RājNigh, 14
Select a line for its word-by-word analysis.
श्रीखण्डं शबरं पीतं पत्त्राङ्गं रक्तचन्दनम् । (१।१)
śrīkhaṇḍaṃ śabaraṃ pītaṃ pattrāṅgaṃ raktacandanam |
बर्बरं हरिगन्धं च चन्दनं सप्तधा स्मृतम् ॥ (१।२)
barbaraṃ harigandhaṃ ca candanaṃ saptadhā smṛtam ||
देवदारु द्विधा प्रोक्तं चीडा सप्तच्छदस् तथा । (२।१)
devadāru dvidhā proktaṃ cīḍā saptacchadas tathā |
कर्पूरौ स्याज् जवादिस् तु नन्दी च जातिपत्रिका । (३।१)
karpūrau syāj javādis tu nandī ca jātipatrikā |
जातीफलं च कक्कोलं लवङ्गं स्वादुर् उच्यते ॥ (३।२)
jātīphalaṃ ca kakkolaṃ lavaṅgaṃ svādur ucyate ||
अगर्व्यश् च त्रिधा मांसी तुरुष्को गुग्गुलुस् त्रिधा । (४।१)
agarvyaś ca tridhā māṃsī turuṣko guggulus tridhā |
रालः कुन्दुरुकः कुष्ठं सारिवा तु द्विधा नखौ ॥ (४।२)
rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau ||
पद्मप्रपौण्डरीके च लामज्जं रोहिणी द्विधा । (५।२)
padmaprapauṇḍarīke ca lāmajjaṃ rohiṇī dvidhā |
श्रीखण्डश्रीखण्डं चन्दनं प्रोक्तं महार्हं श्वेतचन्दनम् । (६।१)
śrīkhaṇḍaśrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam |
गोशीर्षं तिलपर्णं च मङ्गल्यं मलयोद्भवम् ॥ (६।२)
gośīrṣaṃ tilaparṇaṃ ca maṅgalyaṃ malayodbhavam ||
गन्धाढ्यं गन्धसारं च भद्रश्रीर् भोगिवल्लभम् । (७।२)
gandhāḍhyaṃ gandhasāraṃ ca bhadraśrīr bhogivallabham |
श्रीखण्डं कटुतिक्तशीतलगुणं स्वादे कषायं कियत् पित्तभ्रान्तिवमिज्वरक्रिमितृषासंतापशान्तिप्रदम् । (८।१)
śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam |
वृष्यं वक्त्ररुजापहं प्रतनुते कान्तिं तनोर् देहिनां लिप्तं सुप्तमनोजसिन्धुरमदारम्भादिसंरम्भदम् ॥ (८।२)
vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam ||
श्रेष्ठं कोटरकर्परोपकलितं सुग्रन्थि सद्गौरवं छेदे रक्तमयं तथा च विमलं पीतं च यद् धर्षणे । (९।१)
śreṣṭhaṃ koṭarakarparopakalitaṃ sugranthi sadgauravaṃ chede raktamayaṃ tathā ca vimalaṃ pītaṃ ca yad dharṣaṇe |
स्वादे तिक्तकटुः सुगन्धबहुलं शीतं यद् अल्पं गुणे क्षीणं चार्धगुणान्वितं तु कथितं तच् चन्दनं मध्यमम् ॥ (९।२)
svāde tiktakaṭuḥ sugandhabahulaṃ śītaṃ yad alpaṃ guṇe kṣīṇaṃ cārdhaguṇānvitaṃ tu kathitaṃ tac candanaṃ madhyamam ||
चन्दनं द्विविधं प्रोक्तं बेट्टसुक्वडिसंज्ञकम् । (१०।१)
candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam |
बेट्टं तु सार्द्रविच्छेदं स्वयं शुष्कं तु सुक्वडि ॥ (१०।२)
beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi ||
मलयाद्रिसमीपस्थाः पर्वता बेट्टसंज्ञकाः । (११।१)
malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ |
तज्जातं चन्दनं यत् तु बेट्टवाच्यं क्वचिन् मते ॥ (११।२)
tajjātaṃ candanaṃ yat tu beṭṭavācyaṃ kvacin mate ||
बेट्टचन्दनम् अतीव शीतलं दाहपित्तशमनं ज्वरापहम् । (१२।१)
beṭṭacandanam atīva śītalaṃ dāhapittaśamanaṃ jvarāpaham |
छर्दिमोहतृषिकुष्ठतैमिरोत्कासरक्तशमनं च तिक्तकम् ॥ (१२।२)
chardimohatṛṣikuṣṭhataimirotkāsaraktaśamanaṃ ca tiktakam ||
सुक्वडिचन्दनं तिक्तं कृच्छ्रपित्तास्रदाहनुत् । (१३।१)
sukvaḍicandanaṃ tiktaṃ kṛcchrapittāsradāhanut |
शैत्यसुगन्धदं चार्द्रं शुष्कं लेपे तदन्यथा ॥ (१३।२)
śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā ||
चन्दन::कैरातनातिपीतं कैरातं शबरं चन्दनं सुगन्धम् । (१४।१)
candana::kairātanātipītaṃ kairātaṃ śabaraṃ candanaṃ sugandham |
वन्यं च गन्धकाष्ठं किरातकान्तं च शैलगन्धं च ॥ (१४।२)
vanyaṃ ca gandhakāṣṭhaṃ kirātakāntaṃ ca śailagandhaṃ ca ||
कैरातम् उष्णं कटुशीतलं च श्लेष्मानिलघ्नं श्रमपित्तहारि । (१५।१)
kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri |
विस्फोटपामादिकनाशनं च तृषापहं तापविमोहनाशि ॥ (१५।२)
visphoṭapāmādikanāśanaṃ ca tṛṣāpahaṃ tāpavimohanāśi ||
पीतगन्धपीतगन्धं तु कालीयं पीतकं माधवप्रियम् । (१६।१)
pītagandhapītagandhaṃ tu kālīyaṃ pītakaṃ mādhavapriyam |
पीतं च शीतलं तिक्तं कुष्ठश्लेष्मानिलापहम् । (१७।१)
pītaṃ ca śītalaṃ tiktaṃ kuṣṭhaśleṣmānilāpaham |
कण्डूविचर्चिकादद्रुकृमिहृत् कान्तिदं परम् ॥ (१७।२)
kaṇḍūvicarcikādadrukṛmihṛt kāntidaṃ param ||
पत्तङ्गपत्तङ्गं चैव पत्त्राङ्गं रक्तकाष्ठं सुरङ्गदम् । (१८।१)
pattaṅgapattaṅgaṃ caiva pattrāṅgaṃ raktakāṣṭhaṃ suraṅgadam |
पत्त्राढ्यं पट्टरागं च भार्यावृक्षश् च रक्तकः ॥ (१८।२)
pattrāḍhyaṃ paṭṭarāgaṃ ca bhāryāvṛkṣaś ca raktakaḥ ||
लोहितं रङ्गकाष्ठं च रागकाष्ठं कुचन्दनम् । (१९।१)
lohitaṃ raṅgakāṣṭhaṃ ca rāgakāṣṭhaṃ kucandanam |
पत्त्राङ्गं कटुकं रूक्षम् अम्लं शीतं तु गौल्यकम् । (२०।१)
pattrāṅgaṃ kaṭukaṃ rūkṣam amlaṃ śītaṃ tu gaulyakam |
वातपित्तज्वरघ्नं च विस्फोटोन्मादभूतहृत् ॥ (२०।२)
vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt ||
रक्तचन्दनरक्तचन्दनम् इदं च लोहितं शोणितं च हरिचन्दनं हिमम् । (२१।१)
raktacandanaraktacandanam idaṃ ca lohitaṃ śoṇitaṃ ca haricandanaṃ himam |
रक्तसारम् अथ ताम्रसारकं क्षुद्रचन्दनम् अथार्कचन्दनम् ॥ (२१।२)
raktasāram atha tāmrasārakaṃ kṣudracandanam athārkacandanam ||
रक्तचन्दनम् अतीव शीतलं तिक्तम् ईक्षणगदास्रदोषनुत् । (२२।१)
raktacandanam atīva śītalaṃ tiktam īkṣaṇagadāsradoṣanut |
भूतपित्तकफकाससज्वरभ्रान्तिजन्तुवमिजित् तृषापहम् ॥ (२२।२)
bhūtapittakaphakāsasajvarabhrāntijantuvamijit tṛṣāpaham ||
बर्बरोत्थबर्बरोत्थं बर्बरकं श्वेतबर्बरकं तथा । (२३।१)
barbarotthabarbarotthaṃ barbarakaṃ śvetabarbarakaṃ tathā |
शीतं सुगन्धि पित्तारि सुरभि चेति सप्तधा ॥ (२३।२)
śītaṃ sugandhi pittāri surabhi ceti saptadhā ||
कुष्ठकण्डूव्रणान् हन्ति विशेषाद् रक्तदोषजित् ॥ (२४।२)
kuṣṭhakaṇḍūvraṇān hanti viśeṣād raktadoṣajit ||
हरिचन्दनहरिचन्दनं सुरार्हं हरिगन्धम् इन्द्रचन्दनं दिव्यम् । (२५।१)
haricandanaharicandanaṃ surārhaṃ harigandham indracandanaṃ divyam |
दिविजं च महागन्धं नन्दनजं लोहितं च नवसंज्ञम् ॥ (२५।२)
divijaṃ ca mahāgandhaṃ nandanajaṃ lohitaṃ ca navasaṃjñam ||
हरिचन्दनं तु दिव्यं तिक्तहिमं तद् इह दुर्लभं मनुजैः । (२६।१)
haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ |
पित्ताटोपविलोपि चन्दनवच्छ्रमशोषमान्द्यतापहरम् ॥ (२६।२)
pittāṭopavilopi candanavacchramaśoṣamāndyatāpaharam ||
भिद्यन्ते किंतु गन्धेन तत्राद्यं गुणवत्तरम् ॥ (२७।२)
bhidyante kiṃtu gandhena tatrādyaṃ guṇavattaram ||
देवदारुदेवदारु सुरदारु दारुकं स्निग्धदारुर् अमरादिदारु च । (२८।१)
devadārudevadāru suradāru dārukaṃ snigdhadārur amarādidāru ca |
भद्रदारु शिवदारु शाम्भवं भूतहारि भवदारु रुद्रवत् ॥ (२८।२)
bhadradāru śivadāru śāmbhavaṃ bhūtahāri bhavadāru rudravat ||
स्निग्धदारु स्मृतं तिक्तं स्निग्धोष्णं श्लेष्मवातजित् । (२९।१)
snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit |
देओदर्देवकाष्ठं पूतिकाष्ठं भद्रकाष्ठं सुकाष्ठकम् । (३०।१)
deodardevakāṣṭhaṃ pūtikāṣṭhaṃ bhadrakāṣṭhaṃ sukāṣṭhakam |
अस्निग्धदारुकं चैव काष्ठदारु षडाह्वयम् ॥ (३०।२)
asnigdhadārukaṃ caiva kāṣṭhadāru ṣaḍāhvayam ||
देवकाष्ठं तु तिक्तोष्णं रूक्षं श्लेष्मानिलापहम् । (३१।१)
devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham |
भूतदोषापहं धत्ते लिप्तम् अङ्गेषु कालिकम् ॥ (३१।२)
bhūtadoṣāpahaṃ dhatte liptam aṅgeṣu kālikam ||
देवदारु द्विधा ज्ञेयं तत्राद्यं स्निग्धदारुकम् । (३२।१)
devadāru dvidhā jñeyaṃ tatrādyaṃ snigdhadārukam |
द्वितीयं काष्ठदारु स्याद् द्वयोर् नामान्य् अभेदतः ॥ (३२।२)
dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ ||
चीडाचीडा च दारुगन्धा गन्धवधूर् गन्धमादनी तरुणी । (३३।१)
cīḍācīḍā ca dārugandhā gandhavadhūr gandhamādanī taruṇī |
तारा च भूतमारी मङ्गल्या तु कपाटिनी ग्रहभीतिजित् । (३३।२)
tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit |
सप्तपर्ण (अल्स्तोनिअ स्छोलरिस् (लिन्न्।) र्।ब्र्।)सप्तपर्णः पत्त्रवर्णः शुक्तिपर्णः सुपर्णकः । (३४।१)
saptaparṇa (Alstonia scholaris (Linn.) R.Br.)saptaparṇaḥ pattravarṇaḥ śuktiparṇaḥ suparṇakaḥ |
सप्तच्छदो गुच्छपुष्पो ऽयुग्मपर्णो मुनिच्छदः ॥ (३४।२)
saptacchado gucchapuṣpo 'yugmaparṇo municchadaḥ ||
बृहत्त्वग् बहुपर्णश् च तथा शाल्मलिपत्त्रकः । (३५।१)
bṛhattvag bahuparṇaś ca tathā śālmalipattrakaḥ |
मदगन्धो गन्धिपर्णो विज्ञेयो वह्निभूमितः ॥ (३५।२)
madagandho gandhiparṇo vijñeyo vahnibhūmitaḥ ||
सप्तपर्णस् तु तिक्तोष्णस्त्रिदोषघ्नश् च दीपनः । (३६।१)
saptaparṇas tu tiktoṣṇastridoṣaghnaś ca dīpanaḥ |
मदगन्धो निरुन्द्धे ऽयं व्रणरक्तामयक्रिमीन् ॥ (३६।२)
madagandho nirunddhe 'yaṃ vraṇaraktāmayakrimīn ||
सरलसरलस् तु पूतिकाष्ठं तुम्बी पीतद्रुर् उत्थितो दीपतरुः । (३७।१)
saralasaralas tu pūtikāṣṭhaṃ tumbī pītadrur utthito dīpataruḥ |
स स्निग्धदारुसंज्ञः स्निग्धो मारीचपत्त्रको नवधा ॥ (३७।२)
sa snigdhadārusaṃjñaḥ snigdho mārīcapattrako navadhā ||
त्वग्दोषशोफकण्डूतिव्रणघ्नः कोष्ठशुद्धिदः ॥ (३८।२)
tvagdoṣaśophakaṇḍūtivraṇaghnaḥ koṣṭhaśuddhidaḥ ||
कुङ्कुमज्ञेयं कुङ्कुमम् अग्निसेखरम् असृक् काश्मीरजं पीतकं काश्मीरं रुधिरं वरं च पिशुनं रक्तं शठं शोणितम् । (३९।१)
kuṅkumajñeyaṃ kuṅkumam agnisekharam asṛk kāśmīrajaṃ pītakaṃ kāśmīraṃ rudhiraṃ varaṃ ca piśunaṃ raktaṃ śaṭhaṃ śoṇitam |
वाह्लीकं घुसृणं वरेण्यम् अरुणं कालेयकं जागुडं कान्तं वह्निशिखं च केसरवरं गौरं कराक्षीरितम् ॥ (३९।२)
vāhlīkaṃ ghusṛṇaṃ vareṇyam aruṇaṃ kāleyakaṃ jāguḍaṃ kāntaṃ vahniśikhaṃ ca kesaravaraṃ gauraṃ karākṣīritam ||
कुङ्कुमं सुरभि तिक्तकटूष्णं कासवातकफकण्ठरुजाघ्नम् । (४०।१)
kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam |
मूर्धशूलविषदोषनाशनं रोचनं च तनुकान्तिकारकम् ॥ (४०।२)
mūrdhaśūlaviṣadoṣanāśanaṃ rocanaṃ ca tanukāntikārakam ||
तृणकुङ्कुमतृणकुङ्कुमं तृणास्रं गन्धितृणं शोणितं च तृणपुष्पम् । (४१।१)
tṛṇakuṅkumatṛṇakuṅkumaṃ tṛṇāsraṃ gandhitṛṇaṃ śoṇitaṃ ca tṛṇapuṣpam |
गन्धाधिकं तृणोत्थं तृणगौरं लोहितं च नवसंज्ञम् ॥ (४१।२)
gandhādhikaṃ tṛṇotthaṃ tṛṇagauraṃ lohitaṃ ca navasaṃjñam ||
कण्डूतिपामाकुष्ठामदोषघ्नं भास्करं परम् ॥ (४२।२)
kaṇḍūtipāmākuṣṭhāmadoṣaghnaṃ bhāskaraṃ param ||
प्रियङ्गुप्रियङ्गुः फलिनी श्यामा प्रियवल्ली फलप्रिया । (४३।१)
priyaṅgupriyaṅguḥ phalinī śyāmā priyavallī phalapriyā |
गौरी गोवन्दनी वृत्ता कारम्भा कङ्गुः कङ्गुनी ॥ (४३।२)
gaurī govandanī vṛttā kārambhā kaṅguḥ kaṅgunī ||
शुभा पीता च मङ्गल्या श्रेयसी चाङ्कभूमिता ॥ (४४।२)
śubhā pītā ca maṅgalyā śreyasī cāṅkabhūmitā ||
प्रियङ्गुः शीतला तिक्ता दाहपित्तास्रदोषजित् । (४५।१)
priyaṅguḥ śītalā tiktā dāhapittāsradoṣajit |
वान्तिभ्रान्तिज्वरहरा वक्त्रजाड्यविनाशनी ॥ (४५।२)
vāntibhrāntijvaraharā vaktrajāḍyavināśanī ||
कस्तूरीकस्तूरी मृगनाभिस् तु मदनी गन्धचेलिका । (४६।१)
kastūrīkastūrī mṛganābhis tu madanī gandhacelikā |
सहस्रवेधी श्यामा स्यात् कामानन्दा मृगाण्डजा । (४७।१)
sahasravedhī śyāmā syāt kāmānandā mṛgāṇḍajā |
कस्तूरी सुरभिस् तिक्ता चक्षुष्या मुखरोगजित् । (४८।१)
kastūrī surabhis tiktā cakṣuṣyā mukharogajit |
कस्तूरी::सुब्त्य्पेस्कपिला पिङ्गला कृष्णा कस्तूरी त्रिविधा क्रमात् । (४९।१)
kastūrī::subtypeskapilā piṅgalā kṛṣṇā kastūrī trividhā kramāt |
साप्य् एका खरिका ततश् च तिलका ज्ञेया कुलित्थापरा पिण्डान्यापि च नायिकेति च परा या पञ्चभेदाभिधा । (५०।१)
sāpy ekā kharikā tataś ca tilakā jñeyā kulitthāparā piṇḍānyāpi ca nāyiketi ca parā yā pañcabhedābhidhā |
सा शुद्धा मृगनाभितः क्रमवशाद् एषा क्षितीशोचिता पक्षत्यादिदिनत्रयेषु जनिता कस्तूरिका स्तूयते ॥ (५०।२)
sā śuddhā mṛganābhitaḥ kramavaśād eṣā kṣitīśocitā pakṣatyādidinatrayeṣu janitā kastūrikā stūyate ||
चूर्णाकृतिस् तु खरिका तिलका तिलाभा कौलत्थबीजसदृशी च कुलित्थका च । (५१।१)
cūrṇākṛtis tu kharikā tilakā tilābhā kaulatthabījasadṛśī ca kulitthakā ca |
स्थूला ततः कियद् इयं किल पिण्डिकाख्या तस्याश् च किंचिद् अधिका यदि नायिका सा ॥ (५१।२)
sthūlā tataḥ kiyad iyaṃ kila piṇḍikākhyā tasyāś ca kiṃcid adhikā yadi nāyikā sā ||
स्वादे तिक्ता पिञ्जरा केतकीनां गन्धं धत्ते लाघवं तोलने च । (५२।१)
svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca |
याप्सु न्यस्ता नैव वैवर्ण्यम् ईयात् कस्तूरी सा राजभोग्याप्रशस्ता ॥ (५२।२)
yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā ||
या गन्धं केतकीनाम् अपहरति मदं सिन्धुराणां च वर्णे स्वादे तिक्ता कटुर् वा लघुर् अथ तुलिता मर्दिता चिक्कणा स्यात् । (५३।१)
yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt |
दाहं या नैति वह्नौ शिमिशिमिति चिरं चर्मगन्धा हुताशे सा कस्तूरी प्रशस्ता वरमृगतनुजा राजते राजभोग्या ॥ (५३।२)
dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā ||
बाले जरति च हरिणे क्षीणे रोगिणि च मन्दगन्धयुता । (५४।१)
bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā |
कामातुरे च तरुणे कस्तूरी बहुलपरिमला भवति ॥ (५४।२)
kāmāture ca taruṇe kastūrī bahulaparimalā bhavati ||
या स्निग्धा धूमगन्धा वहति विनिहिता पीततां पाथसो ऽन्तर् निःशेषं या निविष्टा भवति हुतवहे भस्मसाद् एव सद्यः । (५५।१)
yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ |
या च न्यस्ता तुलायां कलयति गुरुतां मर्दिता रूक्षतां च ज्ञेया कस्तूरिकेयं खलु कृतमतिभिः कृत्रिमा नैव सेव्या ॥ (५५।२)
yā ca nyastā tulāyāṃ kalayati gurutāṃ marditā rūkṣatāṃ ca jñeyā kastūrikeyaṃ khalu kṛtamatibhiḥ kṛtrimā naiva sevyā ||
शुद्धो वा मलिनो ऽस्तु वा मृगमदः किं जातम् एतावता को ऽप्य् अस्यानवधिश् चमत्कृतिनिधिः सौरभ्यम् एको गुणः । (५६।१)
śuddho vā malino 'stu vā mṛgamadaḥ kiṃ jātam etāvatā ko 'py asyānavadhiś camatkṛtinidhiḥ saurabhyam eko guṇaḥ |
येनासौ स्मरमण्डनैकवसतिर् भाले कपोले गले दोर्मूले कुचमण्डले च कुरुते सङ्गं कुरङ्गीदृशाम् ॥ (५६।२)
yenāsau smaramaṇḍanaikavasatir bhāle kapole gale dormūle kucamaṇḍale ca kurute saṅgaṃ kuraṅgīdṛśām ||
गोरोचना:: स्य्नोन्य्म्स्गोरोचना रुचिः शोभा रुचिरा शोभना शुभा । (५७।१)
gorocanā:: synonymsgorocanā ruciḥ śobhā rucirā śobhanā śubhā |
गौरी च रोचना पिङ्गा मङ्गल्या पिङ्गला शिवा ॥ (५७।२)
gaurī ca rocanā piṅgā maṅgalyā piṅgalā śivā ||
गोरोचना:: मेदिच्। प्रोपेर्तिएस्गोरोचना च शिशिरा विषदोषहन्त्री रुच्या च पाचनकरी क्रिमिकुष्ठहन्त्री । (५९।१)
gorocanā:: medic. propertiesgorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī |
भूतग्रहोपशमनं कुरुते च पथ्या शृङ्गारमङ्गलकरी जनमोहिनी च ॥ (५९।२)
bhūtagrahopaśamanaṃ kurute ca pathyā śṛṅgāramaṅgalakarī janamohinī ca ||
कर्पूरो घनसारकः सितकरः शीतः शशाङ्कः शिला शीतांशुर् हिमवालुका हिमकरः शीतप्रभः शाम्भवः । (६०।१)
karpūro ghanasārakaḥ sitakaraḥ śītaḥ śaśāṅkaḥ śilā śītāṃśur himavālukā himakaraḥ śītaprabhaḥ śāmbhavaḥ |
शुभ्रांशुः स्फटिकाभ्रसारमिहिकाताराभ्रचन्द्रेन्दवश् चन्द्रालोकतुषारगौरकुमुदान्य् एकादशाह्वा द्विशः ॥ (६०।२)
śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ ||
पोतासपोतासो भीमसेनस् तदनु सितकरः शंकरावाससंज्ञः प्रांशुः पिञ्जो ऽब्दसारस् तदनु हिमयुता वालुका जूटिका च । (६१।१)
potāsapotāso bhīmasenas tadanu sitakaraḥ śaṃkarāvāsasaṃjñaḥ prāṃśuḥ piñjo 'bdasāras tadanu himayutā vālukā jūṭikā ca |
पश्चाद् अस्यास् तुषारस् तदुपरि सहिमः शीतलः पक्विकान्या कर्पूरस्येति भेदा गुणरसमहसां वैद्यदृश्येन दृश्याः ॥ (६१।२)
paścād asyās tuṣāras tadupari sahimaḥ śītalaḥ pakvikānyā karpūrasyeti bhedā guṇarasamahasāṃ vaidyadṛśyena dṛśyāḥ ||
कर्पूरो नूतनस् तिक्तः स्निग्धश् चोष्णो ऽस्रदाहदः । (६२।१)
karpūro nūtanas tiktaḥ snigdhaś coṣṇo 'sradāhadaḥ |
चिरस्थो दाहदोषघ्नः स धौतः शुभकृत् परः ॥ (६२।२)
cirastho dāhadoṣaghnaḥ sa dhautaḥ śubhakṛt paraḥ ||
शिरो मध्यं तलं चेति कर्पूरस् त्रिविधः स्मृतः । (६३।१)
śiro madhyaṃ talaṃ ceti karpūras trividhaḥ smṛtaḥ |
शिरः स्तम्भाग्रसंजातं मध्यं पर्णतले तलम् ॥ (६३।२)
śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam ||
सामान्यपुलकं स्वच्छं तले चूर्णं तु गौरकम् ॥ (६४।२)
sāmānyapulakaṃ svacchaṃ tale cūrṇaṃ tu gaurakam ||
स्तम्भगर्भस्थितं श्रेष्ठं स्तम्भबाह्ये च मध्यमम् । (६५।१)
stambhagarbhasthitaṃ śreṣṭhaṃ stambhabāhye ca madhyamam |
स्वच्छम् ईषत् हरिद्राभं शुभ्रं तन् मध्यमं स्मृतम् सुदृढं शुभ्ररूक्षं च पुलकं बाह्यजं वदेत् ॥ (६५।२)
svaccham īṣat haridrābhaṃ śubhraṃ tan madhyamaṃ smṛtam sudṛḍhaṃ śubhrarūkṣaṃ ca pulakaṃ bāhyajaṃ vadet ||
स्वच्छं भृङ्गारपत्त्रं लघुतरविशदं तोलने तिक्तकं चेत् स्वादे शैत्यं सुहृद्यं बहलपरिमलामोदसौरभ्यदायि । (६६।१)
svacchaṃ bhṛṅgārapattraṃ laghutaraviśadaṃ tolane tiktakaṃ cet svāde śaityaṃ suhṛdyaṃ bahalaparimalāmodasaurabhyadāyi |
निःस्नेहं दार्ढ्यपत्त्रं शुभतरम् इति चेत् राजयोग्यं प्रशस्तं कर्पूरं चान्यथा चेद् बहुतरम् अशने स्फोटदायि व्रणाय ॥ (६६।२)
niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya ||
चीनकचीनकश् चीनकर्पूरः कृत्रिमो धवलः पटुः । (६७।१)
cīnakacīnakaś cīnakarpūraḥ kṛtrimo dhavalaḥ paṭuḥ |
मेघसारस् तुषारश् च द्वीपकर्पूरजः स्मृतः ॥ (६७।२)
meghasāras tuṣāraś ca dvīpakarpūrajaḥ smṛtaḥ ||
जवादिजवादि गन्धराजं स्यात् कृत्रिमं मृगचर्मजम् । (६९।१)
javādijavādi gandharājaṃ syāt kṛtrimaṃ mṛgacarmajam |
समूहगन्धं गन्धाढ्यं स्निग्धं साम्राणिकर्दमम् । (६९।२)
samūhagandhaṃ gandhāḍhyaṃ snigdhaṃ sāmrāṇikardamam |
सुगन्धं तैलनिर्यासं कुटामोदं दशाभिधम् ॥ (६९।३)
sugandhaṃ tailaniryāsaṃ kuṭāmodaṃ daśābhidham ||
सौगन्धिकं जवादि स्यात् स्निग्धं चोष्णं सुखावहम् । (७०।१)
saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham |
वाते हितं च राज्ञां च मोहनाह्लादकारणम् ॥ (७०।२)
vāte hitaṃ ca rājñāṃ ca mohanāhlādakāraṇam ||
जवादि नीलं सस्निग्धम् ईषत् पीतं सुगन्धदम् । (७१।१)
javādi nīlaṃ sasnigdham īṣat pītaṃ sugandhadam |
आतपे बहुलामोदं राज्ञां योग्यं न चान्यथा ॥ (७१।२)
ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā ||
तूणीकतूणीकस् तूणिकस् तूणी पीतकः कच्छपस् तथा । (७२।१)
tūṇīkatūṇīkas tūṇikas tūṇī pītakaḥ kacchapas tathā |
नन्दी कुरकः कान्तो नन्दीवृक्षो नवाह्वयः ॥ (७२।२)
nandī kurakaḥ kānto nandīvṛkṣo navāhvayaḥ ||
वृक्षः कटुस् तिक्तः शीतस् तिक्तास्रदाहजित् । (७३।१)
vṛkṣaḥ kaṭus tiktaḥ śītas tiktāsradāhajit |
शिरोऽर्तिश्वेतकुष्ठघ्नः सुगन्धिः पुष्टिवीर्यदः ॥ (७३।२)
śiro'rtiśvetakuṣṭhaghnaḥ sugandhiḥ puṣṭivīryadaḥ ||
जातिपत्त्रीजातीपत्त्री जातिकोशः सुमनःपत्त्रिकापि सा । (७४।१)
jātipattrījātīpattrī jātikośaḥ sumanaḥpattrikāpi sā |
जातीपत्त्री कटुस् तिक्ता सुरभिः कफनाशनी । (७५।१)
jātīpattrī kaṭus tiktā surabhiḥ kaphanāśanī |
जातीफलजातीफलं जातिशस्यं शालूकं मालतीफलम् । (७६।१)
jātīphalajātīphalaṃ jātiśasyaṃ śālūkaṃ mālatīphalam |
जातीफलं कषायोष्णं कटु कण्ठामयार्तिजित् । (७७।१)
jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit |
कक्कोलककक्कोलकं कृतफलं कोलकं कटुकं फलम् । (७८।१)
kakkolakakakkolakaṃ kṛtaphalaṃ kolakaṃ kaṭukaṃ phalam |
विद्वेष्यं स्थूलमरिचं कर्कोलं माधवोचितम् । (७८।२)
vidveṣyaṃ sthūlamaricaṃ karkolaṃ mādhavocitam |
कङ्कोलं कट्फलं प्रोक्तं मारीचं रुद्रसंमितम् ॥ (७८।३)
kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam ||
कक्कोलं कटु तिक्तोष्णं वक्त्रजाड्यहरं परम् । (७९।१)
kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param |
लवङ्गकलिकालवंगकलिका दिव्यं लवंगं शेखरं लवम् । (८०।१)
lavaṅgakalikālavaṃgakalikā divyaṃ lavaṃgaṃ śekharaṃ lavam |
श्रीपुष्पं देवकुसुमं रुचिरं वारिसम्भवम् ॥ (८०।२)
śrīpuṣpaṃ devakusumaṃ ruciraṃ vārisambhavam ||
तीक्ष्णपुष्पं तु भृङ्गारं गीर्वाणकुसुमं तथा । (८१।१)
tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā |
पुष्पकं चन्दनादि स्यात् ज्ञेयं त्रयोदशाह्वयम् ॥ (८१।२)
puṣpakaṃ candanādi syāt jñeyaṃ trayodaśāhvayam ||
लवंगं शीतलं तिक्तं चक्षुष्यं भक्तरोचनम् । (८२।१)
lavaṃgaṃ śītalaṃ tiktaṃ cakṣuṣyaṃ bhaktarocanam |
वातपित्तकफघ्नं च तीक्ष्णं मूर्धरुजापहम् ॥ (८२।२)
vātapittakaphaghnaṃ ca tīkṣṇaṃ mūrdharujāpaham ||
लवंगं सोष्णकं तीक्ष्णं विपाके मधुरं हिमम् । (८३।१)
lavaṃgaṃ soṣṇakaṃ tīkṣṇaṃ vipāke madhuraṃ himam |
स्वादुस्वादुस् त्व् अगरुसारः स्यात् सुधूम्यो गन्धधूमजः । (८४।१)
svādusvādus tv agarusāraḥ syāt sudhūmyo gandhadhūmajaḥ |
कृष्णागरुकृष्णागरु स्याद् अगरु शृङ्गारं विश्वरूपकम् । (८५।१)
kṛṣṇāgarukṛṣṇāgaru syād agaru śṛṅgāraṃ viśvarūpakam |
शीर्षं कालागरु केश्यं वसुकं कृष्णकाष्ठकम् । (८५।२)
śīrṣaṃ kālāgaru keśyaṃ vasukaṃ kṛṣṇakāṣṭhakam |
धूपार्हं वल्लरं गन्धराजकं द्वादशाह्वयम् ॥ (८५।३)
dhūpārhaṃ vallaraṃ gandharājakaṃ dvādaśāhvayam ||
कृष्णागरु कटूष्णं च तिक्तं लेपे च शीतलम् । (८६।१)
kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam |
पाने पित्तहरं किंचित् त्रिदोषघ्नम् उदाहृतम् ॥ (८६।२)
pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam ||
अगरु::पीतकअन्यागरु पीतकं च लोहं वर्णप्रसादनम् । (८७।१)
agaru::pītakaanyāgaru pītakaṃ ca lohaṃ varṇaprasādanam |
अनार्यकम् असारं च कृमिजग्धं च काष्ठकम् ॥ (८७।२)
anāryakam asāraṃ ca kṛmijagdhaṃ ca kāṣṭhakam ||
काष्ठागरु कटूष्णं च लेपे रूक्षं कफापहम् ॥ (८८।०)
kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham ||
दाहागरुदाहागरु दहनागरु दाहककाष्ठं च वह्निकाष्ठं च । (८९।१)
dāhāgarudāhāgaru dahanāgaru dāhakakāṣṭhaṃ ca vahnikāṣṭhaṃ ca |
धूपागरु तैलागरु पुरं च पुरमथनवल्लभं चैव ॥ (८९।२)
dhūpāgaru tailāgaru puraṃ ca puramathanavallabhaṃ caiva ||
दाहागरु कटुकोष्णं केशानां वर्धनं च वर्ण्यं च । (९०।१)
dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca |
अपनयति केशदोषान् आतनुते संततं च सौगन्ध्यम् ॥ (९०।२)
apanayati keśadoṣān ātanute saṃtataṃ ca saugandhyam ||
मङ्गल्यामङ्गल्या मल्लिका गन्धमङ्गलागरुवाचका । (९१।१)
maṅgalyāmaṅgalyā mallikā gandhamaṅgalāgaruvācakā |
मङ्गल्या गुरुशिशिरा गन्धाढ्या योगवाहिका ॥ (९१।२)
maṅgalyā guruśiśirā gandhāḍhyā yogavāhikā ||
मांसीमांसी तु जटिला पेशी क्रव्यादी पिशिता मिशी । (९२।१)
māṃsīmāṃsī tu jaṭilā peśī kravyādī piśitā miśī |
केशिनी च जटा हिंस्रा जटामांसी च मांसिनी ॥ (९२।२)
keśinī ca jaṭā hiṃsrā jaṭāmāṃsī ca māṃsinī ||
कफहृद् भूतदाहघ्नी पित्तघ्नी मोदकान्तिकृत् ॥ (९४।२)
kaphahṛd bhūtadāhaghnī pittaghnī modakāntikṛt ||
मांसी::गन्धमांसीद्वितीया गन्धमांसी च केशी भूतजटा स्मृता । (९५।१)
māṃsī::gandhamāṃsīdvitīyā gandhamāṃsī ca keśī bhūtajaṭā smṛtā |
जटाला लघुमांसी च ख्याता चाङ्कमिताह्वया ॥ (९५।३)
jaṭālā laghumāṃsī ca khyātā cāṅkamitāhvayā ||
मांसी::आकाशमांसीआकाशमांसी सूक्ष्मान्या निरालम्बा खसम्भवा । (९७।१)
māṃsī::ākāśamāṃsīākāśamāṃsī sūkṣmānyā nirālambā khasambhavā |
सेवाली सूक्ष्मपत्त्री च गौरी पर्वतवासिनी ॥ (९७।२)
sevālī sūkṣmapattrī ca gaurī parvatavāsinī ||
तुरुष्कतुरुष्को यावनो धूम्रो धूम्रवर्णः सुगन्धिकः । (९९।१)
turuṣkaturuṣko yāvano dhūmro dhūmravarṇaḥ sugandhikaḥ |
सिह्लकः सिह्लसारश् च पीतसारः कपिस् तथा ॥ (९९।२)
sihlakaḥ sihlasāraś ca pītasāraḥ kapis tathā ||
पिण्याकः कपिजः कल्कः पिण्डितः पिण्डतैलकः । (१००।१)
piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ |
तुरुष्कः सुरभिस् तिक्तः कटुस्निग्धश् च कुष्ठजित् । (१०१।१)
turuṣkaḥ surabhis tiktaḥ kaṭusnigdhaś ca kuṣṭhajit |
कफपित्ताश्मरीमूत्राघातभूतज्वरार्तिजित् ॥ (१०१।२)
kaphapittāśmarīmūtrāghātabhūtajvarārtijit ||
गुग्गुलुगुग्गुलुर् यवनद्विष्टो भवाभीष्टो निशाटकः । (१०२।१)
gugguluguggulur yavanadviṣṭo bhavābhīṣṭo niśāṭakaḥ |
कौशिकः शाम्भवो दुर्गो यातुघ्नो महिषाक्षकः । (१०३।१)
kauśikaḥ śāmbhavo durgo yātughno mahiṣākṣakaḥ |
देवेष्टो मरुदेश्यो ऽपि रक्षोहा रूक्षगन्धकः । (१०३।२)
deveṣṭo marudeśyo 'pi rakṣohā rūkṣagandhakaḥ |
दिव्यस् तु महिषाक्षश् च नामान्य् एतानि विंशतिः ॥ (१०३।३)
divyas tu mahiṣākṣaś ca nāmāny etāni viṃśatiḥ ||
गुग्गुलुः कटुतिक्तोष्णः कफमारुतकासजित् । (१०४।१)
gugguluḥ kaṭutiktoṣṇaḥ kaphamārutakāsajit |
कणगुग्गुलुगन्धराजः स्वर्णकणः सुवर्णः कणगुग्गुलुः । (१०५।१)
kaṇaguggulugandharājaḥ svarṇakaṇaḥ suvarṇaḥ kaṇagugguluḥ |
कणगुग्गुलुः कटूष्णः सुरभिर् वातनाशनः । (१०६।१)
kaṇagugguluḥ kaṭūṣṇaḥ surabhir vātanāśanaḥ |
गुग्गुलु::भूमिजगुग्गुलुश् च तृतीयो ऽन्यो भूमिजो दैत्यमेदजः । (१०७।१)
guggulu::bhūmijagugguluś ca tṛtīyo 'nyo bhūmijo daityamedajaḥ |
गुग्गुलुर् भूमिजस् तिक्तः कटूष्णः कफवातजित् । (१०८।२)
guggulur bhūmijas tiktaḥ kaṭūṣṇaḥ kaphavātajit |
उमाप्रियश् च भूतघ्नो मेध्यः सौरभ्यदः सदा ॥ (१०८।३)
umāpriyaś ca bhūtaghno medhyaḥ saurabhyadaḥ sadā ||
रालरालः सर्जरसश् चैव शालः कनकलोद्भवः । (१०९।१)
rālarālaḥ sarjarasaś caiva śālaḥ kanakalodbhavaḥ |
ललनः शालनिर्यासो देवेष्टः शीतलस् तथा ॥ (१०९।२)
lalanaḥ śālaniryāso deveṣṭaḥ śītalas tathā ||
सुरभिः सुरधूपश् च यक्षधूपो ऽग्निवल्लभः । (११०।२)
surabhiḥ suradhūpaś ca yakṣadhūpo 'gnivallabhaḥ |
कालः कललजः प्रोक्तो नाम्ना सप्तदशाङ्कितः ॥ (११०।३)
kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ ||
रालस् तु शिशिरः स्निग्धः कषायस् तिक्तसंग्रहः । (१११।१)
rālas tu śiśiraḥ snigdhaḥ kaṣāyas tiktasaṃgrahaḥ |
कुन्दुरुककुन्दुरुकः सौराष्ट्रः शिखरी कुन्दुरुककुन्दुकस् तीक्ष्णः । (१११।३)
kundurukakundurukaḥ saurāṣṭraḥ śikharī kundurukakundukas tīkṣṇaḥ |
गोपुरको बहुगन्धः पालिन्दो भीषणश् च दशसंज्ञः ॥ (१११।४)
gopurako bahugandhaḥ pālindo bhīṣaṇaś ca daśasaṃjñaḥ ||
कुन्दुरुर् मधुरस् तिक्तः कफपित्तार्तिदाहनुत् । (११२।१)
kundurur madhuras tiktaḥ kaphapittārtidāhanut |
पाने लेपे च शिशिरः प्रदरामयशान्तिकृत् ॥ (११२।२)
pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt ||
कुष्ठकुष्ठं रुजागदो व्याधिर् आमयं पारिभद्रकम् । (११३।१)
kuṣṭhakuṣṭhaṃ rujāgado vyādhir āmayaṃ pāribhadrakam |
रामं वानीरजं वाप्यं ज्ञेयं त्वग्दोषम् उत्पलम् । (११३।२)
rāmaṃ vānīrajaṃ vāpyaṃ jñeyaṃ tvagdoṣam utpalam |
कुत्सं च पाटवं चैव पद्मकं मनुसंज्ञकम् ॥ (११३।३)
kutsaṃ ca pāṭavaṃ caiva padmakaṃ manusaṃjñakam ||
कुष्ठं कटूष्णं तिक्तं स्यात् कफमारुतकुष्ठजित् । (११४।१)
kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit |
विसर्पविषकण्डूतिखर्जूदद्रुघ्नकान्तिकृत् ॥ (११४।२)
visarpaviṣakaṇḍūtikharjūdadrughnakāntikṛt ||
सारिवासारिवा शारदा गोपा गोपवल्ली प्रतानिका । (११५।१)
sārivāsārivā śāradā gopā gopavallī pratānikā |
गोपकन्या लतास्फोता नवाह्वा काष्ठसारिवा ॥ (११५।२)
gopakanyā latāsphotā navāhvā kāṣṭhasārivā ||
सारिवा::कृष्णमूलीसारिवान्या कृष्णमूली कृष्णा चन्दनसारिवा । (११६।१)
sārivā::kṛṣṇamūlīsārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā |
भद्रा चन्दनगोपा तु चन्दना कृष्णवल्ल्य् अपि ॥ (११६।२)
bhadrā candanagopā tu candanā kṛṣṇavally api ||
नखनखः कररुहः शिल्पी शुक्तिः शङ्खः खुरः शफः । (११८।१)
nakhanakhaḥ kararuhaḥ śilpī śuktiḥ śaṅkhaḥ khuraḥ śaphaḥ |
पाणिजो बदरीपत्त्रो धूप्यः पण्यविलासिनी । (११९।१)
pāṇijo badarīpattro dhūpyaḥ paṇyavilāsinī |
संधिनालः पाणिरुहः स्याद् अष्टादशसंज्ञकः ॥ (११९।२)
saṃdhinālaḥ pāṇiruhaḥ syād aṣṭādaśasaṃjñakaḥ ||
नखः स्याद् उष्णकटुको विषं हन्ति प्रयोजितः । (१२०।१)
nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ |
कुष्ठकण्डूव्रणघ्नश् च भूतविद्रावणः परः ॥ (१२०।२)
kuṣṭhakaṇḍūvraṇaghnaś ca bhūtavidrāvaṇaḥ paraḥ ||
नख::बलनखनखो ऽन्यः स्याद् बलनखः कूटस्थश् चक्रनायकः । (१२१।१)
nakha::balanakhanakho 'nyaḥ syād balanakhaḥ kūṭasthaś cakranāyakaḥ |
चक्री चक्रनखस् त्र्यस्रः कालो व्याघ्रनखः स्मृतः ॥ (१२१।२)
cakrī cakranakhas tryasraḥ kālo vyāghranakhaḥ smṛtaḥ ||
द्वीपिनखो व्यालनखः खपुटो व्यालपाणिजः । (१२२।१)
dvīpinakho vyālanakhaḥ khapuṭo vyālapāṇijaḥ |
व्यालायुधो व्यालबलो व्यालखड्गश् च षोडश ॥ (१२२।२)
vyālāyudho vyālabalo vyālakhaḍgaś ca ṣoḍaśa ||
व्यालनखस् तु तिक्तोष्णः कषायः कफवातजित् । (१२३।१)
vyālanakhas tu tiktoṣṇaḥ kaṣāyaḥ kaphavātajit |
कुष्ठकण्डूव्रणघ्नश् च वर्ण्यः सौगन्ध्यदः परः ॥ (१२३।२)
kuṣṭhakaṇḍūvraṇaghnaś ca varṇyaḥ saugandhyadaḥ paraḥ ||
स्पृक्कास्पृक्का च देवी पिशुना वधूश् च कोटिर् मनुर् ब्राह्मणिका सुगन्धा । (१२४।१)
spṛkkāspṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā |
समुद्रकान्ता कुटिला तथा च मालालिका भूतलिका च लघ्वी ॥ (१२४।२)
samudrakāntā kuṭilā tathā ca mālālikā bhūtalikā ca laghvī ||
निर्माल्या सुकुमारा च मालाली देवपुत्रिका । (१२५।१)
nirmālyā sukumārā ca mālālī devaputrikā |
पञ्चगुप्तिर् असृक् प्रोक्ता नखपुष्पी च विंशतिः ॥ (१२५।२)
pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ ||
स्पृक्का कटुकषाया च तिक्ता श्लेष्मार्तिकासजित् । (१२६।१)
spṛkkā kaṭukaṣāyā ca tiktā śleṣmārtikāsajit |
श्लेष्ममेहाश्मरीकृच्छ्रनाशनी च सुगन्धदा ॥ (१२६।२)
śleṣmamehāśmarīkṛcchranāśanī ca sugandhadā ||
स्थौणेयकस्थौणेयकं बर्हिशिखं शुकच्छदं मयूरचूडं शुकपुच्छकं तथा । (१२७।१)
sthauṇeyakasthauṇeyakaṃ barhiśikhaṃ śukacchadaṃ mayūracūḍaṃ śukapucchakaṃ tathā |
विकीर्णरोमापि च कीरवर्णकं विकर्णसंज्ञं हरितं नवाह्वयम् ॥ (१२७।२)
vikīrṇaromāpi ca kīravarṇakaṃ vikarṇasaṃjñaṃ haritaṃ navāhvayam ||
स्थौणेयं कफवातघ्नं सुगन्धि कटुतिक्तकम् । (१२८।१)
sthauṇeyaṃ kaphavātaghnaṃ sugandhi kaṭutiktakam |
मुरामुरा गन्धवती दैत्या गन्धाढ्या गन्धमादनी । (१२९।१)
murāmurā gandhavatī daityā gandhāḍhyā gandhamādanī |
सुरभिर् भूरिगन्धा च कुटी गन्धकुटी तथा ॥ (१२९।२)
surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā ||
मुरा तिक्ता कटुः शीता कषाया कफपित्तहृत् । (१३०।१)
murā tiktā kaṭuḥ śītā kaṣāyā kaphapittahṛt |
श्वासासृग्विषदाहार्तिभ्रममूर्छातृषापहा ॥ (१३०।२)
śvāsāsṛgviṣadāhārtibhramamūrchātṛṣāpahā ||
शैलेयशैलेयं शिलजं वृद्धं शिलापुष्पं शिलोद्भवम् । (१३१।१)
śaileyaśaileyaṃ śilajaṃ vṛddhaṃ śilāpuṣpaṃ śilodbhavam |
स्थविरं पलितं जीर्णं तथा कालानुसार्यकम् ॥ (१३१।२)
sthaviraṃ palitaṃ jīrṇaṃ tathā kālānusāryakam ||
शिलोत्थं च शिलादद्रुः शैलजं गिरिपुष्पकम् । (१३२।१)
śilotthaṃ ca śilādadruḥ śailajaṃ giripuṣpakam |
शिलाप्रसूनं सुभगं शैलकं षोडशाह्वयम् ॥ (१३२।२)
śilāprasūnaṃ subhagaṃ śailakaṃ ṣoḍaśāhvayam ||
शैलेयं शिशिरं तिक्तं सुगन्धि कफपित्तजित् । (१३३।१)
śaileyaṃ śiśiraṃ tiktaṃ sugandhi kaphapittajit |
चोरकचोरकः शङ्कितश् चण्डा दुष्पत्त्रः क्षेमको रिपुः । (१३४।१)
corakacorakaḥ śaṅkitaś caṇḍā duṣpattraḥ kṣemako ripuḥ |
चपलः कितवो धूर्तः पटुर् नीचो निशाचरः ॥ (१३४।२)
capalaḥ kitavo dhūrtaḥ paṭur nīco niśācaraḥ ||
दुष्कुलो ग्रन्थिलश् चैव सुग्रन्थिः पर्णचोरकः । (१३५।२)
duṣkulo granthilaś caiva sugranthiḥ parṇacorakaḥ |
ग्रन्थिपर्णो ग्रन्थिदलो ग्रन्थिपत्त्रस् त्रिनेत्रधा ॥ (१३५।३)
granthiparṇo granthidalo granthipattras trinetradhā ||
चोरकस् तीव्रगन्धोष्णस् तिक्तो वातकफापहः । (१३६।१)
corakas tīvragandhoṣṇas tikto vātakaphāpahaḥ |
पद्मकपद्मकं पीतकं पीतं मालयं शीतलं हिमम् । (१३७।१)
padmakapadmakaṃ pītakaṃ pītaṃ mālayaṃ śītalaṃ himam |
शुभ्रं केदारजं रक्तं पाटलापुष्पसंनिभम् । (१३७।२)
śubhraṃ kedārajaṃ raktaṃ pāṭalāpuṣpasaṃnibham |
पद्मकाष्ठं पद्मवृक्षं प्रोक्तं स्याद् द्वादशाह्वयम् ॥ (१३७।३)
padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam ||
पद्मकं शीतलं तिक्तं रक्तपित्तविनाशनम् । (१३८।१)
padmakaṃ śītalaṃ tiktaṃ raktapittavināśanam |
मोहदाहज्वरभ्रान्तिकुष्ठविस्फोटशान्तिकृत् ॥ (१३८।२)
mohadāhajvarabhrāntikuṣṭhavisphoṭaśāntikṛt ||
प्रपौण्डरीकप्रपौण्डरीकं चक्षुष्यं पुण्डर्यं पुण्डरीयकम् । (१३९।१)
prapauṇḍarīkaprapauṇḍarīkaṃ cakṣuṣyaṃ puṇḍaryaṃ puṇḍarīyakam |
पौण्डर्यं च सुपुष्पं च सानुजं चानुजं स्मृतम् ॥ (१३९।२)
pauṇḍaryaṃ ca supuṣpaṃ ca sānujaṃ cānujaṃ smṛtam ||
प्रपौण्डरीकं चक्षुष्यं मधुरं तिक्तशीतलम् । (१४०।१)
prapauṇḍarīkaṃ cakṣuṣyaṃ madhuraṃ tiktaśītalam |
पित्तरक्तव्रणान् हन्ति ज्वरदाहतृषापहम् ॥ (१४०।२)
pittaraktavraṇān hanti jvaradāhatṛṣāpaham ||
लामज्जकलामज्जकं सुनालं स्याद् अमृणालं लवं लघु । (१४१।१)
lāmajjakalāmajjakaṃ sunālaṃ syād amṛṇālaṃ lavaṃ laghu |
इष्टकापथकं शीघ्रं दीर्घमूलं जलाश्रयम् ॥ (१४१।२)
iṣṭakāpathakaṃ śīghraṃ dīrghamūlaṃ jalāśrayam ||
लामज्जकं हिमं तिक्तं मधुरं वातपित्तजित् । (१४२।१)
lāmajjakaṃ himaṃ tiktaṃ madhuraṃ vātapittajit |
तृड्दाहश्रममूर्छार्तिरक्तपित्तज्वरापहम् ॥ (१४२।२)
tṛḍdāhaśramamūrchārtiraktapittajvarāpaham ||
मांसरोहिणीमांसरोहिण्य् अतिरुहा वृत्ता चर्मकषा च सा । (१४३।१)
māṃsarohiṇīmāṃsarohiṇy atiruhā vṛttā carmakaṣā ca sā |
विकसा मांसरोही च ज्ञेया मांसरुहा मुनिः ॥ (१४३।२)
vikasā māṃsarohī ca jñeyā māṃsaruhā muniḥ ||
मांसी::सदामांसीअन्या मांसी सदामांसी मांसरोहा रसायनी । (१४४।१)
māṃsī::sadāmāṃsīanyā māṃsī sadāmāṃsī māṃsarohā rasāyanī |
विकसा कटुका तिक्ता तथोष्णा स्वरसादनुत् । (१४५।१)
vikasā kaṭukā tiktā tathoṣṇā svarasādanut |
कषाया ग्राहिणी वर्ण्या रक्तपित्तप्रसादनी ॥ (१४५।३)
kaṣāyā grāhiṇī varṇyā raktapittaprasādanī ||
कण्ठशुद्धिकरं रुच्यं वातदोषनिषूदनम् ॥ (१४६।२)
kaṇṭhaśuddhikaraṃ rucyaṃ vātadoṣaniṣūdanam ||
श्रीवेष्टश्रीवेष्टो वृक्षधूपश् च चीडागन्धो रसाङ्गकः । (१४७।१)
śrīveṣṭaśrīveṣṭo vṛkṣadhūpaś ca cīḍāgandho rasāṅgakaḥ |
श्रीवासः श्रीरसो वेष्टो लक्ष्मीवेष्टस् तु वेष्टकः ॥ (१४७।२)
śrīvāsaḥ śrīraso veṣṭo lakṣmīveṣṭas tu veṣṭakaḥ ||
वेष्टसारो रसावेष्टः क्षीरशीर्षः सुधूपकः । (१४८।१)
veṣṭasāro rasāveṣṭaḥ kṣīraśīrṣaḥ sudhūpakaḥ |
धूपाङ्गस् तिलपर्णश् च सरलाङ्गो ऽपि षोडश ॥ (१४८।२)
dhūpāṅgas tilaparṇaś ca saralāṅgo 'pi ṣoḍaśa ||
श्रीवेष्टः कटुतिक्तश् च कषायः श्लेष्मपित्तजित् । (१४९।१)
śrīveṣṭaḥ kaṭutiktaś ca kaṣāyaḥ śleṣmapittajit |
उशीरौशीरम् अमृणालं स्याज् जलवासं हरिप्रियम् । (१५०।१)
uśīrauśīram amṛṇālaṃ syāj jalavāsaṃ haripriyam |
मृणालम् अभयं वीरं वीरणं समगन्धिकम् ॥ (१५०।२)
mṛṇālam abhayaṃ vīraṃ vīraṇaṃ samagandhikam ||
सुगन्धिमूलकं शुभ्रं बालकं ग्रहभूह्वयम् ॥ (१५१।३)
sugandhimūlakaṃ śubhraṃ bālakaṃ grahabhūhvayam ||
पित्तज्वरार्तिशमनं जलसौगन्ध्यदायकम् ॥ (१५२।२)
pittajvarārtiśamanaṃ jalasaugandhyadāyakam ||
नलिकानलिका विद्रुमलतिका कपोतबाणा नली च निर्मथ्या । (१५३।१)
nalikānalikā vidrumalatikā kapotabāṇā nalī ca nirmathyā |
सुषिरा धमनी स्तुत्या रक्तदला नर्तकी नटी रुद्राः ॥ (१५३।२)
suṣirā dhamanī stutyā raktadalā nartakī naṭī rudrāḥ ||
नलिका तिक्तकटुका तीक्ष्णा च मधुरा हिमा । (१५४।१)
nalikā tiktakaṭukā tīkṣṇā ca madhurā himā |
इत्थं गन्धद्रव्यकदम्बाह्वयवीर्यव्याख्यावाचोयुक्तिविविक्तोज्ज्वलसर्गम् । (१५५।१)
itthaṃ gandhadravyakadambāhvayavīryavyākhyāvācoyuktiviviktojjvalasargam |
वर्गं वक्त्राम्भोरुहमोदार्हम् अधीयाथैनं मध्ये संसद् असौ दीव्यतु वैद्यः ॥ (१५५।२)
vargaṃ vaktrāmbhoruhamodārham adhīyāthainaṃ madhye saṃsad asau dīvyatu vaidyaḥ ||
ये गन्धयन्ति सकलानि च भूतलानि लोकांश् च ये ऽपि सुखयन्ति च गन्धलुब्धान् । (१५६।१)
ye gandhayanti sakalāni ca bhūtalāni lokāṃś ca ye 'pi sukhayanti ca gandhalubdhān |
तेषाम् अयं मलयजादिसुगन्धिनाम्नां भूर् गन्धवर्ग इति विश्रुतिम् एति वर्गः ॥ (१५६।२)
teṣām ayaṃ malayajādisugandhināmnāṃ bhūr gandhavarga iti viśrutim eti vargaḥ ||
यस्योच्चैश् चरितानि शीतसुरभीण्य् अभ्यस्य सत्यात्मनो दुश्चारित्रजना निषङ्गजनितं द्राग् दौःस्थम् आस्थन् स्वकम् तस्यायं कृतिनः कृतौ नरहरेः श्रीचन्दनादिः स्थितिं वर्गो वाञ्छति नामनैगमशिखाभूषामणौ द्वादशः ॥ (१५७।०)
yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.