राजनिघण्टुRājanighaṇṭu

RājNigh, 11

11 of 35 · 328 verses

Select a line for its word-by-word analysis.

1.1१.१

प्रभद्रः पञ्चधा प्रोक्तः काश्मर्यो लघुपूर्वकः । (१।१)

prabhadraḥ pañcadhā proktaḥ kāśmaryo laghupūrvakaḥ |

1.2१.२

द्विर् अग्निमन्थः श्योनाकद्वितयं चाजशृङ्गिका ॥ (१।२)

dvir agnimanthaḥ śyonākadvitayaṃ cājaśṛṅgikā ||

2.1२.१

काश्मर्याश्मन्तकश् चाथ कर्णिकारद्वयं तथा । (२।१)

kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā |

2.2२.२

वृश्चिकाली च कुटजस् तद्बीजं च शिरीषकः ॥ (२।२)

vṛścikālī ca kuṭajas tadbījaṃ ca śirīṣakaḥ ||

3.1३.१

करञ्जः षड्विधो ऽङ्कोलो नीलः सर्जाश्वकर्णकौ । (३।१)

karañjaḥ ṣaḍvidho 'ṅkolo nīlaḥ sarjāśvakarṇakau |

3.2३.२

तालः श्रीतालहिन्तालमाडास् तूलस् तमालकः ॥ (३।२)

tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ ||

4.1४.१

चतुर्विधः कदम्बो ऽथ वानीरः कुम्भिवेतसः । (४।१)

caturvidhaḥ kadambo 'tha vānīraḥ kumbhivetasaḥ |

4.2४.२

धवश् च धन्वनो भूर्जस् तिनिशश् च ततो ऽर्जुनः ॥ (४।२)

dhavaś ca dhanvano bhūrjas tiniśaś ca tato 'rjunaḥ ||

5.1५.१

हरिद्रुदग्धाशाखोटाः शाको ऽथो शिंशपात्रयम् । (५।१)

haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam |

5.2५.२

असनत्रयं च वरुणः पुत्रजीवश् च पिण्डिका ॥ (५।२)

asanatrayaṃ ca varuṇaḥ putrajīvaś ca piṇḍikā ||

6.1६.१

कारस्करो ऽथ कटभ्यौ क्षवको देवसर्षपः । (६।१)

kāraskaro 'tha kaṭabhyau kṣavako devasarṣapaḥ |

6.2६.२

डहुर् विकङ्कतश् चेति स्वराब्धिगणिताः क्रमात् ॥ (६।२)

ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt ||

7.1७.१

अथ निगदितः प्रभद्रः पिचुमन्दः पारिभद्रको निम्बः । (७।१)

atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ |

7.2७.२

काकफलः कीरेष्टो नेतारिष्टश् च सर्वतोभद्रः ॥ (७।२)

kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ ||

8.1८.१

धमनो विशीर्णपर्णः पवनेष्टः पीतसारकः शीतः । (८।१)

dhamano viśīrṇaparṇaḥ pavaneṣṭaḥ pītasārakaḥ śītaḥ |

8.2८.२

वरतिक्तो ऽरिष्टफलो ज्येष्ठामालकश् च हिङ्गुनिर्यासः ॥ (८।२)

varatikto 'riṣṭaphalo jyeṣṭhāmālakaś ca hiṅguniryāsaḥ ||

9.1९.१

छर्दनश् चाग्निधमनो ज्ञेया नाम्नां तु विंशतिः ॥ (९।१)

chardanaś cāgnidhamano jñeyā nāmnāṃ tu viṃśatiḥ ||

10.1१०.१

प्रभद्रकः प्रभवति शीततिक्तकः कफव्रणकृमिवमिशोफशान्तये । (१०।१)

prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye |

10.2१०.२

बलासभिद् बहुविषपित्तदोषजिद् विशेषतो हृदयविदाहशान्तिकृत् ॥ (१०।२)

balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt ||

11.1११.१

महानिम्बो मदोद्रेकः कार्मुकः केशमुष्टिकः । (११।१)

mahānimbo madodrekaḥ kārmukaḥ keśamuṣṭikaḥ |

11.2११.२

काकाण्डो रम्यको ऽक्षीरो महातिक्तो हिमद्रुमः ॥ (११।२)

kākāṇḍo ramyako 'kṣīro mahātikto himadrumaḥ ||

12.1१२.१

महानिम्बस् तु शिशिरः कषायः कटुतिक्तकः । (१२।१)

mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ |

12.2१२.२

अस्रदाहबलासघ्नो विषमज्वरनाशनः ॥ (१२।२)

asradāhabalāsaghno viṣamajvaranāśanaḥ ||

13.1१३.१

कैडर्यो ऽन्यो महानिम्बो रामणो रमणस् तथा । (१३।१)

kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā |

13.2१३.२

गिरिनिम्बो महारिष्टः शुक्लशालः कफाह्वयः ॥ (१३।२)

girinimbo mahāriṣṭaḥ śuklaśālaḥ kaphāhvayaḥ ||

14.1१४.१

कैडर्यः कटुकस् तिक्तः कषायः शीतलो लघुः । (१४।१)

kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ |

14.2१४.२

संतापशोषकुष्ठास्रकृमिभूतविषापहः ॥ (१४।२)

saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ ||

15.1१५.१

भूनिम्बभूनिम्बो नार्यतिक्तः स्यात् कैरातो रामसेनकः । (१५।१)

bhūnimbabhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ |

15.2१५.२

कैराततिक्तको हैमः काण्डतिक्तः किरातकः ॥ (१५।२)

kairātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ ||

16.1१६.१

भूनिम्बो वातलस् तिक्तः कफपित्तज्वरापहः । (१६।१)

bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ |

16.2१६.२

व्रणसंरोपणः पथ्यः कुष्ठकण्डूतिशोफनुत् ॥ (१६।२)

vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut ||

17.1१७.१

नेपालनिम्बनेपालनिम्बो नैपालस् तृणनिम्बो ज्वरान्तकः । (१७।१)

nepālanimbanepālanimbo naipālas tṛṇanimbo jvarāntakaḥ |

17.2१७.२

नाडीतिक्तो ऽर्धतिक्तश् च निद्रारिः संनिपातहा ॥ (१७।२)

nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā ||

18.1१८.१

नेपालनिम्बः शीतोष्णो योगवाही लघुस् तथा । (१८।१)

nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā |

18.2१८.२

तिक्तो ऽतिकफपित्तास्रशोफतृष्णाज्वरापहः ॥ (१८।२)

tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ ||

19.1१९.१

कण्डूलकण्डूलः कृष्णगर्भश् च सोमवल्कप्रचेतसी । (१९।१)

kaṇḍūlakaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī |

19.2१९.२

भद्रावती महाकुम्भी कैडर्यो रामसेनकः ॥ (१९।२)

bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ ||

20.1२०.१

कुमुदा चोग्रगन्धश् च भद्रा रञ्जनकस् तथा । (२०।१)

kumudā cogragandhaś ca bhadrā rañjanakas tathā |

20.2२०.२

कुम्भी च लघुकाश्मर्यः श्रीपर्णी च त्रिपञ्चधा ॥ (२०।२)

kumbhī ca laghukāśmaryaḥ śrīparṇī ca tripañcadhā ||

21.1२१.१

कट्फलः कटुर् उष्णश् च कासश्वासज्वरापहः । (२१।१)

kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ |

21.2२१.२

उग्रदाहहरो रुच्यो मुखरोगशमप्रदः ॥ (२१।२)

ugradāhaharo rucyo mukharogaśamapradaḥ ||

22.1२२.१

अग्निमन्थ, प्रेम्न स्पिनोस रोxब्।अग्निमन्थो ऽग्निमथनः तर्कारी वैजयन्तिका । (२२।१)

agnimantha, Premna spinosa Roxb.agnimantho 'gnimathanaḥ tarkārī vaijayantikā |

22.2२२.२

वह्निमन्थो ऽरणी केतुः श्रीपर्णी कर्णिका जया । (२२।२)

vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā |

22.3२२.३

नादेयी विजयानन्ता नदी यावत् त्रयोदश ॥ (२२।३)

nādeyī vijayānantā nadī yāvat trayodaśa ||

23.1२३.१

अग्निमन्थ:: मेदिच्। प्रोपेर्तिएस्तर्कारी कटुर् उष्णा च तिक्तानिलकफापहा । (२३।१)

agnimantha:: medic. propertiestarkārī kaṭur uṣṇā ca tiktānilakaphāpahā |

23.2२३.२

शोफश्लेष्माग्निमान्द्यार्शोविड्बन्धाध्माननाशनी ॥ (२३।२)

śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī ||

24.1२४.१

क्षुद्राग्निमन्थक्षुद्राग्निमन्थस् तपनो विजया गणिकारिका । (२४।१)

kṣudrāgnimanthakṣudrāgnimanthas tapano vijayā gaṇikārikā |

24.2२४.२

अरणिर् लघुमन्थश् च तेजोवृक्षस् तनुत्वचा ॥ (२४।२)

araṇir laghumanthaś ca tejovṛkṣas tanutvacā ||

25.1२५.१

अग्निमन्थद्वयं चैव तुल्यं वीर्यरसादिषु । (२५।१)

agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu |

25.2२५.२

तत्प्रयोगानुसारेण योजयेत् स्वमनीषया ॥ (२५।२)

tatprayogānusāreṇa yojayet svamanīṣayā ||

26.1२६.१

श्योनाकश्योनाकः शुकनासश् च कट्वङ्गो ऽथ कटंभरः । (२६।१)

śyonākaśyonākaḥ śukanāsaś ca kaṭvaṅgo 'tha kaṭaṃbharaḥ |

26.2२६.२

मयूरजङ्घो ऽरलुकः प्रियजीवः कुटन्नटः ॥ (२६।२)

mayūrajaṅgho 'ralukaḥ priyajīvaḥ kuṭannaṭaḥ ||

27.1२७.१

श्योनाक::पृथुशिम्बश्योनाकः पृथुशिम्बो ऽन्यो भल्लको दीर्घवृन्तकः । (२७।१)

śyonāka::pṛthuśimbaśyonākaḥ pṛthuśimbo 'nyo bhallako dīrghavṛntakaḥ |

27.2२७.२

पोतवृक्षश् च टेण्टूको भूतसारो मुनिद्रुमः ॥ (२७।२)

potavṛkṣaś ca ṭeṇṭūko bhūtasāro munidrumaḥ ||

28.1२८.१

निःसारः फल्गुवृन्ताकः पूतिपत्त्रो वसन्तकः । (२८।१)

niḥsāraḥ phalguvṛntākaḥ pūtipattro vasantakaḥ |

28.2२८.२

मण्डूकपर्णः पीताङ्गो जम्बूकः पीतपादकः ॥ (२८।२)

maṇḍūkaparṇaḥ pītāṅgo jambūkaḥ pītapādakaḥ ||

29.1२९.१

वातारिः पीतकः शोणः कुटनश् च विरेचनः । (२९।१)

vātāriḥ pītakaḥ śoṇaḥ kuṭanaś ca virecanaḥ |

29.2२९.२

भ्रमरेष्टो बर्हिजङ्घो नेत्रनेत्रमिताभिधः ॥ (२९।२)

bhramareṣṭo barhijaṅgho netranetramitābhidhaḥ ||

30.1३०.१

श्योनाकयुगलं तिक्तं शीतलं च त्रिदोषजित् । (३०।१)

śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit |

30.2३०.२

पित्तश्लेष्मातिसारघ्नं संनिपातज्वरापहम् ॥ (३०।२)

pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham ||

31.1३१.१

टेण्टुफलं कटूष्णं च कफवातहरं लघु । (३१।१)

ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu |

31.2३१.२

दीपनं पाचनं हृद्यं रुचिकृल् लवणाम्लकम् ॥ (३१।२)

dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam ||

32.1३२.१

अजशृङ्गीअजशृङ्गी मेषशृङ्गी वर्तिका सर्पदंष्ट्रिका । (३२।१)

ajaśṛṅgīajaśṛṅgī meṣaśṛṅgī vartikā sarpadaṃṣṭrikā |

32.2३२.२

चक्षुष्या तिक्तदुग्धा च पुत्रश्रेणी विषाणिका ॥ (३२।२)

cakṣuṣyā tiktadugdhā ca putraśreṇī viṣāṇikā ||

33.1३३.१

अजशृङ्गी कटुस् तिक्ता कफार्शःशूलशोफजित् । (३३।१)

ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit |

33.2३३.२

चक्षुष्या श्वासहृद्रोगविषकासातिकुष्ठजित् ॥ (३३।२)

cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit ||

34.1३४.१

अजशृङ्गीफलं तिक्तं कटूष्णं कफवातजित् । (३४।१)

ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit |

34.2३४.२

जठरानलकृत् हृद्यं रुचिरं लवणाम्लकम् ॥ (३४।२)

jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam ||

35.1३५.१

काश्मर्यस्यात् काश्मर्यः काश्मरी कृष्णवृन्ता हीरा भद्रा सर्वतोभद्रिका च । (३५।१)

kāśmaryasyāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca |

35.2३५.२

श्रीपर्णी स्यात् सिन्धुपर्णी सुभद्रा कम्भारी सा कट्फला भद्रपर्णी ॥ (३५।२)

śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī ||

36.1३६.१

कुमुदा च गोपभद्रा विदारिणी क्षीरिणी महाभद्रा । (३६।१)

kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā |

36.2३६.२

मधुपर्णी स्वभद्रा कृष्णा श्वेता च रोहिणी गृष्टिः ॥ (३६।२)

madhuparṇī svabhadrā kṛṣṇā śvetā ca rohiṇī gṛṣṭiḥ ||

37.1३७.१

स्थूलत्वचा मधुमती सुफला मेदिनी महाकुमुदा । (३७।१)

sthūlatvacā madhumatī suphalā medinī mahākumudā |

37.2३७.२

सुदृढत्वचा च कथिता विज्ञेयोनत्रिंशतिर् नाम्नाम् ॥ (३७।२)

sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām ||

38.1३८.१

काश्मरी कटुका तिक्ता गुरूष्णा कफशोफनुत् । (३८।१)

kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut |

38.2३८.२

त्रिदोषविषदाहार्तिज्वरतृष्णास्रदोषजित् ॥ (३८।२)

tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit ||

39.1३९.१

अश्मन्तकअश्मन्तकश् चेन्दुकश् च कुद्दालश् चाम्लपत्त्रकः । (३९।१)

aśmantakaaśmantakaś cendukaś ca kuddālaś cāmlapattrakaḥ |

39.2३९.२

श्लक्ष्णत्वक् पीलुपत्त्रश् च स्मृतो यमलपत्त्रकः ॥ (३९।२)

ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ ||

40.1४०.१

अश्मान्तकेन्दुशफरी शिलान्तश् चाम्बुदः स्मृतः । (४०।१)

aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ |

40.2४०.२

पाषाणान्तक इत्य् उक्तो वह्निचन्द्रमिताह्वयः ॥ (४०।२)

pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ ||

41.1४१.१

अश्मन्तकः स्यान् मधुरः कषायः सुशीतलः पित्तहरः प्रमेहजित् । (४१।१)

aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit |

41.2४१.२

विदाहतृष्णाविषमज्वरापहो विषार्तिविच्छर्दिहरश् च भूतजित् ॥ (४१।२)

vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit ||

42.1४२.१

कर्णिकारअथ भवति कर्णिकारो राजतरुः प्रग्रहश् च कृतमालः । (४२।१)

karṇikāraatha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ |

42.2४२.२

सुफलश् च परिव्याधो व्याधिरिपुः पङ्क्तिबीजको वसुसंज्ञः ॥ (४२।२)

suphalaś ca parivyādho vyādhiripuḥ paṅktibījako vasusaṃjñaḥ ||

43.1४३.१

कर्णिकारो रसे तिक्तः कटूष्णः कफशूलहृत् । (४३।१)

karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt |

43.2४३.२

उदरकृमिमेहघ्नो व्रणगुल्मनिवारणः ॥ (४३।२)

udarakṛmimehaghno vraṇagulmanivāraṇaḥ ||

44.1४४.१

आरग्वधआरग्वधो ऽन्यो मन्थानो रोचनश् चतुरङ्गुलः । (४४।१)

āragvadhaāragvadho 'nyo manthāno rocanaś caturaṅgulaḥ |

44.2४४.२

आरेवतो दीर्घफलो व्याधिघातो नृपद्रुमः ॥ (४४।२)

ārevato dīrghaphalo vyādhighāto nṛpadrumaḥ ||

45.1४५.१

हेमपुष्पो राजतरुः कण्डूघ्नश् च ज्वरान्तकः । (४५।१)

hemapuṣpo rājataruḥ kaṇḍūghnaś ca jvarāntakaḥ |

45.2४५.२

अरुजः स्वर्णपुष्पश् च स्वर्णद्रुः कुष्ठसूदनः ॥ (४५।२)

arujaḥ svarṇapuṣpaś ca svarṇadruḥ kuṣṭhasūdanaḥ ||

46.1४६.१

कर्णाभरणकः प्रोक्तो महाराजद्रुमः स्मृतः । (४६।१)

karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ |

46.2४६.२

कर्णिकारो महादिः स्यात् प्रोक्तश् चैकोनविंशतिः ॥ (४६।२)

karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ ||

47.1४७.१

आरग्वधो ऽतिमधुरः शीतः शूलापहारकः । (४७।१)

āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ |

47.2४७.२

ज्वरकण्डूकुष्ठमेहकफविष्टम्भनाशनः ॥ (४७।२)

jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ ||

48.1४८.१

वृश्चिकालीवृश्चिकाली विषाणी च विषघ्नी नेत्ररोगहा । (४८।१)

vṛścikālīvṛścikālī viṣāṇī ca viṣaghnī netrarogahā |

48.2४८.२

उष्ट्रिकाप्य् अलिपर्णी च दक्षिणावर्तकी तथा ॥ (४८।२)

uṣṭrikāpy aliparṇī ca dakṣiṇāvartakī tathā ||

49.1४९.१

कलिकाप्य् आगमावर्ता देवलाङ्गुलिका तथा । (४९।१)

kalikāpy āgamāvartā devalāṅgulikā tathā |

49.2४९.२

करभा भूरिदुग्धा च कर्कशा चामरा च सा ॥ (४९।२)

karabhā bhūridugdhā ca karkaśā cāmarā ca sā ||

50.1५०.१

स्वर्णपुष्पा युग्मफला तथा क्षीरविषाणिका । (५०।१)

svarṇapuṣpā yugmaphalā tathā kṣīraviṣāṇikā |

50.2५०.२

प्रोक्ता भासुरपुष्पा च वसुचन्द्रसमाह्वया ॥ (५०।२)

proktā bhāsurapuṣpā ca vasucandrasamāhvayā ||

51.1५१.१

वृश्चिकाली कटुस् तिक्ता सोष्णा हृद्वक्त्रशुद्धिकृत् । (५१।१)

vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt |

51.2५१.२

रक्तपित्तहरा बल्या विबन्धारोचकापहा ॥ (५१।२)

raktapittaharā balyā vibandhārocakāpahā ||

52.1५२.१

कुटजकुटजः कौटजः शक्रो वत्सको गिरिमल्लिका । (५२।१)

kuṭajakuṭajaḥ kauṭajaḥ śakro vatsako girimallikā |

52.2५२.२

कलिङ्गो मल्लिकापुष्पः प्रावृष्यः शक्रपादपः ॥ (५२।२)

kaliṅgo mallikāpuṣpaḥ prāvṛṣyaḥ śakrapādapaḥ ||

53.1५३.१

वरतिक्तो यवफलः संग्राही पाण्डुरद्रुमः । (५३।१)

varatikto yavaphalaḥ saṃgrāhī pāṇḍuradrumaḥ |

53.2५३.२

प्रावृषेण्यो महागन्धः स्यात् पञ्चदशधाभिधः ॥ (५३।२)

prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ ||

54.1५४.१

कुटजः कटुतिक्तोष्णः कषायश् चातिसारजित् । (५४।१)

kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit |

54.2५४.२

तत्रासितो ऽस्रपित्तघ्नस् त्वग्दोषार्शोनिकृन्तनः ॥ (५४।२)

tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ ||

55.1५५.१

इन्द्रयवाइन्द्रयवा तु शक्राह्वा शक्रबीजानि वत्सकः । (५५।१)

indrayavāindrayavā tu śakrāhvā śakrabījāni vatsakaḥ |

55.2५५.२

तथा वत्सकबीजानि भद्रजा कुटजाफलम् ॥ (५५।२)

tathā vatsakabījāni bhadrajā kuṭajāphalam ||

56.1५६.१

ज्ञेया भद्रयवा चैव बीजान्ता कुटजाभिधा । (५६।१)

jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā |

56.2५६.२

तथा कलिङ्गबीजानि पर्यायैर् दशधाभिधा ॥ (५६।२)

tathā kaliṅgabījāni paryāyair daśadhābhidhā ||

57.1५७.१

इन्द्रयवा कटुस् तिक्ता शीता कफवातरक्तपित्तहरा । (५७।१)

indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā |

57.2५७.२

दाहातिसारशमनो नानाज्वरदोषशूलमूलघ्नी ॥ (५७।२)

dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī ||

58.1५८.१

शिरीषशिरीषः शीतपुष्पश् च भण्डिको मृदुपुष्पकः । (५८।१)

śirīṣaśirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ |

58.2५८.२

शुकेष्टो बर्हिपुष्पश् च विषहन्ता सुपुष्पकः ॥ (५८।२)

śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ ||

59.1५९.१

उद्दानकः शुकतरुर् ज्ञेयो लोमशपुष्पकः । (५९।१)

uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ |

59.2५९.२

कपीतनः कलिङ्गश् च श्यामलः शङ्खिनीफलः । (५९।२)

kapītanaḥ kaliṅgaś ca śyāmalaḥ śaṅkhinīphalaḥ |

59.3५९.३

मधुपुष्पस् तथा वृत्तपुष्पः सप्तदशाह्वयः ॥ (५९।३)

madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ ||

60.1६०.१

शिरीषः कटुकः शीतो विषवातहरः परः । (६०।१)

śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ |

60.2६०.२

पामासृक्कुष्ठकण्डूतित्वग्दोषस्य विनाशनः ॥ (६०।२)

pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ ||

61.1६१.१

करञ्जकरञ्जो नक्तमालश् च पूतिकश् चिरबिल्वकः । (६१।१)

karañjakarañjo naktamālaś ca pūtikaś cirabilvakaḥ |

61.2६१.२

पूतिपर्णो वृद्धफलो रोचनश् च प्रकीर्यकः ॥ (६१।२)

pūtiparṇo vṛddhaphalo rocanaś ca prakīryakaḥ ||

62.1६२.१

करञ्जः कटुर् उष्णश् च चक्षुष्यो वातनाशनः । (६२।१)

karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ |

62.2६२.२

तस्य स्नेहो ऽतिस्निग्धश् च वातघ्नः स्थिरदीप्तिदः ॥ (६२।२)

tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ ||

63.1६३.१

करञ्ज::घृतकरञ्जअन्यो घृतकरञ्जः स्यात् प्रकीर्यो घृतपर्णकः । (६३।१)

karañja::ghṛtakarañjaanyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ |

63.2६३.२

स्निग्धपत्त्रस् तपस्वी च विषारिश् च विरोचनः ॥ (६३।२)

snigdhapattras tapasvī ca viṣāriś ca virocanaḥ ||

64.1६४.१

घृतकरञ्जः कटूष्णो वातहृद् व्रणनाशनः । (६४।१)

ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ |

64.2६४.२

सर्वत्वग्दोषशमनो विषस्पर्शविनाशनः ॥ (६४।२)

sarvatvagdoṣaśamano viṣasparśavināśanaḥ ||

65.1६५.१

करञ्ज::महाकरञ्जज्ञेयो महाकरञ्जो ऽन्यः षड्ग्रन्थो हस्तिचारिणी । (६५।१)

karañja::mahākarañjajñeyo mahākarañjo 'nyaḥ ṣaḍgrantho hasticāriṇī |

65.2६५.२

उदकीर्या विषघ्नी च काकघ्नी मदहस्तिनी । (६५।२)

udakīryā viṣaghnī ca kākaghnī madahastinī |

65.3६५.३

अङ्गारवल्ली शार्ङ्गेष्टा मधुसत्तावमायिनी ॥ (६५।३)

aṅgāravallī śārṅgeṣṭā madhusattāvamāyinī ||

66.1६६.१

हस्तिरोहणकश् चैव ज्ञेयो हस्तिकरञ्जकः । (६६।१)

hastirohaṇakaś caiva jñeyo hastikarañjakaḥ |

66.2६६.२

सुमनाः काकभाण्डी च मदमत्तश् च षोडश ॥ (६६।२)

sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa ||

67.1६७.१

महाकरञ्जस् तीक्ष्णोष्णः कटुको विषनाशनः । (६७।१)

mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ |

67.2६७.२

कण्डूविचर्चिकाकुष्ठत्वग्दोषव्रणनाशनः ॥ (६७।२)

kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ ||

68.1६८.१

प्रकीर्यप्रकीर्यो रजनीपुष्पः सुमनाः पूतिकर्णिकः । (६८।१)

prakīryaprakīryo rajanīpuṣpaḥ sumanāḥ pūtikarṇikaḥ |

68.2६८.२

पूतिकरञ्जः कैडर्यः कलिमालश् च सप्तधा ॥ (६८।२)

pūtikarañjaḥ kaiḍaryaḥ kalimālaś ca saptadhā ||

69.1६९.१

करञ्ज::गुच्छकरञ्जअन्यो गुच्छकरञ्जः स्निग्धदलो गुच्छपुच्छको नन्दी । (६९।१)

karañja::gucchakarañjaanyo gucchakarañjaḥ snigdhadalo gucchapucchako nandī |

69.2६९.२

गुच्छी च मातृनन्दी सानन्दो दन्तधावनो वसवः ॥ (६९।२)

gucchī ca mātṛnandī sānando dantadhāvano vasavaḥ ||

70.1७०.१

करञ्जः कटुतिक्तोष्णो विषवातार्तिकृन्तनः । (७०।१)

karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ |

70.2७०.२

कण्डूविचर्चिकाकुष्ठस्पर्शत्वग्दोषनाशनः ॥ (७०।२)

kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ ||

71.1७१.१

करञ्ज::रीठाकरञ्जरीठाकरञ्जकस् त्व् अन्यो गुच्छलो गुच्छपुष्पकः । (७१।१)

karañja::rīṭhākarañjarīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ |

71.2७१.२

रीठा गुच्छफलो ऽरिष्टो मङ्गल्यः कुम्भबीजकः । (७१।२)

rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ |

71.3७१.३

प्रकीर्यः सोमवल्कश् च फेनिलो रुद्रसंज्ञकः ॥ (७१।३)

prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ ||

72.1७२.१

रीठाकरञ्जस् तिक्तोष्णः कटुः स्निग्धश् च वातजित् । (७२।१)

rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit |

72.2७२.२

कफघ्नः कुष्ठकण्डूतिविषविस्फोटनाशनः ॥ (७२।२)

kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ ||

73.1७३.१

अङ्कोलअङ्कोलः कोठरो रेची गूढपत्त्रो निकोचकः । (७३।१)

aṅkolaaṅkolaḥ koṭharo recī gūḍhapattro nikocakaḥ |

73.2७३.२

गुप्तस्नेहः पीतसारो मदनो गूढमल्लिका ॥ (७३।२)

guptasnehaḥ pītasāro madano gūḍhamallikā ||

74.1७४.१

पीतस् ताम्रफलो ज्ञेयो दीर्घकालो गुणाढ्यकः । (७४।१)

pītas tāmraphalo jñeyo dīrghakālo guṇāḍhyakaḥ |

74.2७४.२

कोलः कोलम्बकर्णश् च गन्धपुष्पश् च रोचनः । (७४।२)

kolaḥ kolambakarṇaś ca gandhapuṣpaś ca rocanaḥ |

74.3७४.३

विज्ञानतैलगर्भश् च स्मृतिसंख्याभिधा स्मृतः ॥ (७४।३)

vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ ||

75.1७५.१

अङ्कोलः कटुकः स्निग्धो विषलूतादिदोषनुत् । (७५।१)

aṅkolaḥ kaṭukaḥ snigdho viṣalūtādidoṣanut |

75.2७५.२

कफानिलहरः सूतशुद्धिकृत् रेचनीयकः ॥ (७५।२)

kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ ||

76.1७६.१

नीलनीलस् तु नीलवृक्षो वातारिः शोफनाशनो नखनामा । (७६।१)

nīlanīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā |

76.2७६.२

नखवृक्षश् च नखालुर् नखप्रियो दिग्गजेन्द्रमितसंज्ञः ॥ (७६।२)

nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ ||

77.1७७.१

नीलवृक्षस् तु कटुकः कषायोष्णो लघुस् तथा । (७७।१)

nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā |

77.2७७.२

वातामयप्रशमनो नानाश्वयथुनाशनः ॥ (७७।२)

vātāmayapraśamano nānāśvayathunāśanaḥ ||

78.1७८.१

सर्जसर्जः सर्जरसः शालः कालकुटो रजोद्भवः । (७८।१)

sarjasarjaḥ sarjarasaḥ śālaḥ kālakuṭo rajodbhavaḥ |

78.2७८.२

वल्लीवृक्षश् चीरपर्णो रालः कार्श्यो ऽजकर्णकः ॥ (७८।२)

vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ ||

79.1७९.१

वस्तकर्णः कषायी च ललनो गन्धवृक्षकः । (७९।१)

vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ |

79.2७९.२

वंशश् च शालनिर्यासो दिव्यसारः सुरेष्टकः । (७९।२)

vaṃśaś ca śālaniryāso divyasāraḥ sureṣṭakaḥ |

79.3७९.३

शूरो ऽग्निवल्लभश् चैव यक्षधूपः सुसिद्धकः ॥ (७९।३)

śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ ||

80.1८०.१

सर्जस् तु कटुतिक्तोष्णो हिमः स्निग्धो ऽतिसारजित् । (८०।१)

sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit |

80.2८०.२

पित्तास्रदोषकुष्ठघ्नः कण्डूविस्फोटवातजित् ॥ (८०।२)

pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit ||

81.1८१.१

जरणद्रुमजरणद्रुमो ऽश्वकर्णस् तार्क्ष्यप्रसवश् च शस्यसंवरणः । (८१।१)

jaraṇadrumajaraṇadrumo 'śvakarṇas tārkṣyaprasavaś ca śasyasaṃvaraṇaḥ |

81.2८१.२

धन्यश् च दीर्घपर्णः कुशिकतरुः कौशिकश् चापि ॥ (८१।२)

dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi ||

82.1८२.१

अश्वकर्णः कटुस् तिक्तः स्निग्धः पित्तास्रनाशनः । (८२।१)

aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ |

82.2८२.२

ज्वरविस्फोटकण्डूघ्नः शिरोदोषार्तिकृन्तनः ॥ (८२।२)

jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ ||

83.1८३.१

तालतालस् तालद्रुमः पत्री दीर्घस्कन्धो ध्वजद्रुमः । (८३।१)

tālatālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ |

83.2८३.२

तृणराजो मधुरसो मदाढ्यो दीर्घपादपः ॥ (८३।२)

tṛṇarājo madhuraso madāḍhyo dīrghapādapaḥ ||

84.1८४.१

चिरायुस् तरुराजश् च गजभक्ष्यो दृढच्छदः । (८४।१)

cirāyus tarurājaś ca gajabhakṣyo dṛḍhacchadaḥ |

84.2८४.२

दीर्घपत्रो गुच्छपत्त्रो ऽप्य् आसवद्रुश् च षोडश ॥ (८४।२)

dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa ||

85.1८५.१

तालश् च मधुरः शीतपित्तदाहश्रमापहः । (८५।१)

tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ |

85.2८५.२

सरश् च कफपित्तघ्नो मदकृद् दाहशोषनुत् ॥ (८५।२)

saraś ca kaphapittaghno madakṛd dāhaśoṣanut ||

86.1८६.१

श्रीतालश्रीतालो मधुतालश् च लक्ष्मीतालो मृदुच्छदः । (८६।१)

śrītālaśrītālo madhutālaś ca lakṣmītālo mṛducchadaḥ |

86.2८६.२

विशालपत्त्रो लेखार्हो मसीलेख्यदलस् तथा । (८६।२)

viśālapattro lekhārho masīlekhyadalas tathā |

86.3८६.३

शिरालपत्त्रकश् चैव याम्योद्भूतो नवाह्वयः ॥ (८६।३)

śirālapattrakaś caiva yāmyodbhūto navāhvayaḥ ||

87.1८७.१

श्रीतालो मधुरो ऽत्यन्तम् ईषच् चैव कषायकः । (८७।१)

śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ |

87.2८७.२

पित्तजित् कफकारी च वातम् ईषत् प्रकोपयेत् ॥ (८७।२)

pittajit kaphakārī ca vātam īṣat prakopayet ||

88.1८८.१

हिन्तालहिन्तालः स्थूलतालश् च वल्कपत्त्रो बृहद्दलः । (८८।१)

hintālahintālaḥ sthūlatālaś ca valkapattro bṛhaddalaḥ |

88.2८८.२

गर्भस्रावी लतातालो भीषणो बहुकण्टकः ॥ (८८।२)

garbhasrāvī latātālo bhīṣaṇo bahukaṇṭakaḥ ||

89.1८९.१

स्थिरपत्त्रो द्विधालेख्यः शिरापत्त्रः स्थिराङ्घ्रिपः । (८९।१)

sthirapattro dvidhālekhyaḥ śirāpattraḥ sthirāṅghripaḥ |

89.2८९.२

अम्लसारो बृहत्तालः स्याच् चतुर्दशधाभिधः ॥ (८९।२)

amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ ||

90.1९०.१

हिन्तालो मधुराम्लश् च कफकृत् पित्तदाहनुत् । (९०।१)

hintālo madhurāmlaś ca kaphakṛt pittadāhanut |

90.2९०.२

श्रमतृष्णापहारी च शिशिरो वातदोषनुत् ॥ (९०।२)

śramatṛṣṇāpahārī ca śiśiro vātadoṣanut ||

91.1९१.१

माडमाडो माडद्रुमो दीर्घो ध्वजवृक्षो वितानकः । (९१।१)

māḍamāḍo māḍadrumo dīrgho dhvajavṛkṣo vitānakaḥ |

91.2९१.२

मद्यद्रुमो मोहकारी मदद्रुर् ऋजुर् अङ्कधा ॥ (९१।२)

madyadrumo mohakārī madadrur ṛjur aṅkadhā ||

92.1९२.१

माडस् तु शिशिरो रुच्यः कषायः पित्तदाहकृत् । (९२।१)

māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt |

92.2९२.२

तृष्णापहो मरुत्कारी श्रमहृत् श्लेष्मकारकः ॥ (९२।२)

tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ ||

93.1९३.१

तूलतूलं तूदं ब्रह्मकाष्ठं ब्राह्मणेष्टं च यूपकम् । (९३।१)

tūlatūlaṃ tūdaṃ brahmakāṣṭhaṃ brāhmaṇeṣṭaṃ ca yūpakam |

93.2९३.२

ब्रह्मदारु सुपुष्पं च सुरूपं नीलवृन्तकम् । (९३।२)

brahmadāru supuṣpaṃ ca surūpaṃ nīlavṛntakam |

93.3९३.३

क्रमुकं विप्रकाष्ठं च मृदुसारं द्विभूमितम् ॥ (९३।३)

kramukaṃ viprakāṣṭhaṃ ca mṛdusāraṃ dvibhūmitam ||

94.1९४.१

तूलं तु मधुराम्लं स्यात् वातपित्तहरं सरम् । (९४।१)

tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram |

94.2९४.२

दाहप्रशमनं वृष्यं कषायं कफनाशनम् ॥ (९४।२)

dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam ||

95.1९५.१

तमालतमालो नीलतालः स्यात् कालस्कन्धस् तमालकः । (९५।१)

tamālatamālo nīlatālaḥ syāt kālaskandhas tamālakaḥ |

95.2९५.२

नीलध्वजश् च तापिञ्छः कालतालो महाबलः ॥ (९५।२)

nīladhvajaś ca tāpiñchaḥ kālatālo mahābalaḥ ||

96.1९६.१

तमालो मधुरो बल्यो वृष्यश् च शिशिरो गुरुः । (९६।१)

tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ |

96.2९६.२

कफपित्ततृषादाहश्रमभ्रान्तिकरः परः ॥ (९६।२)

kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ ||

97.1९७.१

कदम्बकदम्बो वृत्तपुष्पश् च सुरभिर् ललनाप्रियः । (९७।१)

kadambakadambo vṛttapuṣpaś ca surabhir lalanāpriyaḥ |

97.2९७.२

कादम्बर्यः सिन्धुपुष्पो मदाढ्यः कर्णपूरकः ॥ (९७।२)

kādambaryaḥ sindhupuṣpo madāḍhyaḥ karṇapūrakaḥ ||

98.1९८.१

कदम्बस् तिक्तकटुकः कषायो वातनाशनः । (९८।१)

kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ |

98.2९८.२

शीतलः कफपित्तार्तिनाशनः शुक्रवर्धनः ॥ (९८।२)

śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ ||

99.1९९.१

धाराकदम्बधाराकदम्बः प्रावृष्यः पुलकी भृङ्गवल्लभः । (९९।१)

dhārākadambadhārākadambaḥ prāvṛṣyaḥ pulakī bhṛṅgavallabhaḥ |

99.2९९.२

मेघागमप्रियो नीपः प्रावृषेण्यः कदम्बकः ॥ (९९।२)

meghāgamapriyo nīpaḥ prāvṛṣeṇyaḥ kadambakaḥ ||

100.1१००.१

धूलीकदम्बधूलीकदम्बः क्रमुकप्रसूनः परागपुष्पो बलभद्रसंज्ञकः । (१००।१)

dhūlīkadambadhūlīkadambaḥ kramukaprasūnaḥ parāgapuṣpo balabhadrasaṃjñakaḥ |

100.2१००.२

वसन्तपुष्पो मकरन्दवासो भृङ्गप्रियो रेणुकदम्बको ऽष्टौ ॥ (१००।२)

vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau ||

101.1१०१.१

भूमीकदम्बभूमीकदम्बो भूनिम्बो भूमिजो भृङ्गवल्लभः । (१०१।१)

bhūmīkadambabhūmīkadambo bhūnimbo bhūmijo bhṛṅgavallabhaḥ |

101.2१०१.२

लघुपुष्पो वृत्तपुष्पो विषघ्नो व्रणहारकः ॥ (१०१।२)

laghupuṣpo vṛttapuṣpo viṣaghno vraṇahārakaḥ ||

102.1१०२.१

त्रिकदम्बाः कटुर् वर्ण्या विषशोफहरा हिमाः । (१०२।१)

trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ |

102.2१०२.२

कषायाः पित्तलास् तिक्ता वीर्यवृद्धिकराः पराः ॥ (१०२।२)

kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ ||

103.1१०३.१

वानीरवानीरो वृत्तपुष्पश् च शाखालो जलवेतसः । (१०३।१)

vānīravānīro vṛttapuṣpaś ca śākhālo jalavetasaḥ |

103.2१०३.२

व्याधिघातः परिव्याधो नादेयो जलसम्भवः ॥ (१०३।२)

vyādhighātaḥ parivyādho nādeyo jalasambhavaḥ ||

104.1१०४.१

वानीरस् तिक्तशिशिरो रक्षोघ्नो व्रणशोधनः । (१०४।१)

vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ |

104.2१०४.२

पित्तास्रकफदोषघ्नः संग्राही च कषायकः ॥ (१०४।२)

pittāsrakaphadoṣaghnaḥ saṃgrāhī ca kaṣāyakaḥ ||

105.1१०५.१

कुम्भिन्कुम्भी रोमालुविटपी रोमशः पर्पटद्रुमः । (१०५।१)

kumbhinkumbhī romāluviṭapī romaśaḥ parpaṭadrumaḥ |

105.2१०५.२

कुम्भी कटुः कषायोष्णो ग्राही वातकफापहः ॥ (१०५।२)

kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ ||

106.1१०६.१

वेतसवेतसो निचुलो ज्ञेयो वञ्जुलो दीर्घपत्त्रकः । (१०६।१)

vetasavetaso niculo jñeyo vañjulo dīrghapattrakaḥ |

106.2१०६.२

कलनो मञ्जरीनम्रः सुषेणो गन्धपुष्पकः ॥ (१०६।२)

kalano mañjarīnamraḥ suṣeṇo gandhapuṣpakaḥ ||

107.1१०७.१

वेतसः कटुकः स्वादुः शीतो भूतविनाशनः । (१०७।१)

vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ |

107.2१०७.२

पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः । (१०७।२)

pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ |

107.3१०७.३

रक्तपित्तोद्भवं रोगं कुष्ठदोषं च नाशयेत् ॥ (१०७।३)

raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet ||

108.1१०८.१

धवधवो दृढतरुर् गौरः कषायो मधुरत्वचः । (१०८।१)

dhavadhavo dṛḍhatarur gauraḥ kaṣāyo madhuratvacaḥ |

108.2१०८.२

शुक्लवृक्षः पाण्डुतरुर् धवलः पाण्डुरो नव ॥ (१०८।२)

śuklavṛkṣaḥ pāṇḍutarur dhavalaḥ pāṇḍuro nava ||

109.1१०९.१

धवः कषायः कटुकः कफघ्नो ऽनिलनाशनः । (१०९।१)

dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ |

109.2१०९.२

पित्तप्रकोपणो रुच्यो विज्ञेयो दीपनः परः ॥ (१०९।२)

pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ ||

110.1११०.१

धन्वनधन्वनो रक्तकुसुमो धनुवृक्षो महाबलः । (११०।१)

dhanvanadhanvano raktakusumo dhanuvṛkṣo mahābalaḥ |

110.2११०.२

रुजापहः पिच्छलको रूक्षः स्वादुफलश् च सः ॥ (११०।२)

rujāpahaḥ picchalako rūkṣaḥ svāduphalaś ca saḥ ||

111.1१११.१

धन्वनः कटुकोष्णश् च कषायः कफनाशनः । (१११।१)

dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ |

111.2१११.२

दाहशोषकरो ग्राही कण्ठामयशमप्रदः ॥ (१११।२)

dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ ||

112.1११२.१

भूर्जभूर्जो वल्कद्रुमो भुर्जः सुचर्मा भूर्जपत्रकः । (११२।१)

bhūrjabhūrjo valkadrumo bhurjaḥ sucarmā bhūrjapatrakaḥ |

112.2११२.२

चित्रत्वग् बिन्दुपत्त्रश् च रक्षापत्त्रो विचित्रकः । (११२।२)

citratvag bindupattraś ca rakṣāpattro vicitrakaḥ |

112.3११२.३

भूतघ्नो मृदुपत्त्रश् च शैलेन्द्रस्थो द्विभूमितः ॥ (११२।३)

bhūtaghno mṛdupattraś ca śailendrastho dvibhūmitaḥ ||

113.1११३.१

भूर्जः कटुकषायोष्णो भूतरक्षाकरः परः । (११३।१)

bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ |

113.2११३.२

त्रिदोषशमनः पथ्यो दुष्टकौटिल्यनाशनः ॥ (११३।२)

tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ ||

114.1११४.१

तिनिशतिनिशः स्यन्दनश् चक्री शताङ्गः शकटो रथः । (११४।१)

tiniśatiniśaḥ syandanaś cakrī śatāṅgaḥ śakaṭo rathaḥ |

114.2११४.२

रथिको भस्मगर्भश् च मेषी जलधरो दश ॥ (११४।२)

rathiko bhasmagarbhaś ca meṣī jaladharo daśa ||

115.1११५.१

तिनिशस् तु कषायोष्णः कफरक्तातिसारजित् । (११५।१)

tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit |

115.2११५.२

ग्राहको दाहजननो वातामयहरः परः ॥ (११५।२)

grāhako dāhajanano vātāmayaharaḥ paraḥ ||

116.1११६.१

अर्जुनअर्जुनः शम्बरः पार्थश् चित्रयोधी धनंजयः । (११६।१)

arjunaarjunaḥ śambaraḥ pārthaś citrayodhī dhanaṃjayaḥ |

116.2११६.२

वैरान्तकः किरीटी च गाण्डीवी शिवमल्लकः ॥ (११६।२)

vairāntakaḥ kirīṭī ca gāṇḍīvī śivamallakaḥ ||

117.1११७.१

सव्यसाची नदीसर्जः कर्णारिः कुरुवीरकः । (११७।१)

savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ |

117.2११७.२

कौन्तेय इन्द्रसूनुश् च वीरद्रुः कृष्णसारथिः । (११७।२)

kaunteya indrasūnuś ca vīradruḥ kṛṣṇasārathiḥ |

117.3११७.३

पृथाजः फाल्गुनो धन्वी ककुभश् चैकविंशतिः ॥ (११७।३)

pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ ||

118.1११८.१

अर्जुनस् तु कषायोष्णः कफघ्नो व्रणनाशनः । (११८।१)

arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ |

118.2११८.२

पित्तश्रमतृषार्तिघ्नो मारुतामयकोपनः ॥ (११८।२)

pittaśramatṛṣārtighno mārutāmayakopanaḥ ||

119.1११९.१

हरिद्रुहरिद्रुः पीतदारुः स्यात् पीतकाष्ठश् च पीतकः । (११९।१)

haridruharidruḥ pītadāruḥ syāt pītakāṣṭhaś ca pītakaḥ |

119.2११९.२

कदम्बकः सुपुष्पश् च सुराह्वः पीतकद्रुमः ॥ (११९।२)

kadambakaḥ supuṣpaś ca surāhvaḥ pītakadrumaḥ ||

120.1१२०.१

हरिद्रुः शीतलस् तिक्तो मङ्गल्यः पित्तवान्तिजित् । (१२०।१)

haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit |

120.2१२०.२

अङ्गकान्तिकरो बल्यो नानात्वग्दोषनाशनः ॥ (१२०।२)

aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ ||

121.1१२१.१

दग्धादग्धा दग्धरुहा प्रोक्ता दग्धिका च स्थलेरुहा । (१२१।१)

dagdhādagdhā dagdharuhā proktā dagdhikā ca sthaleruhā |

121.2१२१.२

रोमशा कर्कशदला भस्मरोहा सुदग्धिका ॥ (१२१।२)

romaśā karkaśadalā bhasmarohā sudagdhikā ||

122.1१२२.१

दग्धा कटुकषायोष्णा कफवातनिकृन्तनी । (१२२।१)

dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī |

122.2१२२.२

पित्तप्रकोपणी चैव जठरानलदीपनी ॥ (१२२।२)

pittaprakopaṇī caiva jaṭharānaladīpanī ||

123.1१२३.१

शाखोटशाखोटः स्याद् भूतवृक्षो गवाक्षी यूकावासो भूर्जपत्त्रश् च पीतः । (१२३।१)

śākhoṭaśākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapattraś ca pītaḥ |

123.2१२३.२

कौशिक्यो ऽजक्षीरनाशश् च सूक्तस् तिक्तोष्णो ऽयं पित्तकृद् वातहारी ॥ (१२३।२)

kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī ||

124.1१२४.१

शाकशाकः क्रकचपत्त्रः स्यात् खरपत्त्रो ऽतिपत्त्रकः । (१२४।१)

śākaśākaḥ krakacapattraḥ syāt kharapattro 'tipattrakaḥ |

124.2१२४.२

महीसहः श्रेष्टकाष्ठः स्थिरसारो गृहद्रुमः ॥ (१२४।२)

mahīsahaḥ śreṣṭakāṣṭhaḥ sthirasāro gṛhadrumaḥ ||

125.1१२५.१

शाकस् तु सारकः प्रोक्तः पित्तदाहश्रमापहः । (१२५।१)

śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ |

125.2१२५.२

कफघ्नं मधुरं रुच्यं कषायं शाकवल्कलम् ॥ (१२५।२)

kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam ||

126.1१२६.१

शिंशपाशिंशपा तु महाश्यामा कृष्णसारा च धूम्रिका । (१२६।१)

śiṃśapāśiṃśapā tu mahāśyāmā kṛṣṇasārā ca dhūmrikā |

126.2१२६.२

तीक्ष्णसारा च धीरा च कपिला कृष्णशिंशपा ॥ (१२६।२)

tīkṣṇasārā ca dhīrā ca kapilā kṛṣṇaśiṃśapā ||

127.1१२७.१

श्यामादिशिंशपा तिक्ता कटूष्णा कफवातनुत् । (१२७।१)

śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut |

127.2१२७.२

नष्टाजीर्णहरा दीप्या शोफातीसारहारिणी ॥ (१२७।२)

naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī ||

128.1१२८.१

शिंशपा::श्वेतशिंशपाशिंशपान्या श्वेतपत्त्रा सिताह्वादिश् च शिंशपा । (१२८।१)

śiṃśapā::śvetaśiṃśapāśiṃśapānyā śvetapattrā sitāhvādiś ca śiṃśapā |

128.2१२८.२

श्वेतादिशिंशपा तिक्ता शिशिरा पित्तदाहनुत् ॥ (१२८।२)

śvetādiśiṃśapā tiktā śiśirā pittadāhanut ||

129.1१२९.१

कपिलशिंशपाकपिला शिंशपा चान्या पीता कपिलशिंशपा । (१२९।१)

kapilaśiṃśapākapilā śiṃśapā cānyā pītā kapilaśiṃśapā |

129.2१२९.२

सारिणी कपिलाक्षी च भस्मगर्भा कुशिंशपा ॥ (१२९।२)

sāriṇī kapilākṣī ca bhasmagarbhā kuśiṃśapā ||

130.1१३०.१

कपिला शिंशपा तिक्ता शीतवीर्या श्रमापहा । (१३०।१)

kapilā śiṃśapā tiktā śītavīryā śramāpahā |

130.2१३०.२

वातपित्तज्वरघ्नी च छर्दिहिक्काविनाशिनी ॥ (१३०।२)

vātapittajvaraghnī ca chardihikkāvināśinī ||

131.1१३१.१

शिंशपात्रितयं वर्ण्यं हिमशोफविसर्पजित् । (१३१।१)

śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit |

131.2१३१.२

पित्तदाहप्रशमनं बल्यं रुचिकरं परम् ॥ (१३१।२)

pittadāhapraśamanaṃ balyaṃ rucikaraṃ param ||

132.1१३२.१

असनअसनस् तु महासर्जः सौरिर् बन्धूकपुष्पकः । (१३२।१)

asanaasanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ |

132.2१३२.२

प्रियको बीजवृक्षश् च नीलकः प्रियशालकः ॥ (१३२।२)

priyako bījavṛkṣaś ca nīlakaḥ priyaśālakaḥ ||

133.1१३३.१

असनः कटुर् उष्णश् च तिक्तो वातार्तिदोषनुत् । (१३३।१)

asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut |

133.2१३३.२

सारको गलदोषघ्नो रक्तमण्डलनाशनः ॥ (१३३।२)

sārako galadoṣaghno raktamaṇḍalanāśanaḥ ||

134.1१३४.१

असन::नीलबीजद्वितीयो नीलबीजः स्यान् नीलपत्त्रः सुनीलकः । (१३४।१)

asana::nīlabījadvitīyo nīlabījaḥ syān nīlapattraḥ sunīlakaḥ |

134.2१३४.२

नीलद्रुमो नीलसारो नीलनिर्यासको रसैः ॥ (१३४।२)

nīladrumo nīlasāro nīlaniryāsako rasaiḥ ||

135.1१३५.१

बीजवृक्षौ कटू शीतौ कषायौ कुष्ठनाशनौ । (१३५।१)

bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau |

135.2१३५.२

सारकौ कण्डुदद्रुघ्नौ श्रेष्ठस् तत्रासितस् तयोः ॥ (१३५।२)

sārakau kaṇḍudadrughnau śreṣṭhas tatrāsitas tayoḥ ||

136.1१३६.१

वरुणवरुणः श्वेतपुष्पश् च तिक्तशाकः कुमारकः । (१३६।१)

varuṇavaruṇaḥ śvetapuṣpaś ca tiktaśākaḥ kumārakaḥ |

136.2१३६.२

श्वेतद्रुमः साधुवृक्षः तमालो मारुतापहः ॥ (१३६।२)

śvetadrumaḥ sādhuvṛkṣaḥ tamālo mārutāpahaḥ ||

137.1१३७.१

वरुणः कटुर् उष्णश् च रक्तदोषहरः परः । (१३७।१)

varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ |

137.2१३७.२

शीर्षवातहरः स्निग्धो दीप्यो विद्रधिवातजित् ॥ (१३७।२)

śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit ||

138.1१३८.१

पुत्रजीवपुत्रजीवः पवित्रश् च गर्भदः सुतजीवकः । (१३८।१)

putrajīvaputrajīvaḥ pavitraś ca garbhadaḥ sutajīvakaḥ |

138.2१३८.२

कुटजीवो ऽपत्यजीवः सिद्धिदो ऽपत्यजीवकः ॥ (१३८।२)

kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ ||

139.1१३९.१

पुत्रजीवो हिमो वृष्यः श्लेष्मदो गर्भजीवदः । (१३९।१)

putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ |

139.2१३९.२

चक्षुष्यः पित्तशमनो दाहतृष्णानिवारणः ॥ (१३९।२)

cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ ||

140.1१४०.१

महापिण्डीतरुमहापिण्डीतरुः प्रोक्तः श्वेतपिण्डीतकश् च सः । (१४०।१)

mahāpiṇḍītarumahāpiṇḍītaruḥ proktaḥ śvetapiṇḍītakaś ca saḥ |

140.2१४०.२

करहाटः क्षुरश् चैव शस्त्रकोशतरुः सरः ॥ (१४०।२)

karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ ||

141.1१४१.१

पिण्डीतरुः कषायोष्णस् त्रिदोषशमनो ऽपि च । (१४१।१)

piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca |

141.2१४१.२

चर्मरोगापहश् चैव विशेषाद् रक्तदोषजित् ॥ (१४१।२)

carmarogāpahaś caiva viśeṣād raktadoṣajit ||

142.1१४२.१

कारस्करकारस्करस् तु किम्पाको विषतिन्दुर् विषद्रुमः । (१४२।१)

kāraskarakāraskaras tu kimpāko viṣatindur viṣadrumaḥ |

142.2१४२.२

गरद्रुमो रम्यफलः कुपाकः कालकूटकः ॥ (१४२।२)

garadrumo ramyaphalaḥ kupākaḥ kālakūṭakaḥ ||

143.1१४३.१

कारस्करः कटूष्णश् च तिक्तः कुष्ठविनाशनः । (१४३।१)

kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ |

143.2१४३.२

वातामयास्रकण्डूतिकफामार्शोव्रणापहः ॥ (१४३।२)

vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ ||

144.1१४४.१

कटभीकटभी नाभिका शौण्डी पाटली किणिही तथा । (१४४।१)

kaṭabhīkaṭabhī nābhikā śauṇḍī pāṭalī kiṇihī tathā |

144.2१४४.२

मधुरेणुः क्षुद्रशामा कैडर्यः श्यामला नव ॥ (१४४।२)

madhureṇuḥ kṣudraśāmā kaiḍaryaḥ śyāmalā nava ||

145.1१४५.१

सितकटभीशितादिकटभी श्वेता किणिही गिरिकर्णिका । (१४५।१)

sitakaṭabhīśitādikaṭabhī śvetā kiṇihī girikarṇikā |

145.2१४५.२

शिरीषपत्त्रा कालिन्दी शतपादी विषघ्निका । (१४५।२)

śirīṣapattrā kālindī śatapādī viṣaghnikā |

145.3१४५.३

महाश्वेता महाशौण्डी महादिकटभी तथा ॥ (१४५।३)

mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā ||

146.1१४६.१

कटभी भवेत् कटूष्णा गुल्मविषाध्मानशूलदोषघ्नी । (१४६।१)

kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī |

146.2१४६.२

वातकफाजीर्णरुजाशमनी श्वेता च तत्र गुणयुक्ता ॥ (१४६।२)

vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā ||

147.1१४७.१

क्षवकक्षवकः क्षुरकस् तीक्ष्णः क्रूरो भूताङ्कुशः क्षवः । (१४७।१)

kṣavakakṣavakaḥ kṣurakas tīkṣṇaḥ krūro bhūtāṅkuśaḥ kṣavaḥ |

147.2१४७.२

राजोद्वेजनसंज्ञश् च भूतद्रावी ग्रहाह्वयः ॥ (१४७।२)

rājodvejanasaṃjñaś ca bhūtadrāvī grahāhvayaḥ ||

148.1१४८.१

भूताङ्कुशस् तीव्रगन्धः कषायोष्णः कटुस् तथा । (१४८।१)

bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā |

148.2१४८.२

भूतग्रहादिदोषघ्नः कफवातनिकृन्तनः ॥ (१४८।२)

bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ ||

149.1१४९.१

देवसर्षपकदेवसर्षपकश् चाक्षो बदरो रक्तमूलकः । (१४९।१)

devasarṣapakadevasarṣapakaś cākṣo badaro raktamūlakaḥ |

149.2१४९.२

सुरसर्षपकश् चैन्द्रस् तथा सूक्ष्मदलः स्मृतः । (१४९।२)

surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ |

149.3१४९.३

सर्षपो निर्जरादिः स्यात् कुरराङ्घ्रिर् नवाभिधः ॥ (१४९।३)

sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ ||

150.1१५०.१

देवसर्षपनामा तु कटूष्णः कफनाशनः । (१५०।१)

devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ |

150.2१५०.२

जन्तुदोषहरो रुच्यो वक्त्रामयविशोधनः ॥ (१५०।२)

jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ ||

151.1१५१.१

लकुचलकुचो लिकुचः शालः कषायी दृढवल्कलः । (१५१।१)

lakucalakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ |

151.2१५१.२

डहुः कार्श्यश् च शूरश् च स्थूलस्कन्धो नवाह्वयः ॥ (१५१।२)

ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ ||

152.1१५२.१

लकुचः स्वरसे तिक्तः कषायोष्णो लघुस् तथा । (१५२।१)

lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā |

152.2१५२.२

कफदोषहरो दाही मलसंग्रहदायकः ॥ (१५२।२)

kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ ||

153.1१५३.१

विकङ्कतविकङ्कतो व्याघ्रपादो ग्रन्थिलः स्वादुकण्टकः । (१५३।१)

vikaṅkatavikaṅkato vyāghrapādo granthilaḥ svādukaṇṭakaḥ |

153.2१५३.२

कण्ठपादो बहुफलो गोपघोण्टा स्रुवद्रुमः ॥ (१५३।२)

kaṇṭhapādo bahuphalo gopaghoṇṭā sruvadrumaḥ ||

154.1१५४.१

मृदुफलो दन्तकाष्ठो यज्ञीयो ब्रह्मपादपः । (१५४।१)

mṛduphalo dantakāṣṭho yajñīyo brahmapādapaḥ |

154.2१५४.२

पिण्डरोहिणकः पूतः किङ्किणी च त्रिपञ्चधा ॥ (१५४।२)

piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā ||

155.1१५५.१

विकङ्कतो ऽम्लमधुरः पाके ऽतिमधुरो लघुः । (१५५।१)

vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ |

155.2१५५.२

दीपनः कामलास्रघ्नः पाचनः पित्तनाशनः ॥ (१५५।२)

dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ ||

156.1१५६.१

इत्थं वन्यमहीरुहाह्वयगुणाभिख्यानमुख्यानया भङ्ग्या भङ्गुरिताभिधान्तरमहाभोगश्रिया भास्वरम् । (१५६।१)

itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram |

156.2१५६.२

वैद्यो वै द्यतु वर्गम् एनम् अखिलं विज्ञाय वैज्ञानिकः प्रज्ञालोकविजृम्भणेन सहसा स्वैरं गदानां गणम् ॥ (१५६।२)

vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam ||

157.1१५७.१

ये वृश्चन्ति नृणां गदान् गुरुतरान् आक्रम्य वीर्यासिना ये स्थित्वापि वने गुणेन सरुजां स्वेनावनं तन्वते । (१५७।१)

ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate |

157.2१५७.२

तेषाम् एष महान् असीममहिमा वन्यात्मनां वासभूर् वृक्षाणां भणितो भिषग्भिर् असमो यो वृक्षवर्गाख्यया ॥ (१५७।२)

teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā ||

158.1१५८.१

यः काश्मीरकुलोज्ज्वलाम्बुजवनीहंसो ऽपि संसेव्यते नित्योल्लासितनीलकण्ठमनसः प्रीत्याद्यभग्नश्रिया । (१५८।१)

yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā |

158.2१५८.२

तस्यायं नवमः कृतौ नरहरेर् वर्गः प्रभद्रादिको भद्रात्मन्य् अभिधानशेखरशिखाचूडामणौ संस्थितः ॥ (१५८।२)

tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RājNigh, 11

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit