RājNigh, 7
Select a line for its word-by-word analysis.
चतुर्धा पिप्पली प्रोक्ता तन्मूलं नागरं तथा । (१।१)
caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā |
आर्द्रकं मरिचद्वन्द्वं धान्यकं च यवानिका ॥ (१।२)
ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā ||
चव्यं च चित्रकद्वन्द्वं विडङ्गं च वचाद्वयम् । (२।१)
cavyaṃ ca citrakadvandvaṃ viḍaṅgaṃ ca vacādvayam |
हिङ्गुद्वयं चाग्निजारौ रास्ने एलाद्वयं शिवम् । (३।१)
hiṅgudvayaṃ cāgnijārau rāsne elādvayaṃ śivam |
नवलवणसौवर्चलं च काचाह्वं विडं च गडनामकम् ॥ (३।२)
navalavaṇasauvarcalaṃ ca kācāhvaṃ viḍaṃ ca gaḍanāmakam ||
सामुद्रं द्रौणिकं चान्यद् औषरं रोमकं तथा । (४।१)
sāmudraṃ drauṇikaṃ cānyad auṣaraṃ romakaṃ tathā |
बोलं कर्चूरकः पाठा वृक्षाम्लश् चाम्लवेतसम् । (५।१)
bolaṃ karcūrakaḥ pāṭhā vṛkṣāmlaś cāmlavetasam |
भार्गी पुष्करमूलं च शृङ्ग्य् अथो दन्तिकाद्वयम् । (६।१)
bhārgī puṣkaramūlaṃ ca śṛṅgy atho dantikādvayam |
जैपालश् च त्रिवृद् द्वेधा त्वक् पत्रं नागकेशरम् ॥ (६।२)
jaipālaś ca trivṛd dvedhā tvak patraṃ nāgakeśaram ||
मञ्जिष्ठा च चतुर्धा स्याद्धरिद्रे च द्विधा मते ॥ (७।२)
mañjiṣṭhā ca caturdhā syāddharidre ca dvidhā mate ||
लाक्षा चालक्तको लोध्रो धातक्य् अब्धिफलं तथा । (८।१)
lākṣā cālaktako lodhro dhātaky abdhiphalaṃ tathā |
निर्विषाथ विषद्वन्द्वं द्विधा चाम्लहरिद्रका ॥ (८।२)
nirviṣātha viṣadvandvaṃ dvidhā cāmlaharidrakā ||
वज्रको यवजश् चाथ सर्वक्षारो ऽथ मायिका । (१०।१)
vajrako yavajaś cātha sarvakṣāro 'tha māyikā |
पिप्पलीपिप्पली कृकरा शौण्डी चपला मागधी कणा । (११।१)
pippalīpippalī kṛkarā śauṇḍī capalā māgadhī kaṇā |
श्यामा दन्तफला कृष्णा कोला च मगधोद्भवा । (१२।१)
śyāmā dantaphalā kṛṣṇā kolā ca magadhodbhavā |
उषणा चोपकुल्या च स्मृत्याह्वा तीक्ष्णतण्डुला ॥ (१२।२)
uṣaṇā copakulyā ca smṛtyāhvā tīkṣṇataṇḍulā ||
पिप्पली ज्वरहा वृष्या स्निग्धोष्णा कटुतिक्तका । (१३।१)
pippalī jvarahā vṛṣyā snigdhoṣṇā kaṭutiktakā |
गजोषणागजोषणा चव्यफला चव्यजा गजपिप्पली । (१४।१)
gajoṣaṇāgajoṣaṇā cavyaphalā cavyajā gajapippalī |
श्रेयसी छिद्रवैदेही दीर्घग्रन्थिश् च तैजसी । (१४।२)
śreyasī chidravaidehī dīrghagranthiś ca taijasī |
वर्तुली स्थूलवैदेही ज्ञेया चेति दशाभिधा ॥ (१४।३)
vartulī sthūlavaidehī jñeyā ceti daśābhidhā ||
सैंहलीसैंहली सर्पदण्डा च सर्पाङ्गी ब्रह्मभूमिजा । (१६।१)
saiṃhalīsaiṃhalī sarpadaṇḍā ca sarpāṅgī brahmabhūmijā |
पार्वती शैलजा ताम्रा लम्बबीजा तथोत्कटा ॥ (१६।२)
pārvatī śailajā tāmrā lambabījā tathotkaṭā ||
सैंहली कटुर् उष्णा च जन्तुघ्नी दीपनी परा । (१८।१)
saiṃhalī kaṭur uṣṇā ca jantughnī dīpanī parā |
वनपिप्पलीवनादिपिप्पल्यभिधानयुक्तं सूक्ष्मादिपिप्पल्यभिधानम् एतत् । (१९।१)
vanapippalīvanādipippalyabhidhānayuktaṃ sūkṣmādipippalyabhidhānam etat |
क्षुद्रादिपिप्पल्यभिधानयोग्यं वनाभिधापूर्वकणाभिधानम् ॥ (१९।२)
kṣudrādipippalyabhidhānayogyaṃ vanābhidhāpūrvakaṇābhidhānam ||
वनपिप्पलिका चोष्णा तीक्ष्णा रुच्या च दीपनी । (२०।१)
vanapippalikā coṣṇā tīkṣṇā rucyā ca dīpanī |
आमा भवेद् गुणाढ्या तु शुष्का स्वल्पगुणा स्मृता ॥ (२०।२)
āmā bhaved guṇāḍhyā tu śuṣkā svalpaguṇā smṛtā ||
पिप्पलीमूलग्रन्थिकं पिप्पलीमूलं मूलं तु चविकाशिरः । (२१।१)
pippalīmūlagranthikaṃ pippalīmūlaṃ mūlaṃ tu cavikāśiraḥ |
सर्वग्रन्थि च पत्त्राढ्यं विरूपं शोणसम्भवम् । (२२।१)
sarvagranthi ca pattrāḍhyaṃ virūpaṃ śoṇasambhavam |
सुग्रन्थि ग्रन्थिलं चैव पर्यायाः स्युश् चतुर्दश ॥ (२२।२)
sugranthi granthilaṃ caiva paryāyāḥ syuś caturdaśa ||
कटूष्णं पिप्पलीमूलं श्लेष्मक्रिमिविनाशनम् । (२३।१)
kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam |
शुण्ठीशुण्ठी महौषधं विश्वं नागरं विश्वभेषजम् । (२४।१)
śuṇṭhīśuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam |
विश्वौषधं कटुग्रन्थि कटुभद्रं कटूषणम् ॥ (२४।२)
viśvauṣadhaṃ kaṭugranthi kaṭubhadraṃ kaṭūṣaṇam ||
सौपर्णं शृङ्गवेरं च कफारिश् चार्द्रकं स्मृतम् । (२५।१)
sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam |
शोषणं नागराह्वं च विज्ञेयं षोडशाह्वयम् ॥ (२५।२)
śoṣaṇaṃ nāgarāhvaṃ ca vijñeyaṃ ṣoḍaśāhvayam ||
शुण्ठी कटूष्णा स्निग्धा च कफशोफानिलापहा । (२६।१)
śuṇṭhī kaṭūṣṇā snigdhā ca kaphaśophānilāpahā |
आर्द्रकआर्द्रकं गुल्ममूलं च मूलजं कन्दलं वरम् । (२७।१)
ārdrakaārdrakaṃ gulmamūlaṃ ca mūlajaṃ kandalaṃ varam |
अपाकशाकं चार्द्राख्यं राहुच्छत्त्रं सुशाककम् । (२८।१)
apākaśākaṃ cārdrākhyaṃ rāhucchattraṃ suśākakam |
शार्ङ्गं स्याद् आर्द्रशाकं च सच्छाकम् ऋतुभूह्वयम् ॥ (२८।२)
śārṅgaṃ syād ārdraśākaṃ ca sacchākam ṛtubhūhvayam ||
कटूष्णम् आर्द्रकं हृद्यं विपाके शीतलं लघु । (२९।१)
kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu |
मरिचमरिचं पलितं श्यामं कोलं वल्लीजम् ऊषणम् । (३०।१)
maricamaricaṃ palitaṃ śyāmaṃ kolaṃ vallījam ūṣaṇam |
यवनेष्टं वृत्तफलं शाकाङ्गं धर्मपत्तनम् ॥ (३०।२)
yavaneṣṭaṃ vṛttaphalaṃ śākāṅgaṃ dharmapattanam ||
रूक्षं सर्वहितं कृष्णं सप्तभूख्यं निरूपितम् ॥ (३१।२)
rūkṣaṃ sarvahitaṃ kṛṣṇaṃ saptabhūkhyaṃ nirūpitam ||
मरिचं कटु तिक्तोष्णं लघु श्लेष्मविनाशनम् । (३२।१)
maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam |
सितमरिचसितमरिचं तु सिताख्यं सितवल्लीजं च बालकं बहुलम् । (३३।१)
sitamaricasitamaricaṃ tu sitākhyaṃ sitavallījaṃ ca bālakaṃ bahulam |
धवलं चन्द्रकम् एतन् मुनिनाम गुणाधिकं च वश्यकरम् ॥ (३३।२)
dhavalaṃ candrakam etan munināma guṇādhikaṃ ca vaśyakaram ||
अवृष्यं दृष्टिरोगघ्नं युक्त्या चैव रसायनम् ॥ (३४।२)
avṛṣyaṃ dṛṣṭirogaghnaṃ yuktyā caiva rasāyanam ||
धान्यकधान्यकं धान्यजं धान्यं धानेयं धनिकं तथा । (३५।१)
dhānyakadhānyakaṃ dhānyajaṃ dhānyaṃ dhāneyaṃ dhanikaṃ tathā |
कुस्तुम्बुरुश् चावलिका छत्त्रधान्यं वितुन्नकम् ॥ (३५।२)
kustumburuś cāvalikā chattradhānyaṃ vitunnakam ||
सुगन्धिः शाकयोग्यश् च सूक्ष्मपत्रो जनप्रियः । (३६।१)
sugandhiḥ śākayogyaś ca sūkṣmapatro janapriyaḥ |
धान्यबीजो बीजधान्यं वेधकं षोडशाह्वयम् ॥ (३६।२)
dhānyabījo bījadhānyaṃ vedhakaṃ ṣoḍaśāhvayam ||
धान्यकं मधुरं शीतं कषायं पित्तनाशनम् । (३७।१)
dhānyakaṃ madhuraṃ śītaṃ kaṣāyaṃ pittanāśanam |
यवानीयवानी दीप्यको दीप्यो यवसाह्वो यवाग्रजः । (३८।१)
yavānīyavānī dīpyako dīpyo yavasāhvo yavāgrajaḥ |
दीपनी चोग्रगन्धा च वातारिर् भूकदम्बकः ॥ (३८।२)
dīpanī cogragandhā ca vātārir bhūkadambakaḥ ||
उग्रा च तीव्रगन्धा च ज्ञेया पञ्चदशाह्वया ॥ (३९।२)
ugrā ca tīvragandhā ca jñeyā pañcadaśāhvayā ||
चव्यकचव्यकं चविका चव्यं वशिरो गन्धनाकुली । (४१।१)
cavyakacavyakaṃ cavikā cavyaṃ vaśiro gandhanākulī |
तीक्ष्णा करिणिका वल्ली कृकरो नेत्रभूह्वया ॥ (४१।३)
tīkṣṇā kariṇikā vallī kṛkaro netrabhūhvayā ||
चित्रकचित्रको ऽग्निश्च शार्दूलश्चित्रपाली कटुः शिखी । (४३।१)
citrakacitrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī |
कृशानुर् दहनो व्यालो ज्योतिष्कः पालकस् तथा ॥ (४३।२)
kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā ||
पाठी द्वीपी च चित्राङ्गो ज्ञेयः शूरश् च विंशतिः ॥ (४४।२)
pāṭhī dvīpī ca citrāṅgo jñeyaḥ śūraś ca viṃśatiḥ ||
कालकालो व्यालः कालमूलो ऽतिदीप्यो मार्जारो ऽग्निर् दाहकः पावकश् च । (४६।१)
kālakālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca |
चित्राङ्गो ऽयं रक्तचित्रो महाङ्गः स्याद् रुद्राह्वश् चित्रको ऽन्यो गुणाढ्यः ॥ (४६।२)
citrāṅgo 'yaṃ raktacitro mahāṅgaḥ syād rudrāhvaś citrako 'nyo guṇāḍhyaḥ ||
स्थूलकायकरो रुच्यः कुष्ठघ्नो रक्तचित्रकः । (४७।१)
sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ |
विडङ्गाविडङ्गा क्रिमिहा चैत्रा तण्डुला तण्डुलीयका । (४८।१)
viḍaṅgāviḍaṅgā krimihā caitrā taṇḍulā taṇḍulīyakā |
वातारिस् तण्डुला प्रोक्ता जन्तुघ्नी मृगगामिनी ॥ (४८।२)
vātāris taṇḍulā proktā jantughnī mṛgagāminī ||
विडङ्गा कटुर् उष्णा च लघुर् वातकफार्तिनुत् । (५०।१)
viḍaṅgā kaṭur uṣṇā ca laghur vātakaphārtinut |
वचावचोग्रगन्धा गोलोमी जटिलोग्रा च लोमशा । (५१।१)
vacāvacogragandhā golomī jaṭilogrā ca lomaśā |
रक्षोघ्नी विजया भद्रा मङ्गल्येति दशाह्वया ॥ (५१।२)
rakṣoghnī vijayā bhadrā maṅgalyeti daśāhvayā ||
वचा तीक्ष्णा कटूष्णा च कफामग्रन्थिशोफनुत् । (५२।१)
vacā tīkṣṇā kaṭūṣṇā ca kaphāmagranthiśophanut |
श्वेतवचामेध्या श्वेतवचा त्व् अन्या षड्ग्रन्था दीर्घपत्त्रिका । (५३।१)
śvetavacāmedhyā śvetavacā tv anyā ṣaḍgranthā dīrghapattrikā |
तीक्ष्णगन्धा हैमवती मङ्गल्या विजया च सा ॥ (५३।२)
tīkṣṇagandhā haimavatī maṅgalyā vijayā ca sā ||
श्वेतवचातिगुणाढ्या मतिमेधायुःसमृद्धिदा कफनुत् । (५४।१)
śvetavacātiguṇāḍhyā matimedhāyuḥsamṛddhidā kaphanut |
वृष्या च वातभूतक्रिमिदोषघ्नी च दीपनी च वचा ॥ (५४।२)
vṛṣyā ca vātabhūtakrimidoṣaghnī ca dīpanī ca vacā ||
कुलञ्जकुलञ्जो गन्धमूलश् च तीक्ष्णमूलः कुलञ्जनः । (५५।१)
kulañjakulañjo gandhamūlaś ca tīkṣṇamūlaḥ kulañjanaḥ |
जीरकजीरको जरणो जीरो जीर्णो दीप्यश् च दीपकः । (५६।१)
jīrakajīrako jaraṇo jīro jīrṇo dīpyaś ca dīpakaḥ |
जीरकः कटुर् उष्णश् च वातहृद् दीपनः परः । (५७।१)
jīrakaḥ kaṭur uṣṇaś ca vātahṛd dīpanaḥ paraḥ |
गुल्माध्मानातिसारघ्नो ग्रहणीक्रिमिहृत् परः ॥ (५७।२)
gulmādhmānātisāraghno grahaṇīkrimihṛt paraḥ ||
गौरजीरकगौरादिजीरकस् त्व् अन्यो ऽजाजी स्यात् श्वेतजीरकः । (५८।१)
gaurajīrakagaurādijīrakas tv anyo 'jājī syāt śvetajīrakaḥ |
क्रिमिघ्नी विषहन्त्री च चक्षुष्याध्माननाशिनी ॥ (५९।२)
krimighnī viṣahantrī ca cakṣuṣyādhmānanāśinī ||
कृष्णजीरककृष्णा तु जरणा काली बहुगन्धा च भेदिनी । (६०।१)
kṛṣṇajīrakakṛṣṇā tu jaraṇā kālī bahugandhā ca bhedinī |
काश्मीरजीरका वर्षा काली स्याद् दन्तशोधनी । (६१।१)
kāśmīrajīrakā varṣā kālī syād dantaśodhanī |
रुच्या जीर्णज्वरघ्नी च चक्षुष्या ग्रहणीहरा ॥ (६२।२)
rucyā jīrṇajvaraghnī ca cakṣuṣyā grahaṇīharā ||
दीप्यादीप्योपकुञ्चिका काली पृथ्वी स्थूलकणा पृथुः । (६३।१)
dīpyādīpyopakuñcikā kālī pṛthvī sthūlakaṇā pṛthuḥ |
श्लेष्माध्मानहरा जीर्णा जन्तुघ्नी दीपनी परा ॥ (६४।२)
śleṣmādhmānaharā jīrṇā jantughnī dīpanī parā ||
बृहत्पालिन्बृहत्पाली क्षुद्रपत्त्रो ऽरण्यजीरः कणा तथा । (६५।१)
bṛhatpālinbṛhatpālī kṣudrapattro 'raṇyajīraḥ kaṇā tathā |
जीरकाः कटुकाः पाके क्रिमिघ्ना वह्निदीपनाः । (६६।१)
jīrakāḥ kaṭukāḥ pāke krimighnā vahnidīpanāḥ |
मेथिकामेथिका मेथिनी मेथी दीपनी बहुपत्रिका । (६७।१)
methikāmethikā methinī methī dīpanī bahupatrikā |
वेधनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ (६७।२)
vedhanī gandhabījā ca jyotirgandhaphalā tathā ||
वल्लरी चन्द्रिका मेथा मिश्रपुष्पा च कैरवी । (६८।१)
vallarī candrikā methā miśrapuṣpā ca kairavī |
हिङ्गुपत्त्रीपृथ्वीका हिङ्गुपत्त्री च कवरी दीर्घिका पृथुः । (७०।१)
hiṅgupattrīpṛthvīkā hiṅgupattrī ca kavarī dīrghikā pṛthuḥ |
तन्वी च दारुपत्त्री च बिल्वी बाष्पी नवाह्वया ॥ (७०।२)
tanvī ca dārupattrī ca bilvī bāṣpī navāhvayā ||
हिङ्गुपत्त्री कटुस् तीक्ष्णा तिक्तोष्णा कफवातनुत् । (७१।१)
hiṅgupattrī kaṭus tīkṣṇā tiktoṣṇā kaphavātanut |
हिङ्गुहिङ्गूग्रगन्धं भूतारिर् वाह्लीकं जन्तुनाशनम् । (७२।१)
hiṅguhiṅgūgragandhaṃ bhūtārir vāhlīkaṃ jantunāśanam |
शूलगुल्मादिरक्षोघ्नम् उग्रवीर्यं च रामठम् ॥ (७२।२)
śūlagulmādirakṣoghnam ugravīryaṃ ca rāmaṭham ||
दीप्तं सहस्रवेधीति ज्ञेयं पञ्चदशाभिधम् ॥ (७३।२)
dīptaṃ sahasravedhīti jñeyaṃ pañcadaśābhidham ||
हृद्यं हिङ्गु कटूष्णं च क्रिमिवातकफापहम् । (७४।१)
hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham |
विबन्धाध्मानशूलघ्नं चक्षुष्यं गुल्मनाशनम् ॥ (७४।२)
vibandhādhmānaśūlaghnaṃ cakṣuṣyaṃ gulmanāśanam ||
नाडीहिङ्गुनाडीहिङ्गुः पलाशाख्या जन्तुका रामठी च सा । (७५।१)
nāḍīhiṅgunāḍīhiṅguḥ palāśākhyā jantukā rāmaṭhī ca sā |
वंशपत्त्री च पिण्डाह्वा सुवीर्या हिङ्गुनाडिका ॥ (७५।२)
vaṃśapattrī ca piṇḍāhvā suvīryā hiṅgunāḍikā ||
नाडीहिङ्गुः कटूष्णा च कफवातार्तिशान्तिकृत् । (७६।१)
nāḍīhiṅguḥ kaṭūṣṇā ca kaphavātārtiśāntikṛt |
वह्निजारअग्निजारो ऽग्निनिर्यासो ऽप्य् अग्निगर्भो ऽग्निजः स्मृतः । (७७।१)
vahnijāraagnijāro 'gniniryāso 'py agnigarbho 'gnijaḥ smṛtaḥ |
वडवाग्निमलो ज्ञेयो जरायुश् चाग्निसम्भवः ॥ (७७।२)
vaḍavāgnimalo jñeyo jarāyuś cāgnisambhavaḥ ||
स्याद् अग्निजारः कटुर् उष्णवीर्यस् तुण्डामयो वातकफापहश् च । (७८।१)
syād agnijāraḥ kaṭur uṣṇavīryas tuṇḍāmayo vātakaphāpahaś ca |
पित्तप्रदः सो ऽधिकसंनिपातशूलार्तिशीतामयनाशकश् च ॥ (७८।२)
pittapradaḥ so 'dhikasaṃnipātaśūlārtiśītāmayanāśakaś ca ||
जाराभजाराभो दहनस्पर्शी पिच्छिलः सागरे भवः । (७९।१)
jārābhajārābho dahanasparśī picchilaḥ sāgare bhavaḥ |
जरायुस् तच्चतुर्वर्णः तेषु श्रेष्ठः सलोहितः ॥ (७९।२)
jarāyus taccaturvarṇaḥ teṣu śreṣṭhaḥ salohitaḥ ||
रास्नारास्ना युक्तरसा रम्या श्रेयसी रसना रसा । (८०।१)
rāsnārāsnā yuktarasā ramyā śreyasī rasanā rasā |
रास्ना तु त्रिविधा प्रोक्ता पत्रं तृणं तथा । (८१।१)
rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā |
रास्ना गुरुश् च तिक्तोष्णा विषवातास्रकासजित् । (८२।१)
rāsnā guruś ca tiktoṣṇā viṣavātāsrakāsajit |
स्थूलैलास्थूलैला बृहदेला त्रिपुटा त्रिदिवोद्भवा च भद्रैला । (८३।१)
sthūlailāsthūlailā bṛhadelā tripuṭā tridivodbhavā ca bhadrailā |
सुरभित्वक् च महैला पृथ्वी कन्या कुमारिका चैन्द्री ॥ (८३।२)
surabhitvak ca mahailā pṛthvī kanyā kumārikā caindrī ||
कायस्था गोपुटा कान्ता घृताची गर्भसम्भवा । (८४।१)
kāyasthā gopuṭā kāntā ghṛtācī garbhasambhavā |
इन्द्राणी दिव्यगन्धा च विज्ञेयाष्टादशाह्वया ॥ (८४।२)
indrāṇī divyagandhā ca vijñeyāṣṭādaśāhvayā ||
एलाएला बहुलगन्धैन्द्री द्राविडी निष्कुटिस् त्रुटिः । (८५।१)
elāelā bahulagandhaindrī drāviḍī niṣkuṭis truṭiḥ |
चन्द्रिका चोपकुञ्ची च सूक्ष्मा सागरगामिनी । (८६।१)
candrikā copakuñcī ca sūkṣmā sāgaragāminī |
गर्भारिर् गन्धफलिका कायस्थाष्टादशाह्वया ॥ (८६।२)
garbhārir gandhaphalikā kāyasthāṣṭādaśāhvayā ||
एलाद्वयं शीतलतिक्तम् उक्तं सुगन्धि पित्तार्तिकफापहारि । (८७।१)
elādvayaṃ śītalatiktam uktaṃ sugandhi pittārtikaphāpahāri |
करोति हृद्रोगमलार्तिवस्तिशूलघ्नम् अत्र स्थविरा गुणाढ्या ॥ (८७।२)
karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā ||
सैन्धवसैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । (८८।१)
saindhavasaindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam |
शुद्धं शिवात्मजं पथ्यं मणिमन्थं नवाभिधम् ॥ (८८।२)
śuddhaṃ śivātmajaṃ pathyaṃ maṇimanthaṃ navābhidham ||
सैन्धवं लवणं वृष्यं चक्षुष्यं रुचिदीपनम् । (८९।१)
saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ rucidīpanam |
सैन्धवं द्विविधं ज्ञेयं श्वेतं रक्तम् इति क्रमात् । (९०।१)
saindhavaṃ dvividhaṃ jñeyaṃ śvetaṃ raktam iti kramāt |
सौवर्चलसौवर्चलं तु रुचकं तिलकं हृद्यगन्धकम् । (९१।१)
sauvarcalasauvarcalaṃ tu rucakaṃ tilakaṃ hṛdyagandhakam |
अक्षं च कृष्णलवणं रुच्यं कौद्रविकं तथा ॥ (९१।२)
akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kaudravikaṃ tathā ||
सौवर्चलं लघु क्षारं कटूष्णं गुल्मजन्तुजित् । (९२।१)
sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit |
काचलवणनीलं काचोद्भवं काचं तिलकं काचसम्भवम् । (९३।१)
kācalavaṇanīlaṃ kācodbhavaṃ kācaṃ tilakaṃ kācasambhavam |
काचसौवर्चलं कृष्णलवणं पाक्यजं स्मृतम् ॥ (९३।२)
kācasauvarcalaṃ kṛṣṇalavaṇaṃ pākyajaṃ smṛtam ||
काचोत्थं हृद्यगन्धं च तत् काललवणं तथा । (९४।१)
kācotthaṃ hṛdyagandhaṃ ca tat kālalavaṇaṃ tathā |
काचादिलवणं रुच्यम् ईषत् क्षारं च पित्तलम् । (९५।१)
kācādilavaṇaṃ rucyam īṣat kṣāraṃ ca pittalam |
विडविडं द्राविडकं खण्डं कृतकं क्षारम् आसुरम् । (९६।१)
viḍaviḍaṃ drāviḍakaṃ khaṇḍaṃ kṛtakaṃ kṣāram āsuram |
सुपाक्यं खण्डलवणं धूर्तं कृत्रिमकं दश ॥ (९६।२)
supākyaṃ khaṇḍalavaṇaṃ dhūrtaṃ kṛtrimakaṃ daśa ||
विड्लवण:: मेदिच्। प्रोपेर्तिएस्विडम् उष्णं च लवणं दीपनं वातनाशनम् । (९७।१)
viḍlavaṇa:: medic. propertiesviḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam |
रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ (९७।२)
rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam ||
गडलवणगाढादिलवणं शुभ्रं पृथ्वीजं गडदेशजम् । (९८।१)
gaḍalavaṇagāḍhādilavaṇaṃ śubhraṃ pṛthvījaṃ gaḍadeśajam |
गडोत्थं च महारम्भं साम्भरं सम्भरोद्भवम् ॥ (९८।२)
gaḍotthaṃ ca mahārambhaṃ sāmbharaṃ sambharodbhavam ||
दीपनं कफवातघ्नम् अर्शोघ्नं कोष्ठशोधनम् ॥ (९९।२)
dīpanaṃ kaphavātaghnam arśoghnaṃ koṣṭhaśodhanam ||
सेअ सल्त्:: स्य्नोन्य्म्स्सामुद्रकं तु सामुद्रं समुद्रलवणं शिवम् । (१००।१)
sea salt:: synonymssāmudrakaṃ tu sāmudraṃ samudralavaṇaṃ śivam |
वंशिरं सागरोत्थं च शिशिरं लवणाब्धिजम् ॥ (१००।२)
vaṃśiraṃ sāgarotthaṃ ca śiśiraṃ lavaṇābdhijam ||
सेअ सल्त्:: मेदिच्। प्रोपेर्तिएस्सामुद्रं लघु हृद्यं च पलितास्रदपित्तदम् । (१०१।१)
sea salt:: medic. propertiessāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam |
विदाहि कफवातघ्नं दीपनं रुचिकृत् परम् ॥ (१०१।२)
vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt param ||
द्रौणेयद्रौणेयं वार्धेयं द्रोणीजं वारिजं च वार्धिभवम् । (१०२।१)
drauṇeyadrauṇeyaṃ vārdheyaṃ droṇījaṃ vārijaṃ ca vārdhibhavam |
द्रोणीलवणं द्रोणं त्रिकटुलवणं च वसुसंज्ञम् ॥ (१०२।२)
droṇīlavaṇaṃ droṇaṃ trikaṭulavaṇaṃ ca vasusaṃjñam ||
द्रौणेयं लवणं पाके नात्युष्णम् अविदाहि च । (१०३।१)
drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca |
भेदनं स्निग्धम् ईषच् च शूलघ्नं चाल्पपित्तलम् ॥ (१०३।२)
bhedanaṃ snigdham īṣac ca śūlaghnaṃ cālpapittalam ||
औषरऔषरकं सार्वगुणं सार्वरसं सर्वलवणम् ऊषरजम् । (१०४।१)
auṣaraauṣarakaṃ sārvaguṇaṃ sārvarasaṃ sarvalavaṇam ūṣarajam |
साम्भारं बहुलवणं मेलकलवणं च मिश्रकं नवधा ॥ (१०४।२)
sāmbhāraṃ bahulavaṇaṃ melakalavaṇaṃ ca miśrakaṃ navadhā ||
औषरं तु कटु क्षारं तिक्तं वातकफापहम् । (१०५।१)
auṣaraṃ tu kaṭu kṣāraṃ tiktaṃ vātakaphāpaham |
विदाहि पित्तकृद् ग्राहि मूत्रसंशोषकारि च ॥ (१०५।२)
vidāhi pittakṛd grāhi mūtrasaṃśoṣakāri ca ||
औद्भिद:: स्य्नोन्य्म्स्रोमकम् औद्भिदम् उक्तं वसुकं वसु पांशुलवणम् ऊषरजम् । (१०६।१)
audbhida:: synonymsromakam audbhidam uktaṃ vasukaṃ vasu pāṃśulavaṇam ūṣarajam |
पांशवम् औषरम् ऐरिणम् और्वं सार्वसहं रुद्रैः ॥ (१०६।२)
pāṃśavam auṣaram airiṇam aurvaṃ sārvasahaṃ rudraiḥ ||
औद्भिद:: मेदिच्। प्रोपेर्तिएस्रोमकं तीक्ष्णमत्युष्णं कटु तिक्तं च दीपनम् । (१०७।१)
audbhida:: medic. propertiesromakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam |
अजमोदाअजमोदा खराह्वा च बस्तमोदा च मर्कटी । (१०८।१)
ajamodāajamodā kharāhvā ca bastamodā ca markaṭī |
मोदा गन्धदला हस्तिकारवी गन्धपत्त्रिका ॥ (१०८।२)
modā gandhadalā hastikāravī gandhapattrikā ||
मायूरी शिखिमोदा च मोदाढ्या वह्निदीपिका । (१०९।१)
māyūrī śikhimodā ca modāḍhyā vahnidīpikā |
ब्रह्मकोशी विशाली च हृद्यगन्धोग्रगन्धिका । (१०९।२)
brahmakośī viśālī ca hṛdyagandhogragandhikā |
मोदिनी फलमुख्या च वसुचन्द्राभिधा मता ॥ (१०९।३)
modinī phalamukhyā ca vasucandrābhidhā matā ||
अजमोदा कटुर् उष्णा रूक्षा कफवातहारिणी रुचिकृत् । (११०।१)
ajamodā kaṭur uṣṇā rūkṣā kaphavātahāriṇī rucikṛt |
रेणुकारेणुका कपिला कान्ता नन्दिनी महिला द्विजा । (१११।१)
reṇukāreṇukā kapilā kāntā nandinī mahilā dvijā |
राजपुत्री हिमा रेणुः पाण्डुपत्त्री हरेणुका ॥ (१११।२)
rājaputrī himā reṇuḥ pāṇḍupattrī hareṇukā ||
सुपर्णी शिशिरा शान्ता कौन्ती वृत्ता च धर्मिणी । (११२।१)
suparṇī śiśirā śāntā kauntī vṛttā ca dharmiṇī |
कपिलोमा हैमवती पाण्डुपत्त्री च विंशतिः ॥ (११२।२)
kapilomā haimavatī pāṇḍupattrī ca viṃśatiḥ ||
रेणुका तु कटुः शीता खर्जूकण्डूतिहारिणी । (११३।१)
reṇukā tu kaṭuḥ śītā kharjūkaṇḍūtihāriṇī |
बोलबोलं रक्तापहं मुण्डं सुरसं पिण्डकं विषम् । (११४।१)
bolabolaṃ raktāpahaṃ muṇḍaṃ surasaṃ piṇḍakaṃ viṣam |
निर्लोहं बर्बरं पिण्डं सौरभं रक्तगन्धकम् ॥ (११४।२)
nirlohaṃ barbaraṃ piṇḍaṃ saurabhaṃ raktagandhakam ||
रसगन्धं महागन्धं विश्वं च शुभगन्धकम् । (११५।१)
rasagandhaṃ mahāgandhaṃ viśvaṃ ca śubhagandhakam |
विश्वगन्धं गन्धरसं व्रणारिर् वसुभूह्वयम् ॥ (११५।२)
viśvagandhaṃ gandharasaṃ vraṇārir vasubhūhvayam ||
बोलं तु कटुतिक्तोष्णं कषायं रक्तदोषनुत् । (११६।१)
bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut |
कर्चूरकर्चूरो द्राविडः कार्शो दुर्लभो गन्धमूलकः । (११७।१)
karcūrakarcūro drāviḍaḥ kārśo durlabho gandhamūlakaḥ |
वेधमुख्यो गन्धसारो जटिलश् चाष्टनामकः ॥ (११७।२)
vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ ||
पाठापाठाम्बष्ठाम्बष्ठिका स्यात् प्राचीना पापचेलिका । (११९।१)
pāṭhāpāṭhāmbaṣṭhāmbaṣṭhikā syāt prācīnā pāpacelikā |
पाठिका स्थापनी चैव श्रेयसी वृद्धिकर्णिका ॥ (११९।२)
pāṭhikā sthāpanī caiva śreyasī vṛddhikarṇikā ||
तिक्तपुष्पा बृहत्तिक्ता दीपनी त्रिशिरा वृकी । (१२०।२)
tiktapuṣpā bṛhattiktā dīpanī triśirā vṛkī |
मालवी च वरा देवी वृत्तपर्णी द्विदृङ्मिता ॥ (१२०।३)
mālavī ca varā devī vṛttaparṇī dvidṛṅmitā ||
पाठा तिक्ता गुरूष्णा च वातपित्तज्वरापहा । (१२१।१)
pāṭhā tiktā gurūṣṇā ca vātapittajvarāpahā |
वृक्षाम्लवृक्षाम्लम् अम्लशाकं स्याच् चुक्राम्लं तित्तिडीफलम् । (१२२।१)
vṛkṣāmlavṛkṣāmlam amlaśākaṃ syāc cukrāmlaṃ tittiḍīphalam |
शाकाम्लम् अम्लपूरं च पूराम्लं रक्तपूरकम् ॥ (१२२।२)
śākāmlam amlapūraṃ ca pūrāmlaṃ raktapūrakam ||
चूडाम्लबीजाम्लफलाम्लकं स्याद् अम्लादिवृक्षाम्लफलं रसाम्लम् । (१२३।१)
cūḍāmlabījāmlaphalāmlakaṃ syād amlādivṛkṣāmlaphalaṃ rasāmlam |
श्रेष्ठाम्लम् अत्यम्लम् अथाम्लबीजं फलं च चुक्रादि नगेन्दुसंख्यम् ॥ (१२३।२)
śreṣṭhāmlam atyamlam athāmlabījaṃ phalaṃ ca cukrādi nagendusaṃkhyam ||
वृक्षाम्लम् अम्लं कटुकं कषायं सोष्णं कफार्शोघ्नम् उदीरयन्ति । (१२४।१)
vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti |
तृष्णासमीरोदरहृद्गदादिगुल्मातीसारव्रणदोषनाशि ॥ (१२४।२)
tṛṣṇāsamīrodarahṛdgadādigulmātīsāravraṇadoṣanāśi ||
अम्लवेतसअम्लो ऽम्लवेतसो वेधी रसाम्लो वीरवेतसः । (१२५।१)
amlavetasaamlo 'mlavetaso vedhī rasāmlo vīravetasaḥ |
वेतसाम्लश् चाम्लसारः शतवेधी च वेधकः ॥ (१२५।२)
vetasāmlaś cāmlasāraḥ śatavedhī ca vedhakaḥ ||
भीमश् च भेदनो भेदी राजाम्लश् चाम्लभेदनः । (१२६।१)
bhīmaś ca bhedano bhedī rājāmlaś cāmlabhedanaḥ |
अम्लाङ्कुशो रक्तसारः फलाम्लश् चाम्लनायकः ॥ (१२६।२)
amlāṅkuśo raktasāraḥ phalāmlaś cāmlanāyakaḥ ||
सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा । (१२७।१)
sahasravedhī vīrāmlo gulmaketur dharākṣidhā |
शङ्खमांसादिद्रावी स्याद् द्विधा चैवाम्लवेतसः ॥ (१२७।२)
śaṅkhamāṃsādidrāvī syād dvidhā caivāmlavetasaḥ ||
अम्लवेतसम् अत्यम्लं कषायोष्णं च वातजित् । (१२८।१)
amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit |
कफार्शःश्रमगुल्मघ्नम् अरोचकहरं परम् ॥ (१२८।२)
kaphārśaḥśramagulmaghnam arocakaharaṃ param ||
कटुकाकटुका जननी तिक्ता रोहिणी तिक्तरोहिणी । (१२९।१)
kaṭukākaṭukā jananī tiktā rohiṇī tiktarohiṇī |
चक्राङ्गी मत्स्यपित्ता च बकुला शुकुलादनी ॥ (१२९।२)
cakrāṅgī matsyapittā ca bakulā śukulādanī ||
सादनी शतपर्वा स्यात् चक्राङ्गी मत्स्यभेदिनी । (१३०।१)
sādanī śataparvā syāt cakrāṅgī matsyabhedinī |
कट्व्य् अञ्जनी काण्डरुहा कटुश् च कटुरोहिणी । (१३१।१)
kaṭvy añjanī kāṇḍaruhā kaṭuś ca kaṭurohiṇī |
केदारकटुकारिष्टाप्य् आमघ्नी पञ्चविंशतिः ॥ (१३१।२)
kedārakaṭukāriṣṭāpy āmaghnī pañcaviṃśatiḥ ||
कटुकातिकटुस् तिक्ता शीतपित्तास्रदोषजित् । (१३२।१)
kaṭukātikaṭus tiktā śītapittāsradoṣajit |
अतिविषाअतिविषा श्वेतकन्दा विश्वा शृङ्गी च भङ्गुरा । (१३३।१)
ativiṣāativiṣā śvetakandā viśvā śṛṅgī ca bhaṅgurā |
विरूपा श्यामकन्दा च विश्वरूपा महौषधी ॥ (१३३।२)
virūpā śyāmakandā ca viśvarūpā mahauṣadhī ||
वीरा प्रतिविषा चान्द्री विषा श्वेतवचा स्मृता । (१३४।१)
vīrā prativiṣā cāndrī viṣā śvetavacā smṛtā |
त्रिविधातिविषा ज्ञेया शुक्ला कृष्णा तथारुणा । (१३६।१)
trividhātiviṣā jñeyā śuklā kṛṣṇā tathāruṇā |
दोलायां गोमयक्वाथे पचेद् अतिविषां ततः । (१३७।१)
dolāyāṃ gomayakvāthe paced ativiṣāṃ tataḥ |
सूर्यतापे भवेच् छुष्का योजयेत् तां भिषग्वरः ॥ (१३७।२)
sūryatāpe bhavec chuṣkā yojayet tāṃ bhiṣagvaraḥ ||
भद्रमुस्तामुस्ताभद्रावारिदाम्भोदमेघा जीमूतो ऽब्दो नीरदो ऽब्भ्रं घनश् च । (१३८।१)
bhadramustāmustābhadrāvāridāmbhodameghā jīmūto 'bdo nīrado 'bbhraṃ ghanaś ca |
गाङ्गेयं स्याद् भद्रमुस्ता वराही गुञ्जा ग्रन्थिर् भद्रकासी कसेरुः ॥ (१३८।२)
gāṅgeyaṃ syād bhadramustā varāhī guñjā granthir bhadrakāsī kaseruḥ ||
क्रोडेष्टा कुरुविन्दाख्या सुगन्धिर् ग्रन्थिला हिमा । (१३९।१)
kroḍeṣṭā kuruvindākhyā sugandhir granthilā himā |
वन्या राजकसेरुश् च कच्छोत्था पञ्चविंशतिः ॥ (१३९।२)
vanyā rājakaseruś ca kacchotthā pañcaviṃśatiḥ ||
भद्रमुस्ता कषाया च तिक्ता शीता च पाचनी । (१४०।१)
bhadramustā kaṣāyā ca tiktā śītā ca pācanī |
पित्तज्वरकफघ्नी च ज्ञेया संग्रहणी च सा ॥ (१४०।२)
pittajvarakaphaghnī ca jñeyā saṃgrahaṇī ca sā ||
नागरमुस्ताअपरा नागरमुस्ता नागरोत्था नागरादिघनसंज्ञा । (१४१।१)
nāgaramustāaparā nāgaramustā nāgarotthā nāgarādighanasaṃjñā |
शिशिरा च वृषध्वाङ्क्षी कच्छरुहा चारुकेसरोच्चटा । (१४२।१)
śiśirā ca vṛṣadhvāṅkṣī kaccharuhā cārukesaroccaṭā |
सा पूर्णकोष्ठसंज्ञा कलापिनी सागरेन्दुमिता ॥ (१४२।२)
sā pūrṇakoṣṭhasaṃjñā kalāpinī sāgarendumitā ||
तिक्ता नागरमुस्ता कटुः कषाया च शीतला कफनुत् । (१४३।१)
tiktā nāgaramustā kaṭuḥ kaṣāyā ca śītalā kaphanut |
पित्तज्वरातिसारारुचितृष्णादाहनाशनी श्रमहृत् ॥ (१४३।२)
pittajvarātisārārucitṛṣṇādāhanāśanī śramahṛt ||
यष्टीमधुयष्टीमधुर् मधुयष्टी मधुवल्ली मधुस्रवा । (१४४।१)
yaṣṭīmadhuyaṣṭīmadhur madhuyaṣṭī madhuvallī madhusravā |
मधुकं मधुका यष्टी यष्ट्याह्वं वसुसंमितम् ॥ (१४४।२)
madhukaṃ madhukā yaṣṭī yaṣṭyāhvaṃ vasusaṃmitam ||
मधुरं यष्टिमधुकं किंचित् तिक्तं च शीतलम् । (१४५।१)
madhuraṃ yaṣṭimadhukaṃ kiṃcit tiktaṃ ca śītalam |
चक्षुष्यं पित्तहृद् रुच्यं शोषतृष्णाव्रणापहम् ॥ (१४५।२)
cakṣuṣyaṃ pittahṛd rucyaṃ śoṣatṛṣṇāvraṇāpaham ||
क्लीतनअन्यत् क्लीतनम् उक्तं क्लीतनकं क्लीतनीयकं मधुकम् । (१४६।१)
klītanaanyat klītanam uktaṃ klītanakaṃ klītanīyakaṃ madhukam |
मधुवल्ली च मधूली मधुरलता मधुरसातिरसा ॥ (१४६।२)
madhuvallī ca madhūlī madhuralatā madhurasātirasā ||
शोषापहा च सौम्या स्थलजा जलजा च सा द्विधाभूता । (१४७।१)
śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā |
सामान्येन मतेयम् एकादशसंज्ञा बहुज्ञधिया ॥ (१४७।२)
sāmānyena mateyam ekādaśasaṃjñā bahujñadhiyā ||
क्लीतनं मधुरं रुच्यं बल्यं वृष्यं व्रणापहम् । (१४८।१)
klītanaṃ madhuraṃ rucyaṃ balyaṃ vṛṣyaṃ vraṇāpaham |
शीतलं गुरु चक्षुष्यम् अस्रपित्तापहं परम् ॥ (१४८।२)
śītalaṃ guru cakṣuṣyam asrapittāpahaṃ param ||
भार्ङ्गीभार्ङ्गी गर्दभिशाकश् च फञ्जी चाङ्गारवल्लरी । (१४९।१)
bhārṅgībhārṅgī gardabhiśākaś ca phañjī cāṅgāravallarī |
वर्षा ब्राह्मणयष्टिश् च बर्बरो भृङ्गजा च सा ॥ (१४९।२)
varṣā brāhmaṇayaṣṭiś ca barbaro bhṛṅgajā ca sā ||
पद्मा यष्टिश् च भारङ्गी वातारिः कासजित् परम् । (१५०।१)
padmā yaṣṭiś ca bhāraṅgī vātāriḥ kāsajit param |
भार्ङ्गी तु कटुतिक्तोष्णा कासश्वासविनाशनी । (१५१।१)
bhārṅgī tu kaṭutiktoṣṇā kāsaśvāsavināśanī |
पुष्करमूलमूलं पुष्करमूलं च पुष्करं पद्मपत्त्रकम् । (१५२।१)
puṣkaramūlamūlaṃ puṣkaramūlaṃ ca puṣkaraṃ padmapattrakam |
पद्मं पुष्करजं बीजं पौष्करं पुष्कराह्वयम् ॥ (१५२।२)
padmaṃ puṣkarajaṃ bījaṃ pauṣkaraṃ puṣkarāhvayam ||
काश्मीरं ब्रह्मतीर्थं च श्वासारिर् मूलपुष्करम् । (१५३।१)
kāśmīraṃ brahmatīrthaṃ ca śvāsārir mūlapuṣkaram |
ज्ञेयं पञ्चदशाह्वं च पुष्कराद्ये जटाशिफे ॥ (१५३।२)
jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe ||
पुष्करं कटुतिक्तोष्णं कफवातज्वरापहम् । (१५४।१)
puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham |
श्वासारोचककासघ्नं शोफघ्नं पाण्डुनाशनम् ॥ (१५४।२)
śvāsārocakakāsaghnaṃ śophaghnaṃ pāṇḍunāśanam ||
शृङ्गीशृङ्गी कुलीरशृङ्गी स्यात् घोषा च वनमूर्धजा । (१५५।१)
śṛṅgīśṛṅgī kulīraśṛṅgī syāt ghoṣā ca vanamūrdhajā |
चन्द्रा कर्कटशृङ्गी च महाघोषा च शृङ्गिका ॥ (१५५।२)
candrā karkaṭaśṛṅgī ca mahāghoṣā ca śṛṅgikā ||
कालिका चेन्दुखण्डा च लताङ्गी च विषाणिका । (१५६।१)
kālikā cendukhaṇḍā ca latāṅgī ca viṣāṇikā |
चक्रा च शिखरं चैव कर्कटाह्वा त्रिपञ्चधा ॥ (१५६।२)
cakrā ca śikharaṃ caiva karkaṭāhvā tripañcadhā ||
तिक्ता कर्कटशृङ्गी तु गुरुर् उष्णानिलापहा । (१५७।१)
tiktā karkaṭaśṛṅgī tu gurur uṣṇānilāpahā |
हिक्कातीसारकासघ्नी श्वासपित्तास्रनाशनी ॥ (१५७।२)
hikkātīsārakāsaghnī śvāsapittāsranāśanī ||
दन्तीदन्ती शीघ्रा श्येनघण्टा निकुम्भी नागस्फोता दन्तिनी चोपचित्रा । (१५८।१)
dantīdantī śīghrā śyenaghaṇṭā nikumbhī nāgasphotā dantinī copacitrā |
भद्रा रूक्षा रोचनी चानुकूला निःशल्या स्याद् वक्रदन्ता विशल्या ॥ (१५८।२)
bhadrā rūkṣā rocanī cānukūlā niḥśalyā syād vakradantā viśalyā ||
मधुपुष्पैरण्डफला भद्राण्य् एरण्डपत्त्रिका । (१५९।१)
madhupuṣpairaṇḍaphalā bhadrāṇy eraṇḍapattrikā |
विशोधनी च कुम्भी च ज्ञेया चाग्निकराह्वया ॥ (१५९।३)
viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā ||
केशरुहाअन्या दन्ती केशरुहा विषभद्रा जयावहा । (१६१।१)
keśaruhāanyā dantī keśaruhā viṣabhadrā jayāvahā |
आवर्तकी वराङ्गी च जयाह्वा भद्रदन्तिका ॥ (१६१।२)
āvartakī varāṅgī ca jayāhvā bhadradantikā ||
अन्या दन्ती कटूष्णा च रेचनी क्रिमिहा परा । (१६२।१)
anyā dantī kaṭūṣṇā ca recanī krimihā parā |
रेचकरेचको जयपालश् च सारकस् तित्तिरीफलम् । (१६३।१)
recakarecako jayapālaś ca sārakas tittirīphalam |
दन्तीबीजं मलद्रावि ज्ञेयं स्याद् बीजरेचनी ॥ (१६३।२)
dantībījaṃ maladrāvi jñeyaṃ syād bījarecanī ||
कुम्भीबीजं कुम्भिनीबीजसंज्ञं घण्टाबीजं दन्तिनीबीजम् उक्तम् । (१६४।१)
kumbhībījaṃ kumbhinībījasaṃjñaṃ ghaṇṭābījaṃ dantinībījam uktam |
बीजान्ताख्यं शोधनी चक्रदन्त्यो वेदेन्द्वाख्यं तन्निकुम्भ्याश् च बीजम् ॥ (१६४।२)
bījāntākhyaṃ śodhanī cakradantyo vedendvākhyaṃ tannikumbhyāś ca bījam ||
जैपालः कटुर् उष्णश् च क्रिमिहारी विरेचनः । (१६५।१)
jaipālaḥ kaṭur uṣṇaś ca krimihārī virecanaḥ |
त्रिवृतुक्ता त्रिवृन् मालविका मसूरा श्यामार्धचन्द्रा विदला सुषेणी । (१६६।१)
trivṛtuktā trivṛn mālavikā masūrā śyāmārdhacandrā vidalā suṣeṇī |
कालिन्दिका सैव तु कालमेषी काली त्रिवेलावनिचन्द्रसंज्ञा ॥ (१६६।२)
kālindikā saiva tu kālameṣī kālī trivelāvanicandrasaṃjñā ||
त्रिवृत् तिक्ता कटूष्णा च क्रिमिश्लेष्मोदरार्तिजित् । (१६७।१)
trivṛt tiktā kaṭūṣṇā ca krimiśleṣmodarārtijit |
कुष्ठकण्डूव्रणान् हन्ति प्रशस्ता च विरेचने ॥ (१६७।२)
kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane ||
रक्तत्रिवृत्रक्तान्यापि च कालिन्दी त्रिपुटा ताम्रपुष्पिका । (१६८।१)
raktatrivṛtraktānyāpi ca kālindī tripuṭā tāmrapuṣpikā |
रक्ता त्रिवृद् रसे तिक्ता कटूष्णा रेचनी च सा । (१६९।१)
raktā trivṛd rase tiktā kaṭūṣṇā recanī ca sā |
त्वचत्वचं त्वग्वल्कलं भृङ्गं वराङ्गं मुखशोधनम् । (१७०।१)
tvacatvacaṃ tvagvalkalaṃ bhṛṅgaṃ varāṅgaṃ mukhaśodhanam |
शकलं सैंहलं वन्यं सुरसं रामवल्लभम् ॥ (१७०।२)
śakalaṃ saiṃhalaṃ vanyaṃ surasaṃ rāmavallabham ||
उत्कटं बहुगन्धं च विज्जुलं च वनप्रियम् । (१७१।१)
utkaṭaṃ bahugandhaṃ ca vijjulaṃ ca vanapriyam |
लाटपर्णं गन्धवल्कं वरं शीतं ग्रहक्षिती ॥ (१७१।२)
lāṭaparṇaṃ gandhavalkaṃ varaṃ śītaṃ grahakṣitī ||
शुक्रामशमनं चैव कण्ठशुद्धिकरं लघु ॥ (१७२।२)
śukrāmaśamanaṃ caiva kaṇṭhaśuddhikaraṃ laghu ||
तमालपत्त्रपत्रं तमालपत्त्रं च पत्रकं छदनं दलम् । (१७३।१)
tamālapattrapatraṃ tamālapattraṃ ca patrakaṃ chadanaṃ dalam |
पलाशम् अंशुकं वासस् तापसं सुकुमारकम् ॥ (१७३।२)
palāśam aṃśukaṃ vāsas tāpasaṃ sukumārakam ||
वस्त्रं तमालकं रामं गोपनं वसनं तथा । (१७४।१)
vastraṃ tamālakaṃ rāmaṃ gopanaṃ vasanaṃ tathā |
तमालं सुरभिगन्धं ज्ञेयं सप्तदशाह्वयम् ॥ (१७४।२)
tamālaṃ surabhigandhaṃ jñeyaṃ saptadaśāhvayam ||
पत्रकं लघु तिक्तोष्णं कफवातविषापहम् । (१७५।१)
patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham |
नागकेशरकिञ्जल्कं कनकाह्वं च केसरं नागकेशरम् । (१७६।१)
nāgakeśarakiñjalkaṃ kanakāhvaṃ ca kesaraṃ nāgakeśaram |
चाम्पेयं नागकिञ्जल्कं नागीयं काञ्चनं तथा ॥ (१७६।२)
cāmpeyaṃ nāgakiñjalkaṃ nāgīyaṃ kāñcanaṃ tathā ||
सुवर्णं हेमकिञ्जल्कं रुक्मं हेमं च पिञ्जरम् । (१७७।१)
suvarṇaṃ hemakiñjalkaṃ rukmaṃ hemaṃ ca piñjaram |
नागकेशरम् अल्पोष्णं लघु तिक्तं कफापहम् । (१७८।१)
nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham |
वस्तिवातामयघ्नं च कण्ठशीर्षरुजापहम् ॥ (१७८।२)
vastivātāmayaghnaṃ ca kaṇṭhaśīrṣarujāpaham ||
तवक्षीरतवक्षीरं पयःक्षीरं यवजं गवयोद्भवम् । (१७९।१)
tavakṣīratavakṣīraṃ payaḥkṣīraṃ yavajaṃ gavayodbhavam |
अन्यद् गोधूमजं चान्यत् पिष्टिकातण्डुलोद्भवम् ॥ (१७९।२)
anyad godhūmajaṃ cānyat piṣṭikātaṇḍulodbhavam ||
अन्यच् च तालसम्भूतं तालक्षीरादिनामकम् । (१८०।१)
anyac ca tālasambhūtaṃ tālakṣīrādināmakam |
वनगोक्षीरजं श्रेष्ठम् अभावे ऽन्यद् उदीरितम् ॥ (१८०।२)
vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam ||
तवक्षीरं तु मधुरं शिशिरं दाहपित्तनुत् । (१८१।१)
tavakṣīraṃ tu madhuraṃ śiśiraṃ dāhapittanut |
तालीसपत्त्रतालीसपत्रं तालीशं पत्त्राख्यं च शुकोदरम् । (१८२।१)
tālīsapattratālīsapatraṃ tālīśaṃ pattrākhyaṃ ca śukodaram |
धात्रीपत्त्रं चार्कवेधं करिपत्त्रं घनच्छदम् ॥ (१८२।२)
dhātrīpattraṃ cārkavedhaṃ karipattraṃ ghanacchadam ||
नीलं नीलाम्बरं तालं तालीपत्त्रं तलाह्वयम् । (१८३।१)
nīlaṃ nīlāmbaraṃ tālaṃ tālīpattraṃ talāhvayam |
तालीसपत्त्रकस्येति नामान्य् आहुस् त्रयोदश ॥ (१८३।२)
tālīsapattrakasyeti nāmāny āhus trayodaśa ||
तालीसपत्रं तिक्तोष्णं मधुरं कफवातनुत् । (१८४।१)
tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut |
वंशरोचनास्याद् वंशरोचना वांशी तुङ्गक्षीरी तुगा शुभा । (१८५।१)
vaṃśarocanāsyād vaṃśarocanā vāṃśī tuṅgakṣīrī tugā śubhā |
त्वक्क्षीरी वंशगा शुक्रा वंशक्षीरी च वैणवी ॥ (१८५।२)
tvakkṣīrī vaṃśagā śukrā vaṃśakṣīrī ca vaiṇavī ||
तुङ्गा रोचनिका पिङ्गा नवेन्दुर् वंशशर्करा ॥ (१८६।२)
tuṅgā rocanikā piṅgā navendur vaṃśaśarkarā ||
स्याद् वंशरोचना रूक्षा कषाया मधुरा हिमा । (१८७।१)
syād vaṃśarocanā rūkṣā kaṣāyā madhurā himā |
तवक्षीरे यवक्षीरे क्षीरे जातं गुणोत्तरम् । (१८८।१)
tavakṣīre yavakṣīre kṣīre jātaṃ guṇottaram |
वंशक्षीरीसमं प्रोक्तं तदभावे ऽन्यवस्तुजम् ॥ (१८८।२)
vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam ||
गवयक्षीरजं क्षीरं सुस्निग्धं शीतलं लघु । (१८९।१)
gavayakṣīrajaṃ kṣīraṃ susnigdhaṃ śītalaṃ laghu |
सुगन्धि द्रावकं शुभ्रम् अन्यत् स्वल्पगुणं स्मृतम् ॥ (१८९।२)
sugandhi drāvakaṃ śubhram anyat svalpaguṇaṃ smṛtam ||
मञ्जिष्ठामञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लिका । (१९०।१)
mañjiṣṭhāmañjiṣṭhā hariṇī raktā gaurī yojanavallikā |
भण्डी चित्रलता चित्रा चित्राङ्गी जननी च सा । (१९१।१)
bhaṇḍī citralatā citrā citrāṅgī jananī ca sā |
मण्डूकपर्णी विजया मञ्जूषा रक्तयष्टिका ॥ (१९१।२)
maṇḍūkaparṇī vijayā mañjūṣā raktayaṣṭikā ||
क्षेत्रिणी चैव रागाढ्या भण्डीरी कालभाण्डिका । (१९२।१)
kṣetriṇī caiva rāgāḍhyā bhaṇḍīrī kālabhāṇḍikā |
अरुणा ज्वरहन्त्री च छद्मा नागकुमारिका ॥ (१९२।२)
aruṇā jvarahantrī ca chadmā nāgakumārikā ||
भाण्डीरलतिका चैव रागाङ्गी वस्त्रभूषणा । (१९३।१)
bhāṇḍīralatikā caiva rāgāṅgī vastrabhūṣaṇā |
त्रिंशाह्वया तथा प्रोक्ता मञ्जिष्ठा च भिषग्वरैः ॥ (१९३।२)
triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ ||
मञ्जिष्ठा मधुरा स्वादे कषायोष्णा गुरुस् तथा । (१९४।१)
mañjiṣṭhā madhurā svāde kaṣāyoṣṇā gurus tathā |
चोलचोलश् च योजनी कौञ्जी सिंहिली च चतुर्विधा । (१९५।१)
colacolaś ca yojanī kauñjī siṃhilī ca caturvidhā |
मञ्जिष्ठा चैव सा प्रोक्ता विलोमे चोत्तमोत्तमा ॥ (१९५।२)
mañjiṣṭhā caiva sā proktā vilome cottamottamā ||
हरिद्राहरिद्रा हरिद्रञ्जनी स्वर्णवर्णा सुवर्णा शिवा वर्णिनी दीर्घरागा । (१९६।१)
haridrāharidrā haridrañjanī svarṇavarṇā suvarṇā śivā varṇinī dīrgharāgā |
हरिद्री च पीता वराङ्गी च गौरी जनिष्ठा वरा वर्णदात्री पवित्रा ॥ (१९६।२)
haridrī ca pītā varāṅgī ca gaurī janiṣṭhā varā varṇadātrī pavitrā ||
पिङ्गला वर्णदा चैव मङ्गल्या मङ्गला च सा ॥ (१९७।२)
piṅgalā varṇadā caiva maṅgalyā maṅgalā ca sā ||
लक्ष्मी भद्रा शिफा शोफा शोभना सुभगाह्वया । (१९८।१)
lakṣmī bhadrā śiphā śophā śobhanā subhagāhvayā |
श्यामा जयन्तिका द्वे च त्रिंशन्नामविलासिनी ॥ (१९८।२)
śyāmā jayantikā dve ca triṃśannāmavilāsinī ||
हरिद्रा कटुतिक्तोष्णा कफवातास्रकुष्ठनुत् । (१९९।१)
haridrā kaṭutiktoṣṇā kaphavātāsrakuṣṭhanut |
मेहकण्डूव्रणान् हन्ति देहवर्णविधायिनी ॥ (१९९।२)
mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī ||
दारुहरिद्राअन्या दारुहरिद्रा च दार्वी पीतद्रु पीतिका । (२००।१)
dāruharidrāanyā dāruharidrā ca dārvī pītadru pītikā |
कटङ्कटेरी पर्जन्या पीता दारुनिशा स्मृता । (२०१।१)
kaṭaṅkaṭerī parjanyā pītā dāruniśā smṛtā |
स्यात् कर्कटकिनी ज्ञेया प्रोक्ता सप्तदशाह्वया ॥ (२०१।३)
syāt karkaṭakinī jñeyā proktā saptadaśāhvayā ||
तिक्ता दारुहरिद्रा तु कटूष्णा व्रणमेहनुत् । (२०२।१)
tiktā dāruharidrā tu kaṭūṣṇā vraṇamehanut |
लाक्षालाक्षा खदिरका रक्ता रङ्गमाता पलङ्कषा । (२०३।१)
lākṣālākṣā khadirakā raktā raṅgamātā palaṅkaṣā |
जतु च क्रिमिजा चैव द्रुमव्याधिर् अलक्तकः ॥ (२०३।२)
jatu ca krimijā caiva drumavyādhir alaktakaḥ ||
पलाशी मुद्रणी दीप्तिर् जन्तुका गन्धमादनी । (२०४।१)
palāśī mudraṇī dīptir jantukā gandhamādanī |
नीला द्रवरसा चैव पित्तारिर् मुनिभूह्वया ॥ (२०४।२)
nīlā dravarasā caiva pittārir munibhūhvayā ||
लाक्षा तिक्तकषाया स्यात् श्लेष्मपित्तार्तिदोषनुत् । (२०५।१)
lākṣā tiktakaṣāyā syāt śleṣmapittārtidoṣanut |
अलक्तकअलक्तको जन्तुरसो रागो निर्भर्त्सनस् तथा । (२०६।१)
alaktakaalaktako janturaso rāgo nirbhartsanas tathā |
जननी जन्तुकारी च संधर्षा चक्रमर्दिनी ॥ (२०६।२)
jananī jantukārī ca saṃdharṣā cakramardinī ||
कण्ठरुक्शमनो रुच्यो व्रणदोषार्तिनाशनः ॥ (२०७।२)
kaṇṭharukśamano rucyo vraṇadoṣārtināśanaḥ ||
लोध्रलोध्रो रोध्रो भिल्लतरुश् चिल्लकः काण्डकीलकः । (२०८।१)
lodhralodhro rodhro bhillataruś cillakaḥ kāṇḍakīlakaḥ |
तिरीटो लोध्रको वृक्षः शम्बरो हस्तिरोध्रकः ॥ (२०८।२)
tirīṭo lodhrako vṛkṣaḥ śambaro hastirodhrakaḥ ||
तिल्वकः काण्डहीनश् च शावरो हेमपुष्पकः । (२०९।१)
tilvakaḥ kāṇḍahīnaś ca śāvaro hemapuṣpakaḥ |
भिल्ली शावरकश् चैव ज्ञेयः पञ्चदशाह्वयः ॥ (२०९।२)
bhillī śāvarakaś caiva jñeyaḥ pañcadaśāhvayaḥ ||
क्रमुकक्रमुकः पट्टिकारोध्रो वल्करोध्रो बृहद्दलः । (२१०।१)
kramukakramukaḥ paṭṭikārodhro valkarodhro bṛhaddalaḥ |
जीर्णबुध्नो बृहद्वल्को जीर्णपत्त्रो ऽक्षिभेषजः ॥ (२१०।२)
jīrṇabudhno bṛhadvalko jīrṇapattro 'kṣibheṣajaḥ ||
शावरः श्वेतरोध्रश् च मार्जनो बहलत्वचः । (२११।१)
śāvaraḥ śvetarodhraś ca mārjano bahalatvacaḥ |
पट्टी लाक्षाप्रसादश् च वल्कलो बाणभूह्वयः ॥ (२११।२)
paṭṭī lākṣāprasādaś ca valkalo bāṇabhūhvayaḥ ||
लोध्रद्वयं कषायं स्यात् शीतं वातकफास्रनुत् । (२१२।१)
lodhradvayaṃ kaṣāyaṃ syāt śītaṃ vātakaphāsranut |
चक्षुष्यं विषहृत् तत्र विशिष्टो वल्करोध्रकः ॥ (२१२।२)
cakṣuṣyaṃ viṣahṛt tatra viśiṣṭo valkarodhrakaḥ ||
धातकीधातकी वह्निपुष्पी च ताम्रपुष्पी च धावनी । (२१३।१)
dhātakīdhātakī vahnipuṣpī ca tāmrapuṣpī ca dhāvanī |
अग्निज्वाला सुभिक्षा च पार्वती बहुपुष्पिका ॥ (२१३।२)
agnijvālā subhikṣā ca pārvatī bahupuṣpikā ||
कुमुदा सीधुपुष्पी च कुञ्जरा मद्यवासिनी । (२१४।१)
kumudā sīdhupuṣpī ca kuñjarā madyavāsinī |
गुच्छसङ्घादिपुष्पान्ता ज्ञेया सा लोध्रपुष्पिणी । (२१४।२)
gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī |
तीव्रज्वाला वह्निशिखा मद्यपुष्पीन्द्रसंमिता ॥ (२१४।३)
tīvrajvālā vahniśikhā madyapuṣpīndrasaṃmitā ||
समुद्रफलसमुद्रनाम प्रथमं पश्चात् फलम् उदाहरेत् । (२१६।१)
samudraphalasamudranāma prathamaṃ paścāt phalam udāharet |
समुद्रफलम् इत्यादि नाम वाच्यं भिषग्वरैः ॥ (२१६।२)
samudraphalam ityādi nāma vācyaṃ bhiṣagvaraiḥ ||
फलं समुद्रस्य कटूष्णकारि वातापहं भूतनिरोधकारि । (२१७।१)
phalaṃ samudrasya kaṭūṣṇakāri vātāpahaṃ bhūtanirodhakāri |
त्रिदोषदावानलदोषहारि कफामयभ्रान्तिविरोधकारि ॥ (२१७।२)
tridoṣadāvānaladoṣahāri kaphāmayabhrāntivirodhakāri ||
निर्विषानिर्विषापविषा चैव विविषा विषहा परा । (२१८।१)
nirviṣānirviṣāpaviṣā caiva viviṣā viṣahā parā |
विषहन्त्री विषाभावा ह्य् अविषा विषवैरिणी ॥ (२१८।२)
viṣahantrī viṣābhāvā hy aviṣā viṣavairiṇī ||
निर्विषा तु कटुः शीता कफवातास्रदोषनुत् । (२१९।१)
nirviṣā tu kaṭuḥ śītā kaphavātāsradoṣanut |
विषविषम् आहेयम् अमृतं गरलं दारदं गरम् । (२२०।१)
viṣaviṣam āheyam amṛtaṃ garalaṃ dāradaṃ garam |
कालकूटं कालकूटे हरिद्रं रक्तशृङ्गकम् ॥ (२२०।२)
kālakūṭaṃ kālakūṭe haridraṃ raktaśṛṅgakam ||
नीलं च गरदं क्ष्वेडो घोरं हालाहलं हरम् । (२२१।१)
nīlaṃ ca garadaṃ kṣveḍo ghoraṃ hālāhalaṃ haram |
मरं हलाहलं शृङ्गी भूगरं चैकविंशतिः ॥ (२२१।२)
maraṃ halāhalaṃ śṛṅgī bhūgaraṃ caikaviṃśatiḥ ||
अमृतं स्यात् वत्सनाभो विषम् उग्रं महौषधम् । (२२२।१)
amṛtaṃ syāt vatsanābho viṣam ugraṃ mahauṣadham |
गरलं स्थावरादि स्यात् प्रोक्तं चैकादशाह्वयम् ॥ (२२२।३)
garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam ||
कण्ठरुक्संनिपातघ्नः पित्तसंतापकारकः ॥ (२२३।२)
kaṇṭharuksaṃnipātaghnaḥ pittasaṃtāpakārakaḥ ||
स्थावरे विषजातीनां श्रेष्ठौ नागोग्रशृङ्गकौ । (२२४।१)
sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau |
नागो देहकरे श्रेष्ठो लोहे चैवोग्रशृङ्गकः ॥ (२२४।२)
nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ ||
विषस्याष्टादशभिदाश् चतुर्वर्गाश् च यत् पृथक् । (२२५।१)
viṣasyāṣṭādaśabhidāś caturvargāś ca yat pṛthak |
तद् अत्र नोक्तम् अस्माभिर् ग्रन्थगौरवभीरुभिः ॥ (२२५।२)
tad atra noktam asmābhir granthagauravabhīrubhiḥ ||
शटीशटी शठी पलाशश् च षड्ग्रन्था सुव्रता वधूः । (२२६।१)
śaṭīśaṭī śaṭhī palāśaś ca ṣaḍgranthā suvratā vadhūḥ |
सुभद्रा च तृणी दूर्वा गन्धा पृथुपलाशिका । (२२७।१)
subhadrā ca tṛṇī dūrvā gandhā pṛthupalāśikā |
सौम्या हिमोद्भवा गन्धवधूर् नागेन्दुसंमिता ॥ (२२७।२)
saumyā himodbhavā gandhavadhūr nāgendusaṃmitā ||
शटी सतिक्ताम्लरसा लघूष्णा रुचिप्रदा च ज्वरहारिणी च । (२२८।१)
śaṭī satiktāmlarasā laghūṣṇā rucipradā ca jvarahāriṇī ca |
कफास्रकण्डूव्रणदोषहन्त्री वक्त्रामयध्वंसकरी च सोक्ता ॥ (२२८।२)
kaphāsrakaṇḍūvraṇadoṣahantrī vaktrāmayadhvaṃsakarī ca soktā ||
गन्धपत्त्राअन्या तु गन्धपत्त्रा स्यात् स्थूलास्या तिक्तकन्दका । (२२९।१)
gandhapattrāanyā tu gandhapattrā syāt sthūlāsyā tiktakandakā |
वनजा शटिका वन्या स्तवक्षीर्य् एकपत्त्रिका ॥ (२२९।२)
vanajā śaṭikā vanyā stavakṣīry ekapattrikā ||
गन्धपीता पलाशान्ता गन्धाढ्या गन्धपत्त्रिका । (२३०।१)
gandhapītā palāśāntā gandhāḍhyā gandhapattrikā |
दीर्घपत्त्रा गन्धनिशा शरभूह्वा सुपाकिनी ॥ (२३०।२)
dīrghapattrā gandhaniśā śarabhūhvā supākinī ||
गन्धपत्त्रा कटुः स्वादुस् तीक्ष्णोष्णा कफवातजित् । (२३१।१)
gandhapattrā kaṭuḥ svādus tīkṣṇoṣṇā kaphavātajit |
कासच्छर्दिज्वरान् हन्ति पित्तकोपं करोति च ॥ (२३१।२)
kāsacchardijvarān hanti pittakopaṃ karoti ca ||
समुद्रफेनसमुद्रफेनं फेनश् च वार्धिफेनं पयोधिजम् । (२३२।१)
samudraphenasamudraphenaṃ phenaś ca vārdhiphenaṃ payodhijam |
सुफेनम् अब्धिहिण्डीरं सामुद्रं सप्तनामकम् ॥ (२३२।२)
suphenam abdhihiṇḍīraṃ sāmudraṃ saptanāmakam ||
समुद्रफेनं शिशिरं कषायं नेत्ररोगनुत् । (२३३।१)
samudraphenaṃ śiśiraṃ kaṣāyaṃ netraroganut |
कफकण्ठामयघ्नं च रुचिकृत् कर्णरोगहृत् ॥ (२३३।२)
kaphakaṇṭhāmayaghnaṃ ca rucikṛt karṇarogahṛt ||
अफेनअफेनं खस्खसरसो निफेनं चाहिफेनकम् । (२३४।१)
aphenaaphenaṃ khaskhasaraso niphenaṃ cāhiphenakam |
अफेनं संनिपातघ्नं वृष्यं बल्यं च मोहदम् ॥ (२३४।२)
aphenaṃ saṃnipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam ||
चतुर्विधम् अफेनं स्यात् जारणं मारणं तथा । (२३५।१)
caturvidham aphenaṃ syāt jāraṇaṃ māraṇaṃ tathā |
धारणं सारणं चैव क्रमाद् वक्ष्ये तु लक्षणम् ॥ (२३५।२)
dhāraṇaṃ sāraṇaṃ caiva kramād vakṣye tu lakṣaṇam ||
श्वेतं च जारणं प्रोक्तं कृष्णवर्णं च मारणम् । (२३६।१)
śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam |
धारणं पीतवर्णं तु कर्बुरं सारणं तथा ॥ (२३६।२)
dhāraṇaṃ pītavarṇaṃ tu karburaṃ sāraṇaṃ tathā ||
जारणं जारयेद् अन्नं मारणं मृत्युदायकम् । (२३७।१)
jāraṇaṃ jārayed annaṃ māraṇaṃ mṛtyudāyakam |
धारणं च वयःस्तम्भं सारणं मलसारणम् ॥ (२३७।२)
dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam ||
टङ्कणटङ्गणष् टङ्कणक्षारो रङ्गः क्षारो रसाधिकः । (२३८।१)
ṭaṅkaṇaṭaṅgaṇaṣ ṭaṅkaṇakṣāro raṅgaḥ kṣāro rasādhikaḥ |
लोहद्रावी रसघ्नश् च सुभगो रङ्गदश् च सः ॥ (२३८।२)
lohadrāvī rasaghnaś ca subhago raṅgadaś ca saḥ ||
त्रयोदशाह्वयश् चायं कथितस् तु भिषग्वरैः ॥ (२३९।२)
trayodaśāhvayaś cāyaṃ kathitas tu bhiṣagvaraiḥ ||
कथितष् टङ्कणक्षारः कटूष्णः कफनाशनः । (२४०।१)
kathitaṣ ṭaṅkaṇakṣāraḥ kaṭūṣṇaḥ kaphanāśanaḥ |
टङ्कण:: श्वेतटङ्कणद्वितीयं टङ्गणं श्वेतं श्वेतकं श्वेतटङ्गणम् । (२४१।१)
ṭaṅkaṇa:: śvetaṭaṅkaṇadvitīyaṃ ṭaṅgaṇaṃ śvetaṃ śvetakaṃ śvetaṭaṅgaṇam |
शिवं च द्रावकं प्रोक्तं शितक्षारं दशाभिधम् ॥ (२४१।३)
śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham ||
सुश्वेतं टङ्कणं स्निग्धं कटूष्णं कफवातनुत् । (२४२।१)
suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut |
साकुरुण्डसाकुरुण्डो ग्रन्थिफलो विकटो वस्त्रभूषणः । (२४३।१)
sākuruṇḍasākuruṇḍo granthiphalo vikaṭo vastrabhūṣaṇaḥ |
कुरुण्डः कर्बुरफलः सकुरुण्डश् च सप्तधा ॥ (२४३।२)
kuruṇḍaḥ karburaphalaḥ sakuruṇḍaś ca saptadhā ||
साकुरुण्डः कषायश् च रुचिकृद् दीपनः परः । (२४४।१)
sākuruṇḍaḥ kaṣāyaś ca rucikṛd dīpanaḥ paraḥ |
श्लेष्मवातापहारी च वस्त्ररञ्जनको लघुः ॥ (२४४।२)
śleṣmavātāpahārī ca vastrarañjanako laghuḥ ||
हिमावलीहिमावली च हृद्धात्री कुष्ठघ्नो गारकुष्ठकः । (२४५।१)
himāvalīhimāvalī ca hṛddhātrī kuṣṭhaghno gārakuṣṭhakaḥ |
अङ्गारग्रन्थिको ग्रन्थी ग्रन्थिलो मुनिसंज्ञकः ॥ (२४५।२)
aṅgāragranthiko granthī granthilo munisaṃjñakaḥ ||
क्रिमिकुष्ठगुदात्युग्रखर्जूकण्डूतिहारिणी ॥ (२४६।२)
krimikuṣṭhagudātyugrakharjūkaṇḍūtihāriṇī ||
हस्तिमदहस्तिमदो गजमदो गजदानं मदस् तथा । (२४७।१)
hastimadahastimado gajamado gajadānaṃ madas tathā |
कुम्भिमदो दन्तिमदो दानं द्वीपिमदो ऽष्टधा ॥ (२४७।२)
kumbhimado dantimado dānaṃ dvīpimado 'ṣṭadhā ||
स्निग्धो हस्तिमदस् तिक्तः केश्यो ऽपस्मारनाशनः । (२४८।१)
snigdho hastimadas tiktaḥ keśyo 'pasmāranāśanaḥ |
विषहृत् कुष्ठकण्डूतिव्रणदद्रुविसर्पनुत् ॥ (२४८।२)
viṣahṛt kuṣṭhakaṇḍūtivraṇadadruvisarpanut ||
स्वर्जिकास्वर्जिक्षारः स्वर्जिकश् च क्षारस्वर्जी सुखार्जिकः । (२४९।१)
svarjikāsvarjikṣāraḥ svarjikaś ca kṣārasvarjī sukhārjikaḥ |
सुवर्चिकः सुवर्ची च सुखवर्चा मुनिह्वयः ॥ (२४९।२)
suvarcikaḥ suvarcī ca sukhavarcā munihvayaḥ ||
स्वर्जिकः कटुर् उष्णश् च तीक्ष्णो वातकफार्तिनुत् । (२५०।१)
svarjikaḥ kaṭur uṣṇaś ca tīkṣṇo vātakaphārtinut |
गुल्माध्मानक्रिमीन् हन्ति व्रणजाठरदोषनुत् ॥ (२५०।२)
gulmādhmānakrimīn hanti vraṇajāṭharadoṣanut ||
लवणारलवणारं लवणोत्थं लवणासुरजं च लवणभेदश् च । (२५१।१)
lavaṇāralavaṇāraṃ lavaṇotthaṃ lavaṇāsurajaṃ ca lavaṇabhedaś ca |
जलजं लवणक्षारं लवणं च क्षारलवणं च ॥ (२५१।२)
jalajaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca ||
लोणारक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् । (२५२।१)
loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam |
क्षारं लवणम् ईषच् च वातगुल्मादिदोषनुत् ॥ (२५२।२)
kṣāraṃ lavaṇam īṣac ca vātagulmādidoṣanut ||
वज्रकवज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् । (२५३।१)
vajrakavajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam |
सारं चन्दनसारं च धूमोत्थं धूमजं गजाः ॥ (२५३।२)
sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ ||
वज्रकं क्षारम् अत्युष्णं तीक्ष्णं क्षारं च रेचनम् । (२५४।१)
vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam |
यवक्षारयवक्षारः स्मृतः पाक्यो यवजो यवसूचकः । (२५५।१)
yavakṣārayavakṣāraḥ smṛtaḥ pākyo yavajo yavasūcakaḥ |
यवशूको यवाह्वश् च यवापत्यं यवाग्रजः ॥ (२५५।२)
yavaśūko yavāhvaś ca yavāpatyaṃ yavāgrajaḥ ||
यवक्षारः कटूष्णश् च कफवातोदरार्तिनुत् । (२५६।१)
yavakṣāraḥ kaṭūṣṇaś ca kaphavātodarārtinut |
सर्वक्षारसर्वक्षारो बहुक्षारः समूहक्षारकस् तथा । (२५७।१)
sarvakṣārasarvakṣāro bahukṣāraḥ samūhakṣārakas tathā |
स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः ॥ (२५७।२)
stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ ||
सर्वक्षारो ह्य् अतिक्षारश् चक्षुष्यो वस्तिशोधनः । (२५८।१)
sarvakṣāro hy atikṣāraś cakṣuṣyo vastiśodhanaḥ |
गुदावर्तक्रिमिघ्नश् च मलवस्त्रविशोधनः ॥ (२५८।२)
gudāvartakrimighnaś ca malavastraviśodhanaḥ ||
मायाफलमायाफलं मायिफलं च मायिका छिद्राफलं मायि च पञ्चनामकम् । (२५९।१)
māyāphalamāyāphalaṃ māyiphalaṃ ca māyikā chidrāphalaṃ māyi ca pañcanāmakam |
मायाफलं वातहरं कटूष्णकम् शैथिल्यसंकोचककेशकार्ष्ण्यदम् ॥ (२५९।२)
māyāphalaṃ vātaharaṃ kaṭūṣṇakam śaithilyasaṃkocakakeśakārṣṇyadam ||
इत्थं नानाद्रव्यसम्भारनामग्रामव्याख्यातद्गुणाख्यानपूर्वम् । (२६०।१)
itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam |
वर्गं वीर्यध्वस्तरोगोपसर्गं बुद्ध्वा वैद्यो विश्ववन्द्यत्वम् ईयात् ॥ (२६०।२)
vargaṃ vīryadhvastarogopasargaṃ buddhvā vaidyo viśvavandyatvam īyāt ||
साफल्याय किलैत्य यानि जनुषः कान्तारदूरान्तरात् स्वौजःपात्रविचारणाय विपणेर् मध्यं समध्यासते । (२६१।१)
sāphalyāya kilaitya yāni januṣaḥ kāntāradūrāntarāt svaujaḥpātravicāraṇāya vipaṇer madhyaṃ samadhyāsate |
तेषाम् आश्रयभूमिर् एष भणितः पण्यौषधीनां बुधैर् वर्गो द्रव्यगुणाभिधाननिपुणैः पण्यादिवर्गात्मना ॥ (२६१।२)
teṣām āśrayabhūmir eṣa bhaṇitaḥ paṇyauṣadhīnāṃ budhair vargo dravyaguṇābhidhānanipuṇaiḥ paṇyādivargātmanā ||
यः सौम्येन सदाशयेन कलयन् दिव्यागमानां जनैर् दुर्ग्राहं महिमानम् आशु नुदते स्वं जग्मुषां दुर्गतीः । (२६२।१)
yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ |
वर्गः पिप्पलिकादिर् एष नृहरेस् तस्येह शस्यात्मनो नामग्रामशिखामणौ खलु कृतौ षष्ठः प्रतिष्ठाम् अगात् ॥ (२६२।२)
vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt ||
Data courtesy of The Digital Corpus of Sanskrit.