राजनिघण्टुRājanighaṇṭu

RājNigh, 19

19 of 35 · 143 verses

Select a line for its word-by-word analysis.

1.1१.१

मांसं तु पिशितं क्रव्यं पलं तु रस्यमस्रजम् । (१।१)

māṃsaṃ tu piśitaṃ kravyaṃ palaṃ tu rasyamasrajam |

1.2१.२

पललं जाङ्गलं कीरम् आमिषं च तद् उच्यते ॥ (१।२)

palalaṃ jāṅgalaṃ kīram āmiṣaṃ ca tad ucyate ||

2.1२.१

सद्योहतस्य मांसं श्रेष्ठं हरिणादिकस्य यूनस् तु । (२।१)

sadyohatasya māṃsaṃ śreṣṭhaṃ hariṇādikasya yūnas tu |

2.2२.२

ज्ञेयं सुगन्धि पथ्यं जाङ्गलदेशस्थितस्य पथ्यतमम् ॥ (२।२)

jñeyaṃ sugandhi pathyaṃ jāṅgaladeśasthitasya pathyatamam ||

3.1३.१

बालस्य वृद्धस्य कृशस्य रोगिणो विषाग्निदग्धस्य मृतस्य चाम्बुषु । (३।१)

bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu |

3.2३.२

त्याज्यं मृगादेः पिशितं तु तस्य विगन्धि शुष्कं च चिरस्थितं च ॥ (३।२)

tyājyaṃ mṛgādeḥ piśitaṃ tu tasya vigandhi śuṣkaṃ ca cirasthitaṃ ca ||

4.1४.१

सर्वं मांसं वातविध्वंसि वृष्यं बल्यं रुच्यं बृंहणं तच्च मांसम् । (४।१)

sarvaṃ māṃsaṃ vātavidhvaṃsi vṛṣyaṃ balyaṃ rucyaṃ bṛṃhaṇaṃ tacca māṃsam |

4.2४.२

देशस्थानाच्चात्मसंस्थं स्वभावैर्भूयो नानारूपतां याति नूनम् ॥ (४।२)

deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam ||

5.1५.१

तत्रानूपीयमांसं गवयरुरुमृगक्रोडगण्डादिकानां स्निग्धं पथ्यं च बल्यं लघु शशशिखराद्युद्भवं जाङ्गलीयम् । (५।१)

tatrānūpīyamāṃsaṃ gavayarurumṛgakroḍagaṇḍādikānāṃ snigdhaṃ pathyaṃ ca balyaṃ laghu śaśaśikharādyudbhavaṃ jāṅgalīyam |

5.2५.२

पुष्टिं दीप्तिं च दत्ते रुचिकृदथ लघु स्वादु साधारणीयं वृष्यं बल्यं च रुच्यं रुरुहरिणमृगक्रोडसारङ्गकाणाम् ॥ (५।२)

puṣṭiṃ dīptiṃ ca datte rucikṛdatha laghu svādu sādhāraṇīyaṃ vṛṣyaṃ balyaṃ ca rucyaṃ ruruhariṇamṛgakroḍasāraṅgakāṇām ||

6.1६.१

मांसं सारसहंसरात्रिविरहिक्रौञ्चादिजं शीतलं स्निग्धं वातकफापहं गुरु ततः स्वादु त्रिदोषापहम् । (६।१)

māṃsaṃ sārasahaṃsarātrivirahikrauñcādijaṃ śītalaṃ snigdhaṃ vātakaphāpahaṃ guru tataḥ svādu tridoṣāpaham |

6.2६.२

पथ्यं लावकतित्तिरादिजनितं वृष्यं लघु स्यात् परं चक्रक्रौञ्चमयूरतित्तिरभवं देशत्रयादीदृशम् ॥ (६।२)

pathyaṃ lāvakatittirādijanitaṃ vṛṣyaṃ laghu syāt paraṃ cakrakrauñcamayūratittirabhavaṃ deśatrayādīdṛśam ||

7.1७.१

द्रुतो विलम्बितश् चैव प्लवश् चेति गतैस् त्रयः । (७।१)

druto vilambitaś caiva plavaś ceti gatais trayaḥ |

7.2७.२

स्थानतो ऽपि त्रयस् ते तु बिलस्थलजलाश्रयाः ॥ (७।२)

sthānato 'pi trayas te tu bilasthalajalāśrayāḥ ||

8.1८.१

पुनस्ते तु प्रसहनाः प्रतुदा विष्किरा इति । (८।१)

punaste tu prasahanāḥ pratudā viṣkirā iti |

8.2८.२

स्वभावतस्त्रयः प्रोक्ताः क्रमशो मृगपक्षिणः ॥ (८।२)

svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ ||

9.1९.१

अथैषां क्रमशो लक्ष्मगुणान् वक्ष्यामि वर्गशः । (९।१)

athaiṣāṃ kramaśo lakṣmaguṇān vakṣyāmi vargaśaḥ |

9.2९.२

एवं नवविधाः प्रोक्तास् त एव मृगपक्षिणः ॥ (९।२)

evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ ||

10.1१०.१

अजशशहरिणादयः स्वयं ये द्रुतगमना द्रुतसंज्ञकाः स्मृतास्ते । (१०।१)

ajaśaśahariṇādayaḥ svayaṃ ye drutagamanā drutasaṃjñakāḥ smṛtāste |

10.2१०.२

तदुदितपललं च पथ्यबल्यं रचयति वीर्यमदप्रदं लघु स्यात् ॥ (१०।२)

taduditapalalaṃ ca pathyabalyaṃ racayati vīryamadapradaṃ laghu syāt ||

11.1११.१

गजखड्गमुखा महामृगा निजगत्यैव विलम्बिताः स्मृतास्ते । (११।१)

gajakhaḍgamukhā mahāmṛgā nijagatyaiva vilambitāḥ smṛtāste |

11.2११.२

बलकृत्पिशितं च पिच्छलं कफकासानिलमान्द्यदं गुरु स्यात् ॥ (११।२)

balakṛtpiśitaṃ ca picchalaṃ kaphakāsānilamāndyadaṃ guru syāt ||

12.1१२.१

सारसहंसबलाकाश् चक्रक्रौञ्चादयो जले प्लवनात् । (१२।१)

sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt |

12.2१२.२

प्लवसंज्ञाः कथितास्ते तन्मांसं गुरूष्णं च बलदायि ॥ (१२।२)

plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi ||

13.1१३.१

अहिनकुलशल्यगोधामूषकमुख्या बिलेशयाः कथिताः । (१३।१)

ahinakulaśalyagodhāmūṣakamukhyā bileśayāḥ kathitāḥ |

13.2१३.२

श्वासानिलकासहरं तन्मांसं पित्तदाहकरम् ॥ (१३।२)

śvāsānilakāsaharaṃ tanmāṃsaṃ pittadāhakaram ||

14.1१४.१

क्रोडरुरुकुरङ्गाद्या विविधा ये मृगादयः । (१४।१)

kroḍarurukuraṅgādyā vividhā ye mṛgādayaḥ |

14.2१४.२

स्थलेशयास्तु ते सर्वे मांसं सर्वगुणावहम् ॥ (१४।२)

sthaleśayāstu te sarve māṃsaṃ sarvaguṇāvaham ||

15.1१५.१

झषमकरनक्रकर्कटकूर्मप्रमुखा जलेशयाः कथिताः । (१५।१)

jhaṣamakaranakrakarkaṭakūrmapramukhā jaleśayāḥ kathitāḥ |

15.2१५.२

मांसं तेषां तु सरं वृष्यं गुरु शिशिरबलसमीरकरम् ॥ (१५।२)

māṃsaṃ teṣāṃ tu saraṃ vṛṣyaṃ guru śiśirabalasamīrakaram ||

16.1१६.१

शार्दूलसिंहशरभर्क्षतरक्षुमुख्या ये ऽन्ये प्रसह्य विनिहन्त्यभिवर्तयन्ति । (१६।१)

śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti |

16.2१६.२

ते कीर्तिताः प्रसहनाः पललं तदीयम् अर्शःप्रमेहजठरामयजाड्यहारि ॥ (१६।२)

te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri ||

17.1१७.१

भोक्ता निष्कृष्यामिषं स प्रतुदः प्रोक्तो गृध्रश्येनकाकादिको यः । (१७।१)

bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ |

17.2१७.२

मांसं तस्य स्वादु संतर्पणं च स्निग्धं बल्यं पित्तदाहास्रदायि ॥ (१७।२)

māṃsaṃ tasya svādu saṃtarpaṇaṃ ca snigdhaṃ balyaṃ pittadāhāsradāyi ||

18.1१८.१

भक्ष्याश्च कुक्कुटकपोतकतित्तिराद्याः क्षौणीं विलिख्य नखरैः खलु वर्तयन्ति । (१८।१)

bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti |

18.2१८.२

ते विष्किराः प्रकथिताः पिशितं तदीयं वृष्यं कषायमधुरं शिशिरं च रुच्यम् ॥ (१८।२)

te viṣkirāḥ prakathitāḥ piśitaṃ tadīyaṃ vṛṣyaṃ kaṣāyamadhuraṃ śiśiraṃ ca rucyam ||

19.1१९.१

अयमेव गुणो ज्ञेयः पक्षिणां च यथाक्रमम् । (१९।१)

ayameva guṇo jñeyaḥ pakṣiṇāṃ ca yathākramam |

19.2१९.२

सर्वस्थानविशेषेण संख्या च गतिर् उच्यते ॥ (१९।२)

sarvasthānaviśeṣeṇa saṃkhyā ca gatir ucyate ||

20.1२०.१

यत्र स्थिता ये गतितो ऽपि देशादन्यत्र याता मृगपक्षिमुख्याः । (२०।१)

yatra sthitā ye gatito 'pi deśādanyatra yātā mṛgapakṣimukhyāḥ |

20.2२०.२

स्वस्वोचितस्थाननिवर्तनेन मांसे ऽपि तेषां गुणपर्ययाः स्युः ॥ (२०।२)

svasvocitasthānanivartanena māṃse 'pi teṣāṃ guṇaparyayāḥ syuḥ ||

21.0२१.०

मांसं खड्गमृगोत्थं तु बलकृद् बृंहणं गुरु ॥ (२१।०)

māṃsaṃ khaḍgamṛgotthaṃ tu balakṛd bṛṃhaṇaṃ guru ||

22.0२२.०

गवयस्यामिषं बल्यं रुच्यं वृष्यं च बृंहणम् ॥ (२२।०)

gavayasyāmiṣaṃ balyaṃ rucyaṃ vṛṣyaṃ ca bṛṃhaṇam ||

23.0२३.०

रुरुक्रव्यं गुरु स्निग्धं मन्दवह्निबलप्रदम् ॥ (२३।०)

rurukravyaṃ guru snigdhaṃ mandavahnibalapradam ||

24.0२४.०

अपूतं गोभवं क्रव्यं गुरु वातकफप्रदम् ॥ (२४।०)

apūtaṃ gobhavaṃ kravyaṃ guru vātakaphapradam ||

25.0२५.०

वनमहिषामिषं स्याद् ईषल्लघु दीपनं च बलदायि ॥ (२५।०)

vanamahiṣāmiṣaṃ syād īṣallaghu dīpanaṃ ca baladāyi ||

26.0२६.०

ग्रामीणमहिषमांसं स्निग्धं निद्राकरं च पित्तहरम् ॥ (२६।०)

grāmīṇamahiṣamāṃsaṃ snigdhaṃ nidrākaraṃ ca pittaharam ||

27.1२७.१

हस्तिक्रव्यं गुरु स्निग्धं वातलं श्लेष्मकारकम् । (२७।१)

hastikravyaṃ guru snigdhaṃ vātalaṃ śleṣmakārakam |

27.2२७.२

बहुपुष्टिप्रदं चैव दुर्जरं मन्दवह्निदम् ॥ (२७।२)

bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam ||

28.1२८.१

अश्वमांसं भवेद् उष्णं वातघ्नं बलदं लघु । (२८।१)

aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu |

28.2२८.२

पित्तदाहप्रदं नृणां तद् एतच्चातिसेवनात् ॥ (२८।२)

pittadāhapradaṃ nṛṇāṃ tad etaccātisevanāt ||

29.1२९.१

उष्ट्रमांसं तु शिशिरं त्रिदोषशमनं लघु । (२९।१)

uṣṭramāṃsaṃ tu śiśiraṃ tridoṣaśamanaṃ laghu |

29.2२९.२

बलपुष्टिप्रदं रुच्यं मधुरं वीर्यवर्धनम् ॥ (२९।२)

balapuṣṭipradaṃ rucyaṃ madhuraṃ vīryavardhanam ||

30.1३०.१

गर्दभप्रभवं मांसं किंचिद् गुरु बलप्रदम् । (३०।१)

gardabhaprabhavaṃ māṃsaṃ kiṃcid guru balapradam |

30.2३०.२

रुच्यं तु वन्यजं शैत्यं बहुवीर्यबलप्रदम् ॥ (३०।२)

rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam ||

31.0३१.०

एणस्य मांसं लघुशीतवृष्यं त्रिदोषहृत् षड्रसजं च रुच्यम् ॥ (३१।०)

eṇasya māṃsaṃ laghuśītavṛṣyaṃ tridoṣahṛt ṣaḍrasajaṃ ca rucyam ||

32.0३२.०

कुरङ्गमांसं मधुरं च तद्वत् कफापहं मांसदपित्तनाशि ॥ (३२।०)

kuraṅgamāṃsaṃ madhuraṃ ca tadvat kaphāpahaṃ māṃsadapittanāśi ||

33.0३३.०

सारङ्गं जाङ्गलं स्निग्धं मधुरं लघु वृष्यकम् ॥ (३३।०)

sāraṅgaṃ jāṅgalaṃ snigdhaṃ madhuraṃ laghu vṛṣyakam ||

34.0३४.०

शिखरीसम्भवं मांसं लघु हृद्यं बलप्रदम् ॥ (३४।०)

śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam ||

35.0३५.०

वराहमांसं गुरु वातहारि वृष्यं बलस्वेदकरं वनोत्थम् ॥ (३५।०)

varāhamāṃsaṃ guru vātahāri vṛṣyaṃ balasvedakaraṃ vanottham ||

36.0३६.०

तस्माद्गुरु ग्रामवराहमांसं तनोति मेदो बलवीर्यवृद्धिम् ॥ (३६।०)

tasmādguru grāmavarāhamāṃsaṃ tanoti medo balavīryavṛddhim ||

37.1३७.१

शरशृङ्गस्य मांसं तु गुरु स्निग्धं कफप्रदम् । (३७।१)

śaraśṛṅgasya māṃsaṃ tu guru snigdhaṃ kaphapradam |

37.2३७.२

बल्यं वृष्यकरं पुष्टिकिंचिद्वातकरं परम् ॥ (३७।२)

balyaṃ vṛṣyakaraṃ puṣṭikiṃcidvātakaraṃ param ||

38.1३८.१

छागमांसं लघु स्निग्धं नातिशीतं रुचिप्रदम् । (३८।१)

chāgamāṃsaṃ laghu snigdhaṃ nātiśītaṃ rucipradam |

38.2३८.२

निर्दोषं वातपित्तघ्नं मधुरं बलपुष्टिदम् ॥ (३८।२)

nirdoṣaṃ vātapittaghnaṃ madhuraṃ balapuṣṭidam ||

39.1३९.१

छागपोतभवं मांसं लघु शीतं प्रमेहजित् । (३९।१)

chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit |

39.2३९.२

ईषल्लघु बलं दत्ते तद् एव तृणचारिणः ॥ (३९।२)

īṣallaghu balaṃ datte tad eva tṛṇacāriṇaḥ ||

40.0४०.०

औरभ्रं मधुरं शीतं गुरु विष्टम्भि बृंहणम् ॥ (४०।०)

aurabhraṃ madhuraṃ śītaṃ guru viṣṭambhi bṛṃhaṇam ||

41.0४१.०

आविकं मधुरं मांसं किंचिद् गुरु बलप्रदम् ॥ (४१।०)

āvikaṃ madhuraṃ māṃsaṃ kiṃcid guru balapradam ||

42.0४२.०

शल्यमांसं गुरु स्निग्धं दीपनं श्वासकासजित् ॥ (४२।०)

śalyamāṃsaṃ guru snigdhaṃ dīpanaṃ śvāsakāsajit ||

43.0४३.०

पिच्छिलं नाकुलं मांसं वातघ्नं श्लेष्मपित्तकृत् ॥ (४३।०)

picchilaṃ nākulaṃ māṃsaṃ vātaghnaṃ śleṣmapittakṛt ||

44.0४४.०

गोधामांसं तु वातघ्नं श्वासकासहरं च तत् ॥ (४४।०)

godhāmāṃsaṃ tu vātaghnaṃ śvāsakāsaharaṃ ca tat ||

45.0४५.०

शशमांसं त्रिदोषघ्नं दीपनं श्वासकासजित् ॥ (४५।०)

śaśamāṃsaṃ tridoṣaghnaṃ dīpanaṃ śvāsakāsajit ||

46.1४६.१

अन्ये बिलेशया ये स्युः कोकडोन्दुरुकादयः । (४६।१)

anye bileśayā ye syuḥ kokaḍondurukādayaḥ |

46.2४६.२

मांसं च गर्हितं तेषां मान्द्यं गौरवदुर्जरम् ॥ (४६।२)

māṃsaṃ ca garhitaṃ teṣāṃ māndyaṃ gauravadurjaram ||

47.0४७.०

आरण्यकुक्कुटक्रव्यं हृद्यं श्लेष्महरं लघु ॥ (४७।०)

āraṇyakukkuṭakravyaṃ hṛdyaṃ śleṣmaharaṃ laghu ||

48.0४८.०

ग्राम्यकुक्कुटजं स्निग्धं वातहृद् दीपनं गुरु ॥ (४८।०)

grāmyakukkuṭajaṃ snigdhaṃ vātahṛd dīpanaṃ guru ||

49.0४९.०

हारीतपललं स्वादु कफपित्तास्रदोषजित् ॥ (४९।०)

hārītapalalaṃ svādu kaphapittāsradoṣajit ||

50.0५०.०

वर्धनं वीर्यबलयोस्तद्वदेव कपोतजम् ॥ (५०।०)

vardhanaṃ vīryabalayostadvadeva kapotajam ||

51.1५१.१

पारावतपलं स्निग्धं मधुरं गुरु शीतलम् । (५१।१)

pārāvatapalaṃ snigdhaṃ madhuraṃ guru śītalam |

51.2५१.२

पित्तास्रदाहनुद्बल्यं तथान्यद् वीर्यवृद्धिदम् ॥ (५१।२)

pittāsradāhanudbalyaṃ tathānyad vīryavṛddhidam ||

52.1५२.१

स्निग्धं तित्तिरिजं मांसं लघु वीर्यबलप्रदम् । (५२।१)

snigdhaṃ tittirijaṃ māṃsaṃ laghu vīryabalapradam |

52.2५२.२

कषायं मधुरं शीतं त्रिदोषशमनं परम् ॥ (५२।२)

kaṣāyaṃ madhuraṃ śītaṃ tridoṣaśamanaṃ param ||

53.0५३.०

तद्वच्च लावकं मांसं पथ्यं ग्राहि लघु स्मृतम् ॥ (५३।०)

tadvacca lāvakaṃ māṃsaṃ pathyaṃ grāhi laghu smṛtam ||

54.0५४.०

तद्वच्च वर्तकमांसं निर्दोषं वीर्यपुष्टिदम् ॥ (५४।०)

tadvacca vartakamāṃsaṃ nirdoṣaṃ vīryapuṣṭidam ||

55.0५५.०

चटकायाः पलं शीतं लघु वृष्यं बलप्रदम् ॥ (५५।०)

caṭakāyāḥ palaṃ śītaṃ laghu vṛṣyaṃ balapradam ||

56.0५६.०

तद्वच्चारण्यचटकक्रव्यं लघु च पथ्यदम् ॥ (५६।०)

tadvaccāraṇyacaṭakakravyaṃ laghu ca pathyadam ||

57.0५७.०

चटकाच्छीतलं रुच्यं वृष्यं कापिञ्जलामिषम् ॥ (५७।०)

caṭakācchītalaṃ rucyaṃ vṛṣyaṃ kāpiñjalāmiṣam ||

58.0५८.०

तद्वच्चकोरजं मांसं वृष्यं च बलपुष्टिदम् ॥ (५८।०)

tadvaccakorajaṃ māṃsaṃ vṛṣyaṃ ca balapuṣṭidam ||

59.1५९.१

क्रव्यं तु चक्रवाकस्य लघु स्निग्धं बलप्रदम् । (५९।१)

kravyaṃ tu cakravākasya laghu snigdhaṃ balapradam |

59.2५९.२

वह्निकृत् सर्वशूलघ्नम् उष्णं वातामयापहम् ॥ (५९।२)

vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham ||

60.1६०.१

सारसस्य तु मांसं च मधुराम्लकषायकम् । (६०।१)

sārasasya tu māṃsaṃ ca madhurāmlakaṣāyakam |

60.2६०.२

महातीसारपित्तघ्नं ग्रहण्यर्शोरुजापहम् ॥ (६०।२)

mahātīsārapittaghnaṃ grahaṇyarśorujāpaham ||

61.0६१.०

स्निग्धहिमं गुरु वृष्यं मांसं जलपक्षिणां तु वातहरम् ॥ (६१।०)

snigdhahimaṃ guru vṛṣyaṃ māṃsaṃ jalapakṣiṇāṃ tu vātaharam ||

62.0६२.०

तेष्वपि च हंसमांसं वृष्यतमं तिमिरहरणं च ॥ (६२।०)

teṣvapi ca haṃsamāṃsaṃ vṛṣyatamaṃ timiraharaṇaṃ ca ||

63.1६३.१

अन्ये बकबलाकाद्या गुरवो मांसभक्षणात् । (६३।१)

anye bakabalākādyā guravo māṃsabhakṣaṇāt |

63.2६३.२

अनुक्तं तु मृगादीनां मांसं ग्राह्यं हितादिषु ॥ (६३।२)

anuktaṃ tu mṛgādīnāṃ māṃsaṃ grāhyaṃ hitādiṣu ||

64.1६४.१

मत्स्याः स्निग्धोष्णगुरवो वातघ्ना रक्तपित्तदाः । (६४।१)

matsyāḥ snigdhoṣṇaguravo vātaghnā raktapittadāḥ |

64.2६४.२

तत्र कांश्चिदपि ब्रूमो विशेषगुणलक्षणान् ॥ (६४।२)

tatra kāṃścidapi brūmo viśeṣaguṇalakṣaṇān ||

65.1६५.१

रोहितो गर्गरो भीरुर् बालको बर्बरस्तथा । (६५।१)

rohito gargaro bhīrur bālako barbarastathā |

65.2६५.२

छागलो रक्तमत्स्यो ऽथ महिषश् चाविलस् तथा ॥ (६५।२)

chāgalo raktamatsyo 'tha mahiṣaś cāvilas tathā ||

66.1६६.१

वातूको ऽलोमशा चापि ज्ञेया कर्णवशादयः । (६६।१)

vātūko 'lomaśā cāpi jñeyā karṇavaśādayaḥ |

66.2६६.२

लक्ष्यलक्षणवीर्यादीन् कथयामि यथाक्रमम् ॥ (६६।२)

lakṣyalakṣaṇavīryādīn kathayāmi yathākramam ||

67.1६७.१

कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ रोहितो वृत्तवक्त्रः । (६७।१)

kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ |

67.2६७.२

कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमाप्नोति वीर्यम् ॥ (६७।२)

koṣṇaṃ balyaṃ rohitasyāpi māṃsaṃ vātaṃ hanti snigdhamāpnoti vīryam ||

68.1६८.१

यः पीतवर्णो ऽपि च पिच्छिलाङ्गः पृष्ठे तु रेखाबहुलः सशल्कः । (६८।१)

yaḥ pītavarṇo 'pi ca picchilāṅgaḥ pṛṣṭhe tu rekhābahulaḥ saśalkaḥ |

68.2६८.२

स गर्गरो बर्बरनादरूक्षो जडश् च शीतः कफवातदायी ॥ (६८।२)

sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī ||

69.1६९.१

पृष्ठे पक्षौ द्वौ गले पुच्छकं चेत् सर्पाभः स्यात् फूत्कृतो वृत्ततुण्डः । (६९।१)

pṛṣṭhe pakṣau dvau gale pucchakaṃ cet sarpābhaḥ syāt phūtkṛto vṛttatuṇḍaḥ |

69.2६९.२

ज्ञेयः शल्की मत्स्यको भीरुरुक्तः स्निग्धो वृष्यो दुर्जरो वातकारी ॥ (६९।२)

jñeyaḥ śalkī matsyako bhīruruktaḥ snigdho vṛṣyo durjaro vātakārī ||

70.1७०.१

नातिस्थूलो वृत्तवक्त्रोऽपि शस्तो धत्ते दन्तान् श्मश्रुलो दीर्घकायः । (७०।१)

nātisthūlo vṛttavaktro'pi śasto dhatte dantān śmaśrulo dīrghakāyaḥ |

70.2७०.२

संध्यायां वा रात्रिशेषे च वर्यः प्रोक्तो बालः पथ्यबल्यः सुवृष्यः ॥ (७०।२)

saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ ||

71.1७१.१

पृष्ठे कुक्षौ कण्टकी दीर्घतुण्डः सर्पाभो यः सो ऽप्ययं बर्बराख्यः । (७१।१)

pṛṣṭhe kukṣau kaṇṭakī dīrghatuṇḍaḥ sarpābho yaḥ so 'pyayaṃ barbarākhyaḥ |

71.2७१.२

वाताटोपं सो ऽपि दत्ते जडश् च बल्यः स्निग्धो दुर्जरो वीर्यकारी ॥ (७१।२)

vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī ||

72.1७२.१

श्वेतं सुकायं समदीर्घवृत्तं निःशल्ककं छागलकं वदन्ति । (७२।१)

śvetaṃ sukāyaṃ samadīrghavṛttaṃ niḥśalkakaṃ chāgalakaṃ vadanti |

72.2७२.२

नले द्विकण्टः किल तस्य पृष्ठे कण्टः सुपथ्यो रुचिदो बलप्रदः ॥ (७२।२)

nale dvikaṇṭaḥ kila tasya pṛṣṭhe kaṇṭaḥ supathyo rucido balapradaḥ ||

73.1७३.१

यो रक्ताङ्गो नातिदीर्घो न चाल्पो नातिस्थूलो रक्तमत्स्यः स चोक्तः । (७३।१)

yo raktāṅgo nātidīrgho na cālpo nātisthūlo raktamatsyaḥ sa coktaḥ |

73.2७३.२

शीतो रुच्यः पुष्टिकृद्दीपनोऽसौ नाशं धत्ते किंच दोषत्रयस्य ॥ (७३।२)

śīto rucyaḥ puṣṭikṛddīpano'sau nāśaṃ dhatte kiṃca doṣatrayasya ||

74.1७४.१

यः कृष्णो दीर्घकायः स्यात् स्थूलशल्को बलाधिकः । (७४।१)

yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ |

74.2७४.२

मत्स्यो महिषनामासौ दीपनो बलवीर्यदः ॥ (७४।२)

matsyo mahiṣanāmāsau dīpano balavīryadaḥ ||

75.1७५.१

शुक्लाङ्गस् ताम्रपक्षो यः स्वल्पाङ्गश् चाविलाह्वयः । (७५।१)

śuklāṅgas tāmrapakṣo yaḥ svalpāṅgaś cāvilāhvayaḥ |

75.2७५.२

सुरुच्यो मधुरो बल्यो गुणाढ्यो वीर्यपुष्टिदः ॥ (७५।२)

surucyo madhuro balyo guṇāḍhyo vīryapuṣṭidaḥ ||

76.1७६.१

यः स्थूलाङ्गो माहिषाकारको यस् तालुस्थाने नीरजाभां दधाति । (७६।१)

yaḥ sthūlāṅgo māhiṣākārako yas tālusthāne nīrajābhāṃ dadhāti |

76.2७६.२

शल्कं स्थूलं यस्य वातूकको ऽसौ दत्ते वीर्यं दीपनं वृष्यदायी ॥ (७६।२)

śalkaṃ sthūlaṃ yasya vātūkako 'sau datte vīryaṃ dīpanaṃ vṛṣyadāyī ||

77.1७७.१

वितस्तिमानः श्वेताङ्गः सूक्ष्मशल्कः सुदीपनः । (७७।१)

vitastimānaḥ śvetāṅgaḥ sūkṣmaśalkaḥ sudīpanaḥ |

77.2७७.२

अलोमशाह्वयो मत्स्यो बलवीर्याङ्गपुष्टिदः ॥ (७७।२)

alomaśāhvayo matsyo balavīryāṅgapuṣṭidaḥ ||

78.0७८.०

यो वृत्तगौल्यः कृष्णाङ्गः शल्की कर्णवशाभिधः ॥ (७८।०)

yo vṛttagaulyaḥ kṛṣṇāṅgaḥ śalkī karṇavaśābhidhaḥ ||

79.0७९.०

दीपनः पाचनः पथ्यो वृष्यो ऽसौ बलपुष्टिदः ॥ (७९।०)

dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ ||

80.1८०.१

निःशल्का निन्दिता मत्स्याः सर्वे शल्कयुता हिताः । (८०।१)

niḥśalkā ninditā matsyāḥ sarve śalkayutā hitāḥ |

80.2८०.२

वपुःस्थैर्यकरा वीर्यबलपुष्टिविवर्धनाः ॥ (८०।२)

vapuḥsthairyakarā vīryabalapuṣṭivivardhanāḥ ||

81.1८१.१

ह्रदकुल्याजलधिनिर्झरतडागवापीजले च ये मत्स्याः । (८१।१)

hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ |

81.2८१.२

ते तु जडा नादेया यथोत्तरं लघुतरास्तु नादेयाः ॥ (८१।२)

te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ ||

82.1८२.१

क्षाराम्बुमत्स्या गुरवो ऽस्रदाहदा विष्टम्भदास्ते लवणार्णवादिजाः । (८२।१)

kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ |

82.2८२.२

तानश्नतां स्वादुजलस्थिता अपि ज्ञेया जडास्तेऽपि तथा शृतानिमान् ॥ (८२।२)

tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān ||

83.1८३.१

शैलाटवीनगरभूजलचारिणो ये ये के ऽपि सत्त्वनिवहाः खलु सप्तसंख्याः । (८३।१)

śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ |

83.2८३.२

तन्मांसमत्र न वितथ्यम् अथाभ्यधायि ग्रन्थस्य विस्तरभयाच्च नवोपयोगात् ॥ (८३।२)

tanmāṃsamatra na vitathyam athābhyadhāyi granthasya vistarabhayācca navopayogāt ||

84.1८४.१

पक्वं मांसं हितं सर्वं बलवीर्यविवर्धनम् । (८४।१)

pakvaṃ māṃsaṃ hitaṃ sarvaṃ balavīryavivardhanam |

84.2८४.२

भृष्टमांसं विदाहि स्यादस्रवातादिदोषकृत् ॥ (८४।२)

bhṛṣṭamāṃsaṃ vidāhi syādasravātādidoṣakṛt ||

85.1८५.१

पूर्वार्धं पुरुषस्य तद्गुरुतरं पश्चार्धभागः स्त्रियाः स्त्री गुर्वी किल गुर्विणी यदि तथा योषिच्च तुल्या लघुः । (८५।१)

pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ |

85.2८५.२

पक्षी चेत्पुरुषो लघुः शृणु शिरःस्कन्धोरुपृष्ठे क्रमात् मांसं यच्च कटिस्थितं तदखिलं गुर्वेव सर्वात्मना ॥ (८५।२)

pakṣī cetpuruṣo laghuḥ śṛṇu śiraḥskandhorupṛṣṭhe kramāt māṃsaṃ yacca kaṭisthitaṃ tadakhilaṃ gurveva sarvātmanā ||

86.0८६.०

रसरक्तादिधातूनां गुरुः स्यादुत्तरोत्तरम् मेढ्रवृक्कयकृन्मांसं वार्षणं चातिमात्रतः ॥ (८६।०)

rasaraktādidhātūnāṃ guruḥ syāduttarottaram meḍhravṛkkayakṛnmāṃsaṃ vārṣaṇaṃ cātimātrataḥ ||

87.1८७.१

इत्थं प्रतिस्थलविलाम्बुनभःप्रचारप्राण्यङ्गमांसगुणनिर्णयपूर्णम् एनम् । (८७।१)

itthaṃ pratisthalavilāmbunabhaḥpracāraprāṇyaṅgamāṃsaguṇanirṇayapūrṇam enam |

87.2८७.२

वर्गं विचार्य भिषजा विनियुज्यमानो भुक्त्वाशनं न विकृतिं समुपैति मर्त्यः ॥ (८७।२)

vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ ||

88.1८८.१

यस्यासीत् समितिद्विपाधिपबृहत्कुम्भान्तरस्थामिषप्रायाभ्यासपिपासयेव तरुणी नेत्राम्बुधारा द्विषाम् । (८८।१)

yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām |

88.2८८.२

तस्यायं पुरुषप्रतापसुहृदः श्रीमन्नृसिंहेशितुर् वर्गः सप्तदशो निषीदति कृतौ नामादिचूडामणौ ॥ (८८।२)

tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau ||

Data courtesy of The Digital Corpus of Sanskrit.

RājNigh, 19

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit