1.1१.१अस्वतन्त्रा धर्मे स्त्री ॥ (१।१)
asvatantrā dharme strī ||
2.1२.१नातिचरेद् भर्तारम् ॥ (२।१)
3.1३.१वाच्चक्षुःकर्मसंयता ॥ (३।१)
4.1४.१अपतिर् अपत्यलिप्सुर् देवरात् ॥ (४।१)
apatir apatyalipsur devarāt ||
5.1५.१गुरुप्रसूता नर्तुम् अतीयात् ॥ (५।१)
guruprasūtā nartum atīyāt ||
6.1६.१पिण्डगोत्रर्षिसंबन्धेभ्यो योनिमात्राद् वा ॥ (६।१)
piṇḍagotrarṣisaṃbandhebhyo yonimātrād vā ||
7.1७.१नादेवराद् इत्येके ॥ (७।१)
14.1१४.१रक्षणात् तु भर्तुर् एव ॥ (१४।१)
rakṣaṇāt tu bhartur eva ||
16.1१६.१प्रव्रजिते तु निवृत्तिः प्रसङ्गात् ॥ (१६।१)
pravrajite tu nivṛttiḥ prasaṅgāt ||
17.1१७.१द्वादश वर्षाणि ब्राह्मणस्य विद्यासंबन्धे ॥ (१७।१)
dvādaśa varṣāṇi brāhmaṇasya vidyāsaṃbandhe ||
18.1१८.१भ्रातरि चैवम् ज्यायसि यवीयान् कन्याग्न्युपयमेषु ॥ (१८।१)
bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu ||
20.1२०.१त्रीन् कुमार्यृतून् अतीत्य स्वयं युज्येतानिन्दितेनोत्सृज्य पित्र्यान् अलंकारान् ॥ (२०।१)
trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān ||
23.1२३.१प्राग् वाससः प्रतिपत्तेर् इत्येके ॥ (२३।१)
prāg vāsasaḥ pratipatter ityeke ||
24.1२४.१द्रव्यादानं विवाहसिद्ध्यर्थं धर्मतन्त्रसंयोगे च शूद्रात् ॥ (२४।१)
dravyādānaṃ vivāhasiddhyarthaṃ dharmatantrasaṃyoge ca śūdrāt ||
25.1२५.१अन्यत्रापि शूद्राद् बहुपशोर् हीनकर्मणः ॥ (२५।१)
anyatrāpi śūdrād bahupaśor hīnakarmaṇaḥ ||
28.1२८.१सप्तमीं चाभुक्त्वानिचयाय ॥ (२८।१)
saptamīṃ cābhuktvānicayāya ||
31.1३१.१तेन हि भर्तव्यः श्रुतशीलसम्पन्नश् चेत् ॥ (३१।१)
tena hi bhartavyaḥ śrutaśīlasampannaś cet ||
32.1३२.१धर्मतन्त्रपीडायाम् तस्याकरणे दोषो दोषः ॥ (३२।१)
dharmatantrapīḍāyām tasyākaraṇe doṣo doṣaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.