राजनिघण्टुRājanighaṇṭu

RājNigh, 15

15 of 35 · 454 verses

Select a line for its word-by-word analysis.

1.1१.१

किल्बिषं च क्षयं नीत्वा रुचिरं चैव चिन्तयेत् त्रिस्वर्णरौप्यताम्राणि त्रपु सीसं द्विरीतिका । (१।१)

kilbiṣaṃ ca kṣayaṃ nītvā ruciraṃ caiva cintayet trisvarṇaraupyatāmrāṇi trapu sīsaṃ dvirītikā |

1.2१.२

कांस्यायो वर्तकं कान्तं किट्टं मुण्डं च तीक्ष्णकम् ॥ (१।२)

kāṃsyāyo vartakaṃ kāntaṃ kiṭṭaṃ muṇḍaṃ ca tīkṣṇakam ||

2.1२.१

शिला सिन्दूरभूनागं हिङ्गुलं गैरिकं द्विधा । (२।१)

śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā |

2.2२.२

तुवरी हरितालं च गन्धकं च शिलाजतु ॥ (२।२)

tuvarī haritālaṃ ca gandhakaṃ ca śilājatu ||

3.1३.१

सिक्थकं च द्विकासीसं माक्षिकौ पञ्चधाञ्जनम् । (३।१)

sikthakaṃ ca dvikāsīsaṃ mākṣikau pañcadhāñjanam |

3.2३.२

कम्पिल्लतुत्थरसकं पारदश् चाभ्रकं चतुः ॥ (३।२)

kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ ||

4.1४.१

स्फटी च क्षुल्लकः शङ्खौ कपर्दः शुक्तिका द्विधा । (४।१)

sphaṭī ca kṣullakaḥ śaṅkhau kapardaḥ śuktikā dvidhā |

4.2४.२

खटिनी दुग्धपाषाणो मणिश् च कर्पूराद्यकः ॥ (४।२)

khaṭinī dugdhapāṣāṇo maṇiś ca karpūrādyakaḥ ||

5.1५.१

सिकता च द्विकङ्गुष्ठं विमला च द्विधा मता । (५।१)

sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā |

5.2५.२

तथाखुप्रस्तरश् चैव शरवेदमिताह्वयाः । (५।२)

tathākhuprastaraś caiva śaravedamitāhvayāḥ |

5.3५.३

अथ रत्नं नवं वक्ष्ये पद्मरागादिकं क्रमात् ॥ (५।३)

atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt ||

6.1६.१

माणिक्यमुक्ताफलविद्रुमाणि गारुत्मतं स्याद् अथ पुष्परागः । (६।१)

māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ |

6.2६.२

वज्रं च नीलं च नव क्रमेण गोमेदवैडूर्ययुतानि तानि ॥ (६।२)

vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni ||

7.1७.१

स्फटिकश् च सूर्यकान्तो वैक्रान्तश् चन्द्रकान्तकः । (७।१)

sphaṭikaś ca sūryakānto vaikrāntaś candrakāntakaḥ |

7.2७.२

राजावर्तः पेरोजं स्याद् उभौ बाणाश् च संख्यया ॥ (७।२)

rājāvartaḥ perojaṃ syād ubhau bāṇāś ca saṃkhyayā ||

8.1८.१

स्नर्णस्वर्णं सुवर्णकनकोज्ज्वलकाञ्चनानि कल्याणहाटकहिरण्यमनोहराणि । (८।१)

snarṇasvarṇaṃ suvarṇakanakojjvalakāñcanāni kalyāṇahāṭakahiraṇyamanoharāṇi |

8.2८.२

गाङ्गेयगैरिकमहारजताग्निवीर्यरुक्माग्निहेमतपनीयकभास्कराणि ॥ (८।२)

gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi ||

9.1९.१

जाम्बूनदाष्टापदजातरूपपिञ्जानचामीकरकर्बुराणि । (९।१)

jāmbūnadāṣṭāpadajātarūpapiñjānacāmīkarakarburāṇi |

9.2९.२

कार्तस्वरापिञ्जरभर्मभूरितेजांसि दीप्तानलपीतकानि ॥ (९।२)

kārtasvarāpiñjarabharmabhūritejāṃsi dīptānalapītakāni ||

10.1१०.१

मङ्गल्यसौमेरवशातकुम्भशृङ्गारचन्द्राजरजाम्बवानि । (१०।१)

maṅgalyasaumeravaśātakumbhaśṛṅgāracandrājarajāmbavāni |

10.2१०.२

आग्नेयनिष्काग्निशिखानि चेति नेत्राब्धिनिर्धारितनाम हेम ॥ (१०।२)

āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema ||

11.1११.१

गोल्द्:: मेदिच्। प्रोपेर्तिएस्स्वर्णं स्निग्धकषायतिक्तमधुरं दोषत्रयध्वंसनं शीतं स्वादु रसायनं च रुचिकृच् चक्षुष्यम् आयुष्प्रदम् । (११।१)

gold:: medic. propertiessvarṇaṃ snigdhakaṣāyatiktamadhuraṃ doṣatrayadhvaṃsanaṃ śītaṃ svādu rasāyanaṃ ca rucikṛc cakṣuṣyam āyuṣpradam |

11.2११.२

प्रज्ञावीर्यबलस्मृतिस्वरकरं कान्तिं विधत्ते तनोः संधत्ते दुरितक्षयं श्रियम् इदं धत्ते नॄणां धारणात् ॥ (११।२)

prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt ||

12.1१२.१

गोल्द्:: परीक्षा:: गोओद् क़ुअलित्य्दाहे च रक्तम् अथ यच् च सितं छिदायां काश्मीरकान्ति च विभाति निकाषपट्टे । (१२।१)

gold:: parīkṣā:: good qualitydāhe ca raktam atha yac ca sitaṃ chidāyāṃ kāśmīrakānti ca vibhāti nikāṣapaṭṭe |

12.2१२.२

स्निग्धं च गौरवम् उपैति च यत् तुलायां जात्या तद् एव कनकं मृदु रक्तपीतम् ॥ (१२।२)

snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam ||

13.1१३.१

गोल्द्:: सुब्त्य्पेस्तच् चैकं रसवेधजं तद् अपरं जातं स्वयं भूमिजं किंचान्यद् बहुलोहसंकरभवं चेति त्रिधा काञ्चनम् । (१३।१)

gold:: subtypestac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam |

13.2१३.२

तत्राद्यं किल पीतरक्तम् अपरं रक्तं ततो ऽन्यत् तथा मैरालं तद् अतिक्रमेण तद् इदं स्यात् पूर्वपूर्वोत्तमम् ॥ (१३।२)

tatrādyaṃ kila pītaraktam aparaṃ raktaṃ tato 'nyat tathā mairālaṃ tad atikrameṇa tad idaṃ syāt pūrvapūrvottamam ||

14.1१४.१

रौप्यरौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् । (१४।१)

raupyaraupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam |

14.2१४.२

श्वेतकं तु महाशुभ्रं रजतं तप्तरूपकम् ॥ (१४।२)

śvetakaṃ tu mahāśubhraṃ rajataṃ taptarūpakam ||

15.1१५.१

चन्द्रभूतिः सितं तारं कलधौतेन्दुलोहकम् । (१५।१)

candrabhūtiḥ sitaṃ tāraṃ kaladhautendulohakam |

15.2१५.२

कुप्यं धौतं तथा सौधं चन्द्रहासं मुनीन्दुकम् ॥ (१५।२)

kupyaṃ dhautaṃ tathā saudhaṃ candrahāsaṃ munīndukam ||

16.1१६.१

सिल्वेर्:: मेदिच्। प्रोपेर्तिएस्रौप्यं स्निग्धं कषायाम्लं विपाके मधुरं सरम् । (१६।१)

silver:: medic. propertiesraupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram |

16.2१६.२

वातपित्तहरं रुच्यं वलीपलितनाशनम् ॥ (१६।२)

vātapittaharaṃ rucyaṃ valīpalitanāśanam ||

17.1१७.१

सिल्वेर्:: परीक्षा:: गोओद् क़ुअलित्य्दाहच्छेदनिकाषेषु सितं स्निग्धं च यद् गुरु । (१७।१)

silver:: parīkṣā:: good qualitydāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru |

17.2१७.२

सुघर्षे ऽपि च वर्णाढ्यम् उत्तमं तद् उदीरितम् ॥ (१७।२)

sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam ||

18.1१८.१

चोप्पेर्:: स्य्नोन्य्म्स्ताम्रं म्लेच्छमुखं शुल्वं तपनेष्टम् उदुम्बरम् । (१८।१)

copper:: synonymstāmraṃ mlecchamukhaṃ śulvaṃ tapaneṣṭam udumbaram |

18.2१८.२

त्र्यम्बकं चारविन्दं च रविलोहं रविप्रियम् । (१८।२)

tryambakaṃ cāravindaṃ ca ravilohaṃ ravipriyam |

18.3१८.३

रक्तं नेपालकं चैव रक्तधातुः करेन्दुधा ॥ (१८।३)

raktaṃ nepālakaṃ caiva raktadhātuḥ karendudhā ||

19.1१९.१

चोप्पेर्:: मेदिच्। प्रोपेर्तिएस्ताम्रं सुपक्वं मधुरं कषायं तिक्तं विपाके कटु शीतलं च । (१९।१)

copper:: medic. propertiestāmraṃ supakvaṃ madhuraṃ kaṣāyaṃ tiktaṃ vipāke kaṭu śītalaṃ ca |

19.2१९.२

कफापहं पित्तहरं विबन्धशूलघ्नपाण्डूदरगुल्मनाशि ॥ (१९।२)

kaphāpahaṃ pittaharaṃ vibandhaśūlaghnapāṇḍūdaragulmanāśi ||

20.1२०.१

ताम्रपरीक्षाघनघातसहं स्निग्धं रक्तपत्त्रामलं मृदु । (२०।१)

tāmraparīkṣāghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu |

20.2२०.२

शुद्धाकरसमुत्पन्नं ताम्रं शुभम् असंकरम् ॥ (२०।२)

śuddhākarasamutpannaṃ tāmraṃ śubham asaṃkaram ||

21.1२१.१

ज़िन्न्त्रपु त्रपुसमाण्डूकं वङ्गं च मधुरं हिमम् । (२१।१)

Zinntrapu trapusamāṇḍūkaṃ vaṅgaṃ ca madhuraṃ himam |

21.2२१.२

कुरूप्यं पिच्चटं रङ्गं पूतिगन्धं दशाह्वयम् ॥ (२१।२)

kurūpyaṃ piccaṭaṃ raṅgaṃ pūtigandhaṃ daśāhvayam ||

22.1२२.१

तिन्:: मेदिच्। प्रोपेर्तिएस्त्रपुसं कटुतिक्तहिमं कषायलवणं सरं च मेहघ्नम् । (२२।१)

tin:: medic. propertiestrapusaṃ kaṭutiktahimaṃ kaṣāyalavaṇaṃ saraṃ ca mehaghnam |

22.2२२.२

क्रिमिदाहपाण्डुशमनं कान्तिकरं तद् रसायनं चैव ॥ (२२।२)

krimidāhapāṇḍuśamanaṃ kāntikaraṃ tad rasāyanaṃ caiva ||

23.1२३.१

तिन्:: परीक्षाश्वेतं लघु मृदु स्वच्छं स्निग्धम् उष्णापहं हिमम् । (२३।१)

tin:: parīkṣāśvetaṃ laghu mṛdu svacchaṃ snigdham uṣṇāpahaṃ himam |

23.2२३.२

सूतपत्त्रकरं कान्तं त्रपु श्रेष्ठम् उदाहृतम् ॥ (२३।२)

sūtapattrakaraṃ kāntaṃ trapu śreṣṭham udāhṛtam ||

24.1२४.१

लेअद्:: स्य्नोन्य्म्स्सीसकं तु जडं सीसं यवनेष्टं भुजंगमम् । (२४।१)

lead:: synonymssīsakaṃ tu jaḍaṃ sīsaṃ yavaneṣṭaṃ bhujaṃgamam |

24.2२४.२

योगीष्टं नागम् उरगं कुवङ्गं परिपिष्टकम् ॥ (२४।२)

yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam ||

25.1२५.१

मृदु कृष्णायसं पद्मं तारशुद्धिकरं स्मृतम् । (२५।१)

mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam |

25.2२५.२

सिरावृत्तं च वङ्गं स्याच् चीनपिष्टं च षोडश ॥ (२५।२)

sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa ||

26.1२६.१

लेअद्:: मेदिच्। प्रोपेर्तिएस्सीसं तु वङ्गतुल्यं स्यात् रसवीर्यविपाकतः । (२६।१)

lead:: medic. propertiessīsaṃ tu vaṅgatulyaṃ syāt rasavīryavipākataḥ |

26.2२६.२

उष्णं च कफवातघ्नम् अर्शोघ्नं गुरु लेखनम् ॥ (२६।२)

uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam ||

27.1२७.१

लेअद्:: परीक्षास्वर्णे नीलं मृदु स्निग्धं निर्मलं च सुगौरत्वम् । (२७।१)

lead:: parīkṣāsvarṇe nīlaṃ mṛdu snigdhaṃ nirmalaṃ ca sugauratvam |

27.2२७.२

रौप्यसंशोधनं क्षिप्रं सीसकं च तद् उत्तमम् ॥ (२७।२)

raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam ||

28.1२८.१

ब्रस्स्:: स्य्नोन्य्म्स्रीतिः क्षुद्रसुवर्णं सिंहलकं पिङ्गलं च पित्तलकम् । (२८।१)

brass:: synonymsrītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam |

28.2२८.२

लौहितकम् आरकुट्टं पिङ्गललोहं च पीतकं नवधा ॥ (२८।२)

lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā ||

29.1२९.१

ब्रस्स्:: राजरीति:: स्य्नोन्य्म्स्राजरीतिः काकतुण्डी राजपुत्री महेश्वरी । (२९।१)

brass:: rājarīti:: synonymsrājarītiḥ kākatuṇḍī rājaputrī maheśvarī |

29.2२९.२

ब्राह्मणी ब्रह्मरीतिश् च कपिला पिङ्गलापि च ॥ (२९।२)

brāhmaṇī brahmarītiś ca kapilā piṅgalāpi ca ||

30.1३०.१

ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्रीतिकायुगलं तिक्तं शीतलं लवणं रसे । (३०।१)

brass:: medic. propertiesrītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase |

30.2३०.२

शोधनं पाण्डुवातघ्नं क्रिमिप्लीहार्तिपित्तजित् ॥ (३०।२)

śodhanaṃ pāṇḍuvātaghnaṃ krimiplīhārtipittajit ||

31.1३१.१

ब्रस्स्:: परीक्षाशुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी । (३१।१)

brass:: parīkṣāśuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī |

31.2३१.२

हेमोपमा शुभा स्वच्छा जन्या रीतिः प्रकीर्तिता ॥ (३१।२)

hemopamā śubhā svacchā janyā rītiḥ prakīrtitā ||

32.1३२.१

ब्रोन्ज़े:: स्य्नोन्य्म्स्कांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् । (३२।१)

bronze:: synonymskāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam |

32.2३२.२

दीप्तं लोहं घोरपुष्पं दीप्तकं सुमनाह्वयम् ॥ (३२।२)

dīptaṃ lohaṃ ghorapuṣpaṃ dīptakaṃ sumanāhvayam ||

33.1३३.१

ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्कांस्यं तु तिक्तम् उष्णं चक्षुष्यं वातकफविकारघ्नम् । (३३।१)

bronze:: medic. propertieskāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam |

33.2३३.२

रूक्षं कषायरुच्यं लघु दीपनपाचनं पथ्यम् ॥ (३३।२)

rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam ||

34.1३४.१

ब्रोन्ज़े:: परीक्षा:: गोओद् क़ुअलित्य्श्वेतं दीप्तं मृदु ज्योतिःशब्दाढ्यं स्निग्धनिर्मलम् । (३४।१)

bronze:: parīkṣā:: good qualityśvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam |

34.2३४.२

घनाग्निसहसूत्राङ्गं कांस्यम् उत्तमम् ईरितम् ॥ (३४।२)

ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam ||

35.1३५.१

वर्तलोह:: स्य्नोन्य्म्स्वर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरम् । (३५।१)

vartaloha:: synonymsvartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaram |

35.2३५.२

नीलिका नीललोहं च लोहजं वट्टलोहकम् ॥ (३५।२)

nīlikā nīlalohaṃ ca lohajaṃ vaṭṭalohakam ||

36.1३६.१

वर्तलोह:: मेदिच्। प्रोपेर्तिएसिदं लोहं कटूष्णं च तिक्तं च शिशिरं तथा । (३६।१)

vartaloha:: medic. propertiesidaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā |

36.2३६.२

कफहृत् पित्तशमनं मधुरं दाहमेहनुत् ॥ (३६।२)

kaphahṛt pittaśamanaṃ madhuraṃ dāhamehanut ||

37.1३७.१

कान्त:: स्य्नोन्य्म्सयस्कान्तं कान्तलोहं कान्तं स्याल् लोहकान्तिकम् । (३७।१)

kānta:: synonymsayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam |

37.2३७.२

कान्तायसं कृष्णलोहं महालोहं च सप्तधा ॥ (३७।२)

kāntāyasaṃ kṛṣṇalohaṃ mahālohaṃ ca saptadhā ||

38.1३८.१

कान्त:: सुब्त्य्पेस्स्याद् भ्रामकं तदनु चुम्बकरोमकाख्यं स्याच् छेदकाख्यम् इति तच् च चतुर्विधं स्यात् । (३८।१)

kānta:: subtypessyād bhrāmakaṃ tadanu cumbakaromakākhyaṃ syāc chedakākhyam iti tac ca caturvidhaṃ syāt |

38.2३८.२

कान्ताश्मलोहगुणवृद्धि यथाक्रमेण दार्ढ्याङ्गकान्तिकचकार्ष्ण्यविरोगदायि ॥ (३८।२)

kāntāśmalohaguṇavṛddhi yathākrameṇa dārḍhyāṅgakāntikacakārṣṇyavirogadāyi ||

39.1३९.१

अयस्कान्तविशेषाः स्युर् भ्रामकाश् चुम्बकादयः । (३९।१)

ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ |

39.2३९.२

रसायनकराः सर्वे देहसिद्धिकराः पराः ॥ (३९।२)

rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ ||

40.1४०.१

न सूतेन विना कान्तं न कान्तेन विना रसः । (४०।१)

na sūtena vinā kāntaṃ na kāntena vinā rasaḥ |

40.2४०.२

सूतकान्तसमायोगाद् रसायनम् उदीरितम् ॥ (४०।२)

sūtakāntasamāyogād rasāyanam udīritam ||

41.1४१.१

रुस्त्:: स्य्नोन्य्म्स्लोहकिट्टं तु किट्टं स्याल् लोहचूर्णम् अयोमलम् । (४१।१)

rust:: synonymslohakiṭṭaṃ tu kiṭṭaṃ syāl lohacūrṇam ayomalam |

41.2४१.२

लोहजं कृष्णचूर्णं च कार्ष्ण्यं लोहमलं तथा ॥ (४१।२)

lohajaṃ kṛṣṇacūrṇaṃ ca kārṣṇyaṃ lohamalaṃ tathā ||

42.1४२.१

रुस्त्:: मेदिच्। प्रोपेर्तिएस्लोहकिट्टं तु मधुरं कटूष्णं क्रिमिवातनुत् । (४२।१)

rust:: medic. propertieslohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut |

42.2४२.२

पक्तिशूलं मरुच्छूलं मेहगुल्मार्तिशोफनुत् ॥ (४२।२)

paktiśūlaṃ marucchūlaṃ mehagulmārtiśophanut ||

43.1४३.१

मुण्ड:: स्य्नोन्य्म्स्मुण्डं मुण्डायसं लोहं दृषत्सारं शिलात्मजम् । (४३।१)

muṇḍa:: synonymsmuṇḍaṃ muṇḍāyasaṃ lohaṃ dṛṣatsāraṃ śilātmajam |

43.2४३.२

अश्मजं कृषिलोहं च आरं कृष्णायसं नव ॥ (४३।२)

aśmajaṃ kṛṣilohaṃ ca āraṃ kṛṣṇāyasaṃ nava ||

44.1४४.१

तीक्ष्णलोह:: स्य्नोन्य्म्स्तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । (४४।१)

tīkṣṇaloha:: synonymstīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham |

44.2४४.२

आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् । (४४।२)

āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam |

44.3४४.३

अयश्चित्रायसं प्रोक्तं चीनजं वेदभूमितम् ॥ (४४।३)

ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam ||

45.1४५.१

इरोन्:: मेदिच्। प्रोपेर्तिएस्लोहं रूक्षोष्णतिक्तं स्याद् वातपित्तकफापहम् । (४५।१)

iron:: medic. propertieslohaṃ rūkṣoṣṇatiktaṃ syād vātapittakaphāpaham |

45.2४५.२

प्रमेहपाण्डुरशूलघ्नं तीक्ष्णं मुण्डाधिकं स्मृतम् ॥ (४५।२)

pramehapāṇḍuraśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ smṛtam ||

46.1४६.१

मेतल्स्:: अशुद्ध:: मेदिच्। प्रोपेर्तिएस्स्वर्णं सम्यगशोधितं श्रमकरं स्वेदावहं दुःसहं रौप्यं जाठरजाड्यमान्द्यजननं ताम्रं वमिभ्रान्तिदम् । (४६।१)

metals:: aśuddha:: medic. propertiessvarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam |

46.2४६.२

नागं च त्रपु चाङ्गदोषदम् अयो गुल्मादिदोषप्रदं तीक्ष्णं शूलकरं च कान्तम् उदितं कार्ष्ण्यामयस्फोटदम् ॥ (४६।२)

nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam ||

47.1४७.१

विशुद्धिहीनौ यदि मुण्डतीक्ष्णौ क्षुधापहौ गौरवगुल्मदायकौ । (४७।१)

viśuddhihīnau yadi muṇḍatīkṣṇau kṣudhāpahau gauravagulmadāyakau |

47.2४७.२

कांस्यायसं क्लेदकतापकारकं रीत्यौ च सम्मोहनशोषदायिके ॥ (४७।२)

kāṃsyāyasaṃ kledakatāpakārakaṃ rītyau ca sammohanaśoṣadāyike ||

48.1४८.१

मनःशिलामनःशिला स्यात् कुनटी मनोज्ञा शिला मनोह्वापि च नागजिह्वा । (४८।१)

manaḥśilāmanaḥśilā syāt kunaṭī manojñā śilā manohvāpi ca nāgajihvā |

48.2४८.२

नेपालिका स्यान् मनसश् च गुप्ता कल्याणिका रोगशिला दशाह्वा ॥ (४८।२)

nepālikā syān manasaś ca guptā kalyāṇikā rogaśilā daśāhvā ||

49.1४९.१

मनःशिला:: मेदिच्। प्रोपेर्तिएस्मनःशिला कटुः स्निग्धा लेखनी विषनाशनी । (४९।१)

manaḥśilā:: medic. propertiesmanaḥśilā kaṭuḥ snigdhā lekhanī viṣanāśanī |

49.2४९.२

भूतावेशभयोन्मादहारिणी वश्यकारिणी ॥ (४९।२)

bhūtāveśabhayonmādahāriṇī vaśyakāriṇī ||

50.1५०.१

सिन्दूर, रेद् लेअद्:: स्य्नोन्य्म्स्सिन्दूरं नागरेणुः स्याद् रक्तं सीमन्तकं तथा । (५०।१)

sindūra, red lead:: synonymssindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā |

50.2५०.२

नागजं नागगर्भं च शोणं वीररजः स्मृतम् ॥ (५०।२)

nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam ||

51.1५१.१

गणेशभूषणं संध्यारागं शृङ्गारकं स्मृतम् । (५१।१)

gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam |

51.2५१.२

सौभाग्यम् अरुणं चैव मङ्गल्यं मनुसंमितम् ॥ (५१।२)

saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam ||

52.1५२.१

सिन्दूर:: मेदिच्। प्रोपेर्तिएस्सिन्दूरं कटुकं तिक्तम् उष्णं व्रणविरोपणम् । (५२।१)

sindūra:: medic. propertiessindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam |

52.2५२.२

कुष्ठास्रविषकण्डूतिवीसर्पशमनं परम् ॥ (५२।२)

kuṣṭhāsraviṣakaṇḍūtivīsarpaśamanaṃ param ||

53.1५३.१

सिन्दूर:: परीक्षा:: गोओद् क़ुअलित्य्सुरङ्गो ऽग्निसहः सूक्ष्मः स्निग्धः स्वच्छो गुरुर् मृदुः । (५३।१)

sindūra:: parīkṣā:: good qualitysuraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ |

53.2५३.२

सुवर्णकरजः शुद्धः सिन्दूरो मङ्गलप्रदः ॥ (५३।२)

suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ ||

54.1५४.१

भूनाग:: स्य्नोन्य्म्स्भूनागः क्षितिनागश् च भूजन्तू रक्तजन्तुकः । (५४।१)

bhūnāga:: synonymsbhūnāgaḥ kṣitināgaś ca bhūjantū raktajantukaḥ |

54.2५४.२

क्षितिजः क्षितिजन्तुश् च भूमिजो रक्ततुण्डकः ॥ (५४।२)

kṣitijaḥ kṣitijantuś ca bhūmijo raktatuṇḍakaḥ ||

55.1५५.१

भूनाग:: उसे इन् अल्छेम्य्भूनागो वज्रमारः स्यान् नानाविज्ञानकारकः । (५५।१)

bhūnāga:: use in alchemybhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ |

55.2५५.२

रसस्य जारणे तूक्तं तत् सत्त्वं तु रसायनम् ॥ (५५।२)

rasasya jāraṇe tūktaṃ tat sattvaṃ tu rasāyanam ||

56.1५६.१

दरद:: स्य्नोन्य्म्स्हिङ्गुलं बर्बरं रक्तं सुरङ्गं सुगरं स्मृतम् । (५६।१)

darada:: synonymshiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam |

56.2५६.२

रञ्जनं दरदं म्लेच्छं चित्राङ्गं चूर्णपारदम् ॥ (५६।२)

rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam ||

57.1५७.१

अन्यच् च मारकं चैव मणिरागं रसोद्भवम् । (५७।१)

anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam |

57.2५७.२

रञ्जकं रसगर्भं च बाणभूसंख्यसंमितम् ॥ (५७।२)

rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam ||

58.1५८.१

दरद:: मेदिच्। प्रोपेर्तिएस्हिङ्गुलं मधुरं तिक्तम् उष्णवातकफापहम् । (५८।१)

darada:: medic. propertieshiṅgulaṃ madhuraṃ tiktam uṣṇavātakaphāpaham |

58.2५८.२

त्रिदोषद्वंद्वदोषोत्थं ज्वरं हरति सेवितम् ॥ (५८।२)

tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam ||

59.1५९.१

गैरिक:: स्य्नोन्य्म्स्गैरिकं रक्तधातुः स्याद् गिरिधातुर् गवेधुकम् । (५९।१)

gairika:: synonymsgairikaṃ raktadhātuḥ syād giridhātur gavedhukam |

59.2५९.२

धातुः सुरङ्गधातुश् च गिरिजं गिरिमृद्भवम् ॥ (५९।२)

dhātuḥ suraṅgadhātuś ca girijaṃ girimṛdbhavam ||

60.1६०.१

स्वर्णगैरिकसुवर्णगैरिकं चान्यत् स्वर्णधातुः सुरक्तकम् । (६०।१)

svarṇagairikasuvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam |

60.2६०.२

संध्याभ्रं बभ्रुधातुश् च शिलाधातुः षडाह्वयम् ॥ (६०।२)

saṃdhyābhraṃ babhrudhātuś ca śilādhātuḥ ṣaḍāhvayam ||

61.1६१.१

गैरिक:: मेदिच्। प्रोपेर्तिएस्गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । (६१।१)

gairika:: medic. propertiesgairikaṃ madhuraṃ śītaṃ kaṣāyaṃ vraṇaropaṇam |

61.2६१.२

विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिकं शुभम् ॥ (६१।२)

visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham ||

62.1६२.१

सौराष्ट्रा:: स्य्नोन्य्म्स्तुवरी मृच् च सौराष्ट्री मृत्स्नासङ्गा सुराष्ट्रजा । (६२।१)

saurāṣṭrā:: synonymstuvarī mṛc ca saurāṣṭrī mṛtsnāsaṅgā surāṣṭrajā |

62.2६२.२

भूघ्नी मृतालकं कासी मृत्तिका सुरमृत्तिका । (६२।२)

bhūghnī mṛtālakaṃ kāsī mṛttikā suramṛttikā |

62.3६२.३

स्तुत्या काङ्क्षी सुजाता च ज्ञेया चैव चतुर्दश ॥ (६२।३)

stutyā kāṅkṣī sujātā ca jñeyā caiva caturdaśa ||

63.1६३.१

सौराष्ट्रा:: मेदिच्। प्रोपेर्तिएस्तुवरी तिक्तकटुका कषायाम्ला च लेखनी । (६३।१)

saurāṣṭrā:: medic. propertiestuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī |

63.2६३.२

चक्षुष्या ग्रहणीछर्दिपित्तसंतापहारिणी ॥ (६३।२)

cakṣuṣyā grahaṇīchardipittasaṃtāpahāriṇī ||

64.1६४.१

हरिताल:: स्य्नोन्य्म्स्हरितालं गोदन्तं पीतं नटमण्डनं च गौरं च । (६४।१)

haritāla:: synonymsharitālaṃ godantaṃ pītaṃ naṭamaṇḍanaṃ ca gauraṃ ca |

64.2६४.२

चित्राङ्गं पिञ्जरकं भवेद् आलं तालकं च तालं च ॥ (६४।२)

citrāṅgaṃ piñjarakaṃ bhaved ālaṃ tālakaṃ ca tālaṃ ca ||

65.1६५.१

कनकरसं काञ्चनकं बिडालकं चैव चित्रगन्धं च । (६५।१)

kanakarasaṃ kāñcanakaṃ biḍālakaṃ caiva citragandhaṃ ca |

65.2६५.२

पिङ्गं च पिङ्गसारं गौरीललितं च सप्तदशसंज्ञम् ॥ (६५।२)

piṅgaṃ ca piṅgasāraṃ gaurīlalitaṃ ca saptadaśasaṃjñam ||

66.1६६.१

हरिताल:: मेदिच्। प्रोपेर्तिएस्हरितालं कटूष्णं च स्निग्धं त्वग्दोषनाशनम् । (६६।१)

haritāla:: medic. propertiesharitālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam |

66.2६६.२

भूतभ्रान्तिप्रशमनं विषवातरुजार्तिजित् ॥ (६६।२)

bhūtabhrāntipraśamanaṃ viṣavātarujārtijit ||

67.1६७.१

सुल्ड़ुर्गन्धको गन्धपाषाणो गन्धाश्मा गन्धमोदनः । (६७।१)

sulfurgandhako gandhapāṣāṇo gandhāśmā gandhamodanaḥ |

67.2६७.२

पूतिगन्धो ऽतिगन्धश् च वटः सौगन्धिकस् तथा ॥ (६७।२)

pūtigandho 'tigandhaś ca vaṭaḥ saugandhikas tathā ||

68.1६८.१

सुगन्धो दिव्यगन्धश् च गन्धश् च रसगन्धकः । (६८।१)

sugandho divyagandhaś ca gandhaś ca rasagandhakaḥ |

68.2६८.२

कुष्ठारिः क्रूरगन्धश् च कीटघ्नः शरभूमितः ॥ (६८।२)

kuṣṭhāriḥ krūragandhaś ca kīṭaghnaḥ śarabhūmitaḥ ||

69.1६९.१

सुल्ड़ुर्:: मेदिच्। प्रोपेर्तिएस्गन्धकः कटुर् उष्णश् च तीव्रगन्धो ऽतिवह्निकृत् । (६९।१)

sulfur:: medic. propertiesgandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt |

69.2६९.२

विषघ्नः कुष्ठकण्डूतिखर्जूत्वग्दोषनाशनः ॥ (६९।२)

viṣaghnaḥ kuṣṭhakaṇḍūtikharjūtvagdoṣanāśanaḥ ||

70.1७०.१

सुल्ड़ुर्:: सुब्त्य्पेस्:: चोलोउर्श्वेतो रक्तश् च पीतश् च नीलश् चेति चतुर्विधः । (७०।१)

sulfur:: subtypes:: colourśveto raktaś ca pītaś ca nīlaś ceti caturvidhaḥ |

70.2७०.२

गन्धको वर्णतो ज्ञेयो भिन्नो भिन्नगुणाश्रयः ॥ (७०।२)

gandhako varṇato jñeyo bhinno bhinnaguṇāśrayaḥ ||

71.1७१.१

श्वेतः कुष्ठापहारी स्याद् रक्तो लोहप्रयोगकृत् । (७१।१)

śvetaḥ kuṣṭhāpahārī syād rakto lohaprayogakṛt |

71.2७१.२

पीतो रसप्रयोगार्हो नीलो वर्णान्तरोचितः ॥ (७१।२)

pīto rasaprayogārho nīlo varṇāntarocitaḥ ||

72.1७२.१

शिलाजतु:: स्य्नोन्य्म्स्शिलाजतु स्याद् अश्मोत्थं शैलं गिरिजम् अश्मजम् । (७२।१)

śilājatu:: synonymsśilājatu syād aśmotthaṃ śailaṃ girijam aśmajam |

72.2७२.२

अश्मलाक्षाश्मजतुकं जत्वश्मकम् इति स्मृतम् ॥ (७२।२)

aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam ||

73.1७३.१

शिलाजतु:: मेदिच्। प्रोपेर्तिएस्शिलाजतु भवेत् तिक्तं कटूष्णं च रसायनम् । (७३।१)

śilājatu:: medic. propertiesśilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam |

73.2७३.२

मेहोन्मादाश्मरीशोफकुष्ठापस्मारनाशनम् ॥ (७३।२)

mehonmādāśmarīśophakuṣṭhāpasmāranāśanam ||

74.1७४.१

Wअछ्स्सिक्थकं मधुकं सिक्थं मधुजं मधुसम्भवम् । (७४।१)

Wachssikthakaṃ madhukaṃ sikthaṃ madhujaṃ madhusambhavam |

74.2७४.२

मदनकं मधूच्छिष्टं मदनं मक्षिकामलम् ॥ (७४।२)

madanakaṃ madhūcchiṣṭaṃ madanaṃ makṣikāmalam ||

75.1७५.१

क्षौद्रेयं पीतरागं च स्निग्धं माक्षिकजं तथा । (७५।१)

kṣaudreyaṃ pītarāgaṃ ca snigdhaṃ mākṣikajaṃ tathā |

75.2७५.२

क्षौद्रजं मधुशेषं च द्रावकं मक्षिकाश्रयम् । (७५।२)

kṣaudrajaṃ madhuśeṣaṃ ca drāvakaṃ makṣikāśrayam |

75.3७५.३

मधूषितं च सम्प्रोक्तं मधूत्थं चोनविंशति ॥ (७५।३)

madhūṣitaṃ ca samproktaṃ madhūtthaṃ conaviṃśati ||

76.1७६.१

बेएस्wअx:: मेदिच्। प्रोपेर्तिएस्सिक्थकं कपिलं स्वादु कुष्ठवातार्तिजिन् मृदु । (७६।१)

beeswax:: medic. propertiessikthakaṃ kapilaṃ svādu kuṣṭhavātārtijin mṛdu |

76.2७६.२

कटु स्निग्धं च लेपेन स्फुटिताङ्गविरोपणम् ॥ (७६।२)

kaṭu snigdhaṃ ca lepena sphuṭitāṅgaviropaṇam ||

77.1७७.१

कासीसकासीसं धातुकासीसं केसरं हंसलोमशम् । (७७।१)

kāsīsakāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam |

77.2७७.२

शोधनं पांशुकासीसं शुभ्रं सप्ताह्वयं मतम् ॥ (७७।२)

śodhanaṃ pāṃśukāsīsaṃ śubhraṃ saptāhvayaṃ matam ||

78.1७८.१

कासीस:: मेदिच्। प्रोपेर्तिएस्कासीसं तु कषायं स्यात् शिशिरं विषकुष्ठजित् । (७८।१)

kāsīsa:: medic. propertieskāsīsaṃ tu kaṣāyaṃ syāt śiśiraṃ viṣakuṣṭhajit |

78.2७८.२

खर्जूक्रिमिहरं चैव चक्षुष्यं कान्तिवर्धनम् ॥ (७८।२)

kharjūkrimiharaṃ caiva cakṣuṣyaṃ kāntivardhanam ||

79.1७९.१

पुष्पकासीस:: स्य्नोन्य्म्स्द्वितीयं पुष्पकासीसं वत्सकं च मलीमसम् । (७९।१)

puṣpakāsīsa:: synonymsdvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam |

79.2७९.२

ह्रस्वं नेत्रौषधं योज्यं विशदं नीलमृत्तिका ॥ (७९।२)

hrasvaṃ netrauṣadhaṃ yojyaṃ viśadaṃ nīlamṛttikā ||

80.1८०.१

पुष्पकासीस:: मेदिच्। प्रोपेर्तिएस्पुष्पकासीसं तिक्तं शीतं नेत्रामयापहम् । (८०।१)

puṣpakāsīsa:: medic. propertiespuṣpakāsīsaṃ tiktaṃ śītaṃ netrāmayāpaham |

80.2८०.२

लेपेनात्यामकुष्ठादिनानात्वग्दोषनाशनम् ॥ (८०।२)

lepenātyāmakuṣṭhādinānātvagdoṣanāśanam ||

81.1८१.१

माक्षिकमाक्षिकं चैव माक्षीकं पीतकं धातुमाक्षिकम् । (८१।१)

mākṣikamākṣikaṃ caiva mākṣīkaṃ pītakaṃ dhātumākṣikam |

81.2८१.२

तापीजं ताप्यकं ताप्यमापीतं पीतमाक्षिकम् ॥ (८१।२)

tāpījaṃ tāpyakaṃ tāpyamāpītaṃ pītamākṣikam ||

82.1८२.१

आवर्तं मधुधातुः स्यात् क्षौद्रधातुस् तथापरः । (८२।१)

āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ |

82.2८२.२

प्रोक्तं माक्षिकधातुश्च वेदभूर् हेममाक्षिकम् ॥ (८२।२)

proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam ||

83.1८३.१

माक्षिक:: मेदिच्। प्रोपेर्तिएस्माक्षिकं मधुरं तिक्तमम्लं कटु कफापहम् । (८३।१)

mākṣika:: medic. propertiesmākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham |

83.2८३.२

भ्रमहृल्लासमूर्छार्तिश्वासकासविषापहम् ॥ (८३।२)

bhramahṛllāsamūrchārtiśvāsakāsaviṣāpaham ||

84.1८४.१

माक्षिक:: सुब्त्य्पेस्माक्षिकं द्विविधं प्रोक्तं हेमाह्वं तारमाक्षिकम् । (८४।१)

mākṣika:: subtypesmākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam |

84.2८४.२

भिन्नवर्णविशेषत्वात् रसवीर्यादिकं पृथक् ॥ (८४।२)

bhinnavarṇaviśeṣatvāt rasavīryādikaṃ pṛthak ||

85.1८५.१

तारवादादिके तारमाक्षिकं च प्रशस्यते । (८५।१)

tāravādādike tāramākṣikaṃ ca praśasyate |

85.2८५.२

देहे हेमादिकं शस्तं रोगहृद् बलपुष्टिदम् ॥ (८५।२)

dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam ||

86.1८६.१

अञ्जन:: स्य्नोन्य्म्सञ्जनं यामुनं कृष्णं नादेयं मेचकं तथा । (८६।१)

añjana:: synonymsañjanaṃ yāmunaṃ kṛṣṇaṃ nādeyaṃ mecakaṃ tathā |

86.2८६.२

स्रोतोजं दृक्प्रदं नीलं सौवीरं च सुवीरजम् ॥ (८६।२)

srotojaṃ dṛkpradaṃ nīlaṃ sauvīraṃ ca suvīrajam ||

87.1८७.१

तथा नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् । (८७।१)

tathā nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam |

87.2८७.२

कपोतकं च कापोतं सम्प्रोक्तं शरभूमितम् ॥ (८७।२)

kapotakaṃ ca kāpotaṃ samproktaṃ śarabhūmitam ||

88.1८८.१

अञ्जन:: मेदिच्। प्रोपेर्तिएस्शीतं नीलाञ्जनं प्रोक्तं कटु तिक्तं कषायकम् । (८८।१)

añjana:: medic. propertiesśītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam |

88.2८८.२

चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ (८८।२)

cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam ||

89.1८९.१

कुलत्था:: स्य्नोन्य्म्स्कुलत्था दृक्प्रसादा च चक्षुष्याथ कुलत्थिका । (८९।१)

kulatthā:: synonymskulatthā dṛkprasādā ca cakṣuṣyātha kulatthikā |

89.2८९.२

कुलाली लोचनहिता कुम्भकारी मलापहा ॥ (८९।२)

kulālī locanahitā kumbhakārī malāpahā ||

90.1९०.१

कुलत्था:: मेदिच्। प्रोपेर्तिएस्कुलत्थिका तु चक्षुष्या कषाया कटुका हिमा । (९०।१)

kulatthā:: medic. propertieskulatthikā tu cakṣuṣyā kaṣāyā kaṭukā himā |

90.2९०.२

विषविस्फोटकण्डूतिव्रणदोषनिबर्हिणी ॥ (९०।२)

viṣavisphoṭakaṇḍūtivraṇadoṣanibarhiṇī ||

91.1९१.१

पुष्पाञ्जन:: स्य्नोन्य्म्स्पुष्पाञ्जनं पुष्पकेतुः कौसुम्भं कुसुमाञ्जनम् । (९१।१)

puṣpāñjana:: synonymspuṣpāñjanaṃ puṣpaketuḥ kausumbhaṃ kusumāñjanam |

91.2९१.२

रीतिकं रीतिकुसुमं रीतिपुष्पं च पौष्पकम् ॥ (९१।२)

rītikaṃ rītikusumaṃ rītipuṣpaṃ ca pauṣpakam ||

92.1९२.१

पुष्पाञ्जन:: मेदिच्। प्रोपेर्तिएस्पुष्पाञ्जनं हिमं प्रोक्तं पित्तहिक्काप्रदाहनुत् । (९२।१)

puṣpāñjana:: medic. propertiespuṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut |

92.2९२.२

नाशयेद् विषकासार्तिं सर्वनेत्रामयापहम् ॥ (९२।२)

nāśayed viṣakāsārtiṃ sarvanetrāmayāpaham ||

93.1९३.१

रसाञ्जन:: स्य्नोन्य्म्स्रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् । (९३।१)

rasāñjana:: synonymsrasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam |

93.2९३.२

कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ (९३।२)

kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā ||

94.1९४.१

रसजातं तार्क्ष्यशैलं ज्ञेयं वर्याञ्जनं तथा । (९४।१)

rasajātaṃ tārkṣyaśailaṃ jñeyaṃ varyāñjanaṃ tathā |

94.2९४.२

रसनाभं चाग्निसारं द्वादशाह्वं च कीर्तितम् ॥ (९४।२)

rasanābhaṃ cāgnisāraṃ dvādaśāhvaṃ ca kīrtitam ||

95.1९५.१

रसाञ्जन:: प्रोदुच्तिओन्रीत्यां तु ध्मायमानायां तत्किट्टं तु रसाञ्जनम् । (९५।१)

rasāñjana:: productionrītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam |

95.2९५.२

तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् ॥ (९५।२)

tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam ||

96.1९६.१

स्रोतोञ्जन:: स्य्नोन्य्म्स्स्रोतोञ्जनं वारिभवं तथान्यं स्रोतोद्भवं स्रोतनदीभवं च । (९६।१)

srotoñjana:: synonymssrotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca |

96.2९६.२

सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ (९६।२)

sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam ||

97.1९७.१

स्रोतोञ्जन:: मेदिच्। प्रोपेर्तिएस्स्रोतोञ्जनं शीतकटु कषायं क्रिमिनाशनम् । (९७।१)

srotoñjana:: medic. propertiessrotoñjanaṃ śītakaṭu kaṣāyaṃ krimināśanam |

97.2९७.२

रसाञ्जन:: मेदिच्। प्रोपेर्तिएस्रसाञ्जनं रसे योग्यं स्तन्यवृद्धिकरं परम् ॥ (९७।२)

rasāñjana:: medic. propertiesrasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param ||

98.1९८.१

स्रोतोञ्जन:: परीक्षा:: गोओद् क़ुअलित्य्वल्मीकशिखराकारं भिन्ननीलाञ्जनप्रभम् । (९८।१)

srotoñjana:: parīkṣā:: good qualityvalmīkaśikharākāraṃ bhinnanīlāñjanaprabham |

98.2९८.२

घृष्टे च गैरिकावर्णं श्रेष्ठं स्रोतोञ्जनं च तत् ॥ (९८।२)

ghṛṣṭe ca gairikāvarṇaṃ śreṣṭhaṃ srotoñjanaṃ ca tat ||

99.1९९.१

कम्पिल्ल:: स्य्नोन्य्म्स्कम्पिल्लको ऽथ रक्ताङ्गो रेचनो रेचकस्तथा । (९९।१)

kampilla:: synonymskampillako 'tha raktāṅgo recano recakastathā |

99.2९९.२

रञ्जको लोहिताङ्गश्च कम्पिल्लो रक्तचूर्णकः ॥ (९९।२)

rañjako lohitāṅgaśca kampillo raktacūrṇakaḥ ||

100.1१००.१

कम्पिल्ल:: मेदिच्। प्रोपेर्तिएस्कम्पिल्लको विरेची स्यात् कटूष्णो व्रणनाशनः । (१००।१)

kampilla:: medic. propertieskampillako virecī syāt kaṭūṣṇo vraṇanāśanaḥ |

100.2१००.२

कफकासार्तिहारी च जन्तुक्रिमिहरो लघुः ॥ (१००।२)

kaphakāsārtihārī ca jantukrimiharo laghuḥ ||

101.1१०१.१

तुत्थ:: स्य्नोन्य्म्स्तुत्थं नीलाश्मजं नीलं हरिताश्मं च तुत्थकम् । (१०१।१)

tuttha:: synonymstutthaṃ nīlāśmajaṃ nīlaṃ haritāśmaṃ ca tutthakam |

101.2१०१.२

मयूरग्रीवकं चैव ताम्रगर्भामृतोद्भवम् । (१०१।२)

mayūragrīvakaṃ caiva tāmragarbhāmṛtodbhavam |

101.3१०१.३

मयूरतुत्थं सम्प्रोक्तं शिखिकण्ठं दशाह्वयम् ॥ (१०१।३)

mayūratutthaṃ samproktaṃ śikhikaṇṭhaṃ daśāhvayam ||

102.1१०२.१

तुत्थ:: मेदिच्। प्रोपेर्तिएस्तुत्थं कटु कषायोष्णं श्वित्रनेत्रामयापहम् । (१०२।१)

tuttha:: medic. propertiestutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham |

102.2१०२.२

विषदोषेषु सर्वेषु प्रशस्तं वान्तिकारकम् ॥ (१०२।२)

viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam ||

103.1१०३.१

तुत्थ:: खर्परीतुत्थ:: स्य्नोन्य्म्स्द्वितीयं खर्परीतुत्थं खर्परी रसकं तथा । (१०३।१)

tuttha:: kharparītuttha:: synonymsdvitīyaṃ kharparītutthaṃ kharparī rasakaṃ tathā |

103.2१०३.२

चक्षुष्यममृतोत्पन्नं तुत्थखर्परिका तु षट् ॥ (१०३।२)

cakṣuṣyamamṛtotpannaṃ tutthakharparikā tu ṣaṭ ||

104.1१०४.१

खर्परीतुत्थ:: मेदिच्। प्रोपेर्तिएस्खर्परी कटुका तिक्ता चक्षुष्या च रसायनी । (१०४।१)

kharparītuttha:: medic. propertieskharparī kaṭukā tiktā cakṣuṣyā ca rasāyanī |

104.2१०४.२

त्वग्दोषशमनी रुच्या दीप्या पुष्टिविवर्धनी ॥ (१०४।२)

tvagdoṣaśamanī rucyā dīpyā puṣṭivivardhanī ||

105.1१०५.१

मेर्चुर्य्:: स्य्नोन्य्म्स्पारदो रसराजश्च रसनाथो महारसः । (१०५।१)

mercury:: synonymspārado rasarājaśca rasanātho mahārasaḥ |

105.2१०५.२

रसश्चैव महतेजा रसलोहो रसोत्तमः ॥ (१०५।२)

rasaścaiva mahatejā rasaloho rasottamaḥ ||

106.1१०६.१

सूतराट् चपलो जैत्रः शिवबीजं शिवस् तथा । (१०६।१)

sūtarāṭ capalo jaitraḥ śivabījaṃ śivas tathā |

106.2१०६.२

अमृतं च रसेन्द्रः स्याल्लोकेशो धूर्तरः प्रभुः ॥ (१०६।२)

amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ ||

107.1१०७.१

रुद्रजो हरतेजश्च रसधातुर् अचिन्त्यजः । (१०७।१)

rudrajo haratejaśca rasadhātur acintyajaḥ |

107.2१०७.२

खेचरश्चामरः प्रोक्तो देहदो मृत्युनाशनः ॥ (१०७।२)

khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ ||

108.1१०८.१

स्कन्दः स्कन्दांशकः सूतो देवो दिव्यरसस्तथा । (१०८।१)

skandaḥ skandāṃśakaḥ sūto devo divyarasastathā |

108.2१०८.२

प्रोक्तो रसायनश्रेष्ठो यशोदस्त्रित्रिधाह्वयः ॥ (१०८।२)

prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ ||

109.1१०९.१

मेर्चुर्य्:: मेदिच्। प्रोपेर्तिएस्पारदः सकलरोगनाशनः षड्रसो निखिलयोगवाहकः । (१०९।१)

mercury:: medic. propertiespāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ |

109.2१०९.२

पञ्चभूतमय एष कीर्तितो देहलोहपरसिद्धिदायकः ॥ (१०९।२)

pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ ||

110.1११०.१

मूर्छितो हरते व्याधीन् बद्धः खेचरसिद्धिदः । (११०।१)

mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ |

110.2११०.२

सर्वसिद्धिकरो नीलो निरुद्धो देहसिद्धिदः ॥ (११०।२)

sarvasiddhikaro nīlo niruddho dehasiddhidaḥ ||

111.1१११.१

मेर्चुर्य्:: निरुक्तिविविधव्याधिभयोदयमरणजरासंकटे ऽपि मर्त्यानाम् । (१११।१)

mercury:: niruktivividhavyādhibhayodayamaraṇajarāsaṃkaṭe 'pi martyānām |

111.2१११.२

पारं ददाति यस्मात् तस्माद् अयमेव पारदः कथितः ॥ (१११।२)

pāraṃ dadāti yasmāt tasmād ayameva pāradaḥ kathitaḥ ||

112.1११२.१

अभ्र:: स्य्नोन्य्म्सभ्रकमभ्रं भृङ्गं व्योमाम्बरम् अन्तरिक्षमाकाशम् । (११२।१)

abhra:: synonymsabhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam |

112.2११२.२

बहुपत्त्रं खमनन्तं गौरीजं गौरिजेयमिति रवयः ॥ (११२।२)

bahupattraṃ khamanantaṃ gaurījaṃ gaurijeyamiti ravayaḥ ||

113.1११३.१

अभ्र:: सुब्त्य्पेस्:: चोलोउर्श्वेतं पीतं लोहितं नीलमभ्रं चातुर्विध्यं याति भिन्नक्रियार्हम् । (११३।१)

abhra:: subtypes:: colourśvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham |

113.2११३.२

श्वेतं तारे काञ्चने पीतरक्ते नीलं व्याधाव् अग्र्यम् अग्र्यं गुणाढ्यम् ॥ (११३।२)

śvetaṃ tāre kāñcane pītarakte nīlaṃ vyādhāv agryam agryaṃ guṇāḍhyam ||

114.1११४.१

अभ्र:: सुब्त्य्पेस्नीलाभ्रं दर्दुरो नागः पिनाको वज्र इत्यपि । (११४।१)

abhra:: subtypesnīlābhraṃ darduro nāgaḥ pināko vajra ityapi |

114.2११४.२

चतुर्विधं भवेत्तस्य परीक्षा कथ्यते क्रमात् ॥ (११४।२)

caturvidhaṃ bhavettasya parīkṣā kathyate kramāt ||

115.1११५.१

यद्वह्नौ निहितं तनोति नितरां भेकारवं दर्दुरो नागः फूत्कुरुते धनुःस्वनमुपादत्ते पिनाकः किल । (११५।१)

yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila |

115.2११५.२

वज्रं नैव विकारमेति तदिमान्यासेवमानः क्रमात् गुल्मी च व्रणवांश् च कुत्सितगदी नीरुक् च संजायते ॥ (११५।२)

vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate ||

116.1११६.१

अभ्र:: म्य्थ्। ओरिगिन्मनोजभावभावितौ यदा शिवौ परस्परम् । (११६।१)

abhra:: myth. originmanojabhāvabhāvitau yadā śivau parasparam |

116.2११६.२

तदा किलाभ्रपारदौ गुहोद्भवौ बभूवतुः ॥ (११६।२)

tadā kilābhrapāradau guhodbhavau babhūvatuḥ ||

117.1११७.१

स्फटिका:: स्य्नोन्य्म्स्स्फटी च स्फटिकी प्रोक्ता श्वेता शुभ्रा च रङ्गदा । (११७।१)

sphaṭikā:: synonymssphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā |

117.2११७.२

रङ्गदृढा दृढरङ्गा रङ्गाङ्गा वसुसंमिता ॥ (११७।२)

raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā ||

118.1११८.१

स्फटिका:: मेदिच्। प्रोपेर्तिएस्स्फटी च कटुका स्निग्धा कषाया प्रदरापहा । (११८।१)

sphaṭikā:: medic. propertiessphaṭī ca kaṭukā snigdhā kaṣāyā pradarāpahā |

118.2११८.२

मेहकृच्छ्रवमीशोषदोषघ्नी दृढरङ्गदा ॥ (११८।२)

mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā ||

119.1११९.१

क्षुल्लक:: स्य्नोन्य्म्स्क्षुल्लकः क्षुद्रशङ्खः स्यात् शम्बूको नखशङ्खकः । (११९।१)

kṣullaka:: synonymskṣullakaḥ kṣudraśaṅkhaḥ syāt śambūko nakhaśaṅkhakaḥ |

119.2११९.२

क्षुल्लक:: मेदिच्। प्रोपेर्तिएस्क्षुल्लकः कटुकस् तिक्तः शूलहारी च दीपनः ॥ (११९।२)

kṣullaka:: medic. propertieskṣullakaḥ kaṭukas tiktaḥ śūlahārī ca dīpanaḥ ||

120.1१२०.१

चोन्छ्:: स्य्नोन्य्म्स्शङ्खो ह्य् अर्णोभवः कम्बुर् जलजः पावनध्वनिः । (१२०।१)

conch:: synonymsśaṅkho hy arṇobhavaḥ kambur jalajaḥ pāvanadhvaniḥ |

120.2१२०.२

कुटिलो ऽन्तर्महानादः कम्बूः पूतः सुनादकः ॥ (१२०।२)

kuṭilo 'ntarmahānādaḥ kambūḥ pūtaḥ sunādakaḥ ||

121.1१२१.१

सुस्वरो दीर्घनादश्च बहुनादो हरिप्रियः । (१२१।१)

susvaro dīrghanādaśca bahunādo haripriyaḥ |

121.2१२१.२

एवं षोडशधा ज्ञेयो धवलो मङ्गलप्रदः ॥ (१२१।२)

evaṃ ṣoḍaśadhā jñeyo dhavalo maṅgalapradaḥ ||

122.1१२२.१

चोन्छ्:: मेदिच्। प्रोपेर्तिएस्शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः । (१२२।१)

conch:: medic. propertiesśaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ |

122.2१२२.२

गुल्मशूलहरः श्वासनाशनो विषदोषनुत् ॥ (१२२।२)

gulmaśūlaharaḥ śvāsanāśano viṣadoṣanut ||

123.1१२३.१

क्रिमिशङ्खक्रिमिशङ्खः क्रिमिजलजः क्रिमिवारिरुहश्च जन्तुकम्बुश् च । (१२३।१)

krimiśaṅkhakrimiśaṅkhaḥ krimijalajaḥ krimivāriruhaśca jantukambuś ca |

123.2१२३.२

कथितो रसवीर्याद्यैः कृतधीभिः शङ्खसदृशो ऽयम् ॥ (१२३।२)

kathito rasavīryādyaiḥ kṛtadhībhiḥ śaṅkhasadṛśo 'yam ||

124.1१२४.१

मोनेय् चोwरिए:: स्य्नोन्य्म्स्कपर्दको वराटश्च कपर्दिश्च वराटिका । (१२४।१)

money cowrie:: synonymskapardako varāṭaśca kapardiśca varāṭikā |

124.2१२४.२

चराचरश् चरो वर्यो बालक्रीडरनकश्च सः ॥ (१२४।२)

carācaraś caro varyo bālakrīḍaranakaśca saḥ ||

125.1१२५.१

मोनेय् चोwरिए:: मेदिच्। प्रोपेर्तिएस्कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः । (१२५।१)

money cowrie:: medic. propertieskapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ |

125.2१२५.२

गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः ॥ (१२५।२)

gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ ||

126.1१२६.१

पेअर्ल् ओय्स्तेर्:: स्य्नोन्य्म्स्शुक्तिर् मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका । (१२६।१)

pearl oyster:: synonymsśuktir muktāprasūścaiva mahāśuktiśca śuktikā |

126.2१२६.२

मुक्तास्फोटस् तौतिकं तु मौक्तिकप्रसवा च सा । (१२६।२)

muktāsphoṭas tautikaṃ tu mauktikaprasavā ca sā |

126.3१२६.३

ज्ञेया मौक्तिकशुक्तिश्च मुक्तामाताङ्कधा स्मृता ॥ (१२६।३)

jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā ||

127.1१२७.१

पेअर्ल् ओय्स्तेर्:: मेदिच्। प्रोपेर्तिएस्मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । (१२७।१)

pearl oyster:: medic. propertiesmuktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī |

127.2१२७.२

शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ (१२७।२)

śūlapraśamanī rucyā madhurā dīpanī parā ||

128.1१२८.१

लघुशङ्ख:: स्य्नोन्य्म्स्जलशुक्तिर्वारिशुक्तिः क्रिमिसूः क्षुद्रशुक्तिका । (१२८।१)

laghuśaṅkha:: synonymsjalaśuktirvāriśuktiḥ krimisūḥ kṣudraśuktikā |

128.2१२८.२

शम्बूका जलशुक्तिश्च पुटिका तोयशुक्तिका ॥ (१२८।२)

śambūkā jalaśuktiśca puṭikā toyaśuktikā ||

129.1१२९.१

लघुशङ्ख:: मेदिच्। प्रोपेर्तिएस्जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् । (१२९।१)

laghuśaṅkha:: medic. propertiesjalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut |

129.2१२९.२

विषदोषहरा रुच्या पाचनी बलदायिनी ॥ (१२९।२)

viṣadoṣaharā rucyā pācanī baladāyinī ||

130.1१३०.१

खटिनी:: स्य्नोन्य्म्स्खटिनी खटिका चैव खटी धवलमृत्तिका । (१३०।१)

khaṭinī:: synonymskhaṭinī khaṭikā caiva khaṭī dhavalamṛttikā |

130.2१३०.२

सितधातुः श्वेतधातुः पाण्डुमृत्पाण्डुमृत्तिका ॥ (१३०।२)

sitadhātuḥ śvetadhātuḥ pāṇḍumṛtpāṇḍumṛttikā ||

131.1१३१.१

कठिनी:: मेदिच्। प्रोपेर्तिएस्खटिनी मधुरा तिक्ता शीतला पित्तदाहनुत् । (१३१।१)

kaṭhinī:: medic. propertieskhaṭinī madhurā tiktā śītalā pittadāhanut |

131.2१३१.२

व्रणदोषकफास्रघ्नी नेत्ररोगनिकृन्तनी ॥ (१३१।२)

vraṇadoṣakaphāsraghnī netraroganikṛntanī ||

132.1१३२.१

दुग्धपाषाण:: स्य्नोन्य्म्स्दुग्धाश्मा दुग्धपाषाणः क्षीरी गोमेदसंनिभः । (१३२।१)

dugdhapāṣāṇa:: synonymsdugdhāśmā dugdhapāṣāṇaḥ kṣīrī gomedasaṃnibhaḥ |

132.2१३२.२

वज्राभो दीप्तिकः सौधो दुग्धी क्षीरयवोऽपि च ॥ (१३२।२)

vajrābho dīptikaḥ saudho dugdhī kṣīrayavo'pi ca ||

133.1१३३.१

दुग्धपाषाण:: मेदिच्। प्रोपेर्तिएस्दुग्धपाषाणको रुच्य ईषदुष्णो ज्वरापहः । (१३३।१)

dugdhapāṣāṇa:: medic. propertiesdugdhapāṣāṇako rucya īṣaduṣṇo jvarāpahaḥ |

133.2१३३.२

पित्तहृद्रोगशूलघ्नः कासाध्मानविनाशनः ॥ (१३३।२)

pittahṛdrogaśūlaghnaḥ kāsādhmānavināśanaḥ ||

134.1१३४.१

कर्पूरमणिकर्पूरनामभिश् चादाव् अन्ते च मणिवाचकः । (१३४।१)

karpūramaṇikarpūranāmabhiś cādāv ante ca maṇivācakaḥ |

134.2१३४.२

कर्पूरमणिनामायं युक्त्या वातादिदोषनुत् ॥ (१३४।२)

karpūramaṇināmāyaṃ yuktyā vātādidoṣanut ||

135.1१३५.१

सन्द्:: स्य्नोन्य्म्स्सिकता वालुका सिक्ता शीतला सूक्ष्मशर्करा । (१३५।१)

sand:: synonymssikatā vālukā siktā śītalā sūkṣmaśarkarā |

135.2१३५.२

प्रवाहोत्था महाश्लक्ष्णा सूक्ष्मा पानीयचूर्णका ॥ (१३५।२)

pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā ||

136.1१३६.१

सन्द्:: मेदिच्। प्रोपेर्तिएस्वालुका मधुरा शीता संतापश्रमनाशिनी । (१३६।१)

sand:: medic. propertiesvālukā madhurā śītā saṃtāpaśramanāśinī |

136.2१३६.२

सेकप्रयोगतश्चैव शाखाशैत्यानिलापहा ॥ (१३६।२)

sekaprayogataścaiva śākhāśaityānilāpahā ||

137.1१३७.१

कङ्कुष्ठ:: स्य्नोन्य्म्स्कङ्कुष्ठं कालकुष्ठं च विरङ्गं रङ्गदायकम् । (१३७।१)

kaṅkuṣṭha:: synonymskaṅkuṣṭhaṃ kālakuṣṭhaṃ ca viraṅgaṃ raṅgadāyakam |

137.2१३७.२

रेचकं पुलकं चैव शोधकं कालपालकम् ॥ (१३७।२)

recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam ||

138.1१३८.१

कङ्कुष्ठ:: सुब्त्य्पेस्कङ्कुष्ठं च द्विधा प्रोक्तं तारहेमाभ्रकं तथा । (१३८।१)

kaṅkuṣṭha:: subtypeskaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā |

138.2१३८.२

कङ्कुष्ठ:: मेदिच्। प्रोपेर्तिएस्कटुकं कफवातघ्नं रेचकं व्रणशूलहृत् ॥ (१३८।२)

kaṅkuṣṭha:: medic. propertieskaṭukaṃ kaphavātaghnaṃ recakaṃ vraṇaśūlahṛt ||

139.1१३९.१

विमल:: स्य्नोन्य्म्स्विमलं निर्मलं स्वच्छममलं स्वच्छधातुकम् । (१३९।१)

vimala:: synonymsvimalaṃ nirmalaṃ svacchamamalaṃ svacchadhātukam |

139.2१३९.२

बाणसंख्याभिधं प्रोक्तं तारहेम द्विधा मतम् ॥ (१३९।२)

bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam ||

140.1१४०.१

विमल:: मेदिच्। प्रोपेर्तिएस्विमलं कटुतिक्तोष्णं त्वग्दोषव्रणनाशनम् । (१४०।१)

vimala:: medic. propertiesvimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam |

140.2१४०.२

रसवीर्यादिके तुल्यं वेधे स्याद् भिन्नवीर्यकम् ॥ (१४०।२)

rasavīryādike tulyaṃ vedhe syād bhinnavīryakam ||

141.1१४१.१

आखुपाषाणमूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः । (१४१।१)

ākhupāṣāṇamūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ |

141.2१४१.२

आखुपाषाणनामायं लोहसंकरकारकः ॥ (१४१।२)

ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ ||

142.1१४२.१

रत्न:: निरुक्तिधनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । (१४२।१)

ratna:: niruktidhanārthino janāḥ sarve ramante'sminnatīva yat |

142.2१४२.२

ततो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ (१४२।२)

tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ ||

143.1१४३.१

द्रव्यं किंचन लक्ष्मीभोग्यं वसुवस्तुसम्पदो वृद्धिः । (१४३।१)

dravyaṃ kiṃcana lakṣmībhogyaṃ vasuvastusampado vṛddhiḥ |

143.2१४३.२

श्रीर् व्यवहार्यं द्रविणं धनमर्थो राः स्वापतेयं च ॥ (१४३।२)

śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca ||

144.1१४४.१

जेwएल्:: स्य्नोन्य्म्स्रत्नं वसुमणिरुपलो दृषद् द्रविणदीप्तवीर्याणि । (१४४।१)

jewel:: synonymsratnaṃ vasumaṇirupalo dṛṣad draviṇadīptavīryāṇi |

144.2१४४.२

रौहिणकमब्धिसारं खानिकमाकरजमित्यभिन्नार्थाः ॥ (१४४।२)

rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ ||

145.1१४५.१

रुब्य्:: स्य्नोन्य्म्स्माणिक्यं शोणरत्नं च रत्नराड्रविरत्नकम् । (१४५।१)

ruby:: synonymsmāṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam |

145.2१४५.२

शृङ्गारि रङ्गमाणिक्यं तरलो रत्ननायकः ॥ (१४५।२)

śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ ||

146.1१४६.१

रागदृक् पद्मरागश्च रत्नं शोणोपलस्तथा । (१४६।१)

rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā |

146.2१४६.२

सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ (१४६।२)

saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam ||

147.1१४७.१

रुब्य्:: मेदिच्। प्रोपेर्तिएस्माणिक्यं मधुरं स्निग्धं वातपित्तप्रणाशनम् । (१४७।१)

ruby:: medic. propertiesmāṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam |

147.2१४७.२

रत्नप्रयोगप्रज्ञानां रसायनकरं परम् ॥ (१४७।२)

ratnaprayogaprajñānāṃ rasāyanakaraṃ param ||

148.1१४८.१

रुब्य्:: परीक्षा:: गोओद् क़ुअलित्य्स्निग्धं गुरुगात्रयुतं दीप्तं स्वच्छं सुरङ्गं च । (१४८।१)

ruby:: parīkṣā:: good qualitysnigdhaṃ gurugātrayutaṃ dīptaṃ svacchaṃ suraṅgaṃ ca |

148.2१४८.२

इति जात्यादिमाणिक्यं कल्याणं धारणात्कुरुते ॥ (१४८।२)

iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute ||

149.1१४९.१

रुब्य्:: परीक्षा:: बद् क़ुअलित्य्द्विछायम् अभ्रपिहितं कर्कशशर्करिलं भिन्नधूम्रं च । (१४९।१)

ruby:: parīkṣā:: bad qualitydvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca |

149.2१४९.२

रागविकलं विरूपं लघु माणिक्यं न धारयेद्धीमान् ॥ (१४९।२)

rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān ||

150.1१५०.१

रुब्य्:: सुब्त्य्पेस्तद्रक्तं यदि पद्मरागमथ तत्पीतातिरक्तं द्विधा जानीयात् कुरुविन्दकं यदरुणं स्यादेषु सौगन्धिकम् । (१५०।१)

ruby:: subtypestadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam |

150.2१५०.२

रुब्य्:: परीक्षातन्नीलं यदि नीलगन्धिकमिति ज्ञेयं चतुर्धा बुधैर् माणिक्यं कषघर्षणे ऽप्यविकलं रागेण जात्यं जगुः ॥ (१५०।२)

ruby:: parīkṣātannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ ||

151.1१५१.१

पेअर्ल्:: स्य्नोन्य्म्स्मुक्ता सौम्या मौक्तिकं मौक्तिकेयं तारं तारा भौतिकं तारका च । (१५१।१)

pearl:: synonymsmuktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca |

151.2१५१.२

अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्द्ररत्नं वलक्षम् ॥ (१५१।२)

ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād indraratnaṃ valakṣam ||

152.1१५२.१

मुक्ताफलं बिन्दुफलं च मुक्तिका शौक्तेयकं शुक्लमणिः शशिप्रियम् । (१५२।१)

muktāphalaṃ binduphalaṃ ca muktikā śaukteyakaṃ śuklamaṇiḥ śaśipriyam |

152.2१५२.२

स्वच्छं हिमं हैमवतं सुधांशुभं सुधांशुरत्नं शरनेत्रसंमितम् ॥ (१५२।२)

svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam ||

153.1१५३.१

पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । (१५३।१)

pearl:: medic. propertiesmauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham |

153.2१५३.२

राजयक्ष्ममुखरोगनाशनं क्षीणवीर्यबलपुष्टिवर्धनम् ॥ (१५३।२)

rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam ||

154.1१५४.१

पेअर्ल्:: परीक्षा:: गोओद् क़ुअलित्य्नक्षत्राभं वृत्तम् अत्यन्तम् उक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । (१५४।१)

pearl:: parīkṣā:: good qualitynakṣatrābhaṃ vṛttam atyantam uktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca |

154.2१५४.२

न्यस्तं धत्ते गौरवं यत्तुलायां तन् निर्मूल्यं मौक्तिकं सौख्यदायि ॥ (१५४।२)

nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi ||

155.1१५५.१

पेअर्ल्:: परीक्षा:: बद् क़ुअलित्य्यद्विच्छायं मौक्तिकं व्यङ्गकायं शुक्तिस्पर्शं रक्ततां चापि धत्ते । (१५५।१)

pearl:: parīkṣā:: bad qualityyadvicchāyaṃ mauktikaṃ vyaṅgakāyaṃ śuktisparśaṃ raktatāṃ cāpi dhatte |

155.2१५५.२

मत्स्याक्ष्याभं रूक्षमुत्ताननिम्नं नैतद्धार्यं धीमता दोषदायि ॥ (१५५।२)

matsyākṣyābhaṃ rūkṣamuttānanimnaṃ naitaddhāryaṃ dhīmatā doṣadāyi ||

156.1१५६.१

पेअर्ल्:: ओरिगिन्मातंगोरगमीनपोत्रिशिरसस् त्वक्सारशङ्खाम्बुभृत् शुक्तीनामुदराच्च मौक्तिकमणिः स्पष्टं भवत्यष्टधा । (१५६।१)

pearl:: originmātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā |

156.2१५६.२

छायाः पाटलनीलपीतधवलास् तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ॥ (१५६।२)

chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam ||

157.1१५७.१

पेअर्ल्:: जात्य (त्रुए):: परीक्षालवणक्षारक्षोदिनि पात्रे गोमूत्रपूरिते क्षिप्तम् । (१५७।१)

pearl:: jātya (true):: parīkṣālavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam |

157.2१५७.२

मर्दितमपि शालितुषैर्यदविकृतं तत्तु मौक्तिकं जात्यम् ॥ (१५७।२)

marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam ||

158.1१५८.१

चोरल्:: स्य्नोन्य्म्स्प्रवालो ऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः । (१५८।१)

coral:: synonymspravālo 'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ |

158.2१५८.२

भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरो लतामणिः ॥ (१५८।२)

bhaumaratnaṃ ca raktāṅgo raktāṅkuro latāmaṇiḥ ||

159.1१५९.१

चोरल्:: मेदिच्। प्रोपेर्तिएस्प्रवालो मधुरोऽम्लश्च कफपित्तादिदोषनुत् । (१५९।१)

coral:: medic. propertiespravālo madhuro'mlaśca kaphapittādidoṣanut |

159.2१५९.२

वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ (१५९।२)

vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ ||

160.1१६०.१

चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्शुद्धं दृढघनं वृत्तं स्निग्धगात्रं सुरङ्गकम् । (१६०।१)

coral:: parīkṣā:: good qualityśuddhaṃ dṛḍhaghanaṃ vṛttaṃ snigdhagātraṃ suraṅgakam |

160.2१६०.२

समं गुरु सिराहीनं प्रवालं धारयेत् शुभम् ॥ (१६०।२)

samaṃ guru sirāhīnaṃ pravālaṃ dhārayet śubham ||

161.1१६१.१

चोरल्:: परीक्षा:: बद् क़ुअलित्य्गौररङ्गं जलाक्रान्तं वक्रं सूक्ष्मं सकोटरम् । (१६१।१)

coral:: parīkṣā:: bad qualitygauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram |

161.2१६१.२

रूक्षं कृष्णं लघु श्वेतं प्रवालम् अशुभं त्यजेत् ॥ (१६१।२)

rūkṣaṃ kṛṣṇaṃ laghu śvetaṃ pravālam aśubhaṃ tyajet ||

162.1१६२.१

चोरल्:: परीक्षा:: जात्य।त्रुएबालार्ककिरणरक्ता सागरसलिलोद्भवा प्रवाललता । (१६२।१)

coral:: parīkṣā:: jātya|truebālārkakiraṇaraktā sāgarasalilodbhavā pravālalatā |

162.2१६२.२

या न त्यजति निजरुचिं निकषे घृष्टापि सा स्मृता जात्या ॥ (१६२।२)

yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā ||

163.1१६३.१

एमेरल्द्:: स्य्नोन्य्म्स्गारुत्मतं मरकतं रौहीणेयं हरिन्मणिः । (१६३।१)

emerald:: synonymsgārutmataṃ marakataṃ rauhīṇeyaṃ harinmaṇiḥ |

163.2१६३.२

सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजम् । (१६३।२)

sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhajam |

163.3१६३.३

गरलारिर् वायवालं गारुडं रुद्रसंमितम् ॥ (१६३।३)

garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam ||

164.1१६४.१

एमेरल्द्:: मेदिच्। प्रोपेर्तिएस्मरकतं विषघ्नं च शीतलं मधुरं रसे । (१६४।१)

emerald:: medic. propertiesmarakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase |

164.2१६४.२

आमपित्तहरं रुच्यं पुष्टिदं भूतनाशनम् ॥ (१६४।२)

āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam ||

165.1१६५.१

एमेरल्द्:: परीक्षा:: गोओद् क़ुअलित्य्स्वच्छं गुरु सुच्छायं स्निग्धं गात्रे च मार्दवसमेतम् । (१६५।१)

emerald:: parīkṣā:: good qualitysvacchaṃ guru succhāyaṃ snigdhaṃ gātre ca mārdavasametam |

165.2१६५.२

अव्यङ्गं बहुरङ्गं शृङ्गारि मरकतं शुभं बिभृयात् ॥ (१६५।२)

avyaṅgaṃ bahuraṅgaṃ śṛṅgāri marakataṃ śubhaṃ bibhṛyāt ||

166.1१६६.१

एमेरल्द्:: परीक्षा:: बद् क़ुअलित्य्शर्करिलकलिलरूक्षं मलिनं लघु हीनकान्ति कल्माषम् । (१६६।१)

emerald:: parīkṣā:: bad qualityśarkarilakalilarūkṣaṃ malinaṃ laghu hīnakānti kalmāṣam |

166.2१६६.२

त्रासयुतं विकृताङ्गं मरकतममरोऽपि नोपभुञ्जीत ॥ (१६६।२)

trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta ||

167.1१६७.१

एमेरल्द्:: परीक्षा:: त्रुएयत् शैवालशिखण्डिशाद्वलहरित्काचैश्च चाषच्छदैः खद्योतेन च बालकीरवपुषा शैरीषपुष्पेण च । (१६७।१)

emerald:: parīkṣā:: trueyat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca |

167.2१६७.२

छायाभिः समतां दधाति तदिदं निर्दिष्टमष्टात्मकं जात्यं यत्तपनातपैश्च परितो गारुत्मतं रञ्जयेत् ॥ (१६७।२)

chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet ||

168.1१६८.१

पुष्पराग:: स्य्नोन्य्म्स्पीतस्तु पुष्परागः पीतस्फटिकश्च पीतरक्तश्च । (१६८।१)

puṣparāga:: synonymspītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca |

168.2१६८.२

पीताश्मा गुरुरत्नं पीतमणिः पुष्परागश्च ॥ (१६८।२)

pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca ||

169.1१६९.१

पुष्पराग:: मेदिच्। प्रोपेर्तिएस्पुष्परागोऽम्लशीतश्च वातजिद्दीपनः परः । (१६९।१)

puṣparāga:: medic. propertiespuṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ |

169.2१६९.२

आयुः श्रियं च प्रज्ञां च धारणात् कुरुते नृणाम् ॥ (१६९।२)

āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām ||

170.1१७०.१

पुष्पराग:: परीक्षा:: गोओद् क़ुअलित्य्सच्छायपीतगुरुगात्रसुरङ्गशुद्धं स्निग्धं च निर्मलमतीव सुवृत्तशीतम् । (१७०।१)

puṣparāga:: parīkṣā:: good qualitysacchāyapītagurugātrasuraṅgaśuddhaṃ snigdhaṃ ca nirmalamatīva suvṛttaśītam |

170.2१७०.२

यः पुष्परागम् अमलं कलयेदमुष्य पुष्णाति कीर्तिम् अतिशौर्यसुखायुर् अर्थान् ॥ (१७०।२)

yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān ||

171.1१७१.१

पुष्पराग:: परीक्षा:: बद् क़ुअलित्य्कृष्णबिन्द्वङ्कितं रूक्षं धवलं मलिनं लघु । (१७१।१)

puṣparāga:: parīkṣā:: bad qualitykṛṣṇabindvaṅkitaṃ rūkṣaṃ dhavalaṃ malinaṃ laghu |

171.2१७१.२

विच्छायं शर्कराङ्गाभं पुष्परागं सदोषकम् ॥ (१७१।२)

vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam ||

172.1१७२.१

पुष्पराग:: परीक्षा:: त्रुएघृष्टं निकाषपट्टे यत्पुष्यति रागमधिकमात्मीयम् । (१७२।१)

puṣparāga:: parīkṣā:: trueghṛṣṭaṃ nikāṣapaṭṭe yatpuṣyati rāgamadhikamātmīyam |

172.2१७२.२

तेन खलु पुष्परागो जात्यतयायं परीक्षकैर् उक्तः ॥ (१७२।२)

tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ ||

173.1१७३.१

वज्र:: स्य्नोन्य्म्स्वज्रमिन्द्रायुधं हीरं भिदुरं कुलिशं पविः । (१७३।१)

vajra:: synonymsvajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ |

173.2१७३.२

अभेद्यमशिरं रत्नं दृढं भार्गवकं स्मृतम् । (१७३।२)

abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam |

173.3१७३.३

षट्कोणं बहुधारं च शतकोट्यब्धिभूमितम् ॥ (१७३।३)

ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam ||

174.1१७४.१

वज्र:: मेदिच्। प्रोपेर्तिएस्वज्रं च षड्रसोपेतं सर्वरोगापहारकम् । (१७४।१)

vajra:: medic. propertiesvajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam |

174.2१७४.२

सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् ॥ (१७४।२)

sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam ||

175.1१७५.१

वज्र:: परीक्षा:: बद्भस्माङ्गं काकपादं च रेखाक्रान्तं तु वर्तुलम् । (१७५।१)

vajra:: parīkṣā:: badbhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam |

175.2१७५.२

अधारं मलिनं बिन्दुसंत्रासं स्फुटितं तथा । (१७५।२)

adhāraṃ malinaṃ bindusaṃtrāsaṃ sphuṭitaṃ tathā |

175.3१७५.३

नीलाभं चिपिटं रूक्षं तद्वज्रं दोषदं त्यजेत् ॥ (१७५।३)

nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet ||

176.1१७६.१

श्वेतालोहितपीतकमेचकतया छायाश् चतस्रः क्रमात् विप्रादित्वम् इहास्य यत् सुमनसः शंसन्ति सत्यं ततः । (१७६।१)

śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ |

176.2१७६.२

स्फीतां कीर्तिम् अनुत्तमां श्रियमिदं धत्ते यथास्वं धृतं मर्त्यानाम् अयथायथं तु कुलिशं पथ्यं हि नान्यत्ततः ॥ (१७६।२)

sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ ||

177.1१७७.१

वज्र:: परीक्षा:: त्रुएयत्पाषाणतले निकाषनिकरे नोद्घृष्यते निष्ठुरैर् यच्चोलूखललोहमुद्गरघनैर् लेखां न यात्याहतम् । (१७७।१)

vajra:: parīkṣā:: trueyatpāṣāṇatale nikāṣanikare nodghṛṣyate niṣṭhurair yaccolūkhalalohamudgaraghanair lekhāṃ na yātyāhatam |

177.2१७७.२

यच्चान्यन्निजलीलयैव दलयेद्वज्रेण वा भिद्यते तज्जात्यं कुलिशं वदन्ति कुशलाः श्लाघ्यं महार्घ्यं च तत् ॥ (१७७।२)

yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat ||

178.1१७८.१

वज्र:: सुब्त्य्पेस्:: चस्तेविप्रः सो ऽपि रसायनेषु बलवानष्टाङ्गसिद्धिप्रदो राजन्यस्तु नृणां वलीपलितजित् मृत्युं जयेद् अञ्जसा । (१७८।१)

vajra:: subtypes:: castevipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā |

178.2१७८.२

द्रव्याकर्षणसिद्धिदस्तु सुतरां वैश्योऽथ शूद्रो भवेत् सर्वव्याधिहरस्तदेष कथितो वज्रस्य वर्ण्यो गुणः ॥ (१७८।२)

dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ ||

179.1१७९.१

सप्फिरे:: स्य्नोन्य्म्स्नीलस्तु सौरिरत्नं स्यान् नीलाश्मा नीलरत्नकः । (१७९।१)

sapphire:: synonymsnīlastu sauriratnaṃ syān nīlāśmā nīlaratnakaḥ |

179.2१७९.२

नीलोपलस्तृणग्राही महानीलः सुनीलकः । (१७९।२)

nīlopalastṛṇagrāhī mahānīlaḥ sunīlakaḥ |

179.3१७९.३

मसारम् इन्द्रनीलं स्याद् गल्लर्कः पद्मरागजः ॥ (१७९।३)

masāram indranīlaṃ syād gallarkaḥ padmarāgajaḥ ||

180.1१८०.१

सप्फिरे:: मेदिच्। प्रोपेर्तिएस्नीलः सतिक्तकोष्णश्च कफपित्तानिलापहः । (१८०।१)

sapphire:: medic. propertiesnīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ |

180.2१८०.२

यो दधाति शरीरे स्यात् सौरिर्मङ्गलदो भवेत् ॥ (१८०।२)

yo dadhāti śarīre syāt saurirmaṅgalado bhavet ||

181.1१८१.१

सप्फिरे:: परीक्षा:: गोओद् क़ुअलित्य्न निम्नो निर्मलो गात्रमसृणो गुरुदीप्तिकः । (१८१।१)

sapphire:: parīkṣā:: good qualityna nimno nirmalo gātramasṛṇo gurudīptikaḥ |

181.2१८१.२

तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः ॥ (१८१।२)

tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ ||

182.1१८२.१

सप्फिरे:: परीक्षा:: बद् क़ुअलित्य्मृच्छर्कराश्मकलिलो विच्छायो मलिनो लघुः । (१८२।१)

sapphire:: parīkṣā:: bad qualitymṛccharkarāśmakalilo vicchāyo malino laghuḥ |

182.2१८२.२

रूक्षः स्फुटितगर्तश् च वर्ज्यो नीलः सदोषकः ॥ (१८२।२)

rūkṣaḥ sphuṭitagartaś ca varjyo nīlaḥ sadoṣakaḥ ||

183.1१८३.१

सितशोणपीतकृष्णाश् छाया नीले क्रमाद् इमाः कथिताः । (१८३।१)

sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ |

183.2१८३.२

विप्रादिवर्णसिद्ध्यै धारणमस्यापि वज्रवत् फलवत् ॥ (१८३।२)

viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat ||

184.1१८४.१

सप्फिरे:: परीक्षा:: त्रुएआस्त्यानं चन्द्रिकास्यन्दं सुन्दरं क्षीरपूरितम् । (१८४।१)

sapphire:: parīkṣā:: trueāstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam |

184.2१८४.२

यः पात्रं रञ्जयत्याशु स जात्यो नील उच्यते ॥ (१८४।२)

yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate ||

185.1१८५.१

गोमेद:: स्य्नोन्य्म्स्गोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः । (१८५।१)

gomeda:: synonymsgomedakastu gomedo rāhuratnaṃ tamomaṇiḥ |

185.2१८५.२

स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि ॥ (१८५।२)

svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi ||

186.1१८६.१

गोमेद:: मेदिच्। प्रोपेर्तिएस्गोमेदको ऽम्ल उष्णश्च वातकोपविकारजित् । (१८६।१)

gomeda:: medic. propertiesgomedako 'mla uṣṇaśca vātakopavikārajit |

186.2१८६.२

दीपनः पाचनश्चैव धृतोऽयं पापनाशनः ॥ (१८६।२)

dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ ||

187.1१८७.१

गोमेद:: परीक्षा:: गोओद् क़ुअलित्य्गोमूत्राभं यन्मृदु स्निग्धमुग्धं शुद्धच्छायं गौरवं यच्च धत्ते । (१८७।१)

gomeda:: parīkṣā:: good qualitygomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte |

187.2१८७.२

हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्यान्ति सन्तः ॥ (१८७।२)

hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ ||

188.1१८८.१

गोमेद:: परीक्षा:: त्रुएपात्रे यत्र न्यस्ते पयः प्रयात्येव गोजलोज्ज्वलताम् । (१८८।१)

gomeda:: parīkṣā:: truepātre yatra nyaste payaḥ prayātyeva gojalojjvalatām |

188.2१८८.२

घर्षेऽप्यहीनकान्तिं गोमेदं तं बुधा विदुर् जात्यम् ॥ (१८८।२)

gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam ||

189.1१८९.१

गोमेद:: परीक्षा:: बद् क़ुअलित्यरङ्गं श्वेतकृष्णाङ्गं रेखात्रासयुतं लघु । (१८९।१)

gomeda:: parīkṣā:: bad qualityaraṅgaṃ śvetakṛṣṇāṅgaṃ rekhātrāsayutaṃ laghu |

189.2१८९.२

विच्छायं शर्करागारं गोमेदं विबुधस् त्यजेत् ॥ (१८९।२)

vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet ||

190.1१९०.१

वैडूर्य:: स्य्नोन्य्म्स्वैडूर्यं केतुरत्नं च कैतवं बालवीयजम् । (१९०।१)

vaiḍūrya:: synonymsvaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam |

190.2१९०.२

प्रावृष्यम् अभ्रलोहं च खशब्दाङ्कुरकस् तथा । (१९०।२)

prāvṛṣyam abhralohaṃ ca khaśabdāṅkurakas tathā |

190.3१९०.३

वैडूर्यरत्नं सम्प्रोक्तं ज्ञेयं विदूरजं तथा ॥ (१९०।३)

vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā ||

191.1१९१.१

वैडूर्य:: मेदिच्। प्रोपेर्तिएस्वैडूर्यम् उष्णम् अम्लं च कफमारुतनाशनम् । (१९१।१)

vaiḍūrya:: medic. propertiesvaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam |

191.2१९१.२

गुल्मादिदोषशमनं भूषितं च शुभावहम् ॥ (१९१।२)

gulmādidoṣaśamanaṃ bhūṣitaṃ ca śubhāvaham ||

192.1१९२.१

वैडूर्य:: सुब्त्य्पेस्:: चोलोउरेकं वेणुपलाशपेशलरुचा मायूरकण्ठत्विषा मार्जारेक्षणपिङ्गलच्छविजुषा ज्ञेयं त्रिधा छायया । (१९२।१)

vaiḍūrya:: subtypes:: colourekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā |

192.2१९२.२

वैडूर्य:: परीक्षा:: गोओद् क़ुअलित्य्यद्गात्रे गुरुतां दधाति नितरां स्निग्धं तु दोषोज्झितं वैडूर्यं विमलं वदन्ति सुधियः स्वच्छं च तच्छोभनम् ॥ (१९२।२)

vaiḍūrya:: parīkṣā:: good qualityyadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam ||

193.1१९३.१

वैडूर्य:: परीक्षा:: बद् क़ुअलित्य्विच्छायं मृच्छिलागर्भे लघु रूक्षं च सक्षतम् । (१९३।१)

vaiḍūrya:: parīkṣā:: bad qualityvicchāyaṃ mṛcchilāgarbhe laghu rūkṣaṃ ca sakṣatam |

193.2१९३.२

सत्रासं परुषं कृष्णं वैडूर्यं दूरतस् त्यजेत् ॥ (१९३।२)

satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet ||

194.1१९४.१

वैडूर्य:: परीक्षा:: त्रुएघृष्टं यदात्मना स्वच्छं स्वछायां निकषाश्मनि । (१९४।१)

vaiḍūrya:: parīkṣā:: trueghṛṣṭaṃ yadātmanā svacchaṃ svachāyāṃ nikaṣāśmani |

194.2१९४.२

स्फुटं प्रदर्शयेद् एतद् वैडूर्यं जात्यमुच्यते ॥ (१९४।२)

sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate ||

195.1१९५.१

माणिक्यं पद्मबन्धोर् अतिविमलतमं मौक्तिकं शीतभानोर् माहेयस्य प्रवालं मरकतमतुलं कल्पयेदिन्दुसूनोः । (१९५।१)

māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ |

195.2१९५.२

देवेज्ये पुष्परागं कुलिशमपि कवेर् नीलम् अर्कात्मजस्य स्वर्भानोश्चापि गोमेदकम् अथ विदुरोद्भावितं किंतु केतोः ॥ (१९५।२)

devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ ||

196.1१९६.१

इत्थम् एतानि रत्नानि तत्तदुद्देशतः क्रमात् । (१९६।१)

ittham etāni ratnāni tattaduddeśataḥ kramāt |

196.2१९६.२

यो दद्याद्बिभृयाद् वापि तस्मिन् सानुग्रहा ग्रहाः ॥ (१९६।२)

yo dadyādbibhṛyād vāpi tasmin sānugrahā grahāḥ ||

197.1१९७.१

संत्यज्य वज्रम् एकं सर्वत्रान्यत्र संघाते । (१९७।१)

saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte |

197.2१९७.२

लाघवमथ कोमलता साधारणदोष एव विज्ञेयः ॥ (१९७।२)

lāghavamatha komalatā sādhāraṇadoṣa eva vijñeyaḥ ||

198.1१९८.१

लोहितकवज्रमौक्तिकमरकतनीला महोपलाः पञ्च । (१९८।१)

lohitakavajramauktikamarakatanīlā mahopalāḥ pañca |

198.2१९८.२

वैडूर्यपुष्परागप्रवालगोमेदकादयो ऽर्वाञ्चः ॥ (१९८।२)

vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ ||

199.1१९९.१

गोमेदप्रवालवायव्यं देवेज्यमणीन्द्रतरणिकान्ताद्याः । (१९९।१)

gomedapravālavāyavyaṃ devejyamaṇīndrataraṇikāntādyāḥ |

199.2१९९.२

नानावर्णगुणाढ्या विज्ञेयाः स्फटिकजातयः प्राज्ञैः ॥ (१९९।२)

nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ ||

200.1२००.१

स्फटिक:: स्य्नोन्य्म्स्स्फटिकः सितोपलः स्याद् अमलमणिर् निर्मलोपलः स्वच्छः । (२००।१)

sphaṭika:: synonymssphaṭikaḥ sitopalaḥ syād amalamaṇir nirmalopalaḥ svacchaḥ |

200.2२००.२

स्वच्छमणिरमलरत्नं निस्तुषरत्नं शिवप्रियं नवधा ॥ (२००।२)

svacchamaṇiramalaratnaṃ nistuṣaratnaṃ śivapriyaṃ navadhā ||

201.1२०१.१

स्फटिक:: मेदिच्। प्रोपेर्तिएस्स्फटिकः समवीर्यश्च पित्तदाहार्तिदोषनुत् । (२०१।१)

sphaṭika:: medic. propertiessphaṭikaḥ samavīryaśca pittadāhārtidoṣanut |

201.2२०१.२

तस्याक्षमाला जपतां दत्ते कोटिगुणं फलम् ॥ (२०१।२)

tasyākṣamālā japatāṃ datte koṭiguṇaṃ phalam ||

202.1२०२.१

स्फटिक:: परीक्षा:: त्रुएयद् गङ्गातोयबिन्दुछविविमलतमं निस्तुषं नेत्रहृद्यं स्निग्धं शुद्धान्तरालं मधुरम् अतिहिमं पित्तदाहास्रहारि । (२०२।१)

sphaṭika:: parīkṣā:: trueyad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri |

202.2२०२.२

पाषाणैर् यन् निघृष्टं स्फुटितम् अपि निजां स्वच्छतां नैव जह्यात् तज्जात्यं जात्वलभ्यं शुभम् उपचिनुते शैवरत्नं विचित्रम् ॥ (२०२।२)

pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram ||

203.1२०३.१

सूर्यकान्त:: स्य्नोन्य्म्सथ भवति सूर्यकान्तस् तपनमणिस् तपनश्च रविकान्तः । (२०३।१)

sūryakānta:: synonymsatha bhavati sūryakāntas tapanamaṇis tapanaśca ravikāntaḥ |

203.2२०३.२

दीप्तोपलोऽग्निगर्भो ज्वलनाश्मा ऽर्कोपलश्च वसुनामा ॥ (२०३।२)

dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā ||

204.1२०४.१

सूर्यकान्त:: मेदिच्। प्रोपेर्तिएस्सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनः । (२०४।१)

sūryakānta:: medic. propertiessūryakānto bhaveduṣṇo nirmalaśca rasāyanaḥ |

204.2२०४.२

वातश्लेष्महरो मेध्यः पूजनाद् रवितुष्टिदः ॥ (२०४।२)

vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ ||

205.1२०५.१

सूर्यकान्त:: परीक्षा:: त्रुएशुद्धः स्निग्धो निर्व्रणो निस्तुषोऽन्तर्यो निर्मृष्टो व्योम्नि नैर्मल्यम् एति । (२०५।१)

sūryakānta:: parīkṣā:: trueśuddhaḥ snigdho nirvraṇo nistuṣo'ntaryo nirmṛṣṭo vyomni nairmalyam eti |

205.2२०५.२

यः सूर्यांशुस्पर्शनिष्ठ्यूतवह्निर् जात्यः सो ऽयं जायते सूर्यकान्तः ॥ (२०५।२)

yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ ||

206.1२०६.१

वैक्रान्त:: स्य्नोन्य्म्स्वैक्रान्तं चैव विक्रान्तं नीचवज्रं कुवज्रकम् । (२०६।१)

vaikrānta:: synonymsvaikrāntaṃ caiva vikrāntaṃ nīcavajraṃ kuvajrakam |

206.2२०६.२

गोनासः क्षुद्रकुलिशं चूर्णवज्रं च गोनसः ॥ (२०६।२)

gonāsaḥ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasaḥ ||

207.1२०७.१

वैक्रान्त:: मेदिच्। प्रोपेर्तिएस्वज्राभावे च वैक्रान्तं रसवीर्यादिके समम् । (२०७।१)

vaikrānta:: medic. propertiesvajrābhāve ca vaikrāntaṃ rasavīryādike samam |

207.2२०७.२

क्षयकुष्ठविषघ्नं च पुष्टिदं सुरसायनम् ॥ (२०७।२)

kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam ||

208.1२०८.१

वैक्रान्त:: निरुक्तिवज्राकारतयैव प्रसह्य हरणाय सर्वरोगाणाम् । (२०८।१)

vaikrānta:: niruktivajrākāratayaiva prasahya haraṇāya sarvarogāṇām |

208.2२०८.२

यद्विक्रान्तिं धत्ते तद्वैक्रान्तं बुधैरिदं कथितम् ॥ (२०८।२)

yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam ||

209.1२०९.१

चन्द्रकान्त:: स्य्नोन्य्म्सिन्द्रकान्तश् चन्द्रकान्तश् चन्द्राश्मा चन्द्रजोपलः । (२०९।१)

candrakānta:: synonymsindrakāntaś candrakāntaś candrāśmā candrajopalaḥ |

209.2२०९.२

शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ (२०९।२)

śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā ||

210.1२१०.१

चन्द्रकान्त:: मेदिच्। प्रोपेर्तिएस्चन्द्रकान्तस्तु शिशिरः स्निग्धः पित्तास्रतापहृत् । (२१०।१)

candrakānta:: medic. propertiescandrakāntastu śiśiraḥ snigdhaḥ pittāsratāpahṛt |

210.2२१०.२

शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविनाशकृत् ॥ (२१०।२)

śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt ||

211.1२११.१

चन्द्रकान्त:: परीक्षा:: त्रुएस्निग्धं श्वेतं पीतमात्रासमेतं धत्ते चित्ते स्वच्छतां यन् मुनीनाम् । (२११।१)

candrakānta:: parīkṣā:: truesnigdhaṃ śvetaṃ pītamātrāsametaṃ dhatte citte svacchatāṃ yan munīnām |

211.2२११.२

यच्च स्रावं याति चन्द्रांशुसङ्गाज् जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ (२११।२)

yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat ||

212.1२१२.१

राजावर्त:: स्य्नोन्य्म्स्राजावर्तो नृपावर्तो राजन्यावर्तकस् तथा । (२१२।१)

rājāvarta:: synonymsrājāvarto nṛpāvarto rājanyāvartakas tathā |

212.2२१२.२

आवर्तमणिर् आवर्तः स्यादित्येषः शराह्वयः ॥ (२१२।२)

āvartamaṇir āvartaḥ syādityeṣaḥ śarāhvayaḥ ||

213.1२१३.१

राजावर्त:: मेदिच्। प्रोपेर्तिएस्राजावर्तः कटुः स्निग्धः शिशिरः पित्तनाशनः । (२१३।१)

rājāvarta:: medic. propertiesrājāvartaḥ kaṭuḥ snigdhaḥ śiśiraḥ pittanāśanaḥ |

213.2२१३.२

सौभाग्यं कुरुते नॄणां भूषणेषु प्रयोजितः ॥ (२१३।२)

saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ ||

214.1२१४.१

राजावर्त:: परीक्षा:: त्रुएनिर्गारम् असितमसृणं नीलं गुरु निर्मलं बहुछायम् । (२१४।१)

rājāvarta:: parīkṣā:: truenirgāram asitamasṛṇaṃ nīlaṃ guru nirmalaṃ bahuchāyam |

214.2२१४.२

शिखिकण्ठसमं सौम्यं राजावर्तं वदन्ति जात्यमणिम् ॥ (२१४।२)

śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim ||

215.1२१५.१

पेरोज:: स्य्नोन्य्म्स्पेरोजं हरिताश्मं च भस्माङ्गं हरितं द्विधा । (२१५।१)

peroja:: synonymsperojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā |

215.2२१५.२

पेरोज:: मेदिच्। प्रोपेर्तिएस्पेरोजं सुकषायं स्यान्मधुरं दीपनं परम् ॥ (२१५।२)

peroja:: medic. propertiesperojaṃ sukaṣāyaṃ syānmadhuraṃ dīpanaṃ param ||

216.1२१६.१

स्थावरं जङ्गमं चैव संयोगाच् च यथा विषम् । (२१६।१)

sthāvaraṃ jaṅgamaṃ caiva saṃyogāc ca yathā viṣam |

216.2२१६.२

तत्सर्वं नाशयेत् शीघ्रं शूलं भूतादिदोषजम् ॥ (२१६।२)

tatsarvaṃ nāśayet śīghraṃ śūlaṃ bhūtādidoṣajam ||

217.1२१७.१

सिद्धाः पारदम् अभ्रकं च विविधान् धातूंश् च लोहानि च प्राहुः किंच मणीनपीह सकलान् संस्कारतः सिद्धिदान् । (२१७।१)

siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān |

217.2२१७.२

यत् संस्कारविहीनम् एषु हि भवेद् यच्चान्यथा संस्कृतं तन्मर्त्यं विषवन् निहन्ति तदिह ज्ञेया बुधैः संस्क्रियाः ॥ (२१७।२)

yat saṃskāravihīnam eṣu hi bhaved yaccānyathā saṃskṛtaṃ tanmartyaṃ viṣavan nihanti tadiha jñeyā budhaiḥ saṃskriyāḥ ||

218.1२१८.१

यान् संस्कृतान् शुभगुणान् अथ चान्यथा चेद् दोषांश् च यान् अपि दिशन्ति रसादयो ऽमी । (२१८।१)

yān saṃskṛtān śubhaguṇān atha cānyathā ced doṣāṃś ca yān api diśanti rasādayo 'mī |

218.2२१८.२

याश् चेह सन्ति खलु संस्कृतयस् तदेतन् नात्राभ्यधायि बहुविस्तरभीतिभाग्भिः ॥ (२१८।२)

yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ ||

219.1२१९.१

इति लोहधातुरसरत्नतद्भिदाद्यभिधागुणप्रकटनस्फुटाक्षरम् । (२१९।१)

iti lohadhāturasaratnatadbhidādyabhidhāguṇaprakaṭanasphuṭākṣaram |

219.2२१९.२

अवधार्य वर्गम् इमम् आद्यवैद्यकप्रगुणप्रयोगकुशलो भवेद् बुधः ॥ (२१९।२)

avadhārya vargam imam ādyavaidyakapraguṇaprayogakuśalo bhaved budhaḥ ||

220.1२२०.१

कुर्वन्ति ये निजगुणेन रसाध्वगेन नॄणां जरन्त्यपि वपूंषि पुनर्नवानि । (२२०।१)

kurvanti ye nijaguṇena rasādhvagena nṝṇāṃ jarantyapi vapūṃṣi punarnavāni |

220.2२२०.२

तेषामयं निवसतिः कनकादिकानां वर्गः प्रसिध्यति रसायनवर्गनाम्ना ॥ (२२०।२)

teṣāmayaṃ nivasatiḥ kanakādikānāṃ vargaḥ prasidhyati rasāyanavarganāmnā ||

221.1२२१.१

नित्यं यस्य गुणाः किलान्तरलसत्कल्याणभूयस् तथा चित्ताकर्षणचञ्चवस् त्रिभुवनं भूम्ना परिकुर्वते । (२२१।१)

nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate |

221.2२२१.२

तेनात्रैष कृते नृसिंहकृतिना नामादिचूडामणौ संस्थामेति मितस् त्रयोदशतया वर्गः सुवर्णादिकः ॥ (२२१।२)

tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

RājNigh, 15

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit