RājNigh, 25, 2
Select a line for its word-by-word analysis.
सौराष्ट्र्यां रुचिदे चैव संधानं च प्रचक्षते । (१।१)
saurāṣṭryāṃ rucide caiva saṃdhānaṃ ca pracakṣate |
ज्वरघ्नश् छिन्नवास्तूके ललना चारसर्जयोः ॥ (३।२)
jvaraghnaś chinnavāstūke lalanā cārasarjayoḥ ||
मञ्जिष्ठायां गुडूच्यां तु कुमारी नागपूर्विका । (४।१)
mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā |
मुद्गरे सप्तपर्णे स्यात् सप्तच्छदम् उदाहृतम् ॥ (४।२)
mudgare saptaparṇe syāt saptacchadam udāhṛtam ||
जन्तुकायां तु वास्तुके विज्ञेया चक्रवर्तिनी । (६।१)
jantukāyāṃ tu vāstuke vijñeyā cakravartinī |
मधुरा जीवके प्रोक्ता मेदायां च तथा स्मृता ॥ (६।२)
madhurā jīvake proktā medāyāṃ ca tathā smṛtā ||
कर्कन्धूश्चेति सम्प्रोक्तो बदरे पूतिमारुते । (७।१)
karkandhūśceti samprokto badare pūtimārute |
वासन्ती कोकिलायां तु दन्त्यापुष्पं प्रचक्षते ॥ (७।२)
vāsantī kokilāyāṃ tu dantyāpuṣpaṃ pracakṣate ||
चन्द्राब्जे चोत्पलं कुष्ठे कृकरश्चव्यवातयोः । (८।१)
candrābje cotpalaṃ kuṣṭhe kṛkaraścavyavātayoḥ |
चपला मद्यमागध्योर् धरण्यां खदिरे क्षमा ॥ (८।२)
capalā madyamāgadhyor dharaṇyāṃ khadire kṣamā ||
काकोल्यां च वचायां च सूक्ष्मैला चेन्द्रवारुणी ॥ (९।२)
kākolyāṃ ca vacāyāṃ ca sūkṣmailā cendravāruṇī ||
ऐन्द्र्यां गोदावरी चैव गौतम्यां रोचना तथा । (१०।१)
aindryāṃ godāvarī caiva gautamyāṃ rocanā tathā |
कुसुम्भेऽरण्यजे चैव कौसुम्भं कुसुमाञ्जने ॥ (१०।२)
kusumbhe'raṇyaje caiva kausumbhaṃ kusumāñjane ||
देवदाल्यां त्रपुस्यां च शताह्वायां शतावरी ॥ (११।२)
devadālyāṃ trapusyāṃ ca śatāhvāyāṃ śatāvarī ||
मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां तथा स्मृता । (१२।१)
miśistu tutthanīlinyāṃ sūkṣmailāyāṃ tathā smṛtā |
वितुन्नकं तु भूधात्र्यां ख्याता कुस्तुम्बरी तथा ॥ (१२।२)
vitunnakaṃ tu bhūdhātryāṃ khyātā kustumbarī tathā ||
बर्हिर् दर्भे मयूरे च प्लक्षमर्कटयोः प्लवः । (१३।१)
barhir darbhe mayūre ca plakṣamarkaṭayoḥ plavaḥ |
आखुपर्णी सुतश्रेण्यां प्रत्यक्श्रेण्यां तथा स्मृता ॥ (१३।२)
ākhuparṇī sutaśreṇyāṃ pratyakśreṇyāṃ tathā smṛtā ||
दर्भे च कुशिके वज्रं कङ्गुधान्ये प्रियङ्गुके ॥ (१४।२)
darbhe ca kuśike vajraṃ kaṅgudhānye priyaṅguke ||
कङ्गुरङ्गारवल्ली तु फञ्जी हस्तिकरञ्जयोः । (१५।१)
kaṅguraṅgāravallī tu phañjī hastikarañjayoḥ |
वक्रपुष्पमगस्त्ये च पलाशे च श्वपुच्छकम् ॥ (१५।२)
vakrapuṣpamagastye ca palāśe ca śvapucchakam ||
माषपर्ण्यां शुनः पुच्छे चिल्ली स्याच्छाकलोध्रयोः । (१६।१)
māṣaparṇyāṃ śunaḥ pucche cillī syācchākalodhrayoḥ |
अथवा चेन्द्रवारुण्यां शक्राह्वेन्द्रयवं तथा ॥ (१६।२)
athavā cendravāruṇyāṃ śakrāhvendrayavaṃ tathā ||
काकभाण्डी काकतुण्ड्यां ख्याता हस्तिकरञ्जके । (१७।१)
kākabhāṇḍī kākatuṇḍyāṃ khyātā hastikarañjake |
दीर्घाङ्कुश्यां पलाशे च याज्ञिकोऽथ विदारिका ॥ (१७।२)
dīrghāṅkuśyāṃ palāśe ca yājñiko'tha vidārikā ||
काश्मर्यां च शृगाल्यां च टेण्टी च मृगधूर्तके । (१८।१)
kāśmaryāṃ ca śṛgālyāṃ ca ṭeṇṭī ca mṛgadhūrtake |
भल्लूकोऽथ रुदन्त्यां च गोक्षुरे चणपत्त्रकः । (१८।२)
bhallūko'tha rudantyāṃ ca gokṣure caṇapattrakaḥ |
गुञ्जायां राजिकायां च पिशुनं चापि कुङ्कुमे । (२०।१)
guñjāyāṃ rājikāyāṃ ca piśunaṃ cāpi kuṅkume |
व्याधिघातो लवंगं च श्रीगन्धे दिव्यचन्दने ॥ (२२।३)
vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane ||
स्वादुकण्टकम् आचख्युर् गोक्षुरे च विकङ्कते । (२३।१)
svādukaṇṭakam ācakhyur gokṣure ca vikaṅkate |
देवप्रियः अगस्त्यः स्याद् वचा श्वेतादिपिच्छरी । (२४।१)
devapriyaḥ agastyaḥ syād vacā śvetādipiccharī |
गोलोम्यां गृञ्जनं प्रोक्तं लशुने वृत्तमूलके ॥ (२४।२)
golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake ||
कुङ्कुमे रामठे बाह्लिर् बलायामोदनी भवेत् । (२५।१)
kuṅkume rāmaṭhe bāhlir balāyāmodanī bhavet |
महासमङ्गा चैश्वर्यां जटामांस्यां जटा स्मृता ॥ (२५।२)
mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā ||
हंसपाद्यां मुसल्यां च ख्याता गोधापदी बुधैः ॥ (२६।२)
haṃsapādyāṃ musalyāṃ ca khyātā godhāpadī budhaiḥ ||
तपस्वी हिङ्गुपत्त्र्यां च प्रकीर्ये रौप्यमुक्तयोः । (२७।१)
tapasvī hiṅgupattryāṃ ca prakīrye raupyamuktayoḥ |
तारं स्यान्माषपर्ण्यां तु लिङ्ग्यां चाहुः स्वयम्भुवम् ॥ (२७।२)
tāraṃ syānmāṣaparṇyāṃ tu liṅgyāṃ cāhuḥ svayambhuvam ||
पुंनागे तुङ्गम् आचख्युस् त्रिवृद्धान्यविशेषयोः ॥ (२८।२)
puṃnāge tuṅgam ācakhyus trivṛddhānyaviśeṣayoḥ ||
मसूरोऽप्यथ विश्वायां शुण्ठी प्रतिविषा तथा । (२९।१)
masūro'pyatha viśvāyāṃ śuṇṭhī prativiṣā tathā |
श्रीगन्धं गन्धपाषाणे गन्धसारे ऽथ पिच्छिले ॥ (२९।२)
śrīgandhaṃ gandhapāṣāṇe gandhasāre 'tha picchile ||
शाल्मलीशिंशपे वासाबृहत्यौ हिंस्रिकाभिधे । (३०।१)
śālmalīśiṃśape vāsābṛhatyau hiṃsrikābhidhe |
स्याल्लाङ्गली गुडूच्यां तु विशल्यामथ तेजिनी । (३१।१)
syāllāṅgalī guḍūcyāṃ tu viśalyāmatha tejinī |
तेजोवत्यां तु मूर्वायां चाङ्गेरीलोणशाकयोः ॥ (३१।२)
tejovatyāṃ tu mūrvāyāṃ cāṅgerīloṇaśākayoḥ ||
बृहत्यां चैव वृन्ताके वार्त्ताकी च सदाफलम् ॥ (३२।२)
bṛhatyāṃ caiva vṛntāke vārttākī ca sadāphalam ||
ग्रन्थिलो गोक्षुरे बिल्वे कटुका मीनपित्तयोः । (३४।१)
granthilo gokṣure bilve kaṭukā mīnapittayoḥ |
मत्स्यपित्ताथ रजनी हरिद्रानीलिकाख्ययोः ॥ (३४।२)
matsyapittātha rajanī haridrānīlikākhyayoḥ ||
मिश्रेयके मुरल्यां च वातपत्त्रो ऽथ मुस्तके । (३५।१)
miśreyake muralyāṃ ca vātapattro 'tha mustake |
अब्दोऽभ्रके श्वेतपद्मे पुष्करं पुष्करे मतम् ॥ (३५।२)
abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam ||
तुण्डिकेर्यां च कार्पासे तुण्डिका च प्रशस्यते । (३६।१)
tuṇḍikeryāṃ ca kārpāse tuṇḍikā ca praśasyate |
धुस्तूरे च विडे धूर्तः श्रीवेष्टे सूचिपत्त्रके ॥ (३६।२)
dhustūre ca viḍe dhūrtaḥ śrīveṣṭe sūcipattrake ||
वृक्षधूपो हिमांशौ स्यात्कर्पूरे च प्रकीर्तितः । (३७।१)
vṛkṣadhūpo himāṃśau syātkarpūre ca prakīrtitaḥ |
सूचिपत्त्रे तु वाकुच्यां शर्करागण्डदूर्वयोः । (३८।१)
sūcipattre tu vākucyāṃ śarkarāgaṇḍadūrvayoḥ |
मत्स्यण्डिका तु द्राक्षायां चराब्दे तापसप्रिया ॥ (३८।२)
matsyaṇḍikā tu drākṣāyāṃ carābde tāpasapriyā ||
फञ्जी तु वोकडी चैव अजान्त्र्यां तु प्रचक्षते । (३९।१)
phañjī tu vokaḍī caiva ajāntryāṃ tu pracakṣate |
अर्कावर्ते रवौ सूर्यः पेयं क्षीरे जले स्मृतम् ॥ (३९।२)
arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam ||
कर्पूरे चुक्रके चन्द्रः क्षौद्रे ताप्ये च माक्षिकम् । (४०।१)
karpūre cukrake candraḥ kṣaudre tāpye ca mākṣikam |
मञ्जिष्ठा तगरे भण्डी तूच्चटा गुञ्जमुस्तयोः ॥ (४०।२)
mañjiṣṭhā tagare bhaṇḍī tūccaṭā guñjamustayoḥ ||
अर्कावर्ते तु मण्डूक्यां ह्रीवेरपिचुमर्दयोः ॥ (४१।२)
arkāvarte tu maṇḍūkyāṃ hrīverapicumardayoḥ ||
निम्बोऽथ सप्तलायां तु सप्तला नवमल्लिका । (४२।१)
nimbo'tha saptalāyāṃ tu saptalā navamallikā |
लाङ्गल्यां गजपिप्पल्यां ख्याता वह्निशिखा तथा ॥ (४२।२)
lāṅgalyāṃ gajapippalyāṃ khyātā vahniśikhā tathā ||
गोक्षुरे कोकिलाक्षे च क्षुरे गोकण्टके क्षुरः । (४४।१)
gokṣure kokilākṣe ca kṣure gokaṇṭake kṣuraḥ |
पुष्करं च पलाशे च क्षीरश्रेष्ठः प्रकीर्तितः ॥ (४४।२)
puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ ||
सोमो धान्याभ्रके सोमे प्रिया मद्येऽङ्गनान्तरे । (४५।१)
somo dhānyābhrake some priyā madye'ṅganāntare |
मुनिद्रुर् घण्टुके ऽगस्त्ये ऽथामृणालमुशीरके ॥ (४५।२)
munidrur ghaṇṭuke 'gastye 'thāmṛṇālamuśīrake ||
लामज्जके ब्रह्मवृक्षो रक्तागस्त्ये पलाशके । (४६।१)
lāmajjake brahmavṛkṣo raktāgastye palāśake |
वटे प्लक्षे च शृङ्गी स्यात् कान्तारो वनवंशयोः ॥ (४६।२)
vaṭe plakṣe ca śṛṅgī syāt kāntāro vanavaṃśayoḥ ||
भूतृणे धान्यके छत्त्रं मूलके शिग्रुमूलके । (४७।१)
bhūtṛṇe dhānyake chattraṃ mūlake śigrumūlake |
ताम्रं चोदुम्बरे चाथ भूर्जेन्द्रा श्रवणी तथा ॥ (४८।२)
tāmraṃ codumbare cātha bhūrjendrā śravaṇī tathā ||
रीत्यां पुष्पाञ्जने रीतिः सचिवो मन्त्रिधूर्तयोः । (४९।१)
rītyāṃ puṣpāñjane rītiḥ sacivo mantridhūrtayoḥ |
आस्फोतायां तु पर्जन्यो वृष्टिदारुहरिद्रयोः । (५०।१)
āsphotāyāṃ tu parjanyo vṛṣṭidāruharidrayoḥ |
दूर्वायां मांसरोहिण्यां सातला मांसरोहिणी । (५१।१)
dūrvāyāṃ māṃsarohiṇyāṃ sātalā māṃsarohiṇī |
भल्लूकः शुनके ऋक्षे पद्मिन्यां नलिनी त्व् इभी । (५३।१)
bhallūkaḥ śunake ṛkṣe padminyāṃ nalinī tv ibhī |
किंशुके प्रवरौ ख्यातौ आरूके परिकीर्तिताः ॥ (५३।२)
kiṃśuke pravarau khyātau ārūke parikīrtitāḥ ||
चित्रके मेथिकाबीजे ज्योतिष्कश्चाथ वार्षिके । (५४।१)
citrake methikābīje jyotiṣkaścātha vārṣike |
त्रायमाणान्यपुष्ट्यां च मेथिकाचित्रमूलयोः ॥ (५४।२)
trāyamāṇānyapuṣṭyāṃ ca methikācitramūlayoḥ ||
तत्प्रोक्तं कृष्णलवणं दाडिमे च कपित्थके ॥ (५६।२)
tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake ||
स्मृतं कुचफलं शाकश्रेष्ठः कुष्माण्डके तथा । (५७।१)
smṛtaṃ kucaphalaṃ śākaśreṣṭhaḥ kuṣmāṇḍake tathā |
कलिङ्गे च स्मृतश्चाथ खगो वायौ च पक्षिणि ॥ (५७।२)
kaliṅge ca smṛtaścātha khago vāyau ca pakṣiṇi ||
धनुर्वक्षो धन्वनागे स स्याद्भल्लात इत्यपि । (५८।१)
dhanurvakṣo dhanvanāge sa syādbhallāta ityapi |
घेटुके खड्गशिम्ब्यां च पृथुशिम्ब्यथ चेतना ॥ (५८।२)
gheṭuke khaḍgaśimbyāṃ ca pṛthuśimbyatha cetanā ||
पथ्यारुष्कस्तु निचुले अशोके वञ्जुलः स्मृतः । (५९।१)
pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ |
कपिकच्छ्वां त्व् अपामार्गे मर्कटी चान्यपक्षिणी ॥ (५९।२)
kapikacchvāṃ tv apāmārge markaṭī cānyapakṣiṇī ||
भारद्वाजो भवेद्वन्यकार्पासे चाथ गुग्गुलौ । (६०।१)
bhāradvājo bhavedvanyakārpāse cātha guggulau |
दहनागुरौ पुरं च प्रोक्ताथ जतुपत्त्रिका ॥ (६०।२)
dahanāgurau puraṃ ca proktātha jatupattrikā ||
क्षुद्राश्मभेदे चाङ्गेर्याम् अतसी शालिपर्णिका । (६१।१)
kṣudrāśmabhede cāṅgeryām atasī śāliparṇikā |
एकमूला तु कुम्भी स्यात्पाटलीद्रोणपुष्पयोः ॥ (६१।२)
ekamūlā tu kumbhī syātpāṭalīdroṇapuṣpayoḥ ||
वाराही च हरिक्रान्ता विष्णुक्रान्ताभिधा मता । (६२।१)
vārāhī ca harikrāntā viṣṇukrāntābhidhā matā |
सारङ्गश्चातके रङ्कौ शङ्खो वारिभवे नखे ॥ (६२।२)
sāraṅgaścātake raṅkau śaṅkho vāribhave nakhe ||
मांसलं तु फले प्रोक्तं वृन्ताके तु कलिङ्गके । (६३।१)
māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake |
निष्पत्त्रिकायां वंशाग्रे करीरं संप्रकीर्तितम् ॥ (६३।२)
niṣpattrikāyāṃ vaṃśāgre karīraṃ saṃprakīrtitam ||
माषपर्ण्यां तु गुञ्जायां काम्भोजी चाथ पूतना । (६४।१)
māṣaparṇyāṃ tu guñjāyāṃ kāmbhojī cātha pūtanā |
गन्धमांस्यां हरीतक्यां चित्राङ्गं म्लेच्छतालयोः ॥ (६४।२)
gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ ||
अङ्कोलके तु मदनं ख्यातं गन्धोत्कटे बुधैः । (६५।१)
aṅkolake tu madanaṃ khyātaṃ gandhotkaṭe budhaiḥ |
तिनिशे शिंशपायां तु भस्मगर्भः प्रकीर्तितः ॥ (६५।२)
tiniśe śiṃśapāyāṃ tu bhasmagarbhaḥ prakīrtitaḥ ||
वाते मरुद्गदे चैव ख्यातो वैद्यैः समीरणः । (६६।१)
vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ |
Data courtesy of The Digital Corpus of Sanskrit.