राजनिघण्टुRājanighaṇṭu

RājNigh, 12

12 of 35 · 425 verses

Select a line for its word-by-word analysis.

1.1१.१

चतुर्धा करवीरो ऽथ धत्तूरत्रितयं तथा । (१।१)

caturdhā karavīro 'tha dhattūratritayaṃ tathā |

1.2१.२

कोविदारो ऽब्धिर् अर्कः स्यान् नमेरुः किंशुकस् तथा ॥ (१।२)

kovidāro 'bdhir arkaḥ syān nameruḥ kiṃśukas tathā ||

2.1२.१

पुन्नागस् तिलको ऽगस्त्यः पाटल्यौ च द्विधा स्मृते । (२।१)

punnāgas tilako 'gastyaḥ pāṭalyau ca dvidhā smṛte |

2.2२.२

अशोकश् चम्पको धन्वी केतकी द्विविधा तथा ॥ (२।२)

aśokaś campako dhanvī ketakī dvividhā tathā ||

3.1३.१

सिन्दूरी च तथा जाती मुद्गरः शतपत्त्रिका । (३।१)

sindūrī ca tathā jātī mudgaraḥ śatapattrikā |

3.2३.२

मल्लिका च चतुर्धा स्याद् वासन्ती नवमल्लिका ॥ (३।२)

mallikā ca caturdhā syād vāsantī navamallikā ||

4.1४.१

अतिमुक्तो द्विधा यूथी कुब्जको मुचकुन्दकः । (४।१)

atimukto dvidhā yūthī kubjako mucakundakaḥ |

4.2४.२

करुणी माधवी चाथ गणिकारी च कुन्दकः ॥ (४।२)

karuṇī mādhavī cātha gaṇikārī ca kundakaḥ ||

5.1५.१

बककेविकबन्धूकास् त्रिसन्धिश् च जपा तथा । (५।१)

bakakevikabandhūkās trisandhiś ca japā tathā |

5.2५.२

प्रोक्ता भ्रमरमारी च तरुण्य् अम्लानकस् तथा ॥ (५।२)

proktā bhramaramārī ca taruṇy amlānakas tathā ||

6.1६.१

किङ्किरातो ऽथ बालाख्यो झिण्टिका चोष्ट्रकाण्डिका । (६।१)

kiṅkirāto 'tha bālākhyo jhiṇṭikā coṣṭrakāṇḍikā |

6.2६.२

तगरं दमनद्वन्द्वं तुलसी मरुवो द्विधा ॥ (६।२)

tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā ||

7.1७.१

अर्जकश् च चतुर्गङ्गा पत्त्री पाची च बालकः । (७।१)

arjakaś ca caturgaṅgā pattrī pācī ca bālakaḥ |

7.2७.२

बर्बरो मञ्चिकापत्त्रः प्रोक्ता चारामशीतला ॥ (७।२)

barbaro mañcikāpattraḥ proktā cārāmaśītalā ||

8.1८.१

अथ कमलपुण्डरीकाह्वयकोकनदानि पद्मिनी चैव । (८।१)

atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva |

8.2८.२

पद्माक्षं च मृणालं तत्कन्दः केसरश् च तथा ॥ (८।२)

padmākṣaṃ ca mṛṇālaṃ tatkandaḥ kesaraś ca tathā ||

9.1९.१

उत्पलकुमुदकुवलयम् उत्पलिनी चाङ्कवसुमित्या । (९।१)

utpalakumudakuvalayam utpalinī cāṅkavasumityā |

9.2९.२

उत्तंसनाम्नि वर्गे द्रव्याण्य् अत्रोपदिश्यन्ते ॥ (९।२)

uttaṃsanāmni varge dravyāṇy atropadiśyante ||

10.1१०.१

करवीरकरवीरो महावीरो हयमारो ऽश्वमारकः । (१०।१)

karavīrakaravīro mahāvīro hayamāro 'śvamārakaḥ |

10.2१०.२

हयघ्नः प्रतिहासश् च शतकुन्दो ऽश्वरोधकः ॥ (१०।२)

hayaghnaḥ pratihāsaś ca śatakundo 'śvarodhakaḥ ||

11.1११.१

हयारिर् वीरकः कुन्दः शकुन्दः श्वेतपुष्पकः । (११।१)

hayārir vīrakaḥ kundaḥ śakundaḥ śvetapuṣpakaḥ |

11.2११.२

अश्वान्तकस् तथाश्वघ्नो नखराह्वो ऽश्वनाशकः ॥ (११।२)

aśvāntakas tathāśvaghno nakharāhvo 'śvanāśakaḥ ||

12.1१२.१

स्थलादिकुमुदः प्रोक्तो दिव्यपुष्पो हरप्रियः । (१२।१)

sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ |

12.2१२.२

गौरीपुष्पः सिद्धपुष्पो द्विकराह्वः प्रकीर्तितः ॥ (१२।२)

gaurīpuṣpaḥ siddhapuṣpo dvikarāhvaḥ prakīrtitaḥ ||

13.1१३.१

करवीरः कटुस् तीक्ष्णः कुष्ठकण्डूतिनाशनः । (१३।१)

karavīraḥ kaṭus tīkṣṇaḥ kuṣṭhakaṇḍūtināśanaḥ |

13.2१३.२

व्रणार्तिविषविस्फोटशमनो ऽश्वमतिप्रदः ॥ (१३।२)

vraṇārtiviṣavisphoṭaśamano 'śvamatipradaḥ ||

14.1१४.१

रक्तकरवीररक्तकरवीरको ऽन्यो रक्तप्रसवो गणेशकुसुमश् च । (१४।१)

raktakaravīraraktakaravīrako 'nyo raktaprasavo gaṇeśakusumaś ca |

14.2१४.२

चण्डीकुसुमः क्रूरो भूतद्रावी रविप्रियो मुनिभिः ॥ (१४।२)

caṇḍīkusumaḥ krūro bhūtadrāvī ravipriyo munibhiḥ ||

15.1१५.१

रक्तस् तु करवीरः स्यात् कटुस्तीक्ष्णो विशोधकः । (१५।१)

raktas tu karavīraḥ syāt kaṭustīkṣṇo viśodhakaḥ |

15.2१५.२

त्वग्दोषव्रणकण्डूतिकुष्ठहारी विषापहः ॥ (१५।२)

tvagdoṣavraṇakaṇḍūtikuṣṭhahārī viṣāpahaḥ ||

16.1१६.१

पीतकरवीरपीतकरवीरको ऽन्यः पीतप्रसवः सुगन्धिकुसुमश् च । (१६।१)

pītakaravīrapītakaravīrako 'nyaḥ pītaprasavaḥ sugandhikusumaś ca |

16.2१६.२

कृष्णकरवीरकृष्णस् तु कृष्णकुसुमश् चतुर्विधो ऽयं गुणे तुल्यः ॥ (१६।२)

kṛṣṇakaravīrakṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ ||

17.1१७.१

धत्तूरधत्तूरः कितवो धूर्त उन्मत्तः कनकाह्वयः । (१७।१)

dhattūradhattūraḥ kitavo dhūrta unmattaḥ kanakāhvayaḥ |

17.2१७.२

शठो मातुलकः श्यामो मदनः शिवशेखरः ॥ (१७।२)

śaṭho mātulakaḥ śyāmo madanaḥ śivaśekharaḥ ||

18.1१८.१

खर्जूघ्नः काहलापुष्पः खलः कण्टफलस् तथा । (१८।१)

kharjūghnaḥ kāhalāpuṣpaḥ khalaḥ kaṇṭaphalas tathā |

18.2१८.२

मोहनः कलभोन्मत्तः शैवः सप्तदशाह्वयः ॥ (१८।२)

mohanaḥ kalabhonmattaḥ śaivaḥ saptadaśāhvayaḥ ||

19.1१९.१

धत्तूरः कटुर् उष्णश् च कान्तिकारी व्रणार्तिनुत् । (१९।१)

dhattūraḥ kaṭur uṣṇaś ca kāntikārī vraṇārtinut |

19.2१९.२

त्वग्दोषखर्जूकण्डूतिज्वरहारी भ्रमप्रदः ॥ (१९।२)

tvagdoṣakharjūkaṇḍūtijvarahārī bhramapradaḥ ||

20.1२०.१

कृष्णधत्तूरकृष्णधत्तूरकः सिद्धः कनकः सचिवः शिवः । (२०।१)

kṛṣṇadhattūrakṛṣṇadhattūrakaḥ siddhaḥ kanakaḥ sacivaḥ śivaḥ |

20.2२०.२

कृष्णपुष्पो विषारातिः क्रूरधूर्तश् च कीर्तितः ॥ (२०।२)

kṛṣṇapuṣpo viṣārātiḥ krūradhūrtaś ca kīrtitaḥ ||

21.1२१.१

राजधत्तूरकराजधत्तूरकश् चान्यो राजधूर्तो महाशठः । (२१।१)

rājadhattūrakarājadhattūrakaś cānyo rājadhūrto mahāśaṭhaḥ |

21.2२१.२

निस्त्रैणिपुष्पको भ्रान्तो राजस्वर्णः षडाह्वयः ॥ (२१।२)

nistraiṇipuṣpako bhrānto rājasvarṇaḥ ṣaḍāhvayaḥ ||

22.1२२.१

सितनीलकृष्णलोहितपीतप्रसवाश् च सन्ति धत्तूराः । (२२।१)

sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ |

22.2२२.२

सामान्यगुणोपेतास् तेषु गुणाढ्यस् तु कृष्णकुसुमः स्यात् ॥ (२२।२)

sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt ||

23.1२३.१

कोविदारकोविदारः काञ्चनारः कुद्दालः कनकारकः । (२३।१)

kovidārakovidāraḥ kāñcanāraḥ kuddālaḥ kanakārakaḥ |

23.2२३.२

कान्तपुष्पश् च करकः कान्तारो यमलच्छदः ॥ (२३।२)

kāntapuṣpaś ca karakaḥ kāntāro yamalacchadaḥ ||

24.1२४.१

पीतपुष्पः सुवर्णारो गिरिजः काञ्चनारकः । (२४।१)

pītapuṣpaḥ suvarṇāro girijaḥ kāñcanārakaḥ |

24.2२४.२

युग्मपत्रो महापुष्पः स्याच् चतुर्दशधाभिधः ॥ (२४।२)

yugmapatro mahāpuṣpaḥ syāc caturdaśadhābhidhaḥ ||

25.1२५.१

कोविदारः कषायः स्यात् संग्राही व्रणरोपणः । (२५।१)

kovidāraḥ kaṣāyaḥ syāt saṃgrāhī vraṇaropaṇaḥ |

25.2२५.२

दीपनः कफवातघ्नो मूत्रकृच्छ्रनिबर्हणः ॥ (२५।२)

dīpanaḥ kaphavātaghno mūtrakṛcchranibarhaṇaḥ ||

26.1२६.१

अर्कअर्कः क्षीरदलः पुच्छी प्रतापः क्षीरकाण्डकः । (२६।१)

arkaarkaḥ kṣīradalaḥ pucchī pratāpaḥ kṣīrakāṇḍakaḥ |

26.2२६.२

विक्षीरो भास्करः क्षीरी खर्जूघ्नः शिवपुष्पकः ॥ (२६।२)

vikṣīro bhāskaraḥ kṣīrī kharjūghnaḥ śivapuṣpakaḥ ||

27.1२७.१

भञ्जनः क्षीरपर्णी स्यात् सविता च विकीरणः । (२७।१)

bhañjanaḥ kṣīraparṇī syāt savitā ca vikīraṇaḥ |

27.2२७.२

सूर्याह्वश् च सदापुष्पो रविर् आस्फोटकस् तथा । (२७।२)

sūryāhvaś ca sadāpuṣpo ravir āsphoṭakas tathā |

27.3२७.३

तूलफलः शुकफलो विंशतिश् च समाह्वयः ॥ (२७।३)

tūlaphalaḥ śukaphalo viṃśatiś ca samāhvayaḥ ||

28.1२८.१

अर्कस् तु कटुर् उष्णश् च वातजिद् दीपनीयकः । (२८।१)

arkas tu kaṭur uṣṇaś ca vātajid dīpanīyakaḥ |

28.2२८.२

शोफव्रणहरः कण्डूकुष्ठक्रिमिविनाशनः ॥ (२८।२)

śophavraṇaharaḥ kaṇḍūkuṣṭhakrimivināśanaḥ ||

29.1२९.१

शुक्लार्कशुक्लार्कस् तपनः श्वेतः प्रतापश् च सितार्ककः । (२९।१)

śuklārkaśuklārkas tapanaḥ śvetaḥ pratāpaś ca sitārkakaḥ |

29.2२९.२

सुपुष्पः शङ्करादिः स्याद् अत्यर्को वृत्तमल्लिका ॥ (२९।२)

supuṣpaḥ śaṅkarādiḥ syād atyarko vṛttamallikā ||

30.1३०.१

श्वेतार्कः कटुतिक्तोष्णो मलशोधनकारकः । (३०।१)

śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ |

30.2३०.२

मूत्रकृच्छ्रास्रशोफार्तिव्रणदोषविनाशनः ॥ (३०।२)

mūtrakṛcchrāsraśophārtivraṇadoṣavināśanaḥ ||

31.1३१.१

राजार्कराजार्को वसुको ऽलर्को मन्दारो गणरूपकः । (३१।१)

rājārkarājārko vasuko 'larko mandāro gaṇarūpakaḥ |

31.2३१.२

काष्ठीलश् च सदापुष्पो ज्ञेयो ऽत्र सप्तसंमितः ॥ (३१।२)

kāṣṭhīlaś ca sadāpuṣpo jñeyo 'tra saptasaṃmitaḥ ||

32.1३२.१

राजार्कः कटुतिक्तोष्णः कफमेदोविषापहः । (३२।१)

rājārkaḥ kaṭutiktoṣṇaḥ kaphamedoviṣāpahaḥ |

32.2३२.२

वातकुष्ठव्रणान् हन्ति शोफकण्डूविसर्पनुत् ॥ (३२।२)

vātakuṣṭhavraṇān hanti śophakaṇḍūvisarpanut ||

33.1३३.१

श्वेतमन्दारकश्वेतमन्दारकस् त्व् अन्यः पृथ्वी कुरवकः स्मृतः । (३३।१)

śvetamandārakaśvetamandārakas tv anyaḥ pṛthvī kuravakaḥ smṛtaḥ |

33.2३३.२

दीर्घपुष्पः सितालर्को दीर्घात्यर्कः रसाह्वयः ॥ (३३।२)

dīrghapuṣpaḥ sitālarko dīrghātyarkaḥ rasāhvayaḥ ||

34.1३४.१

श्वेतमन्दारको ऽत्युष्णस् तिक्तो मलविशोधनः । (३४।१)

śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ |

34.2३४.२

मूत्रकृच्छ्रव्रणान् हन्ति क्रिमीन् अत्यन्तदारुणान् ॥ (३४।२)

mūtrakṛcchravraṇān hanti krimīn atyantadāruṇān ||

35.1३५.१

नमेरुनमेरुः सुरपुंनागः सुरेष्टः सुरपर्णिका । (३५।१)

namerunameruḥ surapuṃnāgaḥ sureṣṭaḥ suraparṇikā |

35.2३५.२

सुरतुङ्गश् च पञ्चाह्वः पुन्नागगुणसंयुतः ॥ (३५।२)

suratuṅgaś ca pañcāhvaḥ punnāgaguṇasaṃyutaḥ ||

36.1३६.१

पलाशपलाशः किंशुकः पर्णो वातपोथो ऽथ याज्ञिकः । (३६।१)

palāśapalāśaḥ kiṃśukaḥ parṇo vātapotho 'tha yājñikaḥ |

36.2३६.२

त्रिपर्णो वक्रपुष्पश् च पूतद्रुर् ब्रह्मवृक्षकः । (३६।२)

triparṇo vakrapuṣpaś ca pūtadrur brahmavṛkṣakaḥ |

36.3३६.३

ब्रह्मोपनेता काष्ठद्रुः पर्यायैकादश स्मृताः ॥ (३६।३)

brahmopanetā kāṣṭhadruḥ paryāyaikādaśa smṛtāḥ ||

37.1३७.१

पलाशस् तु कषायोष्णः क्रिमिदोषविनाशनः । (३७।१)

palāśas tu kaṣāyoṣṇaḥ krimidoṣavināśanaḥ |

37.2३७.२

तद्बीजं पामकण्डूतिदद्रुत्वग्दोषनाशकृत् ॥ (३७।२)

tadbījaṃ pāmakaṇḍūtidadrutvagdoṣanāśakṛt ||

38.1३८.१

तस्य पुष्पं च सोष्णं च कण्डूकुष्ठार्त्तिनाशनम् । (३८।१)

tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam |

38.2३८.२

रक्तः पीतः सितो नीलः कुसुमैस् तु विभज्यते ॥ (३८।२)

raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate ||

39.1३९.१

किंशुकैर् गुणसाम्ये ऽपि सितो विज्ञानदः स्मृतः ॥ (३९।१)

kiṃśukair guṇasāmye 'pi sito vijñānadaḥ smṛtaḥ ||

40.1४०.१

पुन्नागपुन्नागः पुरुषस् तुङ्गः पुंनामा पाटलः पुमान् । (४०।१)

punnāgapunnāgaḥ puruṣas tuṅgaḥ puṃnāmā pāṭalaḥ pumān |

40.2४०.२

रक्तपुष्पो रक्तरेणुर् अरुणो ऽयं नवाह्वयः ॥ (४०।२)

raktapuṣpo raktareṇur aruṇo 'yaṃ navāhvayaḥ ||

41.1४१.१

पुन्नागो मधुरः शीतः सुगन्धिः पित्तनाशकृत् । (४१।१)

punnāgo madhuraḥ śītaḥ sugandhiḥ pittanāśakṛt |

41.2४१.२

भूतविद्रावणश् चैव देवतानां प्रसादनः ॥ (४१।२)

bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ ||

42.1४२.१

तिलकतिलको विशेषकः स्यान् मुखमण्डनकश् च पुण्ड्रकः पुण्ड्रः । (४२।१)

tilakatilako viśeṣakaḥ syān mukhamaṇḍanakaś ca puṇḍrakaḥ puṇḍraḥ |

42.2४२.२

स्थिरपुष्पः छिन्नरुहो दग्धरुहो रेचकश् च मृतजीवी ॥ (४२।२)

sthirapuṣpaḥ chinnaruho dagdharuho recakaś ca mṛtajīvī ||

43.1४३.१

तरुणीकटाक्षकामो वासन्तः सुन्दरो ऽभीष्टः । (४३।१)

taruṇīkaṭākṣakāmo vāsantaḥ sundaro 'bhīṣṭaḥ |

43.2४३.२

भालविभूषणसंज्ञो विज्ञेयः पञ्चदशनामा ॥ (४३।२)

bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā ||

44.1४४.१

तिलको मधुरः स्निग्धो वातपित्तकफापहः । (४४।१)

tilako madhuraḥ snigdho vātapittakaphāpahaḥ |

44.2४४.२

बलपुष्टिकरो हृद्यो लघुर् मेदोविवर्धनः ॥ (४४।२)

balapuṣṭikaro hṛdyo laghur medovivardhanaḥ ||

45.1४५.१

तिलकत्वक् कषायोष्णा पुंस्त्वघ्नी दन्तदोषनुत् । (४५।१)

tilakatvak kaṣāyoṣṇā puṃstvaghnī dantadoṣanut |

45.2४५.२

क्रिमिशोफव्रणान् हन्ति रक्तदोषविनाशनी ॥ (४५।२)

krimiśophavraṇān hanti raktadoṣavināśanī ||

46.1४६.१

अगस्त्यअगस्त्यः शीघ्रपुष्पः स्यात् अगस्तिस् तु मुनिद्रुमः । (४६।१)

agastyaagastyaḥ śīghrapuṣpaḥ syāt agastis tu munidrumaḥ |

46.2४६.२

व्रणारिर् दीर्घफलको वक्रपुष्पः सुरप्रियः ॥ (४६।२)

vraṇārir dīrghaphalako vakrapuṣpaḥ surapriyaḥ ||

47.1४७.१

सितपीतनीललोहितकुसुमविशेषाच् चतुर्विधो ऽगस्तिः । (४७।१)

sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ |

47.2४७.२

मधुरशिशिरस्त्रिदोषश्रमकासविनाशनश् च भूतघ्नः ॥ (४७।२)

madhuraśiśirastridoṣaśramakāsavināśanaś ca bhūtaghnaḥ ||

48.1४८.१

अगस्त्यं शिशिरं गौल्यं त्रिदोषघ्नं श्रमापहम् । (४८।१)

agastyaṃ śiśiraṃ gaulyaṃ tridoṣaghnaṃ śramāpaham |

48.2४८.२

बलासकासवैवर्ण्यभूतघ्नं च बलापहम् ॥ (४८।२)

balāsakāsavaivarṇyabhūtaghnaṃ ca balāpaham ||

49.1४९.१

पाटलीपाटली ताम्रपुष्पी च कुम्भिका रक्तपुष्पिका । (४९।१)

pāṭalīpāṭalī tāmrapuṣpī ca kumbhikā raktapuṣpikā |

49.2४९.२

वसन्तदूती चामोघा स्थाली च विटवल्लभा । (४९।२)

vasantadūtī cāmoghā sthālī ca viṭavallabhā |

49.3४९.३

स्थिरगन्धाम्बुवासी च कालवृन्तीन्दुभूह्वया ॥ (४९।३)

sthiragandhāmbuvāsī ca kālavṛntīndubhūhvayā ||

50.1५०.१

पाटली तु रसे तिक्ता कटूष्णा कफवातजित् । (५०।१)

pāṭalī tu rase tiktā kaṭūṣṇā kaphavātajit |

50.2५०.२

शोफाध्मानवमिश्वासशमनी सन्निपातनुत् ॥ (५०।२)

śophādhmānavamiśvāsaśamanī sannipātanut ||

51.1५१.१

सितपाटलीसितपाटलिका चान्या सितकुम्भी फलेरुहा । (५१।१)

sitapāṭalīsitapāṭalikā cānyā sitakumbhī phaleruhā |

51.2५१.२

सिता मोघा कुबेराक्षी सिताह्वा काष्ठपाटला । (५१।२)

sitā moghā kuberākṣī sitāhvā kāṣṭhapāṭalā |

51.3५१.३

पाटली धवला प्रोक्ता ज्ञेया वसुमिताह्वया ॥ (५१।३)

pāṭalī dhavalā proktā jñeyā vasumitāhvayā ||

52.1५२.१

सितपाटलिका तिक्ता गुरूष्णा वातदोषजित् । (५२।१)

sitapāṭalikā tiktā gurūṣṇā vātadoṣajit |

52.2५२.२

वमिहिक्काकफघ्नी च श्रमशोषापहारिका ॥ (५२।२)

vamihikkākaphaghnī ca śramaśoṣāpahārikā ||

53.1५३.१

अशोकअशोकः शोकनाशः स्याद् विशोको वञ्जुलद्रुमः । (५३।१)

aśokaaśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ |

53.2५३.२

मधुपुष्पो ऽपशोकश् च कङ्केलिः केलिकस् तथा ॥ (५३।२)

madhupuṣpo 'paśokaś ca kaṅkeliḥ kelikas tathā ||

54.1५४.१

रक्तपल्लवकश् चित्रो विचित्रः कर्णपूरकः । (५४।१)

raktapallavakaś citro vicitraḥ karṇapūrakaḥ |

54.2५४.२

सुभगः स्मराधिवासो दोषहारी प्रपल्लवः ॥ (५४।२)

subhagaḥ smarādhivāso doṣahārī prapallavaḥ ||

55.1५५.१

रागी तरुर् हेमपुष्पो रामावामङ्घ्रिघातकः । (५५।१)

rāgī tarur hemapuṣpo rāmāvāmaṅghrighātakaḥ |

55.2५५.२

पिण्डीपुष्पो नटश् चैव पल्लवद्रुर् द्विविंशतिः ॥ (५५।२)

piṇḍīpuṣpo naṭaś caiva pallavadrur dviviṃśatiḥ ||

56.1५६.१

अशोकः शिशिरो हृद्यः पित्तदाहश्रमापहः । (५६।१)

aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ |

56.2५६.२

गुल्मशूलोदराध्माननाशनः क्रिमिकारकः ॥ (५६।२)

gulmaśūlodarādhmānanāśanaḥ krimikārakaḥ ||

57.1५७.१

चम्पकचम्पकः स्वर्णपुष्पश् च चाम्पेयः शीतलच्छदः । (५७।१)

campakacampakaḥ svarṇapuṣpaś ca cāmpeyaḥ śītalacchadaḥ |

57.2५७.२

सुभगो भृङ्गमोही च शीतलो भ्रमरातिथिः ॥ (५७।२)

subhago bhṛṅgamohī ca śītalo bhramarātithiḥ ||

58.1५८.१

सुरभिर् दीपपुष्पश् च स्थिरगन्धो ऽतिगन्धकः । (५८।१)

surabhir dīpapuṣpaś ca sthiragandho 'tigandhakaḥ |

58.2५८.२

स्थिरपुष्पो हेमपुष्पः पीतपुष्पस् तथापरः । (५८।२)

sthirapuṣpo hemapuṣpaḥ pītapuṣpas tathāparaḥ |

58.3५८.३

हेमाह्वः सुकुमारस् तु वनदीपो ऽष्टभूह्वयः ॥ (५८।३)

hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ ||

59.1५९.१

चम्पक::बुद्तत्कलिका गन्धफली बहुगन्धा गन्धमोदिनी त्रेधा ॥ (५९।१)

campaka::budtatkalikā gandhaphalī bahugandhā gandhamodinī tredhā ||

60.1६०.१

चम्पकः कटुकस् तिक्तः शिशिरो दाहनाशनः । (६०।१)

campakaḥ kaṭukas tiktaḥ śiśiro dāhanāśanaḥ |

60.2६०.२

कुष्ठकण्डूव्रणहरो गुणाढ्यो राजचम्पकः ॥ (६०।२)

kuṣṭhakaṇḍūvraṇaharo guṇāḍhyo rājacampakaḥ ||

61.1६१.१

क्षुद्रचम्पकक्षुद्रादिचम्पकस् त्व् अन्यः स ज्ञेयो नागचम्पकः । (६१।१)

kṣudracampakakṣudrādicampakas tv anyaḥ sa jñeyo nāgacampakaḥ |

61.2६१.२

फणिचम्पकनागाह्वश् चम्पको वनजः शराः ॥ (६१।२)

phaṇicampakanāgāhvaś campako vanajaḥ śarāḥ ||

62.1६२.१

वनचम्पकः कटूष्णो वातकफध्वंसनो वर्ण्यः । (६२।१)

vanacampakaḥ kaṭūṣṇo vātakaphadhvaṃsano varṇyaḥ |

62.2६२.२

चक्षुष्यो व्रणरोपी वह्निस्तम्भं करोति योगगुणात् ॥ (६२।२)

cakṣuṣyo vraṇaropī vahnistambhaṃ karoti yogaguṇāt ||

63.1६३.१

बकुलबकुलस् तु सीधुगन्धः स्त्रीमुखमधुदोहलश् च मधुपुष्पः । (६३।१)

bakulabakulas tu sīdhugandhaḥ strīmukhamadhudohalaś ca madhupuṣpaḥ |

63.2६३.२

सुरभिर् भ्रमरानन्दः स्थिरकुसुमः केसरश् च शारदिकः ॥ (६३।२)

surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ ||

64.1६४.१

करकः सीधुसंज्ञस् तु विशारदो गूढपुष्पको धन्वी । (६४।१)

karakaḥ sīdhusaṃjñas tu viśārado gūḍhapuṣpako dhanvī |

64.2६४.२

मदनो मद्यामोदश् चिरपुष्पश् चेति सप्तदशसंज्ञः ॥ (६४।२)

madano madyāmodaś cirapuṣpaś ceti saptadaśasaṃjñaḥ ||

65.1६५.१

बकुलः शीतलो हृद्यो विषदोषविनाशनः । (६५।१)

bakulaḥ śītalo hṛdyo viṣadoṣavināśanaḥ |

65.2६५.२

मधुरश् च कषायश् च मदाढ्यो हर्यदायकः ॥ (६५।२)

madhuraś ca kaṣāyaś ca madāḍhyo haryadāyakaḥ ||

66.1६६.१

बकुल::ड़्लोwएर्बकुलकुसुमं च रुच्यं क्षीराढ्यं सुरभि शीतलं मधुरम् । (६६।१)

bakula::flowerbakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram |

66.2६६.२

स्निग्धकषायं कथितं मलसंग्रहकारकं चैव ॥ (६६।२)

snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva ||

67.1६७.१

केतकीकेतकी तीक्ष्णपुष्पा च विफला धूलिपुष्पिका । (६७।१)

ketakīketakī tīkṣṇapuṣpā ca viphalā dhūlipuṣpikā |

67.2६७.२

मेध्या कण्टदला चैव शिवद्विष्टा नृपप्रिया ॥ (६७।२)

medhyā kaṇṭadalā caiva śivadviṣṭā nṛpapriyā ||

68.1६८.१

क्रकचा दीर्घपत्रा च स्थिरगन्धा तु पांशुला । (६८।१)

krakacā dīrghapatrā ca sthiragandhā tu pāṃśulā |

68.2६८.२

गन्धपुष्पेन्दुकलिका दलपुष्पा त्रिपञ्चधा ॥ (६८।२)

gandhapuṣpendukalikā dalapuṣpā tripañcadhā ||

69.1६९.१

स्वर्णकेतकीस्वर्णादिकेतकी त्व् अन्या ज्ञेया सा हेमकेतकी । (६९।१)

svarṇaketakīsvarṇādiketakī tv anyā jñeyā sā hemaketakī |

69.2६९.२

कनकप्रसवा पुष्पी हैमी छिन्नरुहा तथा । (६९।२)

kanakaprasavā puṣpī haimī chinnaruhā tathā |

69.3६९.३

विष्टरुहा स्वर्णपुष्पी कामखड्गदला च सा ॥ (६९।३)

viṣṭaruhā svarṇapuṣpī kāmakhaḍgadalā ca sā ||

70.1७०.१

केतकी::ड़्लोwएर्केतकीकुसुमं वर्ण्यं केशदौर्गन्ध्यनाशनम् । (७०।१)

ketakī::flowerketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam |

70.2७०.२

हेमाभं मदनोन्मादवर्धनं सौख्यकारि च ॥ (७०।२)

hemābhaṃ madanonmādavardhanaṃ saukhyakāri ca ||

71.1७१.१

केतकी::जुइचेतस्याः स्तनो ऽतिशिशिरः कटुः पित्तकफापहः । (७१।१)

ketakī::juicetasyāḥ stano 'tiśiśiraḥ kaṭuḥ pittakaphāpahaḥ |

71.2७१.२

रसायनकरो बल्यो देहदार्ढ्यकरः परः ॥ (७१।२)

rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ ||

72.1७२.१

सिन्दूरीसिन्दूरी वीरपुष्पश् च तृणपुष्पी करच्छदः । (७२।१)

sindūrīsindūrī vīrapuṣpaś ca tṛṇapuṣpī karacchadaḥ |

72.2७२.२

सिन्दूरपुष्पी शोणादिपुष्पी षडाह्वयः स्मृतः ॥ (७२।२)

sindūrapuṣpī śoṇādipuṣpī ṣaḍāhvayaḥ smṛtaḥ ||

73.1७३.१

सिन्दूरी कटुका तिक्ता कषाया श्लेष्मवातजित् । (७३।१)

sindūrī kaṭukā tiktā kaṣāyā śleṣmavātajit |

73.2७३.२

शिरआर्तिशमनी भूतनाशा चण्डीप्रिया भवेत् ॥ (७३।२)

śiraārtiśamanī bhūtanāśā caṇḍīpriyā bhavet ||

74.1७४.१

जातीजाती सुरभिगन्धा स्यात् सुमना तु सुरप्रिया । (७४।१)

jātījātī surabhigandhā syāt sumanā tu surapriyā |

74.2७४.२

चेतकी सुकुमारा तु संध्यापुष्पी मनोहरा ॥ (७४।२)

cetakī sukumārā tu saṃdhyāpuṣpī manoharā ||

75.1७५.१

राजपुत्री मनोज्ञा च मालती तैलभाविनी । (७५।१)

rājaputrī manojñā ca mālatī tailabhāvinī |

75.2७५.२

जनेष्टा हृद्यगन्धा च नामान्य् अस्याश् चतुर्दश । (७५।२)

janeṣṭā hṛdyagandhā ca nāmāny asyāś caturdaśa |

75.3७५.३

मालती शीततिक्ता स्यात् कफघ्नी मुखपाकनुत् । (७५।३)

mālatī śītatiktā syāt kaphaghnī mukhapākanut |

75.4७५.४

कुड्मलं नेत्ररोगघ्नं व्रणविस्फोटकुष्ठनुत् ॥ (७५।४)

kuḍmalaṃ netrarogaghnaṃ vraṇavisphoṭakuṣṭhanut ||

76.1७६.१

मुद्गरमुद्गरो गन्धसारस् तु सप्तपत्त्रश् च कर्दमी । (७६।१)

mudgaramudgaro gandhasāras tu saptapattraś ca kardamī |

76.2७६.२

वृत्तपुष्पो ऽतिगन्धश् च गन्धराजो विटप्रियः । (७६।२)

vṛttapuṣpo 'tigandhaś ca gandharājo viṭapriyaḥ |

76.3७६.३

गेयप्रियो जनेष्टश् च मृगेष्टो रुद्रसंमितः ॥ (७६।३)

geyapriyo janeṣṭaś ca mṛgeṣṭo rudrasaṃmitaḥ ||

77.1७७.१

मुद्गरो मधुरः शीतः सुरभिः सौख्यदायकः । (७७।१)

mudgaro madhuraḥ śītaḥ surabhiḥ saukhyadāyakaḥ |

77.2७७.२

मनोज्ञो मधुपानन्दकारी पित्तप्रकोपहृत् ॥ (७७।२)

manojño madhupānandakārī pittaprakopahṛt ||

78.1७८.१

शतपत्त्रीशतपत्त्री तु सुमना सुशीता शिववल्लभा । (७८।१)

śatapattrīśatapattrī tu sumanā suśītā śivavallabhā |

78.2७८.२

सौम्यगन्धा शतदला सुवृत्ता शतपत्त्रिका ॥ (७८।२)

saumyagandhā śatadalā suvṛttā śatapattrikā ||

79.1७९.१

शतपत्त्री हिमा तिक्ता कषाया कुष्ठनाशनी । (७९।१)

śatapattrī himā tiktā kaṣāyā kuṣṭhanāśanī |

79.2७९.२

मुखस्फोटहरा रुच्या सुरभिः पित्तदाहनुत् ॥ (७९।२)

mukhasphoṭaharā rucyā surabhiḥ pittadāhanut ||

80.1८०.१

मल्लिकामल्लिका भद्रवल्ली तु गौरी च वनचन्द्रिका । (८०।१)

mallikāmallikā bhadravallī tu gaurī ca vanacandrikā |

80.2८०.२

शीतभीरुः प्रिया सौम्या नारीष्टा गिरिजा सिता । (८०।२)

śītabhīruḥ priyā saumyā nārīṣṭā girijā sitā |

80.3८०.३

मल्ली च दमयन्ती च चन्द्रिका मोदिनी मनुः ॥ (८०।३)

mallī ca damayantī ca candrikā modinī manuḥ ||

81.1८१.१

मल्लिका कटुतिक्ता स्याच् चक्षुष्या मुखपाकनुत् । (८१।१)

mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut |

81.2८१.२

कुष्ठविस्फोटकण्डूतिविषव्रणहरा परा ॥ (८१।२)

kuṣṭhavisphoṭakaṇḍūtiviṣavraṇaharā parā ||

82.1८२.१

मल्लिका::वल्लिकावल्लिका मोदिनी चान्या वटपत्त्रा कुमारिका । (८२।१)

mallikā::vallikāvallikā modinī cānyā vaṭapattrā kumārikā |

82.2८२.२

सुगन्धाढ्या वृत्तपुष्पा मुक्ताभा वृत्तमल्लिका ॥ (८२।२)

sugandhāḍhyā vṛttapuṣpā muktābhā vṛttamallikā ||

83.1८३.१

नेत्ररोगापहन्त्री स्यात् कटूष्णा वृत्तमल्लिका । (८३।१)

netrarogāpahantrī syāt kaṭūṣṇā vṛttamallikā |

83.2८३.२

व्रणघ्नी गन्धबहला दारयत्य् आस्यजान् गदान् ॥ (८३।२)

vraṇaghnī gandhabahalā dārayaty āsyajān gadān ||

84.1८४.१

वार्षिकावार्षिका त्रिपुटा त्र्यस्रा सुरूपा सुलभा प्रिया । (८४।१)

vārṣikāvārṣikā tripuṭā tryasrā surūpā sulabhā priyā |

84.2८४.२

श्रीवल्ली षट्पदानन्दा मुक्तबन्धा नवाभिधा ॥ (८४।२)

śrīvallī ṣaṭpadānandā muktabandhā navābhidhā ||

85.1८५.१

वार्षिका शिशिरा हृद्या सुगन्धिः पित्तनाशनी । (८५।१)

vārṣikā śiśirā hṛdyā sugandhiḥ pittanāśanī |

85.2८५.२

कफवातविषस्फोटक्रिमिदोषामनाशनी ॥ (८५।२)

kaphavātaviṣasphoṭakrimidoṣāmanāśanī ||

86.1८६.१

वार्षिका::मृगमदवासासा दीर्घवर्त्तुलपुष्पविशेषाद् अनेकनिर्देशा । (८६।१)

vārṣikā::mṛgamadavāsāsā dīrghavarttulapuṣpaviśeṣād anekanirdeśā |

86.2८६.२

मृगमदवासा त्व् अन्या कस्तूरीमल्लिका ज्ञेया ॥ (८६।२)

mṛgamadavāsā tv anyā kastūrīmallikā jñeyā ||

87.1८७.१

प्रातर्विकस्वरैका सायोद्भिदुरापि मल्लिका कापि । (८७।१)

prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi |

87.2८७.२

वनमल्लिका नु सा स्याद् आस्फोता किंतु समगुणोपेता ॥ (८७।२)

vanamallikā nu sā syād āsphotā kiṃtu samaguṇopetā ||

88.1८८.१

वासन्तीवासन्ती प्रहसन्ती वसन्तजा माधवी महाजातिः । (८८।१)

vāsantīvāsantī prahasantī vasantajā mādhavī mahājātiḥ |

88.2८८.२

शीतसहा मधुबहला वसन्तदूती च वसुनाम्नी ॥ (८८।२)

śītasahā madhubahalā vasantadūtī ca vasunāmnī ||

89.1८९.१

वासन्ती शिशिरा हृद्या सुरभिः श्रमहारिणी । (८९।१)

vāsantī śiśirā hṛdyā surabhiḥ śramahāriṇī |

89.2८९.२

धम्मिल्लामोदिनी मन्दमदनोन्माददायिनी ॥ (८९।२)

dhammillāmodinī mandamadanonmādadāyinī ||

90.1९०.१

नवमल्लिकानवमल्लिकातिमोदा ग्रैष्मी ग्रीष्मोद्भवा च सा । (९०।१)

navamallikānavamallikātimodā graiṣmī grīṣmodbhavā ca sā |

90.2९०.२

सप्तला सुकुमारा च सुरभी सूचिमल्लिका । (९०।२)

saptalā sukumārā ca surabhī sūcimallikā |

90.3९०.३

सुगन्धा शिखरिणी स्यान् नेवाली चेन्दुभूह्वया ॥ (९०।३)

sugandhā śikhariṇī syān nevālī cendubhūhvayā ||

91.1९१.१

नवमल्लिकातिशैत्या सुरभिः सर्वरोगहृत् ॥ (९१।१)

navamallikātiśaityā surabhiḥ sarvarogahṛt ||

92.1९२.१

अतिमुक्तकसैवातिमुक्तकाख्या पुण्ड्रकनाम्नी च काचिद् उक्तान्या । (९२।१)

atimuktakasaivātimuktakākhyā puṇḍrakanāmnī ca kācid uktānyā |

92.2९२.२

मदनी भ्रमरानन्दा कामकान्ता च पञ्चाख्या ॥ (९२।२)

madanī bhramarānandā kāmakāntā ca pañcākhyā ||

93.1९३.१

अतिमुक्तः कषायः स्याच् छिशिरः श्रमनाशनः । (९३।१)

atimuktaḥ kaṣāyaḥ syāc chiśiraḥ śramanāśanaḥ |

93.2९३.२

पित्तदाहज्वरोन्मादहिक्काछर्दिनिवारणः ॥ (९३।२)

pittadāhajvaronmādahikkāchardinivāraṇaḥ ||

94.1९४.१

यूथिकायूथिका गणिकाम्बष्ठा मागधी बालपुष्पिका । (९४।१)

yūthikāyūthikā gaṇikāmbaṣṭhā māgadhī bālapuṣpikā |

94.2९४.२

मोदनी बहुगन्धा च भृङ्गानन्दा गजाह्वया ॥ (९४।२)

modanī bahugandhā ca bhṛṅgānandā gajāhvayā ||

95.1९५.१

सुवर्णयूथीअन्या यूथी सुवर्णाह्वा सुगन्धा हेमयूथिका । (९५।१)

suvarṇayūthīanyā yūthī suvarṇāhvā sugandhā hemayūthikā |

95.2९५.२

युवतीष्टा व्यक्तगन्धा शिखण्डी नागपुष्पिका ॥ (९५।२)

yuvatīṣṭā vyaktagandhā śikhaṇḍī nāgapuṣpikā ||

96.1९६.१

हरिणी पीतयूथी च पोतिका कनकप्रभा । (९६।१)

hariṇī pītayūthī ca potikā kanakaprabhā |

96.2९६.२

मनोहरा च गन्धाढ्या प्रोक्ता त्रयोदशाह्वया ॥ (९६।२)

manoharā ca gandhāḍhyā proktā trayodaśāhvayā ||

97.1९७.१

यूथिकायुगलं स्वादु शिशिरं शर्करार्तिनुत् । (९७।१)

yūthikāyugalaṃ svādu śiśiraṃ śarkarārtinut |

97.2९७.२

पित्तदाहतृषाहारि नानात्वग्दोषनाशनम् ॥ (९७।२)

pittadāhatṛṣāhāri nānātvagdoṣanāśanam ||

98.1९८.१

सितपीतनीलमेचकनाम्न्यः कुसुमेन यूथिकाः कथिताः । (९८।१)

sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ |

98.2९८.२

तिक्तहिमपित्तकफामयज्वरघ्न्यो व्रणादिदोषहराः ॥ (९८।२)

tiktahimapittakaphāmayajvaraghnyo vraṇādidoṣaharāḥ ||

99.1९९.१

सर्वासां यूथिकानां तु रसवीर्यादिसाम्यता । (९९।१)

sarvāsāṃ yūthikānāṃ tu rasavīryādisāmyatā |

99.2९९.२

सुरूपं तु सुगन्धाढ्यं स्वर्णयूथ्या विशेषतः ॥ (९९।२)

surūpaṃ tu sugandhāḍhyaṃ svarṇayūthyā viśeṣataḥ ||

100.1१००.१

कुब्जककुब्जको भद्रतरुणो वृत्तपुष्पो ऽतिकेसरः । (१००।१)

kubjakakubjako bhadrataruṇo vṛttapuṣpo 'tikesaraḥ |

100.2१००.२

महासहः कण्टकाढ्यः खर्वो ऽलिकुलसङ्कुलः ॥ (१००।२)

mahāsahaḥ kaṇṭakāḍhyaḥ kharvo 'likulasaṅkulaḥ ||

101.1१०१.१

कुब्जकः सुरभिः शीतो रक्तपित्तकफापहः । (१०१।१)

kubjakaḥ surabhiḥ śīto raktapittakaphāpahaḥ |

101.2१०१.२

पुष्पं तु शीतलं वर्ण्यं दाहघ्नं वातपित्तजित् ॥ (१०१।२)

puṣpaṃ tu śītalaṃ varṇyaṃ dāhaghnaṃ vātapittajit ||

102.1१०२.१

मुचकुन्दमुचकुन्दो बहुपत्त्रः सुदलो हरिवल्लभः सुपुष्पश् च । (१०२।१)

mucakundamucakundo bahupattraḥ sudalo harivallabhaḥ supuṣpaś ca |

102.2१०२.२

अर्घ्यार्हो लक्ष्मणको रक्तप्रसवश् च वसुनामा ॥ (१०२।२)

arghyārho lakṣmaṇako raktaprasavaś ca vasunāmā ||

103.1१०३.१

मुचकुन्दः कटुतिक्तः कफकासविनाशनश् च कण्ठदोषहरः । (१०३।१)

mucakundaḥ kaṭutiktaḥ kaphakāsavināśanaś ca kaṇṭhadoṣaharaḥ |

103.2१०३.२

त्वग्दोषशोफशमनो व्रणपामाविनाशनश् चैव ॥ (१०३।२)

tvagdoṣaśophaśamano vraṇapāmāvināśanaś caiva ||

104.1१०४.१

करुणीकरुणी ग्रीष्मपुष्पी स्याद् रक्तपुष्पी च वारुणी । (१०४।१)

karuṇīkaruṇī grīṣmapuṣpī syād raktapuṣpī ca vāruṇī |

104.2१०४.२

राजप्रिया राजपुष्पी सूक्ष्मा च ब्रह्मचारिणी ॥ (१०४।२)

rājapriyā rājapuṣpī sūkṣmā ca brahmacāriṇī ||

105.1१०५.१

करुणी कटुतिक्तोष्णा कफमारुतनाशिनी । (१०५।१)

karuṇī kaṭutiktoṣṇā kaphamārutanāśinī |

105.2१०५.२

आध्मानविषविच्छर्दिजत्रूर्ध्वश्वासहारिणी ॥ (१०५।२)

ādhmānaviṣavicchardijatrūrdhvaśvāsahāriṇī ||

106.1१०६.१

माधवीमाधवी चन्द्रवल्ली च सुगन्धा भ्रमरोत्सवा । (१०६।१)

mādhavīmādhavī candravallī ca sugandhā bhramarotsavā |

106.2१०६.२

भृङ्गप्रिया भद्रलता भूमिमण्डपभूषणी ॥ (१०६।२)

bhṛṅgapriyā bhadralatā bhūmimaṇḍapabhūṣaṇī ||

107.1१०७.१

माधवी कटुका तिक्ता कषाया मदगन्धिका । (१०७।१)

mādhavī kaṭukā tiktā kaṣāyā madagandhikā |

107.2१०७.२

पित्तकासव्रणान् हन्ति दाहशोषविनाशिनी ॥ (१०७।२)

pittakāsavraṇān hanti dāhaśoṣavināśinī ||

108.1१०८.१

गणिकारीगणिकारी काञ्चनिका काञ्चनपुष्पी वसन्तदूती च । (१०८।१)

gaṇikārīgaṇikārī kāñcanikā kāñcanapuṣpī vasantadūtī ca |

108.2१०८.२

गन्धकुसुमातिमोदा वासन्ती मदमादिनी चैव ॥ (१०८।२)

gandhakusumātimodā vāsantī madamādinī caiva ||

109.1१०९.१

गणिकारी सुरभितरा त्रिदोषशमनी च दाहशोषहरा । (१०९।१)

gaṇikārī surabhitarā tridoṣaśamanī ca dāhaśoṣaharā |

109.2१०९.२

कामक्रीडाडम्बरशम्बरहरचापलप्रसरा ॥ (१०९।२)

kāmakrīḍāḍambaraśambaraharacāpalaprasarā ||

110.1११०.१

कुन्दकुन्दस् तु मकरन्दश् च महामोदो मनोहरः । (११०।१)

kundakundas tu makarandaś ca mahāmodo manoharaḥ |

110.2११०.२

मुक्तापुष्पः सदापुष्पस् तारपुष्पो ऽट्टहासकः ॥ (११०।२)

muktāpuṣpaḥ sadāpuṣpas tārapuṣpo 'ṭṭahāsakaḥ ||

111.1१११.१

दमनो वनहासश् च मनोज्ञो रुद्रसम्मितः ॥ (१११।१)

damano vanahāsaś ca manojño rudrasammitaḥ ||

112.1११२.१

कुन्दो ऽतिमधुरः शीतः कषायः कैश्यभावनः । (११२।१)

kundo 'timadhuraḥ śītaḥ kaṣāyaḥ kaiśyabhāvanaḥ |

112.2११२.२

कफपित्तहरश् चैव सरो दीपनपाचनः ॥ (११२।२)

kaphapittaharaś caiva saro dīpanapācanaḥ ||

113.1११३.१

बकबकः पाशुपतः शैवः शिवपिण्डश् च सुव्रतः । (११३।१)

bakabakaḥ pāśupataḥ śaivaḥ śivapiṇḍaś ca suvrataḥ |

113.2११३.२

वसुकश् च शिवाङ्कश् च शिवेष्टः क्रमपूरकः । (११३।२)

vasukaś ca śivāṅkaś ca śiveṣṭaḥ kramapūrakaḥ |

113.3११३.३

शिवमल्ली शिवाह्लादः शाम्भवो रविसंमितः ॥ (११३।३)

śivamallī śivāhlādaḥ śāmbhavo ravisaṃmitaḥ ||

114.1११४.१

बको ऽतिशिशिरस् तिक्तो मधुरो मधुगन्धकः । (११४।१)

bako 'tiśiśiras tikto madhuro madhugandhakaḥ |

114.2११४.२

पित्तदाहकफश्वासश्रमहारी च दीपनः ॥ (११४।२)

pittadāhakaphaśvāsaśramahārī ca dīpanaḥ ||

115.1११५.१

केविकाकेविका कविका केवा भृङ्गारिर् नृपवल्लभा । (११५।१)

kevikākevikā kavikā kevā bhṛṅgārir nṛpavallabhā |

115.2११५.२

भृङ्गमारी महागन्धा राजकन्यालिमोहिनी ॥ (११५।२)

bhṛṅgamārī mahāgandhā rājakanyālimohinī ||

116.1११६.१

केविका मधुरा शीता दाहपित्तश्रमापहा । (११६।१)

kevikā madhurā śītā dāhapittaśramāpahā |

116.2११६.२

वातश्लेष्मरुजां हन्त्री पित्तच्छर्दिविनाशिनी ॥ (११६।२)

vātaśleṣmarujāṃ hantrī pittacchardivināśinī ||

117.1११७.१

बन्धूकबन्धूको बन्धुजीवः स्याद् ओष्ठपुष्पो ऽर्कवल्लभः । (११७।१)

bandhūkabandhūko bandhujīvaḥ syād oṣṭhapuṣpo 'rkavallabhaḥ |

117.2११७.२

मध्यंदिनो रक्तपुष्पो रागपुष्पो हरिप्रियः ॥ (११७।२)

madhyaṃdino raktapuṣpo rāgapuṣpo haripriyaḥ ||

118.1११८.१

असितसितपीतलोहितपुष्पविशेषाच्चतुर्विधो बन्धूकः । (११८।१)

asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ |

118.2११८.२

बन्धूक:: मेदिच्। प्रोपेर्तिएस्ज्वरहारी विविधग्रहपिशाचशमनः प्रसादनः सवितुः स्यात् ॥ (११८।२)

bandhūka:: medic. propertiesjvarahārī vividhagrahapiśācaśamanaḥ prasādanaḥ savituḥ syāt ||

119.1११९.१

त्रिसंधि:: स्य्नोन्य्म्स्त्रिसंधिः सांध्यकुसुमा सन्धिवल्ली सदाफला । (११९।१)

trisaṃdhi:: synonymstrisaṃdhiḥ sāṃdhyakusumā sandhivallī sadāphalā |

119.2११९.२

त्रिसन्ध्यकुसुमा कान्ता सुकुमारा च संधिजा ॥ (११९।२)

trisandhyakusumā kāntā sukumārā ca saṃdhijā ||

120.1१२०.१

त्रिसंधि:: मेदिच्। प्रोपेर्तिएस्त्रिसन्धिस् त्रिविधा ज्ञेया रक्ता चान्या सितासिता । (१२०।१)

trisaṃdhi:: medic. propertiestrisandhis trividhā jñeyā raktā cānyā sitāsitā |

120.2१२०.२

कफकासहरा रुच्या त्वग्दोषशमनी परा ॥ (१२०।२)

kaphakāsaharā rucyā tvagdoṣaśamanī parā ||

121.1१२१.१

जपाजपाख्या ओड्रकाख्या च रक्तपुष्पी जवा च सा । (१२१।१)

japājapākhyā oḍrakākhyā ca raktapuṣpī javā ca sā |

121.2१२१.२

अर्कप्रिया रक्तपुष्पी प्रातिका हरिवल्लभा ॥ (१२१।२)

arkapriyā raktapuṣpī prātikā harivallabhā ||

122.1१२२.१

जपा तु कटुर् उष्णा स्याद् इन्द्रलुप्तकनाशकृत् । (१२२।१)

japā tu kaṭur uṣṇā syād indraluptakanāśakṛt |

122.2१२२.२

विच्छर्दिजन्तुजननी सूर्याराधनसाधनी ॥ (१२२।२)

vicchardijantujananī sūryārādhanasādhanī ||

123.1१२३.१

भ्रमरारिभ्रमरारिर् भृङ्गमारी भृङ्गारिर् मांसपुष्पिका । (१२३।१)

bhramarāribhramarārir bhṛṅgamārī bhṛṅgārir māṃsapuṣpikā |

123.2१२३.२

कुष्ठारिर् भ्रमरी चैव ज्ञेया यष्टिलता मुनिः ॥ (१२३।२)

kuṣṭhārir bhramarī caiva jñeyā yaṣṭilatā muniḥ ||

124.1१२४.१

तिक्ता भ्रमरमारी स्याद् वातश्लेष्मज्वरापहा । (१२४।१)

tiktā bhramaramārī syād vātaśleṣmajvarāpahā |

124.2१२४.२

शोफकण्डूतिकुष्ठघ्नी व्रणदोषास्थिदोषनुत् ॥ (१२४।२)

śophakaṇḍūtikuṣṭhaghnī vraṇadoṣāsthidoṣanut ||

125.1१२५.१

तरुणीतरुणी सहा कुमारी गन्धाढ्या चारुकेसरा भृङ्गेष्टा । (१२५।१)

taruṇītaruṇī sahā kumārī gandhāḍhyā cārukesarā bhṛṅgeṣṭā |

125.2१२५.२

रामतरुणी तु सुदला बहुपत्त्रा भृङ्गवल्लभा च दशाह्वा ॥ (१२५।२)

rāmataruṇī tu sudalā bahupattrā bhṛṅgavallabhā ca daśāhvā ||

126.1१२६.१

तरुणी शिशिरा स्निग्धा पित्तदाहज्वरापहा । (१२६।१)

taruṇī śiśirā snigdhā pittadāhajvarāpahā |

126.2१२६.२

मधुरा मुखपाकघ्नी तृष्णाविच्छर्दिवारिणी ॥ (१२६।२)

madhurā mukhapākaghnī tṛṣṇāvicchardivāriṇī ||

127.1१२७.१

तरुणी::राजतरुणीमहती तु राजतरुणी महासहा वर्ण्यपुष्पको ऽम्लानः । (१२७।१)

taruṇī::rājataruṇīmahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ |

127.2१२७.२

अमिलातकः सुपुष्पः सुवर्णपुष्पश् च सप्ताह्वः ॥ (१२७।२)

amilātakaḥ supuṣpaḥ suvarṇapuṣpaś ca saptāhvaḥ ||

128.1१२८.१

विज्ञेया राजतरुणी कषाया कफकारिणी । (१२८।१)

vijñeyā rājataruṇī kaṣāyā kaphakāriṇī |

128.2१२८.२

चक्षुष्या हर्षदा हृद्या सुरभिः सुरवल्लभा ॥ (१२८।२)

cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā ||

129.1१२९.१

रक्ताम्लानअथ रक्ताम्लानः स्याद् रक्तसहाख्यः स चापरिम्लानः । (१२९।१)

raktāmlānaatha raktāmlānaḥ syād raktasahākhyaḥ sa cāparimlānaḥ |

129.2१२९.२

रक्तामलान्तको ऽपि च रक्तप्रसवश् च कुरवकश् चैव ॥ (१२९।२)

raktāmalāntako 'pi ca raktaprasavaś ca kuravakaś caiva ||

130.1१३०.१

रामालिङ्गनकामो रागप्रसवो मधूत्सवः प्रसवः । (१३०।१)

rāmāliṅganakāmo rāgaprasavo madhūtsavaḥ prasavaḥ |

130.2१३०.२

सुभगो भ्रमरानन्दः स्याद् इत्य् अयं पक्षचन्द्रमितः ॥ (१३०।२)

subhago bhramarānandaḥ syād ity ayaṃ pakṣacandramitaḥ ||

131.1१३१.१

उष्णः कटुः कुरवको वातामयशोफनाशनो ज्वरनुत् । (१३१।१)

uṣṇaḥ kaṭuḥ kuravako vātāmayaśophanāśano jvaranut |

131.2१३१.२

आध्मानशूलकासश्वासार्तिप्रशमनो वर्ण्यः ॥ (१३१।२)

ādhmānaśūlakāsaśvāsārtipraśamano varṇyaḥ ||

132.1१३२.१

पीताम्लानपीतः स किङ्किरातः पीताम्लानः कुरण्टकः कनकः । (१३२।१)

pītāmlānapītaḥ sa kiṅkirātaḥ pītāmlānaḥ kuraṇṭakaḥ kanakaḥ |

132.2१३२.२

पीतकुरवः सुपीतः स पीतकुसुमश् च सप्तसंज्ञकः स्यात् ॥ (१३२।२)

pītakuravaḥ supītaḥ sa pītakusumaś ca saptasaṃjñakaḥ syāt ||

133.1१३३.१

किङ्किरातः कषायोष्णस् तिक्तश् च कफवातजित् । (१३३।१)

kiṅkirātaḥ kaṣāyoṣṇas tiktaś ca kaphavātajit |

133.2१३३.२

दीपनः शोफकण्डूतिरक्तत्वग्दोषनाशनः ॥ (१३३।२)

dīpanaḥ śophakaṇḍūtiraktatvagdoṣanāśanaḥ ||

134.1१३४.१

नीलाम्लाननीलपुष्पा तु सा दासी नीलाम्लानस् तु छादनः । (१३४।१)

nīlāmlānanīlapuṣpā tu sā dāsī nīlāmlānas tu chādanaḥ |

134.2१३४.२

बाला चार्तगला चैव नीलपुष्पा च षड्विधा ॥ (१३४।२)

bālā cārtagalā caiva nīlapuṣpā ca ṣaḍvidhā ||

135.1१३५.१

आर्तगला कटुस् तिक्ता कफमारुतशूलनुत् । (१३५।१)

ārtagalā kaṭus tiktā kaphamārutaśūlanut |

135.2१३५.२

कण्डूकुष्ठव्रणान् हन्ति शोफत्वग्दोषनाशनी ॥ (१३५।२)

kaṇḍūkuṣṭhavraṇān hanti śophatvagdoṣanāśanī ||

136.1१३६.१

कण्टकरण्टकण्टकरण्टो झिण्टी सा वन्यसहचरी तु सा पीता । (१३६।१)

kaṇṭakaraṇṭakaṇṭakaraṇṭo jhiṇṭī sā vanyasahacarī tu sā pītā |

136.2१३६.२

शोणी कुरवकनाम्नी कण्टकिनी शोणझिण्टिका चैव ॥ (१३६।२)

śoṇī kuravakanāmnī kaṇṭakinī śoṇajhiṇṭikā caiva ||

137.1१३७.१

झिण्टी।:नीलझिण्टीसान्या तु नीलझिण्टी नीलकुरण्टश् च नीलकुसुमा च । (१३७।१)

jhiṇṭī.:nīlajhiṇṭīsānyā tu nīlajhiṇṭī nīlakuraṇṭaś ca nīlakusumā ca |

137.2१३७.२

बाणो बाणा दासी कण्टार्तगला च सप्तसंज्ञा स्यात् ॥ (१३७।२)

bāṇo bāṇā dāsī kaṇṭārtagalā ca saptasaṃjñā syāt ||

138.1१३८.१

झिण्टिकाः कटुकास् तिक्ता दन्तामयशान्तिदाश् च शूलघ्नाः । (१३८।१)

jhiṇṭikāḥ kaṭukās tiktā dantāmayaśāntidāś ca śūlaghnāḥ |

138.2१३८.२

वातकफशोफकासत्वग्दोषविनाशकारिण्यः ॥ (१३८।२)

vātakaphaśophakāsatvagdoṣavināśakāriṇyaḥ ||

139.1१३९.१

उष्ट्रकाण्डीउष्ट्रकाण्डी रक्तपुष्पी ज्ञेया करभकाण्डिका । (१३९।१)

uṣṭrakāṇḍīuṣṭrakāṇḍī raktapuṣpī jñeyā karabhakāṇḍikā |

139.2१३९.२

रक्ता लोहितपुष्पी च वर्णपुष्पी षडाह्वया ॥ (१३९।२)

raktā lohitapuṣpī ca varṇapuṣpī ṣaḍāhvayā ||

140.1१४०.१

उष्ट्रकाण्डी तु तिक्तोष्णा रुच्या हृद्रोगहारिणी । (१४०।१)

uṣṭrakāṇḍī tu tiktoṣṇā rucyā hṛdrogahāriṇī |

140.2१४०.२

तद्बीजं मधुरं शीतं वृष्यं संतर्पणं स्मृतम् ॥ (१४०।२)

tadbījaṃ madhuraṃ śītaṃ vṛṣyaṃ saṃtarpaṇaṃ smṛtam ||

141.1१४१.१

तगरतगरं कुटिलं वक्रं विनम्रं कुञ्चितं नतम् । (१४१।१)

tagaratagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam |

141.2१४१.२

शठं च नहुषाख्यं च दद्रुहस्तं च बर्हणम् ॥ (१४१।२)

śaṭhaṃ ca nahuṣākhyaṃ ca dadruhastaṃ ca barhaṇam ||

142.1१४२.१

पिण्डीतगरकं चैव पार्थिवं राजहर्षणम् । (१४२।१)

piṇḍītagarakaṃ caiva pārthivaṃ rājaharṣaṇam |

142.2१४२.२

कालानुसारकं क्षत्रं दीनं जिह्मं मुनीन्दुधा ॥ (१४२।२)

kālānusārakaṃ kṣatraṃ dīnaṃ jihmaṃ munīndudhā ||

143.1१४३.१

तगरं शीतलं तिक्तं दृष्टिदोषविनाशनम् । (१४३।१)

tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam |

143.2१४३.२

विषार्तिशमनं पथ्यं भूतोन्मादभयापहम् ॥ (१४३।२)

viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham ||

144.1१४४.१

दमनकअथ दमनकस् तु दमनो दान्तो गन्धोत्कटो मुनिर् जटिलः । (१४४।१)

damanakaatha damanakas tu damano dānto gandhotkaṭo munir jaṭilaḥ |

144.2१४४.२

दण्डी च पाण्डुरागो ब्रह्मजटा पुण्डरीकश् च ॥ (१४४।२)

daṇḍī ca pāṇḍurāgo brahmajaṭā puṇḍarīkaś ca ||

145.1१४५.१

तापसपत्त्रः पत्त्री पवित्रको देवशेखरश् चैव । (१४५।१)

tāpasapattraḥ pattrī pavitrako devaśekharaś caiva |

145.2१४५.२

कुलपत्त्रश् च विनीतस् तपस्विपत्त्रश् च सप्तधात्रीकः ॥ (१४५।२)

kulapattraś ca vinītas tapasvipattraś ca saptadhātrīkaḥ ||

146.1१४६.१

दमनः शीतलतिक्तः कषायकटुकश् च कुष्ठदोषहरः । (१४६।१)

damanaḥ śītalatiktaḥ kaṣāyakaṭukaś ca kuṣṭhadoṣaharaḥ |

146.2१४६.२

द्वन्द्वत्रिदोषशमनो विषविस्फोटविकारहरणः स्यात् ॥ (१४६।२)

dvandvatridoṣaśamano viṣavisphoṭavikāraharaṇaḥ syāt ||

147.1१४७.१

दमनक::वन्यदमनअन्यश् च वन्यदमनो वनादिनामा च दमनपर्यायः । (१४७।१)

damanaka::vanyadamanaanyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ |

147.2१४७.२

वीर्यस्तम्भनकारी बलदायी चामदोषहारी च ॥ (१४७।२)

vīryastambhanakārī baladāyī cāmadoṣahārī ca ||

148.1१४८.१

तुलसीतुलसी सुभगा तीव्रा पावनी विष्णुवल्लभा । (१४८।१)

tulasītulasī subhagā tīvrā pāvanī viṣṇuvallabhā |

148.2१४८.२

सुरेज्या सुरसा ज्ञेया कायस्था सुरदुन्दुभी ॥ (१४८।२)

surejyā surasā jñeyā kāyasthā suradundubhī ||

149.1१४९.१

सुरभिर् बहुपत्त्री च मञ्जरी सा हरिप्रिया । (१४९।१)

surabhir bahupattrī ca mañjarī sā haripriyā |

149.2१४९.२

अपेतराक्षसी श्यामा गौरी त्रिदशमञ्जरी । (१४९।२)

apetarākṣasī śyāmā gaurī tridaśamañjarī |

149.3१४९.३

भूतघ्नी पूतपत्त्री च ज्ञेया चैकोनविंशतिः ॥ (१४९।३)

bhūtaghnī pūtapattrī ca jñeyā caikonaviṃśatiḥ ||

150.1१५०.१

तुलसी कटुतिक्तोष्णा सुरभिः श्लेष्मवातजित् । (१५०।१)

tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit |

150.2१५०.२

जन्तुभूतक्रिमिहरा रुचिकृद् वातशान्तिकृत् ॥ (१५०।२)

jantubhūtakrimiharā rucikṛd vātaśāntikṛt ||

151.1१५१.१

कृष्णतुलसीकृष्णा तु कृष्णतुलसी श्वेता लक्ष्मीः सिताह्वया । (१५१।१)

kṛṣṇatulasīkṛṣṇā tu kṛṣṇatulasī śvetā lakṣmīḥ sitāhvayā |

151.2१५१.२

कासवातक्रिमिवमिभूतापहारिणी पूता ॥ (१५१।२)

kāsavātakrimivamibhūtāpahāriṇī pūtā ||

152.1१५२.१

मरुवमरुवः खरपत्त्रस् तु गन्धपत्त्रः फणिञ्झकः । (१५२।१)

maruvamaruvaḥ kharapattras tu gandhapattraḥ phaṇiñjhakaḥ |

152.2१५२.२

बहुवीर्यः शीतलकः सुराह्वश् च समीरणः ॥ (१५२।२)

bahuvīryaḥ śītalakaḥ surāhvaś ca samīraṇaḥ ||

153.1१५३.१

जम्बीरः प्रस्थकुसुमो ज्ञेयो मरुवकस् तथा । (१५३।१)

jambīraḥ prasthakusumo jñeyo maruvakas tathā |

153.2१५३.२

आजन्मसुरभिपत्त्रो मरीचश् च त्रयोदश ॥ (१५३।२)

ājanmasurabhipattro marīcaś ca trayodaśa ||

154.1१५४.१

द्विधा मरुवकः प्रोक्तः श्वेतश् चैव सितेतरः । (१५४।१)

dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ |

154.2१५४.२

श्वेतो भेषजकार्ये स्याद् अपरः शिवपूजने ॥ (१५४।२)

śveto bheṣajakārye syād aparaḥ śivapūjane ||

155.1१५५.१

मरुवः कटुतिक्तोष्णः कृमिकुष्ठविनाशनः । (१५५।१)

maruvaḥ kaṭutiktoṣṇaḥ kṛmikuṣṭhavināśanaḥ |

155.2१५५.२

विड्बन्धाध्मानशूलघ्नो मान्द्यत्वग्दोषनाशनः ॥ (१५५।२)

viḍbandhādhmānaśūlaghno māndyatvagdoṣanāśanaḥ ||

156.1१५६.१

अर्जकअर्जकः क्षुद्रतुलसी क्षुद्रपर्णो मुखार्जकः । (१५६।१)

arjakaarjakaḥ kṣudratulasī kṣudraparṇo mukhārjakaḥ |

156.2१५६.२

उग्रगन्धश् च जम्बीरः कुठेरश् च कठिञ्जरः ॥ (१५६।२)

ugragandhaś ca jambīraḥ kuṭheraś ca kaṭhiñjaraḥ ||

157.1१५७.१

सितार्जकसितार्जकस् तु वैकुण्ठो वटपत्त्रः कुठेरकः । (१५७।१)

sitārjakasitārjakas tu vaikuṇṭho vaṭapattraḥ kuṭherakaḥ |

157.2१५७.२

जम्बीरो गन्धबहुलः सुमुखः कटुपत्त्रकः ॥ (१५७।२)

jambīro gandhabahulaḥ sumukhaḥ kaṭupattrakaḥ ||

158.1१५८.१

कृष्णार्जककृष्णार्जकः कालमालो मालूकः कृष्णमालुकः । (१५८।१)

kṛṣṇārjakakṛṣṇārjakaḥ kālamālo mālūkaḥ kṛṣṇamālukaḥ |

158.2१५८.२

स्यात् कृष्णमल्लिका प्रोक्ता गरघ्नो वनबर्बरः ॥ (१५८।२)

syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ ||

159.1१५९.१

त्रयो ऽर्जकाः कटूष्णाः स्युः कफवातामयापहाः । (१५९।१)

trayo 'rjakāḥ kaṭūṣṇāḥ syuḥ kaphavātāmayāpahāḥ |

159.2१५९.२

नेत्रामयहरा रुच्याः सुखप्रसवकारकाः ॥ (१५९।२)

netrāmayaharā rucyāḥ sukhaprasavakārakāḥ ||

160.1१६०.१

वनबर्बरिकावनबर्बरिकान्या तु सुगन्धिः सुप्रसन्नकः । (१६०।१)

vanabarbarikāvanabarbarikānyā tu sugandhiḥ suprasannakaḥ |

160.2१६०.२

दोषोत्क्लेशी विषघ्नश् च सुमुखः सूक्ष्मपत्त्रकः । (१६०।२)

doṣotkleśī viṣaghnaś ca sumukhaḥ sūkṣmapattrakaḥ |

160.3१६०.३

निद्रालुः शोफहारी च सुवक्त्रश् च दशाह्वयः ॥ (१६०।३)

nidrāluḥ śophahārī ca suvaktraś ca daśāhvayaḥ ||

161.1१६१.१

वनबर्बरिका चोष्णा सुगन्धा कटुका च सा । (१६१।१)

vanabarbarikā coṣṇā sugandhā kaṭukā ca sā |

161.2१६१.२

पिशाचवान्तिभूतघ्नी घ्राणसंतर्पणी परा ॥ (१६१।२)

piśācavāntibhūtaghnī ghrāṇasaṃtarpaṇī parā ||

162.1१६२.१

गङ्गापत्त्रीगङ्गापत्त्री तु पत्त्री स्यात् सुगन्धा गन्धपत्त्रिका । (१६२।१)

gaṅgāpattrīgaṅgāpattrī tu pattrī syāt sugandhā gandhapattrikā |

162.2१६२.२

गङ्गापत्त्री कटूष्णा च वातजिद् व्रणरोपणी ॥ (१६२।२)

gaṅgāpattrī kaṭūṣṇā ca vātajid vraṇaropaṇī ||

163.1१६३.१

पाचीपाची मरकतपत्त्री हरितलता हरितपत्त्रिका पत्त्री । (१६३।१)

pācīpācī marakatapattrī haritalatā haritapattrikā pattrī |

163.2१६३.२

सुरभिर् मल्लारिष्टा गारुत्मतपत्त्रिका चैव ॥ (१६३।२)

surabhir mallāriṣṭā gārutmatapattrikā caiva ||

164.1१६४.१

पाची कटुतिक्तोष्णा सकषाया वातदोषहन्त्री च । (१६४।१)

pācī kaṭutiktoṣṇā sakaṣāyā vātadoṣahantrī ca |

164.2१६४.२

ग्रहभूतविकारकारी त्वग्दोषप्रशमनी व्रणेषु हिता ॥ (१६४।२)

grahabhūtavikārakārī tvagdoṣapraśamanī vraṇeṣu hitā ||

165.1१६५.१

बालकबालकं वारिपर्यायैर् उक्तं ह्रीवेरकं तथा । (१६५।१)

bālakabālakaṃ vāriparyāyair uktaṃ hrīverakaṃ tathā |

165.2१६५.२

केश्यं वज्रम् उदीच्यं च पिङ्गं च ललनाप्रियम् । (१६५।२)

keśyaṃ vajram udīcyaṃ ca piṅgaṃ ca lalanāpriyam |

165.3१६५.३

बालं च कुन्तलोशीरं कचामोदं शशीन्दुधा ॥ (१६५।३)

bālaṃ ca kuntalośīraṃ kacāmodaṃ śaśīndudhā ||

166.1१६६.१

बालकं शीतलं तिक्तं पित्तवान्तितृषापहम् । (१६६।१)

bālakaṃ śītalaṃ tiktaṃ pittavāntitṛṣāpaham |

166.2१६६.२

ज्वरकुष्ठातिसारघ्नं केश्यं श्वित्रव्रणापनुत् ॥ (१६६।२)

jvarakuṣṭhātisāraghnaṃ keśyaṃ śvitravraṇāpanut ||

167.1१६७.१

बर्बरबर्बरः सुमुखश् चैव गरघ्नः कृष्णबर्बरः । (१६७।१)

barbarabarbaraḥ sumukhaś caiva garaghnaḥ kṛṣṇabarbaraḥ |

167.2१६७.२

सुकन्दनो गन्धपत्त्रः पूतगन्धः सुरार्हकः ॥ (१६७।२)

sukandano gandhapattraḥ pūtagandhaḥ surārhakaḥ ||

168.1१६८.१

बर्बरः कटुकोष्णश् च सुगन्धिर् वान्तिनाशनः । (१६८।१)

barbaraḥ kaṭukoṣṇaś ca sugandhir vāntināśanaḥ |

168.2१६८.२

विसर्पविषविध्वंसी त्वग्दोषशमनस् तथा ॥ (१६८।२)

visarpaviṣavidhvaṃsī tvagdoṣaśamanas tathā ||

169.1१६९.१

सुरपर्णसुरपर्णं देवपर्णं वीरपर्णं सुगन्धिकम् । (१६९।१)

suraparṇasuraparṇaṃ devaparṇaṃ vīraparṇaṃ sugandhikam |

169.2१६९.२

मञ्चिपत्त्रं सूक्ष्मपत्त्रं देवार्हं गन्धपत्त्रकम् ॥ (१६९।२)

mañcipattraṃ sūkṣmapattraṃ devārhaṃ gandhapattrakam ||

170.1१७०.१

कटूष्णं सुरपर्णं च क्रिमिश्वासबलासजित् । (१७०।१)

kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit |

170.2१७०.२

दीपनं कफवातघ्नं वर्ण्यं बालहितं तथा ॥ (१७०।२)

dīpanaṃ kaphavātaghnaṃ varṇyaṃ bālahitaṃ tathā ||

171.1१७१.१

आरामशीतलाआरामशीतला नन्दा शीतला सा सुनन्दिनी । (१७१।१)

ārāmaśītalāārāmaśītalā nandā śītalā sā sunandinī |

171.2१७१.२

रामा चैव महानन्दा गन्धाढ्यारामशीतला ॥ (१७१।२)

rāmā caiva mahānandā gandhāḍhyārāmaśītalā ||

172.1१७२.१

आरामशीतला तिक्ता शीतला पित्तहारिणी । (१७२।१)

ārāmaśītalā tiktā śītalā pittahāriṇī |

172.2१७२.२

दाहशोषप्रशमनी विस्फोटव्रणरोपणी ॥ (१७२।२)

dāhaśoṣapraśamanī visphoṭavraṇaropaṇī ||

173.1१७३.१

पाथोजपाथोजं कमलं नभं च नलिनाम्भोजाम्बुजन्माम्बुजं श्रीपद्माम्बुरुहाब्जपद्मजलजान्य् अम्भोरुहं सारसम् । (१७३।१)

pāthojapāthojaṃ kamalaṃ nabhaṃ ca nalināmbhojāmbujanmāmbujaṃ śrīpadmāmburuhābjapadmajalajāny ambhoruhaṃ sārasam |

173.2१७३.२

पङ्केजं सरसीरुहं च कुटपं पाथोरुहं पुष्करं वार्जं तामरसं कुशेशयकजे कञ्जारविन्दे तथा ॥ (१७३।२)

paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā ||

174.1१७४.१

शतपत्त्रं बिसकुसुमं सहस्रपत्त्रं महोत्पलं वारिरुहम् । (१७४।१)

śatapattraṃ bisakusumaṃ sahasrapattraṃ mahotpalaṃ vāriruham |

174.2१७४.२

सरसिजसलिलजपङ्केरुहराजीवानि वेदवह्निमितानि ॥ (१७४।२)

sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni ||

175.1१७५.१

कमलं शीतलं स्वादु रक्तपित्तश्रमार्तिनुत् । (१७५।१)

kamalaṃ śītalaṃ svādu raktapittaśramārtinut |

175.2१७५.२

सुगन्धि भ्रान्तिसंतापशान्तिदं तर्पणं परम् ॥ (१७५।२)

sugandhi bhrāntisaṃtāpaśāntidaṃ tarpaṇaṃ param ||

176.1१७६.१

पुण्डरीकपुण्डरीकं श्वेतपत्त्रं सिताब्जं श्वेतवारिजम् । (१७६।१)

puṇḍarīkapuṇḍarīkaṃ śvetapattraṃ sitābjaṃ śvetavārijam |

176.2१७६.२

हरिनेत्रं शरत्पद्मं शारदं शम्भुवल्लभम् ॥ (१७६।२)

harinetraṃ śaratpadmaṃ śāradaṃ śambhuvallabham ||

177.1१७७.१

पुण्डरीकं हिमं तिक्तं मधुरं पित्तनाशनम् । (१७७।१)

puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam |

177.2१७७.२

दाहास्रश्रमदोषघ्नं पिपासादोषनाशनम् ॥ (१७७।२)

dāhāsraśramadoṣaghnaṃ pipāsādoṣanāśanam ||

178.1१७८.१

कोकनदकोकनदम् अरुणकमलं रक्ताम्भोजं च शोणपद्मं च । (१७८।१)

kokanadakokanadam aruṇakamalaṃ raktāmbhojaṃ ca śoṇapadmaṃ ca |

178.2१७८.२

रक्तोत्पलम् अरविन्दं रविप्रियं रक्तवारिजं वसवः ॥ (१७८।२)

raktotpalam aravindaṃ ravipriyaṃ raktavārijaṃ vasavaḥ ||

179.1१७९.१

कोकनदं कटुतिक्तं मधुरं शिशिरं च रक्तदोषहरम् । (१७९।१)

kokanadaṃ kaṭutiktaṃ madhuraṃ śiśiraṃ ca raktadoṣaharam |

179.2१७९.२

पित्तकफवातशमनं संतर्पणकारणं वृष्यम् ॥ (१७९।२)

pittakaphavātaśamanaṃ saṃtarpaṇakāraṇaṃ vṛṣyam ||

180.1१८०.१

उत्पलौत्पलं नीलकमलं नीलाब्जं नीलपङ्कजम् । (१८०।१)

utpalautpalaṃ nīlakamalaṃ nīlābjaṃ nīlapaṅkajam |

180.2१८०.२

नीलपद्मं च बाणाह्वं नीलादिकमलाभिधम् ॥ (१८०।२)

nīlapadmaṃ ca bāṇāhvaṃ nīlādikamalābhidham ||

181.1१८१.१

नीलाब्जं शीतलं स्वादु सुगन्धि पित्तनाशकृत् । (१८१।१)

nīlābjaṃ śītalaṃ svādu sugandhi pittanāśakṛt |

181.2१८१.२

रुच्यं रसायने श्रेष्ठं केश्यं च देहदार्ढ्यदम् ॥ (१८१।२)

rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam ||

182.1१८२.१

ईषत् श्वेतं पद्मं नलिनं च तद् उक्तम् ईषद् आरक्तम् । (१८२।१)

īṣat śvetaṃ padmaṃ nalinaṃ ca tad uktam īṣad āraktam |

182.2१८२.२

उत्पलम् ईषन् नीलं त्रिविधम् इतीदं भवेत् कमलम् ॥ (१८२।२)

utpalam īṣan nīlaṃ trividham itīdaṃ bhavet kamalam ||

183.1१८३.१

उत्पलादिर् अयं दाहरक्तपित्तप्रसादनः । (१८३।१)

utpalādir ayaṃ dāharaktapittaprasādanaḥ |

183.2१८३.२

पिपासादाहहृद् रोगछर्दिमूर्छाहरो गणः ॥ (१८३।२)

pipāsādāhahṛd rogachardimūrchāharo gaṇaḥ ||

184.1१८४.१

पद्मिनीपद्मिनी नलिनी प्रोक्ता कूटपिन्य् अब्जिनी तथा । (१८४।१)

padminīpadminī nalinī proktā kūṭapiny abjinī tathā |

184.2१८४.२

इत्थं तत्पद्मपर्यायनाम्नी ज्ञेया प्रयोगतः ॥ (१८४।२)

itthaṃ tatpadmaparyāyanāmnī jñeyā prayogataḥ ||

185.1१८५.१

पद्मिनी मधुरा तिक्ता कषाया शिशिरा परा । (१८५।१)

padminī madhurā tiktā kaṣāyā śiśirā parā |

185.2१८५.२

पित्तकृमिशोषवान्तिभ्रान्तिसंतापशान्तिकृत् ॥ (१८५।२)

pittakṛmiśoṣavāntibhrāntisaṃtāpaśāntikṛt ||

186.1१८६.१

पद्मबीजपद्मबीजं तु पद्माक्षं गालोड्यं कन्दली च सा । (१८६।१)

padmabījapadmabījaṃ tu padmākṣaṃ gāloḍyaṃ kandalī ca sā |

186.2१८६.२

भेडा क्रौञ्चादनी क्रौञ्चा श्यामा स्यात् पद्मकर्कटी ॥ (१८६।२)

bheḍā krauñcādanī krauñcā śyāmā syāt padmakarkaṭī ||

187.1१८७.१

पद्मबीजं कटु स्वादु पित्तछर्दिहरं परम् । (१८७।१)

padmabījaṃ kaṭu svādu pittachardiharaṃ param |

187.2१८७.२

दाहास्रदोषशमनं पाचनं रुचिकारकम् ॥ (१८७।२)

dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam ||

188.1१८८.१

मृणालमृणालं पद्मनालं च मृणाली च मृणालिनी । (१८८।१)

mṛṇālamṛṇālaṃ padmanālaṃ ca mṛṇālī ca mṛṇālinī |

188.2१८८.२

बिसं च पद्मतन्तुश् च बिसिनी नलिनीरुहम् ॥ (१८८।२)

bisaṃ ca padmatantuś ca bisinī nalinīruham ||

189.1१८९.१

मृणालं शिशिरं तिक्तं कषायं पित्तदाहजित् । (१८९।१)

mṛṇālaṃ śiśiraṃ tiktaṃ kaṣāyaṃ pittadāhajit |

189.2१८९.२

मूत्रकृच्छ्रविकारघ्नं रक्तवान्तिहरं परम् ॥ (१८९।२)

mūtrakṛcchravikāraghnaṃ raktavāntiharaṃ param ||

190.1१९०.१

पद्मकन्दपद्मकन्दस् तु शालूकं पद्ममूलं कटाह्वयम् । (१९०।१)

padmakandapadmakandas tu śālūkaṃ padmamūlaṃ kaṭāhvayam |

190.2१९०.२

शालीनं च जलालूकं स्याद् इत्य् एवं षडाह्वयम् ॥ (१९०।२)

śālīnaṃ ca jalālūkaṃ syād ity evaṃ ṣaḍāhvayam ||

191.1१९१.१

शालूकं कटु विष्टम्भि रूक्षं रुच्यं कफापहम् । (१९१।१)

śālūkaṃ kaṭu viṣṭambhi rūkṣaṃ rucyaṃ kaphāpaham |

191.2१९१.२

कषायं कासपित्तघ्नं तृष्णादाहनिवारणम् ॥ (१९१।२)

kaṣāyaṃ kāsapittaghnaṃ tṛṣṇādāhanivāraṇam ||

192.1१९२.१

किञ्जल्ककिञ्जल्कं मकरन्दं च केसरं पद्मकेसरम् । (१९२।१)

kiñjalkakiñjalkaṃ makarandaṃ ca kesaraṃ padmakesaram |

192.2१९२.२

किञ्जं पीतं परागं च तुङ्गं चाम्पेयकं नव ॥ (१९२।२)

kiñjaṃ pītaṃ parāgaṃ ca tuṅgaṃ cāmpeyakaṃ nava ||

193.1१९३.१

किञ्जल्कं मधुरं रूक्षं कटु चास्यव्रणापहम् । (१९३।१)

kiñjalkaṃ madhuraṃ rūkṣaṃ kaṭu cāsyavraṇāpaham |

193.2१९३.२

पित्तघ्नं शिशिरं रुच्यं तृष्णादाहनिवारणम् ॥ (१९३।२)

pittaghnaṃ śiśiraṃ rucyaṃ tṛṣṇādāhanivāraṇam ||

194.1१९४.१

अनूष्णअनूष्णं चोत्पलं चैव रात्रिपुष्पं जलाह्वयम् । (१९४।१)

anūṣṇaanūṣṇaṃ cotpalaṃ caiva rātripuṣpaṃ jalāhvayam |

194.2१९४.२

हिमाब्जं शीतजलजं निशाफुल्लं च सप्तधा ॥ (१९४।२)

himābjaṃ śītajalajaṃ niśāphullaṃ ca saptadhā ||

195.1१९५.१

उत्पलं शिशिरं स्वादु पित्तरक्तार्तिदोषनुत् । (१९५।१)

utpalaṃ śiśiraṃ svādu pittaraktārtidoṣanut |

195.2१९५.२

दाहश्रमवमिभ्रान्तिक्रिमिज्वरहरं परम् ॥ (१९५।२)

dāhaśramavamibhrāntikrimijvaraharaṃ param ||

196.1१९६.१

धवलोत्पलधवलोत्पलं तु कुमुदं कह्लारं कैरवं च शीतलकम् । (१९६।१)

dhavalotpaladhavalotpalaṃ tu kumudaṃ kahlāraṃ kairavaṃ ca śītalakam |

196.2१९६.२

शशिकान्तम् इन्दुकमलं चन्द्राब्जं चन्द्रिकाम्बुजं च नव ॥ (१९६।२)

śaśikāntam indukamalaṃ candrābjaṃ candrikāmbujaṃ ca nava ||

197.1१९७.१

कुमुदं शीतलं स्वादु पाके तिक्तं कफापहम् । (१९७।१)

kumudaṃ śītalaṃ svādu pāke tiktaṃ kaphāpaham |

197.2१९७.२

रक्तदोषहरं दाहश्रमपित्तप्रशान्तिकृत् ॥ (१९७।२)

raktadoṣaharaṃ dāhaśramapittapraśāntikṛt ||

198.1१९८.१

नीलोत्पलनीलोत्पलम् उत्पलकं कुवलयम् इन्दीवरं च कन्दोत्थम् । (१९८।१)

nīlotpalanīlotpalam utpalakaṃ kuvalayam indīvaraṃ ca kandottham |

198.2१९८.२

सौगन्धिकं सुगन्धं कुड्मलकं चासितोत्पलं नवधा ॥ (१९८।२)

saugandhikaṃ sugandhaṃ kuḍmalakaṃ cāsitotpalaṃ navadhā ||

199.1१९९.१

नीलोत्पलम् अतिस्वादु शीतं सुरभि सौख्यकृत् । (१९९।१)

nīlotpalam atisvādu śītaṃ surabhi saukhyakṛt |

199.2१९९.२

पाके तु तिक्तम् अत्यन्तं रक्तपित्तापहारकम् ॥ (१९९।२)

pāke tu tiktam atyantaṃ raktapittāpahārakam ||

200.1२००.१

उत्पलिनीउत्पलिनी कैरविणी कुमुद्वती कुमुदिनी च चन्द्रेष्टा । (२००।१)

utpalinīutpalinī kairaviṇī kumudvatī kumudinī ca candreṣṭā |

200.2२००.२

कुवलयिनीन्दीवरिणी नीलोत्पलिनी च विज्ञेया ॥ (२००।२)

kuvalayinīndīvariṇī nīlotpalinī ca vijñeyā ||

201.1२०१.१

उत्पलिनी हिमतिक्ता रक्तामयहारिणी च पित्तघ्नी । (२०१।१)

utpalinī himatiktā raktāmayahāriṇī ca pittaghnī |

201.2२०१.२

तापकफकासतृष्णाश्रमवमिशमनी च विज्ञेया ॥ (२०१।२)

tāpakaphakāsatṛṣṇāśramavamiśamanī ca vijñeyā ||

202.1२०२.१

पुष्पद्रवपुष्पद्रवः पुष्पसारः पुष्पस्वेदश् च पुष्पजः । (२०२।१)

puṣpadravapuṣpadravaḥ puṣpasāraḥ puṣpasvedaś ca puṣpajaḥ |

202.2२०२.२

पुष्पनिर्यासकश् चैव पुष्पाम्बुजः षडाह्वयः ॥ (२०२।२)

puṣpaniryāsakaś caiva puṣpāmbujaḥ ṣaḍāhvayaḥ ||

203.1२०३.१

पुष्पद्रवः सुरभिशीतकषायगौल्यो दाहश्रमातिवमिमोहमुखामयघ्नः । (२०३।१)

puṣpadravaḥ surabhiśītakaṣāyagaulyo dāhaśramātivamimohamukhāmayaghnaḥ |

203.2२०३.२

तृष्णार्तिपित्तकफदोषहरः सरश् च संतर्पणश् चिरम् अरोचकहारकश् च ॥ (२०३।२)

tṛṣṇārtipittakaphadoṣaharaḥ saraś ca saṃtarpaṇaś ciram arocakahārakaś ca ||

204.1२०४.१

जाती भाति मृदुर् मनोज्ञमधुरामोदा मुहूर्तद्वयं द्वैगुण्येन च मल्लिका मदकरी गन्धाधिका यूथिका । (२०४।१)

jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā |

204.2२०४.२

एकाहं नवमालिका मदकरं चाह्णां त्रयं चम्पकं तीव्रामोदम् अथाष्टवासरमितामोदान्विता केतकी ॥ (२०४।२)

ekāhaṃ navamālikā madakaraṃ cāhṇāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī ||

205.1२०५.१

इत्थं नानाप्रथितसुमनःपत्त्रपद्माभिधानसंस्थानोक्तिप्रगुणिततया तद्गुणाख्याप्रवीणम् । (२०५।१)

itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam |

205.2२०५.२

वाचोयुक्तिस्थिरपरिमलं वर्गम् एनं पठित्वा नित्यामोदैर् मुखसरसिजं वासयत्व् आशु वैद्यः ॥ (२०५।२)

vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ ||

206.1२०६.१

स्थैर्ये शैलशिलोपमान्य् अपि शनैर् आसाद्य तद्भावनां भेद्यत्वं यमिनां मनांस्य् अपि ययुः पुष्पाशुगस्याशुगैः । (२०६।१)

sthairye śailaśilopamāny api śanair āsādya tadbhāvanāṃ bhedyatvaṃ yamināṃ manāṃsy api yayuḥ puṣpāśugasyāśugaiḥ |

206.2२०६.२

तेषां भूषयतां सुरादिकशिरः पत्त्रप्रसूनात्मनां वर्गो ऽयं वसतिर् मता सुमनसाम् उत्तंसवर्गाख्यया ॥ (२०६।२)

teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā ||

207.1२०७.१

लोकान् स्पर्शनयोगतः प्रसृमराण्य् आमोदयन्त्य् अञ्जसा प्रोत्फुल्लानि च यद् यशांसि विशदान्य् उत्तंसयन्ते दिशः । (२०७।१)

lokān sparśanayogataḥ prasṛmarāṇy āmodayanty añjasā protphullāni ca yad yaśāṃsi viśadāny uttaṃsayante diśaḥ |

207.2२०७.२

तस्यायं दशमः कृतौ स्थितिम् अगाद् वर्गो नृसिंहेशितुः सूरीन्दोः करवीरकादिर् अभिधासम्भारचूडामणौ ॥ (२०७।२)

tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau ||

Data courtesy of The Digital Corpus of Sanskrit.

RājNigh, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit