇakaṭuḥ svādūṣṇaḥ picchilas tathā |
जन्तुवातार्तिशूलघ्नश् चक्षुष्यो रोचनः परः ॥ (२९।२)
jantuvātārtiśūlaghnaś cakṣuṣyo rocanaḥ paraḥ ||
श्वेतशिग्रुश्वेतशिग्रुः सुतीक्ष्णः स्यान् मुखभङ्गः सिताह्वयः । (३०।१)
śvetaśigruśvetaśigruḥ sutīkṣṇaḥ syān mukhabhaṅgaḥ sitāhvayaḥ |
श्वेतशिग्रुः कटुस् तीक्ष्णः शोफानिलनिकृन्तनः । (३१।१)
śvetaśigruḥ kaṭus tīkṣṇaḥ śophānilanikṛntanaḥ |
रक्तशिग्रुरक्तको रक्तशिग्रुः स्यान् मधुरो बहुलच्छदः । (३२।१)
raktaśigruraktako raktaśigruḥ syān madhuro bahulacchadaḥ |
सुगन्धकेसरः सिंहो मृगारिश् च प्रकीर्तितः ॥ (३२।२)
sugandhakesaraḥ siṃho mṛgāriś ca prakīrtitaḥ ||
रक्तशिग्रुर् महावीर्यो मधुरश् च रसायनः । (३३।१)
raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ |
वंशवंशो यवफलो वेणुः कर्मारस् तृणकेतुकः । (३४।१)
vaṃśavaṃśo yavaphalo veṇuḥ karmāras tṛṇaketukaḥ |
मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥ (३४।२)
maskaraḥ śataparvā ca kaṇṭāluḥ kaṇṭakī tathā ||
महाबलो दृढग्रन्थिर् दृढपत्त्रो धनुद्रुमः । (३५।१)
mahābalo dṛḍhagranthir dṛḍhapattro dhanudrumaḥ |
धनुष्यो दृढकाण्डश् च विज्ञेयो बाणभूमितः ॥ (३५।२)
dhanuṣyo dṛḍhakāṇḍaś ca vijñeyo bāṇabhūmitaḥ ||
वंशौ त्व् अम्लौ कषायौ च किंचित् तिक्तौ च शीतलौ । (३६।१)
vaṃśau tv amlau kaṣāyau ca kiṃcit tiktau ca śītalau |
मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥ (३६।२)
mūtrakṛcchrapramehārśaḥpittadāhāsranāśanau ||
रन्ध्रवंशअन्यस् तु रन्ध्रवंशः स्यात् त्वक्सारः कीचकाह्वयः । (३७।१)
randhravaṃśaanyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ |
मस्करो वादनीयश् च सुषिराख्यः षडाह्वयः ॥ (३७।२)
maskaro vādanīyaś ca suṣirākhyaḥ ṣaḍāhvayaḥ ||
विशेषो रन्ध्रवंशस् तु दीपनो ऽजीर्णनाशनः । (३८।१)
viśeṣo randhravaṃśas tu dīpano 'jīrṇanāśanaḥ |
रुचिकृत् पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥ (३८।२)
rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ ||
वंशाग्रवंशाग्रं तु करीरो वंशाङ्कुरश् च यवफलाङ्कुरः । (३९।१)
vaṃśāgravaṃśāgraṃ tu karīro vaṃśāṅkuraś ca yavaphalāṅkuraḥ |
तस्य ग्रन्थिस् तु परुः पर्व तथा काण्डसन्धिश् च ॥ (३९।२)
tasya granthis tu paruḥ parva tathā kāṇḍasandhiś ca ||
पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत् पर्व निर्गुणम् ॥ (४०।२)
pittāsradāhakṛcchraghnaṃ rucikṛt parva nirguṇam ||
वेत्रवेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः । (४१।१)
vetravetro veto yogidaṇḍaḥ sudaṇḍo mṛduparvakaḥ |
वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥ (४१।२)
vetraḥ pañcavidhaḥ śaityakaṣāyo bhūtapittahṛt ||
माकन्दीमाकन्दी बहुमूला च मादनी गन्धमूलिका । (४२।१)
mākandīmākandī bahumūlā ca mādanī gandhamūlikā |
रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥ (४३।२)
rucyālpavātalā pathyā na varṣāsu hitādhikā ||
शोलीशोली वनहरिद्रा स्यात् वनारिष्टा च शोलिका । (४४।१)
śolīśolī vanaharidrā syāt vanāriṣṭā ca śolikā |
शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥ (४४।२)
śolikā kaṭugaulyā ca rucyā tiktā ca dīpanī ||
शृङ्गाटकशृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया । (४५।१)
śṛṅgāṭakaśṛṅgāṭakaḥ śṛṅgaruho jalavallī jalāśrayā |
शृङ्गाटक:: मेदिच्। प्रोपेर्तिएस्शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् । (४६।१)
śṛṅgāṭaka:: medic. propertiesśṛṅgāṭakaḥ śoṇitapittahārī laghuḥ saro vṛṣyatamo viśeṣāt |
त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥ (४६।२)
tridoṣatāpaśramaśophahāro ruciprado mehanadārḍhyahetuḥ ||
भृङ्गाह्वाभृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका । (४७।१)
bhṛṅgāhvābhṛṅgāhvā bhramaracchallī bhramarā bhṛṅgamūlikā |
भृङ्गच्छल्ली कटूष्णा स्यात् तिक्ता दीपनरोचनी ॥ (४७।२)
bhṛṅgacchallī kaṭūṣṇā syāt tiktā dīpanarocanī ||
पेऊपेऊर् वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका । (४८।१)
peūpeūr vanārdrakā proktā vanajāraṇyajārdrakā |
रसोनरसोनो लशुनो ऽरिष्टो म्लेच्छकन्दो महौषधम् । (४९।१)
rasonarasono laśuno 'riṣṭo mlecchakando mahauṣadham |
भूतघ्नश् चोग्रगन्धश् च लशुनः शीतमर्दकः ॥ (४९।२)
bhūtaghnaś cogragandhaś ca laśunaḥ śītamardakaḥ ||
रसोनो ऽम्लरसोनः स्यात् गुरूष्णः कफवातनुत् । (५०।१)
rasono 'mlarasonaḥ syāt gurūṣṇaḥ kaphavātanut |
रसोन उष्णः कटुपिच्छिलश् च स्निग्धो गुरुः स्वादुरसो ऽतिबल्यः । (५१।१)
rasona uṣṇaḥ kaṭupicchilaś ca snigdho guruḥ svāduraso 'tibalyaḥ |
वृष्यश् च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥ (५१।२)
vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ ||
महाकन्दरसोनो ऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः । (५२।१)
mahākandarasono 'nyo mahākando gṛjano dīrghapattrakaḥ |
पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥ (५२।२)
pṛthupattraḥ sthūlakando yavaneṣṭo bale hitaḥ ||
गृञ्जनस्य मधुरं कटु कन्दं नालम् अप्य् उपदिशन्ति कषायम् । (५३।१)
gṛñjanasya madhuraṃ kaṭu kandaṃ nālam apy upadiśanti kaṣāyam |
पत्त्रसंचयम् उशन्ति च तिक्तं सूरयो लवणम् अस्थि वदन्ति ॥ (५३।२)
pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti ||
हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् । (५४।१)
hṛdrogajīrṇajvarakukṣiśūlavibandhagulmārucikṛcchraśophān |
दुर्नामकुष्ठानिलसादजन्तुकफामयान् हन्ति महारसोनः ॥ (५४।२)
durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ ||
पलाण्डुपलाण्डुस् तीक्ष्णकन्दश् च उल्ली च मुखदूषणः । (५५।१)
palāṇḍupalāṇḍus tīkṣṇakandaś ca ullī ca mukhadūṣaṇaḥ |
शूद्रप्रियः क्रिमिघ्नश् च दीपनो मुखगन्धकः ॥ (५५।२)
śūdrapriyaḥ krimighnaś ca dīpano mukhagandhakaḥ ||
बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः । (५६।१)
bahupattro viśvagandho rocano rudrasaṃjñakaḥ |
श्वेतकन्दश् च तत्रैको हारिद्रो ऽन्य इति द्विधा ॥ (५६।२)
śvetakandaś ca tatraiko hāridro 'nya iti dvidhā ||
वृष्यश् च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥ (५७।२)
vṛṣyaś ca rocanaḥ snigdho vāntidoṣavināśanaḥ ||
पलाण्डु::राजपलाण्डुअन्यो राजपलाण्डुः स्यात् यवनेष्टो नृपाह्वयः । (५८।१)
palāṇḍu::rājapalāṇḍuanyo rājapalāṇḍuḥ syāt yavaneṣṭo nṛpāhvayaḥ |
राजप्रियो महाकन्दो दीर्घपत्त्रश् च रोचकः ॥ (५८।२)
rājapriyo mahākando dīrghapattraś ca rocakaḥ ||
नृपेष्टो नृपकन्दश् च महाकन्दो नृपप्रियः । (५९।१)
nṛpeṣṭo nṛpakandaś ca mahākando nṛpapriyaḥ |
रक्तकन्दश् च राजेष्टो नामान्य् अत्र त्रयोदश ॥ (५९।२)
raktakandaś ca rājeṣṭo nāmāny atra trayodaśa ||
पलाण्डुर् नृपपूर्वः स्यात् शिशिरः पित्तनाशनः । (६०।१)
palāṇḍur nṛpapūrvaḥ syāt śiśiraḥ pittanāśanaḥ |
वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः । (६१।१)
vakṣyate nṛpapalāṇḍulakṣaṇaṃ kṣāratīkṣṇamadhuro rucipradaḥ |
कण्ठशोषशमनो ऽतिदीपनः श्लेष्मपित्तशमनो ऽतिबृंहणः ॥ (६१।२)
kaṇṭhaśoṣaśamano 'tidīpanaḥ śleṣmapittaśamano 'tibṛṃhaṇaḥ ||
सूरण, अमोर्फोफल्लुस् चम्पनुलतुस् रोxब्।कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः । (६२।१)
sūraṇa, Amorphophallus campanulatus Roxb.kaṇḍūlaḥ śūraṇaḥ kandī sukandī sthūlakandakaḥ |
दुर्नामारिः सुवृत्तश् च वातारिः कन्दशूरणः ॥ (६२।२)
durnāmāriḥ suvṛttaś ca vātāriḥ kandaśūraṇaḥ ||
अर्शोघ्नस् तीव्रकन्दश् च कन्दार्हः कन्दवर्धनः । (६३।१)
arśoghnas tīvrakandaś ca kandārhaḥ kandavardhanaḥ |
बहुकन्दो रुच्यकन्दः शूरकन्दस् तु षोडशः ॥ (६३।२)
bahukando rucyakandaḥ śūrakandas tu ṣoḍaśaḥ ||
शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः । (६४।१)
śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ |
श्वासकासवमनार्शसां हरः शूलगुल्मशमनो ऽस्रदोषकृत् ॥ (६४।२)
śvāsakāsavamanārśasāṃ haraḥ śūlagulmaśamano 'sradoṣakṛt ||
वनशूरणसितशूरणस् तु वन्यो वनकन्दो ऽरण्यशूरणो वनजः । (६५।१)
vanaśūraṇasitaśūraṇas tu vanyo vanakando 'raṇyaśūraṇo vanajaḥ |
स श्वेतशूरणाख्यो वनकन्दः कण्डूलश् च सप्ताख्यः ॥ (६५।२)
sa śvetaśūraṇākhyo vanakandaḥ kaṇḍūlaś ca saptākhyaḥ ||
मुखालुमुखालुर् मण्डपारोहो दीर्घकन्दः सुकन्दकः । (६७।१)
mukhālumukhālur maṇḍapāroho dīrghakandaḥ sukandakaḥ |
स्थूलकन्दो महाकन्दः स्वादुकन्दश् च सप्तधा ॥ (६७।२)
sthūlakando mahākandaḥ svādukandaś ca saptadhā ||
मुखालुकः स्यान् मधुरः शिशिरः पित्तनाशनः । (६८।१)
mukhālukaḥ syān madhuraḥ śiśiraḥ pittanāśanaḥ |
पिण्डालुपिण्डालुः स्यात् ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः । (६९।१)
piṇḍālupiṇḍāluḥ syāt granthilaḥ piṇḍakandaḥ kandagranthī romaśo romakandaḥ |
रोमाह्वः स्यात् सो ऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डको ऽयं दशाह्वः ॥ (६९।२)
romāhvaḥ syāt so 'pi tāmbūlapattro lālākandaḥ piṇḍako 'yaṃ daśāhvaḥ ||
पिण्डालुर् मधुरः शीतो मूत्रकृच्छ्रामयापहः । (७०।१)
piṇḍālur madhuraḥ śīto mūtrakṛcchrāmayāpahaḥ |
दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥ (७०।२)
dāhaśoṣapramehaghno vṛṣyaḥ saṃtarpaṇo guruḥ ||
पिण्डालु::रक्तपिण्डालुअन्यस् तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः । (७१।१)
piṇḍālu::raktapiṇḍāluanyas tu raktapiṇḍālū raktālū raktapiṇḍakaḥ |
लोहितो रक्तकन्दश् च लोहितालुः षडाह्वयः ॥ (७१।२)
lohito raktakandaś ca lohitāluḥ ṣaḍāhvayaḥ ||
रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः । (७२।१)
raktapiṇḍālukaḥ śīto madhurāmlaḥ śramāpahaḥ |
कासालुकासालुः कासकन्दश् च कन्दालुश् चालुकश् च सः । (७३।१)
kāsālukāsāluḥ kāsakandaś ca kandāluś cālukaś ca saḥ |
आलुर् विशालपत्त्रश् च पत्त्रालुश् चेति सप्तधा ॥ (७३।२)
ālur viśālapattraś ca pattrāluś ceti saptadhā ||
फोण्डालुफोण्डालुर् लोहितालुश् च रक्तपत्त्रो मृदुच्छदः । (७५।१)
phoṇḍāluphoṇḍālur lohitāluś ca raktapattro mṛducchadaḥ |
फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश् च सः ॥ (७५।२)
phoṇḍāluḥ śleṣmavātaghnaḥ kaṭūṣṇo dīpanaś ca saḥ ||
पानियालुपाणियालुर् जलालुः स्यात् अनुपालुर् अवालुकः । (७६।१)
pāniyālupāṇiyālur jalāluḥ syāt anupālur avālukaḥ |
पाणियालुस् त्रिदोषघ्नः संतर्पणकरः परः ॥ (७६।२)
pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ ||
नीलालुनीलालुर् असितालुः स्यात् कृष्णालुः श्यामलालुकः । (७७।१)
nīlālunīlālur asitāluḥ syāt kṛṣṇāluḥ śyāmalālukaḥ |
शुभ्रालुशुभ्रालुर् महिषीकन्दो लुलायकन्दश् च शुक्लकन्दश् च । (७८।१)
śubhrāluśubhrālur mahiṣīkando lulāyakandaś ca śuklakandaś ca |
सर्पाख्यो वनवासी विषकन्दो नीलकन्दो ऽन्यः ॥ (७८।२)
sarpākhyo vanavāsī viṣakando nīlakando 'nyaḥ ||
हस्तिकन्दहस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दो ऽतिकन्दकः । (८०।१)
hastikandahastikando hastipattraḥ sthūlakando 'tikandakaḥ |
बृहत्पत्त्रो ऽतिपत्त्रश् च हस्तिकर्णः सुकर्णकः ॥ (८०।२)
bṛhatpattro 'tipattraś ca hastikarṇaḥ sukarṇakaḥ ||
त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः । (८१।१)
tvagdoṣāriḥ kuṣṭhahantā girivāsī nagāśrayaḥ |
हस्तिकन्दः कटूष्णः स्यात् कफवातामयापहः । (८२।१)
hastikandaḥ kaṭūṣṇaḥ syāt kaphavātāmayāpahaḥ |
कोलकन्दकोलकन्दः क्रिमिघ्नश् च पञ्जलो वस्त्रपञ्जलः । (८३।१)
kolakandakolakandaḥ krimighnaś ca pañjalo vastrapañjalaḥ |
पुटालुः सुपुटश् चैव पुटकन्दश् च सप्तधा ॥ (८३।२)
puṭāluḥ supuṭaś caiva puṭakandaś ca saptadhā ||
वाराहीस्याद् वाराही शूकरी क्रोडकन्या गृष्टिर् विष्वक्सेनकान्ता वराही । (८५।१)
vārāhīsyād vārāhī śūkarī kroḍakanyā gṛṣṭir viṣvaksenakāntā varāhī |
कौमारी स्याद् ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥ (८५।२)
kaumārī syād brahmaputrī trinetrā krauḍī kanyā gṛṣṭikā mādhaveṣṭā ||
शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः । (८६।१)
śūkarakandaḥ kroḍo vanavāsī kuṣṭhanāśano vanyaḥ |
अमृतश् च महावीर्यो महौषधिः शबरकन्दश् च ॥ (८६।२)
amṛtaś ca mahāvīryo mahauṣadhiḥ śabarakandaś ca ||
वराहकन्दो वीरश् च ब्राह्मकन्दः सुकन्दकः । (८७।१)
varāhakando vīraś ca brāhmakandaḥ sukandakaḥ |
वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥ (८७।२)
vṛddhido vyādhihantā ca vasunetramitāhvayāḥ ||
विष्णुकन्दविष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः । (८९।१)
viṣṇukandaviṣṇukando viṣṇuguptaḥ supuṣṭo bahusampuṭaḥ |
जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥ (८९।२)
jalavāso bṛhatkando dīrghavṛnto haripriyaḥ ||
विष्णुकन्दस् तु मधुरः शिशिरः पित्तनाशनः । (९०।१)
viṣṇukandas tu madhuraḥ śiśiraḥ pittanāśanaḥ |
धारिणीधारिणी धारणीया च वीरपत्त्री सुकन्दकः । (९१।१)
dhāriṇīdhāriṇī dhāraṇīyā ca vīrapattrī sukandakaḥ |
कन्दालुर् वनकन्दश् च कन्दाद्यो दण्डकन्दकः ॥ (९१।२)
kandālur vanakandaś ca kandādyo daṇḍakandakaḥ ||
नाकुलीनाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका । (९३।१)
nākulīnākulī sarpagandhā ca sugandhā raktapattrikā |
ईश्वरी नागगन्धा चाप्य् अहिभुक् स्वरसा तथा । (९३।२)
īśvarī nāgagandhā cāpy ahibhuk svarasā tathā |
सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥ (९३।३)
sarpādanī vyālagandhā jñeyā ceti daśāhvayā ||
नाकुली::सर्पाक्षीअन्या महासुगन्धा च सुवहा गन्धनाकुली । (९४।१)
nākulī::sarpākṣīanyā mahāsugandhā ca suvahā gandhanākulī |
सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक् च सा ॥ (९४।२)
sarpākṣī phaṇihantrī ca nakulāḍhyāhibhuk ca sā ||
नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् । (९६।१)
nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit |
अनेकविषविध्वंसि किंचिच् छ्रेष्ठं द्वितीयकम् ॥ (९६।२)
anekaviṣavidhvaṃsi kiṃcic chreṣṭhaṃ dvitīyakam ||
मालाकन्दअथ मालाकन्दः स्याद् आलिकन्दश् च पङ्क्तिकन्दश् च । (९७।१)
mālākandaatha mālākandaḥ syād ālikandaś ca paṅktikandaś ca |
त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥ (९७।२)
triśikhadalā granthidalā kandalatā kīrtitā ṣoḍhā ||
मालाकन्दः सुतीक्ष्णः स्यात् गण्डमालाविनाशकः । (९८।१)
mālākandaḥ sutīkṣṇaḥ syāt gaṇḍamālāvināśakaḥ |
दीपनो गुल्महारश् च वातश्लेष्मापकर्षकृत् ॥ (९८।२)
dīpano gulmahāraś ca vātaśleṣmāpakarṣakṛt ||
विदारिकाविदारिका स्वादुकन्दा सिता शुक्ला शृगालिका । (९९।१)
vidārikāvidārikā svādukandā sitā śuklā śṛgālikā |
भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा । (१००।१)
bhūkuṣmāṇḍī svādulatā gajeṣṭā vārivallabhā |
ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥ (१००।२)
jñeyā kandaphalā ceti manusaṃkhyāhvayā matā ||
विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् । (१०१।१)
vidārī madhurā śītā guruḥ snigdhāsrapittajit |
ज्ञेया च कफकृत् पुष्टिबल्या वीर्यविवर्धनी ॥ (१०१।२)
jñeyā ca kaphakṛt puṣṭibalyā vīryavivardhanī ||
विदारी::क्षीरविदारीअन्या क्षीरविदारी स्याद् इक्षुगन्धेक्षुवल्लरी । (१०२।१)
vidārī::kṣīravidārīanyā kṣīravidārī syād ikṣugandhekṣuvallarī |
इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥ (१०२।२)
ikṣuvallī kṣīrakandaḥ kṣīravallī payasvinī ||
तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥ (१०४।२)
tiktā ca pittaśūlaghnī mūtramehāmayāpahā ||
क्षीरकन्दो द्विधा प्रोक्तो विनालस् तु सनालकः । (१०५।१)
kṣīrakando dvidhā prokto vinālas tu sanālakaḥ |
विनालो रोगहर्ता स्याद् वयःस्तम्भी सनालकः ॥ (१०५।२)
vinālo rogahartā syād vayaḥstambhī sanālakaḥ ||
शाल्मलीकन्दकशाल्मलीकन्दकश् चाथ विजुलो वनवासकः । (१०६।१)
śālmalīkandakaśālmalīkandakaś cātha vijulo vanavāsakaḥ |
चण्डालकन्दप्रोक्तश् चण्डालकन्दः स्याद् एकपत्त्रो द्विपत्त्रकः । (१०८।१)
caṇḍālakandaproktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ |
त्रिपत्त्रो ऽथ चतुष्पत्त्रः पञ्चपत्त्रश् च भेदतः ॥ (१०८।२)
tripattro 'tha catuṣpattraḥ pañcapattraś ca bhedataḥ ||
चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् । (१०९।१)
caṇḍālakando madhuraḥ kaphapittāsradoṣajit |
तैलकन्दअथ तैलकन्द उक्तो द्रावककन्दस् तिलाङ्कितदलश् च । (११०।१)
tailakandaatha tailakanda ukto drāvakakandas tilāṅkitadalaś ca |
करवीरकन्दसंज्ञो ज्ञेयस् तिलचित्रपत्त्रको बाणैः ॥ (११०।२)
karavīrakandasaṃjño jñeyas tilacitrapattrako bāṇaiḥ ||
लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः । (१११।१)
lohadrāvī tailakandaḥ kaṭūṣṇo vātāpasmārāpahārī viṣāriḥ |
शोफघ्नः स्याद् बन्धकारी रसस्य द्राग् एवासौ देहसिद्धिं विधत्ते ॥ (१११।२)
śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte ||
संस्निग्धाधस्थभूमिस्थः तिलकन्दो ऽतिविस्तृतः ॥ (११२।२)
saṃsnigdhādhasthabhūmisthaḥ tilakando 'tivistṛtaḥ ||
त्रिपर्णिकात्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा । (११३।१)
triparṇikātriparṇikā bṛhatpattrī chinnagranthinikā ca sā |
कन्दालः कन्दबहलाप्य् अम्लवल्ली विषापहा ॥ (११३।२)
kandālaḥ kandabahalāpy amlavallī viṣāpahā ||
मुसलीमुसली तालमूली च सुवहा तालमूलिका । (११५।१)
musalīmusalī tālamūlī ca suvahā tālamūlikā |
गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥ (११५।२)
godhāpadī hemapuṣpī bhūtālī dīrghakandikā ||
मुसली स्याद् द्विधा प्रोक्ता श्वेता चापरसंज्ञका । (११७।१)
musalī syād dvidhā proktā śvetā cāparasaṃjñakā |
गुच्छाह्वकन्दगुच्छाह्वकन्दस् तवकाह्वकन्दको गुलुच्छकन्दश् च विघण्टिकाभिधः । (११८।१)
gucchāhvakandagucchāhvakandas tavakāhvakandako gulucchakandaś ca vighaṇṭikābhidhaḥ |
गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस् तर्पणदाहनाशनः ॥ (११८।२)
gulucchakando madhuraḥ suśītalo vṛṣyapradas tarpaṇadāhanāśanaḥ ||
लक्ष्मणालक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा । (११९।१)
lakṣmaṇālakṣmaṇā putrakandā ca putradā nāginī tathā |
नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा । (११९।२)
nāgāhvā nāgapattrī ca tulinī majjikā ca sā |
अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥ (११९।३)
asrabinducchadā caiva sukandā daśadhāhvayā ||
लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी । (१२०।१)
lakṣmaṇā madhurā śītā strīvandhyatvavināśanī |
जोडिहस्तपर्यायपूर्वस् तु जोडिर् वैद्यवरैः स्मृतः । (१२१।१)
joḍihastaparyāyapūrvas tu joḍir vaidyavaraiḥ smṛtaḥ |
करजोडिर् इति ख्यातो रसबन्धादिवश्यकृत् ॥ (१२१।२)
karajoḍir iti khyāto rasabandhādivaśyakṛt ||
वास्तुकवास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका । (१२२।१)
vāstukavāstukaṃ vāstu vāstūkaṃ vastukaṃ hilamocikā |
शाकराजो राजशाकश् चक्रवर्तिश् च कीर्तितः ॥ (१२२।२)
śākarājo rājaśākaś cakravartiś ca kīrtitaḥ ||
वास्तुकं तु मधुरं सुशीतलं क्षारम् ईषद् अम्लं त्रिदोषजित् । (१२३।१)
vāstukaṃ tu madhuraṃ suśītalaṃ kṣāram īṣad amlaṃ tridoṣajit |
रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥ (१२३।२)
rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt ||
चुक्रचुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकम् । (१२४।१)
cukracukraṃ tu cukravāstūkaṃ likucaṃ cāmlavāstukam |
दलाम्लम् अम्लशाकाख्यम् अम्लादि हिलमोचिका ॥ (१२४।२)
dalāmlam amlaśākākhyam amlādi hilamocikā ||
चुक्रं स्याद् अम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् । (१२५।१)
cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut |
रुचिकृद् दीपनं पथ्यम् ईषत् पित्तकरं परम् ॥ (१२५।२)
rucikṛd dīpanaṃ pathyam īṣat pittakaraṃ param ||
चिल्लीपलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा । (१२६।१)
cillīpalāśalohitā cillī vāstukā cillikā ca sā |
मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥ (१२६।२)
mṛdupattrī kṣāradalā kṣārapattrī tu vāstukī ||
चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् । (१२७।१)
cillī vāstukatulyā ca sakṣārā śleṣmapittanut |
प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥ (१२७।२)
pramehamūtrakṛcchraghnī pathyā ca rucikāriṇī ||
श्वेतचिल्लीश्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका । (१२८।१)
śvetacillīśvetacillī tu vāstūkī supathyā śvetacillikā |
सितचिल्ल्य् उपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥ (१२८।२)
sitacilly upacillī ca jvaraghnī kṣudravāstukī ||
श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा । (१२९।१)
śvetacillī sumadhurā kṣārā ca śiśirā ca sā |
शुनकचिल्लीअन्या शुनकचिल्ली स्यात् सुचिल्ली श्वानचिल्लिका । (१३०।१)
śunakacillīanyā śunakacillī syāt sucillī śvānacillikā |
श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥ (१३०।२)
śvacillī kaṭutīkṣṇā ca kaṇḍūtivraṇahāriṇī ||
शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहम् । (१३१।१)
śigrupattrabhavaṃ śākaṃ rucyaṃ vātakaphāpaham |
कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परम् ॥ (१३१।२)
kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param ||
पालक्यपालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका । (१३२।१)
pālakyapālakyaṃ tu palakyāyāṃ madhurā kṣurapattrikā |
सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥ (१३२।२)
supattrā snigdhapattrā ca grāmīṇā grāmyavallabhā ||
पालक्यम् ईषत् कटुकं मधुरं पथ्यशीतलम् । (१३३।१)
pālakyam īṣat kaṭukaṃ madhuraṃ pathyaśītalam |
रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परम् ॥ (१३३।२)
raktapittaharaṃ grāhi jñeyaṃ saṃtarpaṇaṃ param ||
राजगिरिराजाभिधानपूर्वा तु नगाह्वा चापरेण वा । (१३४।१)
rājagirirājābhidhānapūrvā tu nagāhvā cāpareṇa vā |
राजाद्रिः स्याद् राजगिरिर् ज्ञातव्या राजशाकिनी ॥ (१३४।२)
rājādriḥ syād rājagirir jñātavyā rājaśākinī ||
राजगिरि:: मेदिच्। प्रोपेर्तिएस्राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा । (१३५।१)
rājagiri:: medic. propertiesrājaśākinikā rucyā pittaghnī śītalā ca sā |
सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥ (१३५।२)
saivātiśītalā rucyā vijñeyā sthūlaśākinī ||
उपोदकीउपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा । (१३६।१)
upodakīupodakī kalambī ca picchilā picchilacchadā |
मोहिनी मदशाकश् च विशालाद्या ह्य् उपोदकी ॥ (१३६।२)
mohinī madaśākaś ca viśālādyā hy upodakī ||
निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥ (१३७।२)
nidrālasyakarī rucyā viṣṭambhaśleṣmakāriṇī ||
क्षुद्रोपोदकीउपोदक्य् अपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी । (१३८।१)
kṣudropodakīupodaky aparā kṣudrā sūkṣmapattrā tu maṇḍapī |
वनजोपोदकीउपोदकी तृतीया च वन्यजा वनजाह्वया । (१३९।१)
vanajopodakīupodakī tṛtīyā ca vanyajā vanajāhvayā |
मूलपोतीमूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका । (१४०।१)
mūlapotīmūlapotī kṣudravallī potikā kṣudrapotikā |
मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश् च सा । (१४१।१)
mūlapotī tridoṣaghnī vṛṣyā balyā laghuś ca sā |
कुणञ्जरकुणञ्जरस् त्रिदोषघ्नो मधुरो रुच्यदीपकः । (१४२।१)
kuṇañjarakuṇañjaras tridoṣaghno madhuro rucyadīpakaḥ |
ईषत् कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥ (१४२।२)
īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ ||
कौसुम्भशाककौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नम् । (१४३।१)
kausumbhaśākakausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam |
दृष्टिप्रसादं कुरुते विशेषाद् रुचिप्रदं दीप्तिकरं च वह्नेः ॥ (१४३।२)
dṛṣṭiprasādaṃ kurute viśeṣād rucipradaṃ dīptikaraṃ ca vahneḥ ||
शतपुष्पादलशतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् । (१४४।१)
śatapuṣpādalaśatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit |
वातघ्नं दीपनं पथ्यं पित्तहृद् रुचिदायकम् ॥ (१४४।२)
vātaghnaṃ dīpanaṃ pathyaṃ pittahṛd rucidāyakam ||
तन्डुलीयकदलतण्डुलीयकदलं हिमम् अर्शःपित्तरक्तविषकासविनाशि । (१४५।१)
tanḍulīyakadalataṇḍulīyakadalaṃ himam arśaḥpittaraktaviṣakāsavināśi |
ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥ (१४५।२)
grāhakaṃ ca madhuraṃ ca vipāke dāhaśoṣaśamanaṃ rucidāyi ||
कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहम् । (१४६।१)
kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham |
सर्षपपत्त्रसार्षपं पत्त्रम् अत्युष्णं रक्तपित्तप्रकोपनुत् । (१४७।१)
sarṣapapattrasārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut |
विदाहि कटुकं स्वादु शुक्रहृद् रुचिदायकम् ॥ (१४७।२)
vidāhi kaṭukaṃ svādu śukrahṛd rucidāyakam ||
चाङ्गेरीशाकचाङ्गेरीशाकम् अत्युष्णं कटु रोचनपाचनम् । (१४८।१)
cāṅgerīśākacāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam |
घोलाघोला च घोलिका घोली कलन्दुः कवलालुकम् ॥ (१४९।१)
gholāgholā ca gholikā gholī kalanduḥ kavalālukam ||
क्षेत्रजं लवणं रुच्यम् अम्लं वातकफापहम् ॥ (१५०।१)
kṣetrajaṃ lavaṇaṃ rucyam amlaṃ vātakaphāpaham ||
आरामघोलिकाआरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा । (१५१।१)
ārāmagholikāārāmagholikā cāmlā rūkṣā rucyānilāpahā |
पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥ (१५१।२)
pittaśleṣmakarī cānyā sūkṣmā jīrṇajvarāpahā ||
जीवन्तजीवन्तो रक्तनालश् च ताम्रपत्त्रः सनालकः । (१५२।१)
jīvantajīvanto raktanālaś ca tāmrapattraḥ sanālakaḥ |
दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥ (१५३।२)
dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ ||
गौरसुवर्णगौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च । (१५४।१)
gaurasuvarṇagaurasuvarṇaṃ svarṇaṃ sugandhikaṃ bhūmijaṃ ca vārijaṃ ca |
ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥ (१५४।२)
hrasvaṃ ca gandhaśākaṃ kaṭuśṛṅgāṭaṃ ca varṇaśākāṅkaḥ ||
पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परम् ॥ (१५५।२)
pathyaṃ dāharucibhrāntiraktaśramaharaṃ param ||
वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ । (१५६।१)
varṣābhūvasukau śleṣmavahnimāndyānilāpahau |
दिड़्ड़्। वेगेतब्लेस्फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् । (१५७।१)
diff. vegetablesphañjikā jīvanī padmā tarkārī cucukaḥ pṛthak |
फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस् त्रिपुटस् तथा । (१५८।१)
phañjyādipañcakaṃ bheṇḍā kuṇañjas tripuṭas tathā |
इत्यादि वनपत्त्राणां शाकम् एकत्र योजितम् ॥ (१५८।२)
ityādi vanapattrāṇāṃ śākam ekatra yojitam ||
त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहम् ॥ (१५९।२)
tridoṣaśamanaṃ pathyaṃ grāhi vṛṣyaṃ sukhāvaham ||
कर्कोटिकाकर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला । (१६०।१)
karkoṭikākarkoṭikā ca kuṣmāṇḍī kumbhāṇḍī tu bṛhatphalā |
सुफला स्यात् कुम्भफला नागपुष्पफला मुनिः ॥ (१६०।२)
suphalā syāt kumbhaphalā nāgapuṣpaphalā muniḥ ||
मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीछेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदम् । (१६१।१)
mūtrāghātaharaṃ pramehaśamanaṃ kṛcchrāśmarīchedanaṃ viṇmūtraglapanaṃ tṛṣārtiśamanaṃ jīrṇāṅgapuṣṭipradam |
वृष्यं स्वादुतरं त्व् अरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥ (१६१।२)
vṛṣyaṃ svādutaraṃ tv arocakaharaṃ balyaṃ ca pittāpahaṃ kuṣmāṇḍaṃ pravaraṃ vadanti bhiṣajo vallīphalānāṃ punaḥ ||
गोरक्षतुम्बीगोरक्षतुम्बी गोरक्षी नवालाम्बुर् घटाभिधा । (१६२।१)
gorakṣatumbīgorakṣatumbī gorakṣī navālāmbur ghaṭābhidhā |
कुम्भालाम्बुर् घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥ (१६२।२)
kumbhālāmbur ghaṭālāmbuḥ kumbhatumbī ca saptadhā ||
कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी । (१६३।१)
kumbhatumbī sumadhurā śiśirā pittahāriṇī |
गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥ (१६३।२)
guruḥ saṃtarpaṇī rucyā vīryapuṣṭibalapradā ||
क्षीरतुम्बीक्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा । (१६४।१)
kṣīratumbīkṣīratumbī dugdhatumbī dīrghavṛttaphalābhidhā |
इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥ (१६४।२)
ikṣvākuḥ kṣatriyavarā dīrghabījā mahāphalā ||
क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी । (१६५।१)
kṣīriṇī dugdhabījā ca dantabījā payasvinī |
महावल्ली ह्य् अलाम्बुश् च श्रमघ्नी शरभूमिता ॥ (१६५।२)
mahāvallī hy alāmbuś ca śramaghnī śarabhūmitā ||
तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् । (१६६।१)
tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt |
वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥ (१६६।२)
vṛṣyā vātapradā caiva balapuṣṭivivardhanī ||
भूतुम्बीभूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा । (१६७।१)
bhūtumbībhūtumbī nāgatumbī ca śakracāpasamudbhavā |
वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥ (१६७।२)
valmīkasambhavā devī divyatumbī ṣaḍāhvayā ||
दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥ (१६८।२)
dantārgalaṃ dantarodhaṃ dhanurvātādidoṣanut ||
मांसलफलमांसलफलः कलिङ्गश् चित्रफलश् चित्रवल्लिकश् चित्रः । (१६९।१)
māṃsalaphalamāṃsalaphalaḥ kaliṅgaś citraphalaś citravallikaś citraḥ |
मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥ (१६९।२)
madhuraphalo vṛttaphalo ghṛṇāphalo māṃsalo navadhā ||
वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥ (१७०।२)
vṛṣyaḥ saṃtarpaṇo balyo vīryapuṣṭivivardhanaḥ ||
कोशातकीकोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्याद् अपि पीतपुष्पा । (१७१।१)
kośātakīkośātakī svāduphalā supuṣpā karkoṭakī syād api pītapuṣpā |
धाराफला दीर्घफला सुकोशा धामार्गवः स्यान् नवसंज्ञको ऽयम् ॥ (१७१।२)
dhārāphalā dīrghaphalā sukośā dhāmārgavaḥ syān navasaṃjñako 'yam ||
धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् । (१७२।१)
dhārākośātakī snigdhā madhurā kaphapittanut |
हस्तिकोशातकीहस्तिकोशातकी त्व् अन्या बृहत्कोशातकी तथा । (१७३।१)
hastikośātakīhastikośātakī tv anyā bṛhatkośātakī tathā |
हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् । (१७४।१)
hastikośātakī snigdhā madhurādhmānavātakṛt |
वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥ (१७४।२)
vṛṣyā krimikarī caiva vraṇasaṃropaṇī ca sā ||
स्वादुपटोलीज्ञेया स्वादुपटोली च पटोली मण्डली च सा । (१७५।१)
svādupaṭolījñeyā svādupaṭolī ca paṭolī maṇḍalī ca sā |
पटोली मधुरादिः स्यात् प्रोक्ता दीर्घपटोलिका । (१७५।२)
paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā |
स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश् च पटोलिका ॥ (१७५।३)
snigdhaparṇī svādupūrvaiḥ paryāyaiś ca paṭolikā ||
पटोली स्वादुः पित्तघ्नी रुचिकृत् ज्वरनाशनी । (१७६।१)
paṭolī svāduḥ pittaghnī rucikṛt jvaranāśanī |
पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहम् । (१७७।१)
paṭolapattraṃ pittaghnaṃ nālaṃ tasya kaphāpaham |
फलं त्रिदोषशमनं मूलं चास्य विरेचनम् ॥ (१७७।२)
phalaṃ tridoṣaśamanaṃ mūlaṃ cāsya virecanam ||
मृगाक्षीमृगाक्षी शतपुष्पा च मृगेर्वारुर् मृगादनी । (१७८।१)
mṛgākṣīmṛgākṣī śatapuṣpā ca mṛgervārur mṛgādanī |
चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥ (१७८।२)
citravallī bahuphalā kapilākṣī mṛgekṣaṇā ||
चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा । (१७९।१)
citrā citraphalā pathyā vicitrā mṛgacirbhiṭā |
मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा । (१७९।२)
marujā kumbhasī devī kaṭphalā laghucirbhiṭā |
सेन्दिनी च महादेवी बुधैः सा विंशतिर् मताः ॥ (१७९।३)
sendinī ca mahādevī budhaiḥ sā viṃśatir matāḥ ||
मृगाक्षी कटुका तिक्ता पाके ऽम्ला वातनाशनी । (१८०।१)
mṛgākṣī kaṭukā tiktā pāke 'mlā vātanāśanī |
दधिपुष्पीदधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा । (१८१।१)
dadhipuṣpīdadhipuṣpī khaṭvāṅgī khaṭvā paryaṅkapādikā kūpā |
खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥ (१८१।२)
khaṭvāpādī vaṃśyā kākolī kolapālikā navadhā ||
दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी । (१८२।१)
dadhipuṣpī kaṭumadhurā śiśirā saṃtāpapittadoṣaghnī |
असिशिम्बीअसिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका । (१८३।१)
asiśimbīasiśimbī khaḍgaśimbī śimbī nistriṃśaśimbikā |
स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥ (१८३।२)
sthūlaśimbī mahāśimbī bṛhacchimbī suśimbikā ||
असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् । (१८४।१)
asiśimbī tu madhurā kaṣāyā śleṣmapittajit |
करकाकरका कारवल्ली च चीरिपत्त्रः करिल्लका । (१८५।१)
karakākarakā kāravallī ca cīripattraḥ karillakā |
सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥ (१८५।२)
sūkṣmavallī kaṇṭaphalā pītapuṣpāmbuvallikā ||
कर्कोटकीकर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी । (१८७।१)
karkoṭakīkarkoṭakī svāduphalā manojñā ca manasvinī |
बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥ (१८७।२)
bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca ||
वातघ्नी पित्तहृत् चैव दीपनी रुचिकारिणी ॥ (१८८।२)
vātaghnī pittahṛt caiva dīpanī rucikāriṇī ||
मधुरबिम्बीअथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी । (१८९।१)
madhurabimbīatha bhavati madhurabimbī madhubimbī svādutumbikā tuṇḍī |
रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥ (१८९।२)
raktaphalā ruciraphalā soṣṇaphalā pīluparṇī ca ||
बिम्बी तु मधुरा शीता पित्तश्वासकफापहा । (१९०।१)
bimbī tu madhurā śītā pittaśvāsakaphāpahā |
असृग्ज्वरहरा रम्या कासजिद् गृहबिम्बिका ॥ (१९०।२)
asṛgjvaraharā ramyā kāsajid gṛhabimbikā ||
निष्पावीनिष्पावी ग्रामजादिः स्यात् फलीनी नखपूर्विका । (१९१।१)
niṣpāvīniṣpāvī grāmajādiḥ syāt phalīnī nakhapūrvikā |
मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा । (१९१।२)
maṇḍapī phalikā śimbī jñeyā gucchaphalā ca sā |
विशालफलिका चैव निष्पाविश् चिपिटा तथा ॥ (१९१।३)
viśālaphalikā caiva niṣpāviś cipiṭā tathā ||
अङ्गुलीफलाअन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता । (१९२।१)
aṅgulīphalāanyāṅgulīphalā caiva nakhaniṣpāvikā smṛtā |
वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥ (१९२।२)
vṛttaniṣpāvikā grāmyā nakhapucchaphalā śarāḥ ||
निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ । (१९३।१)
niṣpāvau dvau haricchubhrau kaṣāyau madhurau rasau |
कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ । (१९३।२)
kaṇṭhaśuddhikarau medhyau dīpanau rucikārakau |
संग्राहि समवीर्यं स्याद् ईषच् छ्रेष्ठं द्वितीयकम् ॥ (१९३।३)
saṃgrāhi samavīryaṃ syād īṣac chreṣṭhaṃ dvitīyakam ||
वार्त्ताकीवार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका । (१९४।१)
vārttākīvārttākī kaṇṭavṛntākī kaṇṭāluḥ kaṇṭapattrikā |
निद्रालुर् मांसलफला वृन्ताकी च महोटिका ॥ (१९४।२)
nidrālur māṃsalaphalā vṛntākī ca mahoṭikā ||
शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥ (१९५।३)
śākaśreṣṭhā vṛttaphalā nṛpapriyaphalasmṛtiḥ ||
वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी । (१९६।१)
vārttākī kaṭukā rucyā madhurā pittanāśinī |
बलपुष्टिकरी हृद्या गुरुर् वातेषु निन्दिता ॥ (१९६।२)
balapuṣṭikarī hṛdyā gurur vāteṣu ninditā ||
डङ्गरीडङ्गरी डाङ्गरी चैव दीर्घेर्वारुश् च डङ्गरिः । (१९७।१)
ḍaṅgarīḍaṅgarī ḍāṅgarī caiva dīrghervāruś ca ḍaṅgariḥ |
डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् । (१९८।१)
ḍaṅgarī śītalā rucyā vātapittāsradoṣajit |
शोषहृत् तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥ (१९८।२)
śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut ||
बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत् संतर्पणं पुष्टिदम् । (१९९।१)
bālaṃ ḍāṅgarikaṃ phalaṃ sumadhuraṃ śītaṃ ca pittāpahaṃ tṛṣṇādāhanibarhaṇaṃ ca rucikṛt saṃtarpaṇaṃ puṣṭidam |
वीर्योन्मेषकरं बलप्रदम् इदं भ्रान्तिश्रमध्वंसनं पक्वं चेत् कुरुते तद् एव मधुरं तृड्दाहरक्तं गुरु ॥ (१९९।२)
vīryonmeṣakaraṃ balapradam idaṃ bhrāntiśramadhvaṃsanaṃ pakvaṃ cet kurute tad eva madhuraṃ tṛḍdāharaktaṃ guru ||
खर्बुजाअथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता । (२००।१)
kharbujāatha kharbujā madhuphalā ṣaḍrekhā vṛttakarkaṭī tiktā |
तिक्तफला मधुपाका वृत्तेर्वारुश् च षण्मुखा नवधा ॥ (२००।२)
tiktaphalā madhupākā vṛttervāruś ca ṣaṇmukhā navadhā ||
तिक्तं बाल्ये तदनु मधुरं किंचिद् अम्लं च पाके निष्पक्वं चेत् तद् अमृतसमं तर्पणं पुष्टिदायि । (२०१।१)
tiktaṃ bālye tadanu madhuraṃ kiṃcid amlaṃ ca pāke niṣpakvaṃ cet tad amṛtasamaṃ tarpaṇaṃ puṣṭidāyi |
वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥ (२०१।२)
vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri ||
कर्कटीअथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला । (२०२।१)
karkaṭīatha karkaṭī kaṭudalā chardyāyanikā ca pīnasā mūtraphalā |
त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥ (२०२।२)
trapusī ca hastiparṇī lomaśakaṇṭā ca mūtralā navābhidhā ||
कर्कटी मधुरा शीता त्वक् तिक्ता कफपित्तजित् । (२०३।१)
karkaṭī madhurā śītā tvak tiktā kaphapittajit |
मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तम् । (२०४।१)
mūtrāvarodhaśamanaṃ bahumūtrakāri kṛcchrāśmarīpraśamanaṃ vinihanti pittam |
वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥ (२०४।२)
vāntiśramaghnabahudāhanivāri rucyaṃ śleṣmāpahaṃ laghu ca karkaṭikāphalaṃ syāt ||
त्रपुसीत्रपुसी पीतपुष्पी कण्टालुस् त्रपुसकर्कटी । (२०५।१)
trapusītrapusī pītapuṣpī kaṇṭālus trapusakarkaṭī |
स्यात् त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु । (२०६।१)
syāt trapusīphalaṃ rucyaṃ madhuraṃ śiśiraṃ guru |
भ्रमपित्तविदाहार्तिवान्तिहृद् बहुमूत्रदम् ॥ (२०६।२)
bhramapittavidāhārtivāntihṛd bahumūtradam ||
एर्वारुएर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा । (२०७।१)
ervāruervāruḥ karkaṭī proktā vyālapattrā ca lomaśā |
स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥ (२०७।२)
sthūlā toyaphalā caiva hastidantaphalā muniḥ ||
एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदम् । (२०८।१)
ervārukaṃ pittaharaṃ suśītalaṃ mūtrāmayaghnaṃ madhuraṃ rucipradam |
संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितम् ॥ (२०८।२)
saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam ||
वालुकीअथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा । (२०९।१)
vālukīatha vālukī bahuphalā snigdhaphalā kṣetrakarkaṭī kṣetraruhā |
मधुरफला शारदिका क्षुद्रेर्वारुश् च पीतपुष्पिका ॥ (२०९।२)
madhuraphalā śāradikā kṣudrervāruś ca pītapuṣpikā ||
वालुकी मधुरा शीताध्मानहृच् च श्रमापहा । (२१०।१)
vālukī madhurā śītādhmānahṛc ca śramāpahā |
मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥ (२११।२)
mandānalaṃ prakurvanti vātaraktaharāṇi ca ||
स्याद् वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या । (२१२।१)
syād vālukī śaradi varṣajadoṣakartrī hemantajā tu khalu pittaharā ca rucyā |
क्षिप्रं करोति खलु पीनसम् अर्धपक्वा पक्वा त्व् अतीव मधुरा कफकारिणी च ॥ (२१२।२)
kṣipraṃ karoti khalu pīnasam ardhapakvā pakvā tv atīva madhurā kaphakāriṇī ca ||
चीनकर्कटिकाचीनकर्कटिका ज्ञेया बीजकर्कटिका तथा । (२१३।१)
cīnakarkaṭikācīnakarkaṭikā jñeyā bījakarkaṭikā tathā |
चिर्भिटास्यात् चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला । (२१५।१)
cirbhiṭāsyāt cirbhiṭā sucitrā citraphalā kṣetracirbhiṭā pāṇḍuphalā |
पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥ (२१५।२)
pathyā ca rocanaphalā cirbhiṭikā karkaṭikā grahasaṃkhyā ||
बाल्ये तिक्ता चिर्भिटा किंचिद् अम्ला गौल्योपेता दीपनी सा च पाके । (२१६।१)
bālye tiktā cirbhiṭā kiṃcid amlā gaulyopetā dīpanī sā ca pāke |
शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥ (२१६।२)
śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca ||
शशाण्डुलीशशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा । (२१७।१)
śaśāṇḍulīśaśāṇḍulī bahuphalā taṇḍulī kṣetrasambhavā |
क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥ (२१७।२)
kṣudrāmlā lomaśaphalā dhūmravṛttaphalā ca sā ||
शशाण्डुली तिक्तकटुश् च कोमला कट्वम्लयुक्ता जरठा कफापहा । (२१८।१)
śaśāṇḍulī tiktakaṭuś ca komalā kaṭvamlayuktā jaraṭhā kaphāpahā |
पाके तु साम्ला मधुरा विदाहकृत् कफश् च शुष्का रुचिकृच् च दीपनी ॥ (२१८।२)
pāke tu sāmlā madhurā vidāhakṛt kaphaś ca śuṣkā rucikṛc ca dīpanī ||
कुडुहुञ्चीकुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा । (२१९।१)
kuḍuhuñcīkuḍuhuñcī śrīphalikā pratipattraphalā ca sā |
शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥ (२१९।२)
śubhravī kāravī caiva proktā bahuphalā tathā ||
क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा । (२२०।१)
kṣudrakāralikā proktā jñeyā kandalatā tathā |
क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥ (२२०।२)
kṣudrādikāravallī ca proktā sā ca navāhvayā ||
कुडुहुञ्ची कटुर् उष्णा तिक्ता रुचिकारिणी च दीपनदा । (२२१।१)
kuḍuhuñcī kaṭur uṣṇā tiktā rucikāriṇī ca dīpanadā |
रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥ (२२१।२)
raktāniladoṣakarī pathyāpi ca sā phale proktā ||
इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणम् । (२२३।१)
iti mūlakandaphalapattrasundarakramanāmatadguṇanirūpaṇolvaṇam |
अवलोक्य वर्गम् इमम् आमयोचिताम् अगदप्रयुक्तिम् अवबुध्यतां बुधः ॥ (२२३।२)
avalokya vargam imam āmayocitām agadaprayuktim avabudhyatāṃ budhaḥ ||
मन्दाग्निम् अरोचकिनं ये ऽपि शिलाम् आशयन्ति निजशक्त्या । (२२४।१)
mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā |
तेषां शाकानाम् अयम् आश्रयभूः शाकवर्ग इति कथितः ॥ (२२४।२)
teṣāṃ śākānām ayam āśrayabhūḥ śākavarga iti kathitaḥ ||
लब्धान्योन्यसहायवैद्यककुलाच् छङ्काकलङ्कापनुत् दस्रैक्यावतरो ऽयम् इत्य् अविरतं सन्तः प्रशंसन्ति यम् । (२२५।१)
labdhānyonyasahāyavaidyakakulāc chaṅkākalaṅkāpanut dasraikyāvataro 'yam ity avirataṃ santaḥ praśaṃsanti yam |
तस्य श्रीनृहरेः कृताव् अवसितो यो मलकादिर् महान् वर्गो ऽसाव् अभिधानकोशपरिषच्चूडामणौ सप्तमः ॥ (२२५।२)
tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.