स्कन्दपुराणSkandapurāṇa

SkPur, 23

23 of 24 · 141 verses

Select a line for its word-by-word analysis.

1.1१.१

सनत्कुमार उवाच । (१।१)

sanatkumāra uvāca

1.2१.२

ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः । (१।२)

te gaṇeśā mahāsattvāḥ sarve deveśvareśvarāḥ |

1.3१.३

प्रणम्य देवं देवीं च इदं वचनमब्रुवन् ॥ (१।३)

praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan ||

2.1२.१

भगवन्देवतारिघ्न देवदेवाम्बिकापते । (२।१)

bhagavandevatārighna devadevāmbikāpate |

2.2२.२

किमर्थं वयमाहूता आज्ञापय कृतं हि तत् ॥ (२।२)

kimarthaṃ vayamāhūtā ājñāpaya kṛtaṃ hi tat ||

3.1३.१

किं सागराञ्छोषयामो यमं वा सह किंकरैः । (३।१)

kiṃ sāgarāñchoṣayāmo yamaṃ vā saha kiṃkaraiḥ |

3.2३.२

हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः ॥ (३।२)

hanmo mṛtyumutāmṛtyurna bhavatvadya padmajaḥ ||

4.1४.१

बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना । (४।१)

baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā |

4.2४.२

आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः ॥ (४।२)

ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ ||

5.1५.१

कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया । (५।१)

kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā |

5.2५.२

कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत् ॥ (५।२)

kasya vādyotsavaṃ deva sarvakāmasamṛddhimat ||

6.1६.१

तांस् तथावादिनः सर्वान्नमतो भक्तवत्सलः । (६।१)

tāṃs tathāvādinaḥ sarvānnamato bhaktavatsalaḥ |

6.2६.२

उवाच देवः सम्पूज्य गणान्गणपतिर्भवः ॥ (६।२)

uvāca devaḥ sampūjya gaṇāngaṇapatirbhavaḥ ||

7.1७.१

देव उवाच । (७।१)

deva uvāca

7.2७.२

शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः । (७।२)

śṛṇudhvaṃ yatkṛte yūyamihāhūtā jagaddhitāḥ |

7.3७.३

श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः ॥ (७।३)

śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ ||

8.1८.१

नन्दीश्वरो ऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः । (८।१)

nandīśvaro 'yaṃ putro naḥ sarveṣāmīśvareśvaraḥ |

8.2८.२

प्रियो ऽग्रनायकश्चैव सेनानीर् वः समाहितः ॥ (८।२)

priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ ||

9.1९.१

तमिमं मम संदेशाद्यूयं सर्वे ऽभिसंमताः । (९।१)

tamimaṃ mama saṃdeśādyūyaṃ sarve 'bhisaṃmatāḥ |

9.2९.२

सेनान्यम् अभिषिञ्चध्वं महायोगपतिं पतिम् ॥ (९।२)

senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim ||

10.1१०.१

अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः । (१०।१)

adyaprabhṛti yuṣmākamayaṃ nandīśvaraḥ śubhaḥ |

10.2१०.२

प्रियो गौरवयुक्तश्च सेनानीर् अमरः प्रभुः ॥ (१०।२)

priyo gauravayuktaśca senānīr amaraḥ prabhuḥ ||

11.1११.१

सनत्कुमार उवाच । (११।१)

sanatkumāra uvāca

11.2११.२

एवमुक्ते भगवता गणपाः सर्व एव ते । (११।२)

evamukte bhagavatā gaṇapāḥ sarva eva te |

11.3११.३

एवमस्त्विति संमन्त्र्य सम्भारानाहरंस्ततः ॥ (११।३)

evamastviti saṃmantrya sambhārānāharaṃstataḥ ||

12.1१२.१

तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् । (१२।१)

tasya rūpāśrayaṃ divyaṃ jāmbūnadamayaṃ śubham |

12.2१२.२

आसनं मेरुसंकाशं मनोरममथाहरन् ॥ (१२।२)

āsanaṃ merusaṃkāśaṃ manoramamathāharan ||

13.1१३.१

शातकुम्भमयं चापि चारुचामीकरप्रभम् । (१३।१)

śātakumbhamayaṃ cāpi cārucāmīkaraprabham |

13.2१३.२

मुक्तादामावलम्बं च मणिरत्नावभासितम् ॥ (१३।२)

muktādāmāvalambaṃ ca maṇiratnāvabhāsitam ||

14.1१४.१

स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् । (१४।१)

stambhaiśca vaiḍūryamayaiḥ kiṅkiṇījālasaṃvṛtam |

14.2१४.२

चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् । (१४।२)

cāruratnakasaṃyuktaṃ maṇḍapaṃ viśvatomukham |

14.3१४.३

कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम् ॥ (१४।३)

kṛtvā cakruśca tanmadhye tadāsanavaraṃ śubham ||

15.1१५.१

तस्याग्रतः पादपीठं नीलं वज्रावभासितम् । (१५।१)

tasyāgrataḥ pādapīṭhaṃ nīlaṃ vajrāvabhāsitam |

15.2१५.२

चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ । (१५।२)

cakruḥ pādapratiṣṭhārthaṃ kalaśau cāsya pārśvagau |

15.3१५.३

सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ ॥ (१५।३)

sampūrṇau paramāmbhobhiraravindāvṛtānanau ||

16.1१६.१

अग्रतो ऽग्निं समाधाय वृषभं चापि पार्श्वतः । (१६।१)

agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ |

16.2१६.२

सवत्सां सुरभिं चापि तस्य पार्श्वे ऽथ दक्षिणे ॥ (१६।२)

savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe ||

17.1१७.१

छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् । (१७।१)

chattraṃ śataśalākaṃ ca jāmbūnadamayaṃ śubham |

17.2१७.२

शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम् ॥ (१७।२)

śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam ||

18.1१८.१

व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् । (१८।१)

vyajanaṃ candraśubhraṃ ca hemadaṇḍaṃ sucārumat |

18.2१८.२

मालां कुशेशयानां च भ्रमरावलिसेविताम् ॥ (१८।२)

mālāṃ kuśeśayānāṃ ca bhramarāvalisevitām ||

19.1१९.१

आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् । (१९।१)

āninyustatra gaṇapā nandyāvartāṃśca kāñcanān |

19.2१९.२

पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ ॥ (१९।२)

punarvasuṃ ca puṣyaṃ ca dvau matsyau varuṇālayau ||

20.1२०.१

स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् । (२०।१)

svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam |

20.2२०.२

कीचका वेणवश्चैव कन्या चैवाभिपूजिता ॥ (२०।२)

kīcakā veṇavaścaiva kanyā caivābhipūjitā ||

21.1२१.१

ऐरावतं सुप्रतीकं गजाव् एतौ च पूजितौ । (२१।१)

airāvataṃ supratīkaṃ gajāv etau ca pūjitau |

21.2२१.२

ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम् ॥ (२१।२)

dhvajaṃ ca pūjitaṃ divyaṃ śaṅkhaṃ caivenduvarcasam ||

22.1२२.१

कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् । (२२।१)

kalaśānāṃ sahasraṃ ca kāñcanānāṃ suvarcasām |

22.2२२.२

राजतानां सहस्रं च पार्थिवानां तथैव च ॥ (२२।२)

rājatānāṃ sahasraṃ ca pārthivānāṃ tathaiva ca ||

23.1२३.१

ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् । (२३।१)

tāmrāṇāmatha divyānāṃ sahasramanalatviṣām |

23.2२३.२

वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च ॥ (२३।२)

vāsoyugaṃ vṛkṣajaṃ ca virajaḥ sūkṣmameva ca ||

24.1२४.१

मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा । (२४।१)

mukuṭaṃ kāñcanaṃ caiva sukṛtaṃ viśvakarmaṇā |

24.2२४.२

कुण्डले चामले दिव्ये वज्रं चैव वरायुधम् ॥ (२४।२)

kuṇḍale cāmale divye vajraṃ caiva varāyudham ||

25.1२५.१

पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च । (२५।१)

paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca |

25.2२५.२

जाम्बूनदमयं सूत्रं केयूरद्वयमेव च ॥ (२५।२)

jāmbūnadamayaṃ sūtraṃ keyūradvayameva ca ||

26.1२६.१

हारं च मणिचित्राङ्गं रोचनारुचकं तथा । (२६।१)

hāraṃ ca maṇicitrāṅgaṃ rocanārucakaṃ tathā |

26.2२६.२

नलभां पारियात्रं च वर्षं कङ्कणिम् एव च ॥ (२६।२)

nalabhāṃ pāriyātraṃ ca varṣaṃ kaṅkaṇim eva ca ||

27.1२७.१

दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च । (२७।१)

darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca |

27.2२७.२

समन्तान्निन्युरव्यग्रा गणपा देवसंमताः ॥ (२७।२)

samantānninyuravyagrā gaṇapā devasaṃmatāḥ ||

28.1२८.१

ततो दिशः समुद्राश्च वरुणः सधनेश्वरः । (२८।१)

tato diśaḥ samudrāśca varuṇaḥ sadhaneśvaraḥ |

28.2२८.२

यमो ऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह ॥ (२८।२)

yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha ||

29.1२९.१

तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा । (२९।१)

tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā |

29.2२९.२

रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः ॥ (२९।२)

rudrā rakṣāṃsi yakṣāśca aśvinau daityadānavāḥ ||

30.1३०.१

गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा । (३०।१)

gandharvāpsarasaścaiva nāradaḥ parvatastathā |

30.2३०.२

पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा ॥ (३०।२)

pṛthivī ca samudrāśca varṣāṇi girayastathā ||

31.1३१.१

वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः । (३१।१)

vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ |

31.2३१.२

नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः ॥ (३१।२)

nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ ||

32.1३२.१

लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च । (३२।१)

lokasya mātaraścaiva pṛthivī svarga eva ca |

32.2३२.२

भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः ॥ (३२।२)

bhūtāni prakṛtiścaiva indriyāṇi ca sarvaśaḥ ||

33.1३३.१

तीर्थानि चैव सर्वाणि दानानि विविधानि च । (३३।१)

tīrthāni caiva sarvāṇi dānāni vividhāni ca |

33.2३३.२

ऋचो यजूंषि सामानि अथर्वाङ्गिरसाव् अपि ॥ (३३।२)

ṛco yajūṃṣi sāmāni atharvāṅgirasāv api ||

34.1३४.१

यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा । (३४।१)

yajñāśca kratavaścaiva iṣṭayo niyamāstathā |

34.2३४.२

छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः । (३४।२)

chandāṃsi caiva sarvāṇi piśācā devayonayaḥ |

34.3३४.३

ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा ॥ (३४।३)

brahmā ca ṛṣayaścaiva viṣṇuḥ sānucarastathā ||

35.1३५.१

तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः । (३५।१)

teṣvāgateṣu sarveṣu bhagavāngovṛṣadhvajaḥ |

35.2३५.२

सर्वकार्यविधिं कर्तुमादिदेश पितामहम् ॥ (३५।२)

sarvakāryavidhiṃ kartumādideśa pitāmaham ||

36.1३६.१

एकैकं कलशं तत्र सर्वौषधिसमन्वितम् । (३६।१)

ekaikaṃ kalaśaṃ tatra sarvauṣadhisamanvitam |

36.2३६.२

कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम् ॥ (३६।२)

kṛtvādbhiḥ pūrayitvā ca kuśeśayamukhāvṛtam ||

37.1३७.१

जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च । (३७।१)

jayāṃ ca vijayāṃ caiva siṃhīṃ vyāghrīṃ tathaiva ca |

37.2३७.२

सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम् ॥ (३७।२)

suvarcalāṃ śaṅkhapuṣpīṃ viṣṇukrāntāṃ punarnavām ||

38.1३८.१

कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि । (३८।१)

kumārīṃ candrakāntāṃ ca mṛtasaṃjīvanīmapi |

38.2३८.२

आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम् ॥ (३८।२)

ādityavarcasaṃ caiva amṛtāṃ śrīniketanām ||

39.1३९.१

तथा कुमुद्वतीं चैव प्राक्षिपंस् तेष्वथौषधीः । (३९।१)

tathā kumudvatīṃ caiva prākṣipaṃs teṣvathauṣadhīḥ |

39.2३९.२

पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः ॥ (३९।२)

pārthiveṣu tadā vyāsa sarveṣveva gaṇeśvarāḥ ||

40.1४०.१

सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च । (४०।१)

sauvarṇeṣu tu sarveṣu tīrthāni vividhāni ca |

40.2४०.२

दानानि चैव सर्वाणि भगवान्संन्यवेशयत् ॥ (४०।२)

dānāni caiva sarvāṇi bhagavānsaṃnyaveśayat ||

41.1४१.१

राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह । (४१।१)

rājateṣu ca kumbheṣu mantrāṃśchandāṃsi caiva ha |

41.2४१.२

क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥ (४१।२)

kratūnanyāṃśca vividhā iṣṭīḥ kāmyāṃstathetarān ||

42.1४२.१

औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा । (४२।१)

audumbareṣu sarveṣu saritaḥ sāgarāṃstathā |

42.2४२.२

तपांसि नियमांश्चैव भगवानभ्यविन्यसत् ॥ (४२।२)

tapāṃsi niyamāṃścaiva bhagavānabhyavinyasat ||

43.1४३.१

एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च । (४३।१)

ekaikaṃ kalaśaṃ tatra abhipūryābhimantrya ca |

43.2४३.२

वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः ॥ (४३।२)

veṣṭayitvā ca sūtreṇa devebhyaḥ pradadau vibhuḥ ||

44.1४४.१

स जग्राह तदा ब्रह्मा एकं कलशमात्मना । (४४।१)

sa jagrāha tadā brahmā ekaṃ kalaśamātmanā |

44.2४४.२

विष्णवे च ददाव् एकमेकमिन्द्राय धीमते । (४४।२)

viṣṇave ca dadāv ekamekamindrāya dhīmate |

44.3४४.३

गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः ॥ (४४।३)

gaṇapebhyastathā cānyānṛṣibhyaśca pitāmahaḥ ||

45.1४५.१

ततस्तमासने तस्मिन्नुपवेश्य महामनाः । (४५।१)

tatastamāsane tasminnupaveśya mahāmanāḥ |

45.2४५.२

अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत ॥ (४५।२)

arcayitvā tato brahmā svayamevābhyaṣiñcata ||

46.1४६.१

ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः । (४६।१)

tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ |

46.2४६.२

गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम् ॥ (४६।२)

gaṇādhipāśca sarve te abhyaṣiñcanta nandinam ||

47.1४७.१

वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च । (४७।१)

vāsoyugaṃ ca taddivyaṃ gandhāndivyāṃstathaiva ca |

47.2४७.२

केयूरे कुण्डले चैव मुकुटं हारमेव च । (४७।२)

keyūre kuṇḍale caiva mukuṭaṃ hārameva ca |

47.3४७.३

पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम् ॥ (४७।३)

paṭṭisaṃ śūlavajre ca aśanīṃ ca dadau svayam ||

48.1४८.१

छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च । (४८।१)

chattraṃ jagrāha devendro vāyurvyajanameva ca |

48.2४८.२

ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥ (४८।२)

ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ ||

49.1४९.१

विष्णुरुवाच । (४९।१)

viṣṇuruvāca |

49.2४९.२

नमः कुष्माण्डराजाय वज्रोद्यतकराय च । (४९।२)

namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca |

49.3४९.३

शालङ्कायनपौत्राय हलमार्गोत्थिताय च ॥ (४९।३)

śālaṅkāyanapautrāya halamārgotthitāya ca ||

50.1५०.१

शिलादस्य च पुत्राय रुद्रजप्यकराय च । (५०।१)

śilādasya ca putrāya rudrajapyakarāya ca |

50.2५०.२

रुद्रभक्ताय देवाय नमो ऽन्तर्जलशायिने ॥ (५०।२)

rudrabhaktāya devāya namo 'ntarjalaśāyine ||

51.1५१.१

गणानां पतये चैव भूतानां पतये नमः । (५१।१)

gaṇānāṃ pataye caiva bhūtānāṃ pataye namaḥ |

51.2५१.२

उमापुत्राय देवाय पट्टिसायुधधारिणे ॥ (५१।२)

umāputrāya devāya paṭṭisāyudhadhāriṇe ||

52.1५२.१

नमो दंष्ट्राकरालाय ललाटनयनाय च । (५२।१)

namo daṃṣṭrākarālāya lalāṭanayanāya ca |

52.2५२.२

प्रमथाय वरेण्याय ईशानायार्पिताय च ॥ (५२।२)

pramathāya vareṇyāya īśānāyārpitāya ca ||

53.1५३.१

द्वाराध्यक्षाय शूराय सुयशापतये नमः । (५३।१)

dvārādhyakṣāya śūrāya suyaśāpataye namaḥ |

53.2५३.२

नमः प्रवरमालाय क्षीरोदनिलयाय च ॥ (५३।२)

namaḥ pravaramālāya kṣīrodanilayāya ca ||

54.1५४.१

महागणाधिपतये महायोगेश्वराय च । (५४।१)

mahāgaṇādhipataye mahāyogeśvarāya ca |

54.2५४.२

दिण्डिमुण्डाय चण्डाय एकाक्षररताय च ॥ (५४।२)

diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca ||

55.1५५.१

अक्षयायामृतायैव अजरायामराय च । (५५।१)

akṣayāyāmṛtāyaiva ajarāyāmarāya ca |

55.2५५.२

पशूनां पतये चैव जेत्रे मृत्योस्तथैव च ॥ (५५।२)

paśūnāṃ pataye caiva jetre mṛtyostathaiva ca ||

56.1५६.१

नमः पवनवेगाय सर्वज्ञायाजिताय च । (५६।१)

namaḥ pavanavegāya sarvajñāyājitāya ca |

56.2५६.२

अनेकशिरसे चैव अनेकचरणाय च ॥ (५६।२)

anekaśirase caiva anekacaraṇāya ca ||

57.1५७.१

किरीटिने कुण्डलिने महापरिघबाहवे । (५७।१)

kirīṭine kuṇḍaline mahāparighabāhave |

57.2५७.२

सर्वान्देवान्गणांश्चैव पाहि देव नमो ऽस्तु ते ॥ (५७।२)

sarvāndevāngaṇāṃścaiva pāhi deva namo 'stu te ||

58.1५८.१

सनत्कुमार उवाच । (५८।१)

sanatkumāra uvāca

58.2५८.२

एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने । (५८।२)

evaṃ stutvā tato devastasmai vyāsa mahātmane |

58.3५८.३

प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह ॥ (५८।३)

prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha ||

59.1५९.१

ततो गणा जयेत्य् ऊचुस् ततो देवास्ततो ऽसुराः । (५९।१)

tato gaṇā jayety ūcus tato devāstato 'surāḥ |

59.2५९.२

ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च ॥ (५९।२)

tataḥ sarvāṇi bhūtāni brahmā śakrastathaiva ca ||

60.1६०.१

ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा । (६०।१)

tataḥ śaṅkhāṃśca bherīṃśca paṭahāḍambarāṃstathā |

60.2६०.२

वंशांश्च पणवांश्चैव कृकवान् गोविषाणिकान् ॥ (६०।२)

vaṃśāṃśca paṇavāṃścaiva kṛkavān goviṣāṇikān ||

61.1६१.१

डिण्डिमान् वेणुकांश्चैव मर्दलांश्चैव सर्वशः । (६१।१)

ḍiṇḍimān veṇukāṃścaiva mardalāṃścaiva sarvaśaḥ |

61.2६१.२

अवादयन्त गणपा हर्षयन्तो मुदा युताः ॥ (६१।२)

avādayanta gaṇapā harṣayanto mudā yutāḥ ||

62.1६२.१

सनत्कुमार उवाच । (६२।१)

sanatkumāra uvāca

62.2६२.२

नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् । (६२।२)

nandīśvarasya ya imaṃ stavaṃ devābhinirmitam |

62.3६२.३

पठेत सततं मर्त्यः स गच्छेन्मम लोकताम् ॥ (६२।३)

paṭheta satataṃ martyaḥ sa gacchenmama lokatām ||

63.1६३.१

नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् । (६३।१)

namo nandīśvarāyeti kṛtvā yaḥ svapnamācaret |

63.2६३.२

तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित् ॥ (६३।२)

tasya kuṣmāṇḍarājebhyo na bhayaṃ vidyate kvacit ||

64.1६४.१

यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः । (६४।१)

yatrāyaṃ sthāpyate nityaṃ stavaḥ paramapūjitaḥ |

64.2६४.२

न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा ॥ (६४।२)

na bhayaṃ tatra bhavati grahebhyo vyāsa sarvadā ||

65.1६५.१

नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः । (६५।१)

nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ |

65.2६५.२

ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति ॥ (६५।२)

te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti ||

Data courtesy of The Digital Corpus of Sanskrit.

SkPur, 23

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit