RājNigh, 25, 1
Select a line for its word-by-word analysis.
श्रीश्च लक्ष्मीफले ज्ञेया त्व् असनो बीजवृक्षकः । (१।१)
śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ |
शालूकं पद्मकन्दे स्यात् सदापुष्पो रविद्रुमे ॥ (१।२)
śālūkaṃ padmakande syāt sadāpuṣpo ravidrume ||
दन्तफलस्तु पिप्पल्यां कसेरुर् भद्रमुस्तके ॥ (२।२)
dantaphalastu pippalyāṃ kaserur bhadramustake ||
ब्रह्मघ्नी तु कुमारी स्यादङ्कोले गूढमल्लिका । (४।१)
brahmaghnī tu kumārī syādaṅkole gūḍhamallikā |
बृहत्त्वक् सप्तपर्णे स्यात्काम्भोजी वाकुची तथा ॥ (५।२)
bṛhattvak saptaparṇe syātkāmbhojī vākucī tathā ||
वैकुण्ठम् अर्जके प्राहुर्भूधात्र्यां तु तमालिनी ॥ (६।२)
vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī ||
सूक्ष्मपत्त्री शतावर्यां क्षीरपर्ण्यर्कसंज्ञके ॥ (७।२)
sūkṣmapattrī śatāvaryāṃ kṣīraparṇyarkasaṃjñake ||
शौण्डी तु पिप्पली ज्ञेया कस्तूर्यां मदनी तथा । (८।१)
śauṇḍī tu pippalī jñeyā kastūryāṃ madanī tathā |
ब्रह्मपर्णी पृश्निपर्ण्यां चित्रपर्णी च सा स्मृता ॥ (८।२)
brahmaparṇī pṛśniparṇyāṃ citraparṇī ca sā smṛtā ||
छत्त्रपर्णः सप्तपर्णे पीलुपर्णी तु तुण्डिका । (९।१)
chattraparṇaḥ saptaparṇe pīluparṇī tu tuṇḍikā |
शाकश्रेष्ठस्तु वृन्ताके शङ्गरः शमिर् उच्यते ॥ (९।२)
śākaśreṣṭhastu vṛntāke śaṅgaraḥ śamir ucyate ||
गोरटः स्याद्विट्खदिरे तुण्डिश् चारण्यबिम्बिका । (१०।१)
goraṭaḥ syādviṭkhadire tuṇḍiś cāraṇyabimbikā |
विष्णुगुप्तं तु चाणक्यमूले ऽनन्ता यवासके ॥ (१०।२)
viṣṇuguptaṃ tu cāṇakyamūle 'nantā yavāsake ||
कपिकच्छुर् आत्मगुप्ता वातपोथस्तु किंशुके । (११।१)
kapikacchur ātmaguptā vātapothastu kiṃśuke |
पीता तु रजनी ज्ञेया बोधिवृक्षस्तु पिप्पलः ॥ (११।२)
pītā tu rajanī jñeyā bodhivṛkṣastu pippalaḥ ||
उशीरे समगन्धिः स्याद्धिङ्गुले चूर्णपारदः । (१२।१)
uśīre samagandhiḥ syāddhiṅgule cūrṇapāradaḥ |
हिङ्गाव् अगूढगन्धः स्याद्गोदन्ते विस्रगन्धिके ॥ (१२।२)
hiṅgāv agūḍhagandhaḥ syādgodante visragandhike ||
रोचनी नारिकेले च भूधात्र्यां चारुहा स्मृता । (१४।१)
rocanī nārikele ca bhūdhātryāṃ cāruhā smṛtā |
प्रियां प्रियङ्गुके प्राहुः खराह्वा चाजमोदके ॥ (१४।२)
priyāṃ priyaṅguke prāhuḥ kharāhvā cājamodake ||
तगरं दण्डहस्ती स्याद्रसोनो लशुने स्मृतः । (१५।१)
tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ |
तपस्विनी जटामांस्यां मेघपुष्ये ऽजशृङ्गिका ॥ (१५।२)
tapasvinī jaṭāmāṃsyāṃ meghapuṣye 'jaśṛṅgikā ||
ज्ञेयं मातुलपुष्पं तु धुस्तूरे चोरके रिपुः । (१६।१)
jñeyaṃ mātulapuṣpaṃ tu dhustūre corake ripuḥ |
शष्पं बालतृणं प्रोक्तं शैलेयं चाश्मपुष्पके ॥ (१६।२)
śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake ||
श्रीपुष्पं तु लवंगे स्याद्बालपुष्पी तु यूथिका । (१७।१)
śrīpuṣpaṃ tu lavaṃge syādbālapuṣpī tu yūthikā |
स्थूलपुष्पं तु झेण्डूके चित्रके दारुणः स्मृतः ॥ (१७।२)
sthūlapuṣpaṃ tu jheṇḍūke citrake dāruṇaḥ smṛtaḥ ||
अथ स्याद्विषपुष्पं तु पुष्पं श्यामदलान्वितम् । (१८।१)
atha syādviṣapuṣpaṃ tu puṣpaṃ śyāmadalānvitam |
बलभद्रः कदम्बोऽन्यः शाखोटे भूतवृक्षकः ॥ (१८।२)
balabhadraḥ kadambo'nyaḥ śākhoṭe bhūtavṛkṣakaḥ ||
रामा तमालपत्त्रे स्याद्भूर्जे चर्मदलो मतः । (१९।१)
rāmā tamālapattre syādbhūrje carmadalo mataḥ |
आत्मशल्या शतावर्यां पिक्यां कलभवल्लभा ॥ (१९।२)
ātmaśalyā śatāvaryāṃ pikyāṃ kalabhavallabhā ||
कण्टकार्यां तु श्वेतायां ज्ञेया तु कपटेश्वरी ॥ (२०।२)
kaṇṭakāryāṃ tu śvetāyāṃ jñeyā tu kapaṭeśvarī ||
पाण्डुफलं पटोले स्याच्छालिपर्ण्यां स्थिरा मता । (२१।१)
pāṇḍuphalaṃ paṭole syācchāliparṇyāṃ sthirā matā |
गायत्री खदिरे प्रोक्ता स्याद् एर्वारुस्तु कर्कटी ॥ (२१।२)
gāyatrī khadire proktā syād ervārustu karkaṭī ||
नीवारे ऽरण्यशालिः स्यात्पार्वत्यां गजपिप्पली । (२२।१)
nīvāre 'raṇyaśāliḥ syātpārvatyāṃ gajapippalī |
स्पृक्कायां देवपुत्री स्यादङ्कोले देवदारु च ॥ (२२।२)
spṛkkāyāṃ devaputrī syādaṅkole devadāru ca ||
रीठां प्रकीर्यके प्राहुर् दन्त्यां केशरुहा स्मृता । (२३।१)
rīṭhāṃ prakīryake prāhur dantyāṃ keśaruhā smṛtā |
आम्रस्तु सहकारे स्यात् ज्ञेयस्ताले द्रुमेश्वरः ॥ (२३।२)
āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ ||
दुष्पुत्रश्चोरके प्रोक्तो माडे चैव वितानकः । (२४।१)
duṣputraścorake prokto māḍe caiva vitānakaḥ |
माचिषा मण्डके प्रोक्ता मार्जारी मृगनाभिजा ॥ (२४।२)
māciṣā maṇḍake proktā mārjārī mṛganābhijā ||
तिन्तिडीके तु बीजाम्लः कदल्यां तु सकृत्फला । (२५।१)
tintiḍīke tu bījāmlaḥ kadalyāṃ tu sakṛtphalā |
जर्तिलश् चारण्यतिले तार्क्ष्यशैलं रसाञ्जने ॥ (२५।२)
jartilaś cāraṇyatile tārkṣyaśailaṃ rasāñjane ||
विभीतके कलिन्दः स्याच्छालिर्ज्ञेया तु पाटला । (२६।१)
vibhītake kalindaḥ syācchālirjñeyā tu pāṭalā |
रङ्गमाता तु लाक्षायाम् अग्निज्वाला तु धातकी ॥ (२६।२)
raṅgamātā tu lākṣāyām agnijvālā tu dhātakī ||
तिनिशे स्याद्भस्मगर्भा मधूल्यां मधुकर्कटी । (२७।१)
tiniśe syādbhasmagarbhā madhūlyāṃ madhukarkaṭī |
सितगुञ्जा काकपीलौ चन्द्रायां तु गुडूचिका ॥ (२७।२)
sitaguñjā kākapīlau candrāyāṃ tu guḍūcikā ||
निष्पावे तु पलङ्कः स्यात्कलशी पृश्निपर्णिका ॥ (२८।२)
niṣpāve tu palaṅkaḥ syātkalaśī pṛśniparṇikā ||
राजान्ने दीर्घशूकः स्याज्जरणः कृष्णजीरके । (२९।१)
rājānne dīrghaśūkaḥ syājjaraṇaḥ kṛṣṇajīrake |
पिङ्गा चैव हरिद्रायां श्वेतशूके यवः स्मृतः ॥ (२९।२)
piṅgā caiva haridrāyāṃ śvetaśūke yavaḥ smṛtaḥ ||
श्यामाके तु त्रिबीजः स्यादाढक्यां तुवरी स्मृता । (३०।१)
śyāmāke tu tribījaḥ syādāḍhakyāṃ tuvarī smṛtā |
गोधूमेऽथ मृदुः प्रोक्तः करला त्रिपुटा तथा ॥ (३०।२)
godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā ||
सूपश्रेष्ठो हरिन्मुद्गे राजान्ने ह्रस्वतण्डुलः । (३१।१)
sūpaśreṣṭho harinmudge rājānne hrasvataṇḍulaḥ |
मकुष्टो वनमुद्गे स्यान्मकुष्ठे च कृमीलकः ॥ (३१।२)
makuṣṭo vanamudge syānmakuṣṭhe ca kṛmīlakaḥ ||
कृष्णः काश्मीरवृक्षे स्यात् विषतिन्दुर् विषद्रुमे । (३२।१)
kṛṣṇaḥ kāśmīravṛkṣe syāt viṣatindur viṣadrume |
पलाशे पत्त्रकः प्रोक्तो न्यग्रोधो रोहिणः स्मृतः ॥ (३२।२)
palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ ||
शेफाली सिन्धुवारे च मत्स्याक्षे हिलमोचिका । (३४।१)
śephālī sindhuvāre ca matsyākṣe hilamocikā |
वास्तुके श्वेतचिल्ली स्यात् वेल्लिका स्यादुपोदकी ॥ (३४।२)
vāstuke śvetacillī syāt vellikā syādupodakī ||
मकरन्दः पुष्परसे जात्यां तु सुमना स्मृता ॥ (३५।२)
makarandaḥ puṣparase jātyāṃ tu sumanā smṛtā ||
आम्रातके पीतनकः क्षौद्रे पुष्पासवः स्मृतः । (३६।१)
āmrātake pītanakaḥ kṣaudre puṣpāsavaḥ smṛtaḥ |
मृदुः कन्या तु सम्प्रोक्ता जीवा स्याज्जीवके तथा ॥ (३६।२)
mṛduḥ kanyā tu samproktā jīvā syājjīvake tathā ||
छिन्नायां तु गुडूची स्यान्नारायण्यां शतावरी । (३७।१)
chinnāyāṃ tu guḍūcī syānnārāyaṇyāṃ śatāvarī |
सर्जे तु बस्तकर्णी च शलाटुर् बिल्वके तथा ॥ (३७।२)
sarje tu bastakarṇī ca śalāṭur bilvake tathā ||
सर्जान्तरे चाश्वकर्णो गोकर्णी समधौ रसे । (३८।१)
sarjāntare cāśvakarṇo gokarṇī samadhau rase |
कृष्णं नीलाञ्जने प्राहुराखुकर्णी तु शम्बरी ॥ (३८।२)
kṛṣṇaṃ nīlāñjane prāhurākhukarṇī tu śambarī ||
दुर्गा तु श्यामयक्षी स्याद्भूतो मुस्ताथ दुर्ग्रहः । (३९।१)
durgā tu śyāmayakṣī syādbhūto mustātha durgrahaḥ |
अपामार्गो ऽथ रक्ता तु मञ्जिष्ठायां शटस्तथा ॥ (३९।२)
apāmārgo 'tha raktā tu mañjiṣṭhāyāṃ śaṭastathā ||
धुस्तूरे ब्रह्मजा ब्राह्मी गन्धर्वः कोकिले स्मृतः । (४०।१)
dhustūre brahmajā brāhmī gandharvaḥ kokile smṛtaḥ |
सरटी तु दुरारोहा बाहुल्यां तर्वटः स्मृतः ॥ (४०।२)
saraṭī tu durārohā bāhulyāṃ tarvaṭaḥ smṛtaḥ ||
सर्षपं तु दुराधर्षो ह्रीवेरं बालके तथा । (४१।१)
sarṣapaṃ tu durādharṣo hrīveraṃ bālake tathā |
ब्रह्मपुत्री तु भार्गी स्याद्धस्तिपर्णी तु कर्कटी । (४२।१)
brahmaputrī tu bhārgī syāddhastiparṇī tu karkaṭī |
तुलसी बहुमञ्जर्यां कटभ्यां गर्दभी स्मृता ॥ (४२।२)
tulasī bahumañjaryāṃ kaṭabhyāṃ gardabhī smṛtā ||
कच्छुघ्नो हवुषायां च शाल्मली च यमद्रुमे । (४३।१)
kacchughno havuṣāyāṃ ca śālmalī ca yamadrume |
सूक्ष्मैला चैव कोरङ्ग्यां गन्धाढ्यां धूम्रपत्त्रिका ॥ (४३।२)
sūkṣmailā caiva koraṅgyāṃ gandhāḍhyāṃ dhūmrapattrikā ||
शैलजा गजपिप्पल्यां क्षीरिणी तु कुटुम्बिनी । (४४।१)
śailajā gajapippalyāṃ kṣīriṇī tu kuṭumbinī |
देवबलायां त्रायन्ती कटी च खदिरे स्मृता ॥ (४४।२)
devabalāyāṃ trāyantī kaṭī ca khadire smṛtā ||
इन्दीवरा करम्भायां कन्दे चेन्दीवरं स्मृतम् । (४५।१)
indīvarā karambhāyāṃ kande cendīvaraṃ smṛtam |
पुष्पान्तरे राजकन्या पार्थिवे तगरं तथा ॥ (४५।२)
puṣpāntare rājakanyā pārthive tagaraṃ tathā ||
सुवर्णे काञ्चनं ज्ञेयं हेमदुग्धा तु काञ्चनी ॥ (४६।२)
suvarṇe kāñcanaṃ jñeyaṃ hemadugdhā tu kāñcanī ||
हिमं कर्पूरके प्राहुर् गोशीर्षं चन्दनं स्मृतम् ॥ (४७।२)
himaṃ karpūrake prāhur gośīrṣaṃ candanaṃ smṛtam ||
ब्रह्मदारुः स्मृतः फञ्ज्यां पण्यन्धा पणधा स्मृता । (४८।१)
brahmadāruḥ smṛtaḥ phañjyāṃ paṇyandhā paṇadhā smṛtā |
वत्सादनी गुडूच्यां च सोमवल्ल्यन्त्रवल्लिका ॥ (४८।२)
vatsādanī guḍūcyāṃ ca somavallyantravallikā ||
नद्याम्रे च समष्ठिलोऽथ रजनी स्यात् कालमेष्यां बुधैर् दुग्धार्हस् तिलके पलाण्डुरिति च स्याद्दीपने चोक्ततः । (४९।१)
nadyāmre ca samaṣṭhilo'tha rajanī syāt kālameṣyāṃ budhair dugdhārhas tilake palāṇḍuriti ca syāddīpane coktataḥ |
मोचा हस्तिविषाणके च कथिता भार्ग्यां तु पद्मा स्मृता निम्बे शीर्णदलस्तथात्र कथितः स्याद्धान्यराजो यवे ॥ (४९।२)
mocā hastiviṣāṇake ca kathitā bhārgyāṃ tu padmā smṛtā nimbe śīrṇadalastathātra kathitaḥ syāddhānyarājo yave ||
Data courtesy of The Digital Corpus of Sanskrit.