बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 10

10 of 28 · 548 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ सम्पादितं तत्र यात्रास्थेन रुमण्वता । (१।१)

atha sampāditaṃ tatra yātrāsthena rumaṇvatā |

1.2१.२

अशित्वोदारम् आहारं यात्रायै गन्तुम् आरभे ॥ (१।२)

aśitvodāram āhāraṃ yātrāyai gantum ārabhe ||

2.1२.१

उक्षवृन्दारकैर् युक्तम् आस्थाय स्यन्दनं सुखम् । (२।१)

ukṣavṛndārakair yuktam āsthāya syandanaṃ sukham |

2.2२.२

हंसैर् इव शशाङ्काभैर् विमानं यादसां पतिः ॥ (२।२)

haṃsair iva śaśāṅkābhair vimānaṃ yādasāṃ patiḥ ||

3.1३.१

अखण्डशशिबिम्बाभं गोमुखश् छत्रम् अग्रहीत् । (३।१)

akhaṇḍaśaśibimbābhaṃ gomukhaś chatram agrahīt |

3.2३.२

मृष्टहाटकदण्डं च चामरं मरुभूतिकः ॥ (३।२)

mṛṣṭahāṭakadaṇḍaṃ ca cāmaraṃ marubhūtikaḥ ||

4.1४.१

रथाग्रावस्थितो रश्मीन् आलम्बत तपन्तकः । (४।१)

rathāgrāvasthito raśmīn ālambata tapantakaḥ |

4.2४.२

आततज्यधनुष्पाणिः पार्श्वं हरिशिखो ऽभवत् ॥ (४।२)

ātatajyadhanuṣpāṇiḥ pārśvaṃ hariśikho 'bhavat ||

5.1५.१

आशितं मृदुघासानां शेषं स्नापितपायितम् । (५।१)

āśitaṃ mṛdughāsānāṃ śeṣaṃ snāpitapāyitam |

5.2५.२

मन्दम् मन्दं च नः सैन्यं स्यन्दनं परितो ऽगमत् ॥ (५।२)

mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat ||

6.1६.१

एवंप्राये च वृत्तान्ते चामरं चलयन् मनाक् । (६।१)

evaṃprāye ca vṛttānte cāmaraṃ calayan manāk |

6.2६.२

दृष्ट्वा हरिशिखं वाक्यम् अवोचन् मरुभूतिकः ॥ (६।२)

dṛṣṭvā hariśikhaṃ vākyam avocan marubhūtikaḥ ||

7.1७.१

चरता मृगयाक्रीडाम् अर्यपुत्रेण पापिकाम् । (७।१)

caratā mṛgayākrīḍām aryaputreṇa pāpikām |

7.2७.२

प्रदाय प्राणिनः प्राणान् धर्मः प्राप्तो महान् इति ॥ (७।२)

pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti ||

8.1८.१

तेनोक्तं किम् इहाश्चर्यम् अनुपासितसाधुना । (८।१)

tenoktaṃ kim ihāścaryam anupāsitasādhunā |

8.2८.२

श्रमव्यायामसारेण भाषितं यत् त्वयेदृशम् ॥ (८।२)

śramavyāyāmasāreṇa bhāṣitaṃ yat tvayedṛśam ||

9.1९.१

भूमिमित्रहिरण्यानां मित्रम् एवातिरिच्यते । (९।१)

bhūmimitrahiraṇyānāṃ mitram evātiricyate |

9.2९.२

तन्मूलत्वाद् इतरयोस् तस्मान् मित्रम् उपार्जितम् ॥ (९।२)

tanmūlatvād itarayos tasmān mitram upārjitam ||

10.1१०.१

तयोः संजल्पतोर् एवम् अहं गोमुखम् अब्रुवम् । (१०।१)

tayoḥ saṃjalpator evam ahaṃ gomukham abruvam |

10.2१०.२

धर्मादीनां प्रधानं यत् तद् आचष्टां भवान् इति ॥ (१०।२)

dharmādīnāṃ pradhānaṃ yat tad ācaṣṭāṃ bhavān iti ||

11.1११.१

तेनोक्तं धर्ममित्रार्था यतः कामप्रयोजनाः । (११।१)

tenoktaṃ dharmamitrārthā yataḥ kāmaprayojanāḥ |

11.2११.२

प्राधान्यं तेन कामस्य कामश् चेच्छासुखात्मकः ॥ (११।२)

prādhānyaṃ tena kāmasya kāmaś cecchāsukhātmakaḥ ||

12.1१२.१

पुलिने हि पदं दृष्ट्वा पूर्वम् इच्छा प्रभोर् अभूत् । (१२।१)

puline hi padaṃ dṛṣṭvā pūrvam icchā prabhor abhūt |

12.2१२.२

येनेदम् इह विन्यस्तं तं पश्येयं कथं न्व् इति ॥ (१२।२)

yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti ||

13.1१३.१

तं च दृष्ट्वार्यपुत्रेण सुखम् आसादितं यतः । (१३।१)

taṃ ca dṛṣṭvāryaputreṇa sukham āsāditaṃ yataḥ |

13.2१३.२

तन् न मित्रं न धर्मार्थौ किं तु कामो ऽयम् अर्जितः ॥ (१३।२)

tan na mitraṃ na dharmārthau kiṃ tu kāmo 'yam arjitaḥ ||

14.1१४.१

अन्यो ऽप्य् अस्ति महाकामः स युष्माकं न गोचरः । (१४।१)

anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ |

14.2१४.२

यूयं हि सर्वकामिभ्यो बाह्या दारुमनुष्यकाः ॥ (१४।२)

yūyaṃ hi sarvakāmibhyo bāhyā dārumanuṣyakāḥ ||

15.1१५.१

निर्दिष्टाः कामशास्त्रज्ञैः पुरुषास् तु चतुर्विधाः । (१५।१)

nirdiṣṭāḥ kāmaśāstrajñaiḥ puruṣās tu caturvidhāḥ |

15.2१५.२

उत्तमा मध्यमा हीनाश् चतुर्थास् तु नकेचन ॥ (१५।२)

uttamā madhyamā hīnāś caturthās tu nakecana ||

16.1१६.१

उत्तमो गोमुखस् तेषाम् अर्यपुत्रस् तु मध्यमः । (१६।१)

uttamo gomukhas teṣām aryaputras tu madhyamaḥ |

16.2१६.२

अधमान् कथयिष्यामि भवन्तस् तु नकेचन ॥ (१६।२)

adhamān kathayiṣyāmi bhavantas tu nakecana ||

17.1१७.१

ततः क्रोधाद् विहस्येदम् अवोचन् मरुभूतिकः । (१७।१)

tataḥ krodhād vihasyedam avocan marubhūtikaḥ |

17.2१७.२

अहो नागरकत्वं ते निष्पन्नम् अनुजीविनः ॥ (१७।२)

aho nāgarakatvaṃ te niṣpannam anujīvinaḥ ||

18.1१८.१

अपि बालबलीवर्द सत्यम् एवासि गोमुखः । (१८।१)

api bālabalīvarda satyam evāsi gomukhaḥ |

18.2१८.२

को नाम मानुषमुखः सन्न् अशुद्धम् उदाहरेत् ॥ (१८।२)

ko nāma mānuṣamukhaḥ sann aśuddham udāharet ||

19.1१९.१

उत्तमो गोमुखस् तेषाम् अर्यपुत्रस् तु मध्यमः । (१९।१)

uttamo gomukhas teṣām aryaputras tu madhyamaḥ |

19.2१९.२

प्रभोर् अधिकम् आत्मानम् इत्थं कः कथयेद् इति ॥ (१९।२)

prabhor adhikam ātmānam itthaṃ kaḥ kathayed iti ||

20.1२०.१

तेनोक्तं दृढमूढो ऽसि न किंचिद् अपि बुध्यसे । (२०।१)

tenoktaṃ dṛḍhamūḍho 'si na kiṃcid api budhyase |

20.2२०.२

न हि प्रभुत्वमात्रेण भवत्य् उत्तमकामुकः ॥ (२०।२)

na hi prabhutvamātreṇa bhavaty uttamakāmukaḥ ||

21.1२१.१

यः काम्यते च कामी च स प्रधानम् अहं यथा । (२१।१)

yaḥ kāmyate ca kāmī ca sa pradhānam ahaṃ yathā |

21.2२१.२

अकामी काम्यते यस् तु मध्यो ऽसाव् अर्यपुत्रवत् ॥ (२१।२)

akāmī kāmyate yas tu madhyo 'sāv aryaputravat ||

22.1२२.१

यस् तु कामयते कांचिद् अकामां सो ऽधमः स्मृतः । (२२।१)

yas tu kāmayate kāṃcid akāmāṃ so 'dhamaḥ smṛtaḥ |

22.2२२.२

ते नकेचन भण्यन्ते ये न काम्या न कामिनः ॥ (२२।२)

te nakecana bhaṇyante ye na kāmyā na kāminaḥ ||

23.1२३.१

इतीदं लक्षणं येषां तान् विजानीत कामिनः । (२३।१)

itīdaṃ lakṣaṇaṃ yeṣāṃ tān vijānīta kāminaḥ |

23.2२३.२

नकेचन भवन्तस् तु येन निर्लक्षणा इति ॥ (२३।२)

nakecana bhavantas tu yena nirlakṣaṇā iti ||

24.1२४.१

अथ चामरम् उज्झित्वा स्फुटन्न् इव कुतूहलात् । (२४।१)

atha cāmaram ujjhitvā sphuṭann iva kutūhalāt |

24.2२४.२

अपृच्छद् गर्जितमुखं गोमुखं मरुभूतिकः ॥ (२४।२)

apṛcchad garjitamukhaṃ gomukhaṃ marubhūtikaḥ ||

25.1२५.१

योषिन् मधुकरी यासाव् उपभोक्तुं व्यवस्यति । (२५।१)

yoṣin madhukarī yāsāv upabhoktuṃ vyavasyati |

25.2२५.२

स्वामिनो यौवनमधु क्वासौ कथय ताम् इति ॥ (२५।२)

svāmino yauvanamadhu kvāsau kathaya tām iti ||

26.1२६.१

तेनोक्तम् अर्यपुत्राय ब्रवीमि यदि पृच्छति । (२६।१)

tenoktam aryaputrāya bravīmi yadi pṛcchati |

26.2२६.२

न तुभ्यं स्थलमण्डूक न हि भस्मनि हूयते ॥ (२६।२)

na tubhyaṃ sthalamaṇḍūka na hi bhasmani hūyate ||

27.1२७.१

अथ बद्धाञ्जलिः प्रह्वो मावोचन् मरुभूतिकः । (२७।१)

atha baddhāñjaliḥ prahvo māvocan marubhūtikaḥ |

27.2२७.२

पृच्छ्यतां स्थिरगर्वो ऽयं प्रसादः क्रियताम् इति ॥ (२७।२)

pṛcchyatāṃ sthiragarvo 'yaṃ prasādaḥ kriyatām iti ||

28.1२८.१

इच्छतापि तम् आलापं लज्जां भावयता मया । (२८।१)

icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā |

28.2२८.२

अप्रत्याख्यातकथितं कथयेत्य् अनुमोदितम् ॥ (२८।२)

apratyākhyātakathitaṃ kathayety anumoditam ||

29.1२९.१

अथानन्दाश्रुतिमिरे नेत्रे संमृज्य गोमुखः । (२९।१)

athānandāśrutimire netre saṃmṛjya gomukhaḥ |

29.2२९.२

संकास्य शुद्धकण्ठश् च रम्याम् अकथयत् कथाम् ॥ (२९।२)

saṃkāsya śuddhakaṇṭhaś ca ramyām akathayat kathām ||

30.1३०.१

अथाहम् अर्यपुत्रेण यौवराज्ये विभूषिते । (३०।१)

athāham aryaputreṇa yauvarājye vibhūṣite |

30.2३०.२

अभिवादयितुं देव्यौ नरेन्द्रान्तःपुरं गतः ॥ (३०।२)

abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ ||

31.1३१.१

तत्र चित्रं मया दृष्टम् अदृष्टं दिव्यमानुषैः । (३१।१)

tatra citraṃ mayā dṛṣṭam adṛṣṭaṃ divyamānuṣaiḥ |

31.2३१.२

वर्णक्रमविशुद्ध्या यद् राज्यम् अस्येव भूपतेः ॥ (३१।२)

varṇakramaviśuddhyā yad rājyam asyeva bhūpateḥ ||

32.1३२.१

पद्मावत्या च पृष्टो ऽहं किम् अस्मिन् पुत्र गोमुख । (३२।१)

padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha |

32.2३२.२

पश्यसीति ततो देवि त्रयम् इत्य् अहम् उक्तवान् ॥ (३२।२)

paśyasīti tato devi trayam ity aham uktavān ||

33.1३३.१

किं पुनस् त्रयम् इत्य् उक्ते देव्यै कथितवान् अहम् । (३३।१)

kiṃ punas trayam ity ukte devyai kathitavān aham |

33.2३३.२

ऋद्धिं वः शिल्पिनां शिल्पं बहुरत्नां च गाम् इति ॥ (३३।२)

ṛddhiṃ vaḥ śilpināṃ śilpaṃ bahuratnāṃ ca gām iti ||

34.1३४.१

अथ देव्या विहस्योक्तं चेतस्यः खलु गोमुखः । (३४।१)

atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ |

34.2३४.२

अचेतस्यो हि पुरुषः कथम् एवं वदेद् इति ॥ (३४।२)

acetasyo hi puruṣaḥ katham evaṃ vaded iti ||

35.1३५.१

आसीच् च मम तच् छ्रुत्वा संदेहाध्यासितं मनः । (३५।१)

āsīc ca mama tac chrutvā saṃdehādhyāsitaṃ manaḥ |

35.2३५.२

चेतस्यः किं नु गुणवान् आहोस्विद् दोषवान् इति ॥ (३५।२)

cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti ||

36.1३६.१

न च पृष्टा मया देवी ससंदेहे ऽपि चेतसि । (३६।१)

na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi |

36.2३६.२

मा स्म बुध्यत सा बालम् अचेतस्यं च माम् इति ॥ (३६।२)

mā sma budhyata sā bālam acetasyaṃ ca mām iti ||

37.1३७.१

अपृष्टः को नु कथयेच् चेतस्यम् इति चिन्तयन् । (३७।१)

apṛṣṭaḥ ko nu kathayec cetasyam iti cintayan |

37.2३७.२

संचरन् मन्दिरं अहं निर्गतो राजवेश्मनः ॥ (३७।२)

saṃcaran mandiraṃ ahaṃ nirgato rājaveśmanaḥ ||

38.1३८.१

पश्यामि स्म रथं युक्तं चित्रचामरमण्डनैः । (३८।१)

paśyāmi sma rathaṃ yuktaṃ citracāmaramaṇḍanaiḥ |

38.2३८.२

निरन्तरखुरन्यासैः पारसीकैस् तुरंगमैः ॥ (३८।२)

nirantarakhuranyāsaiḥ pārasīkais turaṃgamaiḥ ||

39.1३९.१

रथस्य प्राजिता तस्य पुरुषो मां विनीतवत् । (३९।१)

rathasya prājitā tasya puruṣo māṃ vinītavat |

39.2३९.२

प्रतोदगर्भम् आधाय मूर्धन्य् अञ्जलिम् अब्रवीत् ॥ (३९।२)

pratodagarbham ādhāya mūrdhany añjalim abravīt ||

40.1४०.१

भर्तृदारक विज्ञाप्यम् अस्मिन् राजकुले वयम् । (४०।१)

bhartṛdāraka vijñāpyam asmin rājakule vayam |

40.2४०.२

कुलक्रमागता भृत्या रथवाहनजीविनः ॥ (४०।२)

kulakramāgatā bhṛtyā rathavāhanajīvinaḥ ||

41.1४१.१

सो ऽहम् आज्ञापितो राज्ञा यथैते पृष्ठवाहिनः । (४१।१)

so 'ham ājñāpito rājñā yathaite pṛṣṭhavāhinaḥ |

41.2४१.२

अचिराद् भवता रथ्याः क्रियन्तां तुरगा इति ॥ (४१।२)

acirād bhavatā rathyāḥ kriyantāṃ turagā iti ||

42.1४२.१

मया चैते यथाशक्ति स्कन्धदान्तास् त्वरावता । (४२।१)

mayā caite yathāśakti skandhadāntās tvarāvatā |

42.2४२.२

न तु संभावयाम्य् एतान् कुशलैर् अपरीक्षितान् ॥ (४२।२)

na tu saṃbhāvayāmy etān kuśalair aparīkṣitān ||

43.1४३.१

तद् एवं रथम् आरुह्य परीक्ष्यन्ताम् अमी त्वया । (४३।१)

tad evaṃ ratham āruhya parīkṣyantām amī tvayā |

43.2४३.२

पदवाक्यप्रमाणार्थचतुरेण आगमा इव ॥ (४३।२)

padavākyapramāṇārthacatureṇa āgamā iva ||

44.1४४.१

इदमादि ततः श्रुत्वा क्षणम् आनमिताननः । (४४।१)

idamādi tataḥ śrutvā kṣaṇam ānamitānanaḥ |

44.2४४.२

उपचारो भवेद् एष सत्यम् एवेत्य् अचिन्तयम् ॥ (४४।२)

upacāro bhaved eṣa satyam evety acintayam ||

45.1४५.१

लम्बकर्णम् अथापश्यं विनीतं लम्बशाटकम् । (४५।१)

lambakarṇam athāpaśyaṃ vinītaṃ lambaśāṭakam |

45.2४५.२

कायस्थं समषीपात्रं लेखनीकर्णपूरकम् ॥ (४५।२)

kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam ||

46.1४६.१

सो ऽब्रवीन् महति क्लेशे पातिताः प्रभुणा वयम् । (४६।१)

so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam |

46.2४६.२

सर्वथा धिग् इमां क्षुद्रां श्ववृत्तिम् अनुजीविनः ॥ (४६।२)

sarvathā dhig imāṃ kṣudrāṃ śvavṛttim anujīvinaḥ ||

47.1४७.१

पृथिव्यां सन्ति यावन्तश् चेतस्याः पुरुषोत्तमाः । (४७।१)

pṛthivyāṃ santi yāvantaś cetasyāḥ puruṣottamāḥ |

47.2४७.२

अचेतस्याश् च कर्तव्यं तेषां लेख्यं मया किल ॥ (४७।२)

acetasyāś ca kartavyaṃ teṣāṃ lekhyaṃ mayā kila ||

48.1४८.१

न चैकम् अपि पश्यामि युक्तं चेतस्यलक्षणैः । (४८।१)

na caikam api paśyāmi yuktaṃ cetasyalakṣaṇaiḥ |

48.2४८.२

अचेतस्यास् तु सकलां क्षोभयन्ति महीम् इति ॥ (४८।२)

acetasyās tu sakalāṃ kṣobhayanti mahīm iti ||

49.1४९.१

पुस्तकद्वयहस्तेन तत्र चैकेन भाषितम् । (४९।१)

pustakadvayahastena tatra caikena bhāṣitam |

49.2४९.२

प्रसारिताङ्गुलीकेन माम् उद्दिश्य सकौतुकम् ॥ (४९।२)

prasāritāṅgulīkena mām uddiśya sakautukam ||

50.1५०.१

आगत्यार्याकृतिम् अमुं निर्दाक्षिण्यं न पश्यसि । (५०।१)

āgatyāryākṛtim amuṃ nirdākṣiṇyaṃ na paśyasi |

50.2५०.२

आजीवार्थचिकित्साकं चिकित्सकम् इवाधनम् ॥ (५०।२)

ājīvārthacikitsākaṃ cikitsakam ivādhanam ||

51.1५१.१

अयं तावद् अचेतस्यपुस्तकादौ निवेश्यताम् । (५१।१)

ayaṃ tāvad acetasyapustakādau niveśyatām |

51.2५१.२

य एवम् अनुनीतो ऽपि रथं नारोढुम् इच्छति ॥ (५१।२)

ya evam anunīto 'pi rathaṃ nāroḍhum icchati ||

52.1५२.१

अप्रार्थितो ऽपि यः कश्चिद् आरोहति स लिख्यताम् । (५२।१)

aprārthito 'pi yaḥ kaścid ārohati sa likhyatām |

52.2५२.२

चेतस्यपुस्तकस्यादौ नमस्काराद् अनन्तरम् ॥ (५२।२)

cetasyapustakasyādau namaskārād anantaram ||

53.1५३.१

ततश् चेतस्यतालोभाद् दूरम् उत्प्लुत्य सत्वरः । (५३।१)

tataś cetasyatālobhād dūram utplutya satvaraḥ |

53.2५३.२

मा स्मान्यः कश्चिद् आरोहद् इत्य् आरोहम् अहं रथं ॥ (५३।२)

mā smānyaḥ kaścid ārohad ity āroham ahaṃ rathaṃ ||

54.1५४.१

तेन वेगवता गच्छन्न् अपश्यं गजम् अग्रतः । (५४।१)

tena vegavatā gacchann apaśyaṃ gajam agrataḥ |

54.2५४.२

सुखायमानं मधुरैर् आलापैः परिकर्मिणाम् ॥ (५४।२)

sukhāyamānaṃ madhurair ālāpaiḥ parikarmiṇām ||

55.1५५.१

हस्त्यारोहं रथारोहो विधार्य रथम् उक्तवान् । (५५।१)

hastyārohaṃ rathāroho vidhārya ratham uktavān |

55.2५५.२

अन्यतो नय मातङ्गं मा चेतस्यरथं रुधः ॥ (५५।२)

anyato naya mātaṅgaṃ mā cetasyarathaṃ rudhaḥ ||

56.1५६.१

तेनोक्तम् अन्यतो यातु चेतस्याध्यासितो रथः । (५६।१)

tenoktam anyato yātu cetasyādhyāsito rathaḥ |

56.2५६.२

विहन्तुम् अहम् एतस्य नेच्छाम् इच्छामि दन्तिनः ॥ (५६।२)

vihantum aham etasya necchām icchāmi dantinaḥ ||

57.1५७.१

अप्रवृत्तमदस्यास्य मदः सान्त्वैः प्रवर्तते । (५७।१)

apravṛttamadasyāsya madaḥ sāntvaiḥ pravartate |

57.2५७.२

इच्छायाश् चाविघातेन तेन नः क्षम्यताम् इति ॥ (५७।२)

icchāyāś cāvighātena tena naḥ kṣamyatām iti ||

58.1५८.१

अवोचम् अथ यन्तारं न नाम यदि नेच्छति । (५८।१)

avocam atha yantāraṃ na nāma yadi necchati |

58.2५८.२

आधोरणः पथान्येन रथः प्रस्थाप्यताम् इति ॥ (५८।२)

ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti ||

59.1५९.१

एवं नामेति चोक्त्वा सः परिवर्तितवान् रथम् । (५९।१)

evaṃ nāmeti coktvā saḥ parivartitavān ratham |

59.2५९.२

चेतस्यावासमध्येन त्वां नयामीति चोक्तवान् ॥ (५९।२)

cetasyāvāsamadhyena tvāṃ nayāmīti coktavān ||

60.1६०.१

आसीच् च मम दीर्घायुर् अयं भवतु कुञ्जरः । (६०।१)

āsīc ca mama dīrghāyur ayaṃ bhavatu kuñjaraḥ |

60.2६०.२

रुन्धता येन मे मार्गं चेतस्या दर्शिता इति ॥ (६०।२)

rundhatā yena me mārgaṃ cetasyā darśitā iti ||

61.1६१.१

पश्यामि स्म च विस्तीर्णशिलातलधरातलम् । (६१।१)

paśyāmi sma ca vistīrṇaśilātaladharātalam |

61.2६१.२

माल्यभूषणधूपादिप्रायपण्यं वणिक्पथम् ॥ (६१।२)

mālyabhūṣaṇadhūpādiprāyapaṇyaṃ vaṇikpatham ||

62.1६२.१

तम् अतिक्रम्य रम्याग्रा हर्म्यमालाः सनिष्कुटाः । (६२।१)

tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ |

62.2६२.२

सशरीरा इव न्यस्ता वास्तुविद्याकृतां धियः ॥ (६२।२)

saśarīrā iva nyastā vāstuvidyākṛtāṃ dhiyaḥ ||

63.1६३.१

उत्कटाकारचरिताः समदाः प्रमदाः क्वचित् । (६३।१)

utkaṭākāracaritāḥ samadāḥ pramadāḥ kvacit |

63.2६३.२

तादृशान् एव पुरुषान् सेवमानाः पराङ्मुखान् ॥ (६३।२)

tādṛśān eva puruṣān sevamānāḥ parāṅmukhān ||

64.1६४.१

पृष्ठतो ऽनुनयन्तं च युवानं युवतिं क्वचित् । (६४।१)

pṛṣṭhato 'nunayantaṃ ca yuvānaṃ yuvatiṃ kvacit |

64.2६४.२

तया निर्भर्त्स्यमानं च वाक्यैर् मधुरदारुणैः ॥ (६४।२)

tayā nirbhartsyamānaṃ ca vākyair madhuradāruṇaiḥ ||

65.1६५.१

अयि बल्लवकापेहि किं मा छुपसि दुर्भगाम् । (६५।१)

ayi ballavakāpehi kiṃ mā chupasi durbhagām |

65.2६५.२

बहुबल्लवकच्छुप्तां छुपबल्लविकाम् इति ॥ (६५।२)

bahuballavakacchuptāṃ chupaballavikām iti ||

66.1६६.१

चलयन्तीं क्वचित् कांचिद् विपञ्चीम् अञ्चिताङ्गुलिम् । (६६।१)

calayantīṃ kvacit kāṃcid vipañcīm añcitāṅgulim |

66.2६६.२

कांचित् कोणपरामर्शशिञ्जानपरिवादिनीम् ॥ (६६।२)

kāṃcit koṇaparāmarśaśiñjānaparivādinīm ||

67.1६७.१

इति संचरमाणो ऽहं रथेन मृदुगामिना । (६७।१)

iti saṃcaramāṇo 'haṃ rathena mṛdugāminā |

67.2६७.२

पठन्तीः पट्टिका व्यग्राः पश्यामि स्म कुमारिकाः ॥ (६७।२)

paṭhantīḥ paṭṭikā vyagrāḥ paśyāmi sma kumārikāḥ ||

68.1६८.१

कः पुनः स्याद् अयं ग्रन्थ इति श्रोतुं मयेच्छता । (६८।१)

kaḥ punaḥ syād ayaṃ grantha iti śrotuṃ mayecchatā |

68.2६८.२

दूरात् प्रहितकर्णेन स्फुटम् आकर्णितं यथा ॥ (६८।२)

dūrāt prahitakarṇena sphuṭam ākarṇitaṃ yathā ||

69.1६९.१

समेत्य पूर्वं न स्वप्यात् सुप्तं च न परित्यजेत् । (६९।१)

sametya pūrvaṃ na svapyāt suptaṃ ca na parityajet |

69.2६९.२

प्राणापानौ च यत्नेन समं संधारयेद् इति ॥ (६९।२)

prāṇāpānau ca yatnena samaṃ saṃdhārayed iti ||

70.1७०.१

आसीच् च मम का एता विटशास्त्रम् अधीयते । (७०।१)

āsīc ca mama kā etā viṭaśāstram adhīyate |

70.2७०.२

मन्ये सारथिनोपायैर् अहं वेशं प्रवेशितः ॥ (७०।२)

manye sārathinopāyair ahaṃ veśaṃ praveśitaḥ ||

71.1७१.१

कामदेवालयं चान्यः कुर्वन् को ऽपि प्रदक्षिणम् । (७१।१)

kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam |

71.2७१.२

अभाषत कृतार्थो ऽहं निद्रां प्राप्स्यामि संप्रति ॥ (७१।२)

abhāṣata kṛtārtho 'haṃ nidrāṃ prāpsyāmi saṃprati ||

72.1७२.१

यो ऽसौ विनयगर्वेण दुःखम् आस्ते स गोमुखः । (७२।१)

yo 'sau vinayagarveṇa duḥkham āste sa gomukhaḥ |

72.2७२.२

अवन्ध्यं यौवनं कर्तुम् एष वेशं विगाहते ॥ (७२।२)

avandhyaṃ yauvanaṃ kartum eṣa veśaṃ vigāhate ||

73.1७३.१

अवोचम् अथ यन्तारम् अशोभनम् अनुष्ठितम् । (७३।१)

avocam atha yantāram aśobhanam anuṣṭhitam |

73.2७३.२

अधुना तु रथः क्षिप्रं प्रतीपं नीयताम् इति ॥ (७३।२)

adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti ||

74.1७४.१

तेनोक्तं मा त्रसीर् वेशान् नेदं मातङ्गपक्षणम् । (७४।१)

tenoktaṃ mā trasīr veśān nedaṃ mātaṅgapakṣaṇam |

74.2७४.२

न च दर्शनमात्रेण कश्चिद् भवति दोषवान् ॥ (७४।२)

na ca darśanamātreṇa kaścid bhavati doṣavān ||

75.1७५.१

अतीतश् च महान् अध्वा शिष्यते स्तोकम् अन्तरम् । (७५।१)

atītaś ca mahān adhvā śiṣyate stokam antaram |

75.2७५.२

रथः किं पृष्ठतो यातु किं पुरः प्रेर्यताम् इति ॥ (७५।२)

rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti ||

76.1७६.१

मया तु पुर इत्य् उक्ते त्वरितः सारथी रथम् । (७६।१)

mayā tu pura ity ukte tvaritaḥ sārathī ratham |

76.2७६.२

प्रैरयत् तत्र चापश्यं मन्दिरं मन्दरोन्नतम् ॥ (७६।२)

prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam ||

77.1७७.१

राजावरोधनाकारं द्वाःस्थाध्यासिततोरणम् । (७७।१)

rājāvarodhanākāraṃ dvāḥsthādhyāsitatoraṇam |

77.2७७.२

योषिद्वर्षवरप्रायं विनीतजनसंकुलम् ॥ (७७।२)

yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam ||

78.1७८.१

तस्मात् कन्या विनिर्याय हारिहारादिभूषणाः । (७८।१)

tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ |

78.2७८.२

कान्तिबाधितपद्मिन्यः परिवार्य रथं स्थिताः ॥ (७८।२)

kāntibādhitapadminyaḥ parivārya rathaṃ sthitāḥ ||

79.1७९.१

तासाम् एकाब्रवीत् प्रौढा शिरोविरचिताञ्जलिः । (७९।१)

tāsām ekābravīt prauḍhā śiroviracitāñjaliḥ |

79.2७९.२

भर्तृदारक विज्ञाप्यम् आगच्छत किलेति माम् ॥ (७९।२)

bhartṛdāraka vijñāpyam āgacchata kileti mām ||

80.1८०.१

मम त्वासीद् अहो शक्तिर् बत पुण्यस्य कर्मणः । (८०।१)

mama tvāsīd aho śaktir bata puṇyasya karmaṇaḥ |

80.2८०.२

जगतः प्रभुर् अप्य् एषा येन प्रैष्येव भाषते ॥ (८०।२)

jagataḥ prabhur apy eṣā yena praiṣyeva bhāṣate ||

81.1८१.१

अचेतनैर् अलं पुण्यैः किलशब्दः प्रलीयताम् । (८१।१)

acetanair alaṃ puṇyaiḥ kilaśabdaḥ pralīyatām |

81.2८१.२

यैः कृता परतन्त्रेयं लक्ष्मीर् येन च सूचिता ॥ (८१।२)

yaiḥ kṛtā paratantreyaṃ lakṣmīr yena ca sūcitā ||

82.1८२.१

किं तु यानि न यानीति संशयाने क्षणं मयि । (८२।१)

kiṃ tu yāni na yānīti saṃśayāne kṣaṇaṃ mayi |

82.2८२.२

दैन्यम्लानमुखाम्भोजास् ता निरैक्षन्त पृष्ठतः ॥ (८२।२)

dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ ||

83.1८३.१

अनुयाता च तद्दृष्टिं दृष्टम् उद्घाटितं मया । (८३।१)

anuyātā ca taddṛṣṭiṃ dṛṣṭam udghāṭitaṃ mayā |

83.2८३.२

वातायनं कवाटस्थमणिजालांशुभासुरम् ॥ (८३।२)

vātāyanaṃ kavāṭasthamaṇijālāṃśubhāsuram ||

84.1८४.१

तेन शृङ्गारसंचारं तालवृन्तत्रयं चलत् । (८४।१)

tena śṛṅgārasaṃcāraṃ tālavṛntatrayaṃ calat |

84.2८४.२

विभ्रान्तग्राहिणीपाणि करप्रकरपिञ्जरम् ॥ (८४।२)

vibhrāntagrāhiṇīpāṇi karaprakarapiñjaram ||

85.1८५.१

तालवृत्तान्तरालीनं मुखम् उन्नतकण्ठकम् । (८५।१)

tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam |

85.2८५.२

सरस्तरंगरन्ध्रस्थम् उन्नालम् इव पङ्कजम् ॥ (८५।२)

sarastaraṃgarandhrastham unnālam iva paṅkajam ||

86.1८६.१

चञ्चत् प्रदेशिनीकं च पाणिम् उच्चैः प्रसारितम् । (८६।१)

cañcat pradeśinīkaṃ ca pāṇim uccaiḥ prasāritam |

86.2८६.२

सुकुमारमरुत्प्राप्तम् इव विद्रुमपल्लवम् ॥ (८६।२)

sukumāramarutprāptam iva vidrumapallavam ||

87.1८७.१

केयम् आहूयतीत्य् एतद् अविचार्यैव यानतः । (८७।१)

keyam āhūyatīty etad avicāryaiva yānataḥ |

87.2८७.२

भुवम् आगतम् आत्मानम् आशु चेतितवान् अहम् ॥ (८७।२)

bhuvam āgatam ātmānam āśu cetitavān aham ||

88.1८८.१

उक्तः सारथिना चास्मि प्रणयं प्रणयीजनः । (८८।१)

uktaḥ sārathinā cāsmi praṇayaṃ praṇayījanaḥ |

88.2८८.२

करोतु सफलं तेन भर्तृपुत्र प्रविश्यताम् ॥ (८८।२)

karotu saphalaṃ tena bhartṛputra praviśyatām ||

89.1८९.१

यावतीं च भवान् वेलाम् इहास्ते तावतीम् अहम् । (८९।१)

yāvatīṃ ca bhavān velām ihāste tāvatīm aham |

89.2८९.२

धुर्यान् विश्रमयन्न् आसे जाततीव्रश्रमान् इति ॥ (८९।२)

dhuryān viśramayann āse jātatīvraśramān iti ||

90.1९०.१

गणिकाभिस् त्व् अहं ताभिर् आरण्यक इव द्विपः । (९०।१)

gaṇikābhis tv ahaṃ tābhir āraṇyaka iva dvipaḥ |

90.2९०.२

वारीम् इव दृढद्वाराम् आद्यां कक्ष्यां प्रवेशितः ॥ (९०।२)

vārīm iva dṛḍhadvārām ādyāṃ kakṣyāṃ praveśitaḥ ||

91.1९१.१

प्रशस्तैर् अन्वितां तत्र प्रदेशैः पुष्करादिभिः । (९१।१)

praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ |

91.2९१.२

अधीयमानविनयाम् अपश्यं नागकन्यकाम् ॥ (९१।२)

adhīyamānavinayām apaśyaṃ nāgakanyakām ||

92.1९२.१

द्वितीयायां तु कक्ष्यायां शिल्पिकौशलशंसिनी । (९२।१)

dvitīyāyāṃ tu kakṣyāyāṃ śilpikauśalaśaṃsinī |

92.2९२.२

कर्णीरथप्रवहणे शिबिकां च शिवाकृतिम् ॥ (९२।२)

karṇīrathapravahaṇe śibikāṃ ca śivākṛtim ||

93.1९३.१

प्रशस्तलक्षणगणान् रणदाभरणस्रजः । (९३।१)

praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ |

93.2९३.२

नानादेशांस् तृतीयाणां वाजिनः साधुवाहिनः ॥ (९३।२)

nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ ||

94.1९४.१

चतुर्थ्यां विरुवत्केकचकोरशुकशारिकम् । (९४।१)

caturthyāṃ viruvatkekacakoraśukaśārikam |

94.2९४.२

सरावकुक्कुटव्रातं वयःपञ्जरमण्डलम् ॥ (९४।२)

sarāvakukkuṭavrātaṃ vayaḥpañjaramaṇḍalam ||

95.1९५.१

कलाविन्यासकुशलैर् नानाकाराणि शिल्पिभिः । (९५।१)

kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ |

95.2९५.२

सुवर्णतारताम्राणि कल्पितानि ततः परम् ॥ (९५।२)

suvarṇatāratāmrāṇi kalpitāni tataḥ param ||

96.1९६.१

षष्ठ्यां तु योज्यमानानि गन्धशास्त्रविशारदैः । (९६।१)

ṣaṣṭhyāṃ tu yojyamānāni gandhaśāstraviśāradaiḥ |

96.2९६.२

धूपानुलेपनम्लानवासनानि ततस् ततः ॥ (९६।२)

dhūpānulepanamlānavāsanāni tatas tataḥ ||

97.1९७.१

सप्तम्यां रच्यमानानि रङ्गधूपनवासनैः । (९७।१)

saptamyāṃ racyamānāni raṅgadhūpanavāsanaiḥ |

97.2९७.२

वासांसि पट्टकौशेयदुकूलप्रभृतीनि तु ॥ (९७।२)

vāsāṃsi paṭṭakauśeyadukūlaprabhṛtīni tu ||

98.1९८.१

अष्टम्यां मणिमुक्तस्य प्रकीर्णबहलत्विषः । (९८।१)

aṣṭamyāṃ maṇimuktasya prakīrṇabahalatviṣaḥ |

98.2९८.२

संस्कारान् दृष्टवान् अस्मि निशानव्यधनादिकान् ॥ (९८।२)

saṃskārān dṛṣṭavān asmi niśānavyadhanādikān ||

99.1९९.१

अष्टस्व् अपि च कक्ष्यासु महामात्रादयश् चिरम् । (९९।१)

aṣṭasv api ca kakṣyāsu mahāmātrādayaś ciram |

99.2९९.२

स्वकौशलानि शंसन्तो विघ्नन्ति स्म गतिं मम ॥ (९९।२)

svakauśalāni śaṃsanto vighnanti sma gatiṃ mama ||

100.1१००.१

आगत्यागत्य ताः कन्याः कान्तरूपविभूषणाः । (१००।१)

āgatyāgatya tāḥ kanyāḥ kāntarūpavibhūṣaṇāḥ |

100.2१००.२

अब्रुवन् कारणीमूल्याद् भवन्तो मूढबुद्धयः ॥ (१००।२)

abruvan kāraṇīmūlyād bhavanto mūḍhabuddhayaḥ ||

101.1१०१.१

अयं केनापि कार्येण प्रविशन् भर्तृदारकः । (१०१।१)

ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ |

101.2१०१.२

दुर्भगैर् धार्यते कस्मात् स्वशिल्पकथितैर् इति ॥ (१०१।२)

durbhagair dhāryate kasmāt svaśilpakathitair iti ||

102.1१०२.१

हेमकुण्डलधारिण्यः पाण्डराम्बरमूर्धजाः । (१०२।१)

hemakuṇḍaladhāriṇyaḥ pāṇḍarāmbaramūrdhajāḥ |

102.2१०२.२

प्रयुक्तरत्नपुष्पार्घम् अवोचन् माम् अथ स्त्रियः ॥ (१०२।२)

prayuktaratnapuṣpārgham avocan mām atha striyaḥ ||

103.1१०३.१

दीर्घायुषा गृहम् इदं चिन्तामणिसधर्मणा । (१०३।१)

dīrghāyuṣā gṛham idaṃ cintāmaṇisadharmaṇā |

103.2१०३.२

अलंकृतं च गुप्तं च गमितं च पवित्रताम् ॥ (१०३।२)

alaṃkṛtaṃ ca guptaṃ ca gamitaṃ ca pavitratām ||

104.1१०४.१

ततः संगत्य चेतस्यैश् चेतस्यग्रामणीर् भव । (१०४।१)

tataḥ saṃgatya cetasyaiś cetasyagrāmaṇīr bhava |

104.2१०४.२

गुणिसङ्गनिमित्ता हि गुणा गुणवताम् इति ॥ (१०४।२)

guṇisaṅganimittā hi guṇā guṇavatām iti ||

105.1१०५.१

सूर्यकान्तशिलाकान्तिनिरस्ततिमिरां ततः । (१०५।१)

sūryakāntaśilākāntinirastatimirāṃ tataḥ |

105.2१०५.२

कन्यायूथपरीवारः प्राप्तः सोपानपद्धतिम् ॥ (१०५।२)

kanyāyūthaparīvāraḥ prāptaḥ sopānapaddhatim ||

106.1१०६.१

तया प्रासादम् आरुह्य वाक्प्रस्पन्दितवर्जिते । (१०६।१)

tayā prāsādam āruhya vākpraspanditavarjite |

106.2१०६.२

प्रसुप्त इव संसारे चित्रे दृष्टिं न्यवेशयम् ॥ (१०६।२)

prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam ||

107.1१०७.१

कलाभिर् अथ चित्राभिर् बुद्धिं सर्वविदाम् इव । (१०७।१)

kalābhir atha citrābhir buddhiṃ sarvavidām iva |

107.2१०७.२

अप्रमेयगुणाकारां कन्यां कन्याभिर् आवृताम् ॥ (१०७।२)

aprameyaguṇākārāṃ kanyāṃ kanyābhir āvṛtām ||

108.1१०८.१

अनुमानोपमाशब्दौ सुदूरे ताव् उपासताम् । (१०८।१)

anumānopamāśabdau sudūre tāv upāsatām |

108.2१०८.२

प्रत्यक्षेणापि तद्रूपं दुर्निरूपं निरूपकैः ॥ (१०८।२)

pratyakṣeṇāpi tadrūpaṃ durnirūpaṃ nirūpakaiḥ ||

109.1१०९.१

चक्षुर् निरीक्ष्य तस्यां हि मूर्छामुषितचेतनः । (१०९।१)

cakṣur nirīkṣya tasyāṃ hi mūrchāmuṣitacetanaḥ |

109.2१०९.२

पाषाणपुरुषाकारः प्रत्यक्षेण किम् ईक्षते ॥ (१०९।२)

pāṣāṇapuruṣākāraḥ pratyakṣeṇa kim īkṣate ||

110.1११०.१

नेश्वरेण च धर्मेण न प्रधानेन नाणुभिः । (११०।१)

neśvareṇa ca dharmeṇa na pradhānena nāṇubhiḥ |

110.2११०.२

न च कालस्वभावाद्यैस् तादृशी सुकराकृतिः ॥ (११०।२)

na ca kālasvabhāvādyais tādṛśī sukarākṛtiḥ ||

111.1१११.१

अलं तद्रूपकथया तद्गुणाख्यानदीर्घया । (१११।१)

alaṃ tadrūpakathayā tadguṇākhyānadīrghayā |

111.2१११.२

करिष्यथ स्वयं तस्या गुणरूपविचारणाम् ॥ (१११।२)

kariṣyatha svayaṃ tasyā guṇarūpavicāraṇām ||

112.1११२.१

तद् अहं तां नमस्कर्तुम् उत्तमाङ्गाहिताञ्जलिः । (११२।१)

tad ahaṃ tāṃ namaskartum uttamāṅgāhitāñjaliḥ |

112.2११२.२

तद्रूपं विस्मितः पश्यंस् तूष्णीम् आसं मुहूर्तकम् ॥ (११२।२)

tadrūpaṃ vismitaḥ paśyaṃs tūṣṇīm āsaṃ muhūrtakam ||

113.1११३.१

उन्नमय्य मुखं सापि विकसल्लोचनोत्पलम् । (११३।१)

unnamayya mukhaṃ sāpi vikasallocanotpalam |

113.2११३.२

चिरं गोमुख जीवेति मां पूर्वं समभाषत ॥ (११३।२)

ciraṃ gomukha jīveti māṃ pūrvaṃ samabhāṣata ||

114.1११४.१

मम त्व् आसीद् अहो धूर्ता मुग्धाभा चापि खल्व् इयम् । (११४।१)

mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam |

114.2११४.२

एवं निरभिमाना च ययाहं समयार्थितः ॥ (११४।२)

evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ ||

115.1११५.१

निन्दिता च मयात्मीया बुद्धिर् वाक् च प्रमादिनी । (११५।१)

ninditā ca mayātmīyā buddhir vāk ca pramādinī |

115.2११५.२

हस्तौ प्रशस्तौ ताभ्यां हि पूर्वम् एव कृताञ्जलिः ॥ (११५।२)

hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ ||

116.1११६.१

सर्वतो हस्तमात्रो ऽहम् अचेतनमुखादिकः । (११६।१)

sarvato hastamātro 'ham acetanamukhādikaḥ |

116.2११६.२

अप्रमत्ता हि जीवन्ति मृता एव प्रमादिनः ॥ (११६।२)

apramattā hi jīvanti mṛtā eva pramādinaḥ ||

117.1११७.१

इति चिन्तयते मह्यं तया दापितम् आसनम् । (११७।१)

iti cintayate mahyaṃ tayā dāpitam āsanam |

117.2११७.२

निखर्वदन्तचरणं तत्र चाहम् उपाविशम् ॥ (११७।२)

nikharvadantacaraṇaṃ tatra cāham upāviśam ||

118.1११८.१

सा ह मां क्षणम् आसीनम् अपृच्छद् गोमुखः कुतः । (११८।१)

sā ha māṃ kṣaṇam āsīnam apṛcchad gomukhaḥ kutaḥ |

118.2११८.२

आगच्छतीति कथितं मया राजकुलाद् इति ॥ (११८।२)

āgacchatīti kathitaṃ mayā rājakulād iti ||

119.1११९.१

तयोक्तं कुशली राजा देव्यौ चान्तःपुराणि च । (११९।१)

tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca |

119.2११९.२

रुमण्वदादयो वापि मन्त्रिणः सपरिग्रहाः ॥ (११९।२)

rumaṇvadādayo vāpi mantriṇaḥ saparigrahāḥ ||

120.1१२०.१

कुमार् इति ततः किंचिद् उल्लाप्यास्फुटरेफकम् । (१२०।१)

kumār iti tataḥ kiṃcid ullāpyāsphuṭarephakam |

120.2१२०.२

तूष्णींभूता क्षणं दृष्टिं नासाग्रे निश्चलाम् अधात् ॥ (१२०।२)

tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt ||

121.1१२१.१

पृष्टे हरिशिखादीनां क्रमेण कुशले तया । (१२१।१)

pṛṣṭe hariśikhādīnāṃ krameṇa kuśale tayā |

121.2१२१.२

मया कुशलम् इत्य् उक्तं माम् अपृच्छद् असौ पुनः ॥ (१२१।२)

mayā kuśalam ity uktaṃ mām apṛcchad asau punaḥ ||

122.1१२२.१

जानाम्य् एव यथा बुद्धिः सर्वैः सर्वा सुखेदिता । (१२२।१)

jānāmy eva yathā buddhiḥ sarvaiḥ sarvā sukheditā |

122.2१२२.२

प्रकर्षो यस्य यस्यां वो विद्यां कथय ताम् इति ॥ (१२२।२)

prakarṣo yasya yasyāṃ vo vidyāṃ kathaya tām iti ||

123.1१२३.१

मयोक्तम् अर्यपुत्रस्य प्रावीण्यं गजनीतिषु । (१२३।१)

mayoktam aryaputrasya prāvīṇyaṃ gajanītiṣu |

123.2१२३.२

मानुषैर् अविगह्ये च गान्धर्वज्ञानसागरे ॥ (१२३।२)

mānuṣair avigahye ca gāndharvajñānasāgare ||

124.1१२४.१

दण्डनीतौ हरिशिखः शास्त्रेषु मरुभूतिकः । (१२४।१)

daṇḍanītau hariśikhaḥ śāstreṣu marubhūtikaḥ |

124.2१२४.२

रथादियानविद्यासु निष्ठायातस् तपन्तकः ॥ (१२४।२)

rathādiyānavidyāsu niṣṭhāyātas tapantakaḥ ||

125.1१२५.१

मया तु करभेणेव शमीनाम् अग्रपल्लवाः । (१२५।१)

mayā tu karabheṇeva śamīnām agrapallavāḥ |

125.2१२५.२

गृहीताः सर्वविद्यानाम् एकदेशा मनीषिताः ॥ (१२५।२)

gṛhītāḥ sarvavidyānām ekadeśā manīṣitāḥ ||

126.1१२६.१

साब्रवीद् अथ विद्यानाम् आसाम् आसेवनस्य कः । (१२६।१)

sābravīd atha vidyānām āsām āsevanasya kaḥ |

126.2१२६.२

भवताम् उचितः कालः कतमद् वा विनोदनम् ॥ (१२६।२)

bhavatām ucitaḥ kālaḥ katamad vā vinodanam ||

127.1१२७.१

मयोदितं त्रियामान्ते प्रबुद्धाः स्तुतदेवताः । (१२७।१)

mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ |

127.2१२७.२

मङ्गलालंकृताः पश्चाद् इतिहासम् अधीमहे ॥ (१२७।२)

maṅgalālaṃkṛtāḥ paścād itihāsam adhīmahe ||

128.1१२८.१

अनुज्ञातास् ततो वैद्यैः सुगन्धिस्नेहधारिणः । (१२८।१)

anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ |

128.2१२८.२

अभ्यस्यामः सयानानि नियुद्धान्य् आयुधानि च ॥ (१२८।२)

abhyasyāmaḥ sayānāni niyuddhāny āyudhāni ca ||

129.1१२९.१

ततः स्नात्वा च भुक्त्वा च मुहूर्तं यापितश्रमाः । (१२९।१)

tataḥ snātvā ca bhuktvā ca muhūrtaṃ yāpitaśramāḥ |

129.2१२९.२

अर्थशास्त्राणि शंसन्तो महाकाव्यानि चास्महे ॥ (१२९।२)

arthaśāstrāṇi śaṃsanto mahākāvyāni cāsmahe ||

130.1१३०.१

निशामुखे ततः सौधे सान्द्रचन्द्रप्रभाजिति । (१३०।१)

niśāmukhe tataḥ saudhe sāndracandraprabhājiti |

130.2१३०.२

रमामहे सुखं कान्तैर् वेणुतन्त्रीरुतैर् इति ॥ (१३०।२)

ramāmahe sukhaṃ kāntair veṇutantrīrutair iti ||

131.1१३१.१

अथ सा नयनान्तेन श्रवणान्तविसारिणा । (१३१।१)

atha sā nayanāntena śravaṇāntavisāriṇā |

131.2१३१.२

बालिकाम् अन्तिकासीनां दृष्ट्वापश्यन् मदन्तिकम् ॥ (१३१।२)

bālikām antikāsīnāṃ dṛṣṭvāpaśyan madantikam ||

132.1१३२.१

ततः कृच्छ्राद् इवोत्थाय नितम्बभरमन्थरम् । (१३२।१)

tataḥ kṛcchrād ivotthāya nitambabharamantharam |

132.2१३२.२

मयासन्ने निविष्टा सा मनाग् अपि न लक्षिता ॥ (१३२।२)

mayāsanne niviṣṭā sā manāg api na lakṣitā ||

133.1१३३.१

एवम् अन्यापि गणिका तृणवद् गणिता मया । (१३३।१)

evam anyāpi gaṇikā tṛṇavad gaṇitā mayā |

133.2१३३.२

यदापरा तदायाता रूपिणी रूपदेवता ॥ (१३३।२)

yadāparā tadāyātā rūpiṇī rūpadevatā ||

134.1१३४.१

साब्रवीत् कष्टम् आयातम् इतो गुरु गुरोर् वचः । (१३४।१)

sābravīt kaṣṭam āyātam ito guru guror vacaḥ |

134.2१३४.२

इतश् चातिथिसत्कारः किम् अत्र क्रियताम् इति ॥ (१३४।२)

itaś cātithisatkāraḥ kim atra kriyatām iti ||

135.1१३५.१

मयोक्तं देवताभ्यो ऽपि गुरवो गुरवो यतः । (१३५।१)

mayoktaṃ devatābhyo 'pi guravo guravo yataḥ |

135.2१३५.२

तस्माद् गुरुर् गुरोर् आज्ञा सैव संपाद्यताम् इति ॥ (१३५।२)

tasmād gurur guror ājñā saiva saṃpādyatām iti ||

136.1१३६.१

साब्रवीन् न त्वयोत्कण्ठा कार्या मित्राण्य् अपश्यता । (१३६।१)

sābravīn na tvayotkaṇṭhā kāryā mitrāṇy apaśyatā |

136.2१३६.२

करिष्यति निरुत्कण्ठम् इवं त्वा पद्मदेविका ॥ (१३६।२)

kariṣyati nirutkaṇṭham ivaṃ tvā padmadevikā ||

137.1१३७.१

ममाभिप्रायम् ऊहित्वा लज्जमानेव साब्रवीत् । (१३७।१)

mamābhiprāyam ūhitvā lajjamāneva sābravīt |

137.2१३७.२

न युक्तम् अननुज्ञातैः प्रेष्यैर् आसन्नम् आसितुम् ॥ (१३७।२)

na yuktam ananujñātaiḥ preṣyair āsannam āsitum ||

138.1१३८.१

इदं त्व् आस्तीर्णपर्यङ्कं शरणं भर्तृदारकः । (१३८।१)

idaṃ tv āstīrṇaparyaṅkaṃ śaraṇaṃ bhartṛdārakaḥ |

138.2१३८.२

प्रविश्य रथसंक्षोभखेदं विनयताम् इति ॥ (१३८।२)

praviśya rathasaṃkṣobhakhedaṃ vinayatām iti ||

139.1१३९.१

तत् प्रविश्य तदादेशाद् विकसद्रमणीयकम् । (१३९।१)

tat praviśya tadādeśād vikasadramaṇīyakam |

139.2१३९.२

शयनं हेमरत्नाङ्गं सापाश्रयम् अपाश्रयम् ॥ (१३९।२)

śayanaṃ hemaratnāṅgaṃ sāpāśrayam apāśrayam ||

140.1१४०.१

पादस्थाने ततः स्थित्वा साब्रवीत् कः करोतु वः । (१४०।१)

pādasthāne tataḥ sthitvā sābravīt kaḥ karotu vaḥ |

140.2१४०.२

मन्दपुण्यैर् असंभाव्यां पादसंवाहनाम् इति ॥ (१४०।२)

mandapuṇyair asaṃbhāvyāṃ pādasaṃvāhanām iti ||

141.1१४१.१

पादसंवाहनं कार्यं भद्रं स्याद् येन केनचित् । (१४१।१)

pādasaṃvāhanaṃ kāryaṃ bhadraṃ syād yena kenacit |

141.2१४१.२

संवाहकविशेषेण किम् अत्रेति मयोदितम् ॥ (१४१।२)

saṃvāhakaviśeṣeṇa kim atreti mayoditam ||

142.1१४२.१

तया त्व् आलम्बिते पादे पाणिभ्याम् अभवन् मम । (१४२।१)

tayā tv ālambite pāde pāṇibhyām abhavan mama |

142.2१४२.२

निर्दोषे मयि केनेयं प्रयुक्ता विषकन्यका ॥ (१४२।२)

nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā ||

143.1१४३.१

करणान्य् अस्वतन्त्राणि न जाने कीदृशं मनः । (१४३।१)

karaṇāny asvatantrāṇi na jāne kīdṛśaṃ manaḥ |

143.2१४३.२

विचेष्टानि च मे ऽङ्गानि धिग् अनार्याम् इमाम् इति ॥ (१४३।२)

viceṣṭāni ca me 'ṅgāni dhig anāryām imām iti ||

144.1१४४.१

सा तु संवाह्य चरणौ मुहूर्तम् इदम् अब्रवीत् । (१४४।१)

sā tu saṃvāhya caraṇau muhūrtam idam abravīt |

144.2१४४.२

कथं दासजनो वक्षः श्रान्तं वः सेवताम् इति ॥ (१४४।२)

kathaṃ dāsajano vakṣaḥ śrāntaṃ vaḥ sevatām iti ||

145.1१४५.१

मम त्व् आसीत् प्रगल्भेयम् अनाचारा च या मम । (१४५।१)

mama tv āsīt pragalbheyam anācārā ca yā mama |

145.2१४५.२

स्पृष्टपादतलौ हस्ताव् उरस्य् आधातुम् इच्छति ॥ (१४५।२)

spṛṣṭapādatalau hastāv urasy ādhātum icchati ||

146.1१४६.१

ममाभिप्रायम् ऊहित्वा साब्रवीद् दर्शितस्मिता । (१४६।१)

mamābhiprāyam ūhitvā sābravīd darśitasmitā |

146.2१४६.२

उरः स्पृशति वः को वा कराभ्यां मूढधीर् इति ॥ (१४६।२)

uraḥ spṛśati vaḥ ko vā karābhyāṃ mūḍhadhīr iti ||

147.1१४७.१

आसीच् च मम काप्य् एषा देवता ब्रह्मवादिनी । (१४७।१)

āsīc ca mama kāpy eṣā devatā brahmavādinī |

147.2१४७.२

परचित्तज्ञता यस्मान् नास्ति रागवताम् इति ॥ (१४७।२)

paracittajñatā yasmān nāsti rāgavatām iti ||

148.1१४८.१

तयोक्तं रथसंक्षोभजातखेदस्य वक्षसः । (१४८।१)

tayoktaṃ rathasaṃkṣobhajātakhedasya vakṣasaḥ |

148.2१४८.२

स्तनोत्पीडितकं नाम संवाहनम् अनिन्दितम् ॥ (१४८।२)

stanotpīḍitakaṃ nāma saṃvāhanam aninditam ||

149.1१४९.१

यदि वाहम् अनुग्राह्या वक्षो वा प्रबलश्रमम् । (१४९।१)

yadi vāham anugrāhyā vakṣo vā prabalaśramam |

149.2१४९.२

ततो माम् अनुजानीत भर्तृतन्त्रा हि योषितः ॥ (१४९।२)

tato mām anujānīta bhartṛtantrā hi yoṣitaḥ ||

150.1१५०.१

आसीच् च मम धीरेयं निरस्तकरुणा च या । (१५०।१)

āsīc ca mama dhīreyaṃ nirastakaruṇā ca yā |

150.2१५०.२

अनुज्ञां लभते यावत् तावद् आस्ते निराकुला ॥ (१५०।२)

anujñāṃ labhate yāvat tāvad āste nirākulā ||

151.1१५१.१

अथैनाम् अब्रुवं बाले परायत्तं निबोध माम् । (१५१।१)

athainām abruvaṃ bāle parāyattaṃ nibodha mām |

151.2१५१.२

यः संवाहनशास्त्रज्ञः स स्वतन्त्रः प्रवर्तताम् ॥ (१५१।२)

yaḥ saṃvāhanaśāstrajñaḥ sa svatantraḥ pravartatām ||

152.1१५२.१

उरसा स्तनसारेण सा मदीयम् उरस् ततः । (१५२।१)

urasā stanasāreṇa sā madīyam uras tataḥ |

152.2१५२.२

संवाहयितुम् आरब्धा सकम्पेन सवेपथु ॥ (१५२।२)

saṃvāhayitum ārabdhā sakampena savepathu ||

153.1१५३.१

सर्वथालं विसर्पन्त्या प्रसङ्गकथयानया । (१५३।१)

sarvathālaṃ visarpantyā prasaṅgakathayānayā |

153.2१५३.२

संक्षिप्तवस्तु रम्ये ऽर्थे न कदाचिद् विरज्यते ॥ (१५३।२)

saṃkṣiptavastu ramye 'rthe na kadācid virajyate ||

154.1१५४.१

ततः क्रीडागृहात् तस्माद् बाह्यां ताम् एव वीथिकाम् । (१५४।१)

tataḥ krīḍāgṛhāt tasmād bāhyāṃ tām eva vīthikām |

154.2१५४.२

उपागच्छं मुहूर्ताच् च ताम् एवार्यसुतागता ॥ (१५४।२)

upāgacchaṃ muhūrtāc ca tām evāryasutāgatā ||

155.1१५५.१

वन्दित्वा प्रस्थितं सा मां क्षणम् आलोक्य विस्मिता । (१५५।१)

vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā |

155.2१५५.२

आलपन् मधुरालापा स्मितप्रच्छादितारतिः ॥ (१५५।२)

ālapan madhurālāpā smitapracchāditāratiḥ ||

156.1१५६.१

इदं भवनम् आत्मीयं प्रत्यवेक्ष्यं सदा त्वया । (१५६।१)

idaṃ bhavanam ātmīyaṃ pratyavekṣyaṃ sadā tvayā |

156.2१५६.२

दृश्यमानो भुजंगो ऽपि कालेन परिचीयते ॥ (१५६।२)

dṛśyamāno bhujaṃgo 'pi kālena paricīyate ||

157.1१५७.१

अथ वस्त्रान्तम् आलम्ब्य मदीयं पद्मदेविका । (१५७।१)

atha vastrāntam ālambya madīyaṃ padmadevikā |

157.2१५७.२

विज्ञाप्यम् अस्ति मे किंचित् तच् च नाद्येत्य् अभाषत ॥ (१५७।२)

vijñāpyam asti me kiṃcit tac ca nādyety abhāṣata ||

158.1१५८.१

ततो हृदयवासिन्या पद्मदेविकया सह । (१५८।१)

tato hṛdayavāsinyā padmadevikayā saha |

158.2१५८.२

तम् एव रथम् आरुह्य कुमारागारम् आगमम् ॥ (१५८।२)

tam eva ratham āruhya kumārāgāram āgamam ||

159.1१५९.१

तत्र युष्मान् अभुञ्जानान् पश्यामि स्म मया विना । (१५९।१)

tatra yuṣmān abhuñjānān paśyāmi sma mayā vinā |

159.2१५९.२

उपहासं च कुर्वन्तं तं तथा मरुभूतिकम् ॥ (१५९।२)

upahāsaṃ ca kurvantaṃ taṃ tathā marubhūtikam ||

160.1१६०.१

दिने ऽन्यत्र च सेवित्वा क्षणं युष्मान् अहं पुनः । (१६०।१)

dine 'nyatra ca sevitvā kṣaṇaṃ yuṣmān ahaṃ punaḥ |

160.2१६०.२

गत्वार्यदुहितुर् मूलम् आसेवे पद्मदेविकाम् ॥ (१६०।२)

gatvāryaduhitur mūlam āseve padmadevikām ||

161.1१६१.१

उक्तश् चार्यदुहित्राहम् अधीराः सुहृदस् तव । (१६१।१)

uktaś cāryaduhitrāham adhīrāḥ suhṛdas tava |

161.2१६१.२

वृत्तान्तो ऽयम् अतस् तेषां मा गमत् कर्णगोचरम् ॥ (१६१।२)

vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram ||

162.1१६२.१

ततः प्रतिष्ठमानं माम् अवोचत् पद्मदेविका । (१६२।१)

tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā |

162.2१६२.२

तद् वः किं विस्मृतं कार्यम् इति मेति मयोदितम् ॥ (१६२।२)

tad vaḥ kiṃ vismṛtaṃ kāryam iti meti mayoditam ||

163.1१६३.१

तयोक्तं कथयिष्यामि पुनर् अप्य् आगताय ते । (१६३।१)

tayoktaṃ kathayiṣyāmi punar apy āgatāya te |

163.2१६३.२

धत्ते संध्रियमाणं हि रहस्यं रम्यताम् इति ॥ (१६३।२)

dhatte saṃdhriyamāṇaṃ hi rahasyaṃ ramyatām iti ||

164.1१६४.१

अथापरस्मिन् दिवसे गत्वार्यदुहितुर् गृहम् । (१६४।१)

athāparasmin divase gatvāryaduhitur gṛham |

164.2१६४.२

शोकमूकप्रवृद्धास्रम् अपश्यम् अबलाजनम् ॥ (१६४।२)

śokamūkapravṛddhāsram apaśyam abalājanam ||

165.1१६५.१

करद्वयावृतमुखी स्तम्भे लग्ना पराङ्मुखी । (१६५।१)

karadvayāvṛtamukhī stambhe lagnā parāṅmukhī |

165.2१६५.२

मन्दशब्दं मया दृष्टा क्रन्दन्ती पद्मदेविका ॥ (१६५।२)

mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā ||

166.1१६६.१

ताम् अपृच्छं महाराज्ये वत्सराजे सुराजनि । (१६६।१)

tām apṛcchaṃ mahārājye vatsarāje surājani |

166.2१६६.२

जङ्गमस्य कुतः शोको युवराजे च राजति ॥ (१६६।२)

jaṅgamasya kutaḥ śoko yuvarāje ca rājati ||

167.1१६७.१

न किंचिद् अपि सावोचन् मया पृष्टासकृद् यदा । (१६७।१)

na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā |

167.2१६७.२

तदा किल विषण्णो ऽहं मुमोह च पपात च ॥ (१६७।२)

tadā kila viṣaṇṇo 'haṃ mumoha ca papāta ca ||

168.1१६८.१

तत्र चैका प्रमृज्यास्रं माम् अवोचत् सचेतनम् । (१६८।१)

tatra caikā pramṛjyāsraṃ mām avocat sacetanam |

168.2१६८.२

त्वन्नाथाश्लाघनीयेयम् अशोच्या पद्मदेविका ॥ (१६८।२)

tvannāthāślāghanīyeyam aśocyā padmadevikā ||

169.1१६९.१

अस्यास् तु स्वामिनीं पश्य युवराजे विराजति । (१६९।१)

asyās tu svāminīṃ paśya yuvarāje virājati |

169.2१६९.२

यस्याः शोकोपतप्ताया यतो रक्षस् ततो भयम् ॥ (१६९।२)

yasyāḥ śokopataptāyā yato rakṣas tato bhayam ||

170.1१७०.१

अथ वा पश्य ताम् एव पश्यताम् एव पीड्यते । (१७०।१)

atha vā paśya tām eva paśyatām eva pīḍyate |

170.2१७०.२

त्वादृशां सुहृदां यस्याः समदुःखसजीवनम् ॥ (१७०।२)

tvādṛśāṃ suhṛdāṃ yasyāḥ samaduḥkhasajīvanam ||

171.1१७१.१

तदावेदितमार्गेण गत्वा प्रमदकाननम् । (१७१।१)

tadāveditamārgeṇa gatvā pramadakānanam |

171.2१७१.२

दृष्टा कमलिनीकूले तत्रार्यदुहिता मया ॥ (१७१।२)

dṛṣṭā kamalinīkūle tatrāryaduhitā mayā ||

172.1१७२.१

मृणालशैवलाम्भोजनलिनीदलसंस्तरम् । (१७२।१)

mṛṇālaśaivalāmbhojanalinīdalasaṃstaram |

172.2१७२.२

शोषयन्ती सनिश्वासैर् मुहुर् विपरिवर्तनैः ॥ (१७२।२)

śoṣayantī saniśvāsair muhur viparivartanaiḥ ||

173.1१७३.१

मुद्रिकालतिका नाम दारिका हारिका दृशः । (१७३।१)

mudrikālatikā nāma dārikā hārikā dṛśaḥ |

173.2१७३.२

तदङ्कन्यस्तचरणा ध्यायन्ती पुरुषोत्तमम् ॥ (१७३।२)

tadaṅkanyastacaraṇā dhyāyantī puruṣottamam ||

174.1१७४.१

अथोपगम्य संभ्रान्तस् तां कृताञ्जलिर् अब्रवम् । (१७४।१)

athopagamya saṃbhrāntas tāṃ kṛtāñjalir abravam |

174.2१७४.२

देवी दुःखाङ्गदानेन संभावयतु माम् इति ॥ (१७४।२)

devī duḥkhāṅgadānena saṃbhāvayatu mām iti ||

175.1१७५.१

साब्रवीद् अलम् आकर्ण्य प्रवृद्धसुखभागिनः । (१७५।१)

sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ |

175.2१७५.२

तथा ममाप्रतीकारां लज्जाशोककरीं कथाम् ॥ (१७५।२)

tathā mamāpratīkārāṃ lajjāśokakarīṃ kathām ||

176.1१७६.१

को हि नन्दनसंचारिकामिनीजनकामुकः । (१७६।१)

ko hi nandanasaṃcārikāminījanakāmukaḥ |

176.2१७६.२

तरन् मकरगम्भीरां विशेद् वैतरणीम् इति ॥ (१७६।२)

taran makaragambhīrāṃ viśed vaitaraṇīm iti ||

177.1१७७.१

ततः प्रसादयन्ती तां मुद्रिकालतिकाब्रवीत् । (१७७।१)

tataḥ prasādayantī tāṃ mudrikālatikābravīt |

177.2१७७.२

भर्तृदारिकया कश्चित् स्मर्यते न विमानितः ॥ (१७७।२)

bhartṛdārikayā kaścit smaryate na vimānitaḥ ||

178.1१७८.१

यदि च स्वयम् आख्यातुम् अशक्ता भर्तृदारिका । (१७८।१)

yadi ca svayam ākhyātum aśaktā bhartṛdārikā |

178.2१७८.२

ततो माम् अनुजानातु धृष्टो हि गणिकाजनः ॥ (१७८।२)

tato mām anujānātu dhṛṣṭo hi gaṇikājanaḥ ||

179.1१७९.१

एवम् उक्ताब्रवीद् एवम् एवं नाम निगद्यताम् । (१७९।१)

evam uktābravīd evam evaṃ nāma nigadyatām |

179.2१७९.२

अकृत्वा साहसं कैर् वा महाल् लब्धो मनोरथः ॥ (१७९।२)

akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ ||

180.1१८०.१

न चेमं गोमुखाद् अन्यः श्रोतुम् आलापम् अर्हति । (१८०।१)

na cemaṃ gomukhād anyaḥ śrotum ālāpam arhati |

180.2१८०.२

भेदसंधानदक्षो हि दूतः कार्ये नियुज्यते ॥ (१८०।२)

bhedasaṃdhānadakṣo hi dūtaḥ kārye niyujyate ||

181.1१८१.१

अथोत्सार्य ततो देशान् मुद्रिकालतिका कथाम् । (१८१।१)

athotsārya tato deśān mudrikālatikā kathām |

181.2१८१.२

मह्यम् आख्यातुम् आरब्धा क्षणम् अधीयतां मनः ॥ (१८१।२)

mahyam ākhyātum ārabdhā kṣaṇam adhīyatāṃ manaḥ ||

182.1१८२.१

भरतो नाम राजासीत् त्रिवर्गान्तपरायणः । (१८२।१)

bharato nāma rājāsīt trivargāntaparāyaṇaḥ |

182.2१८२.२

स समाहृतवान् कान्ताः कुमारीर् आ महोदधेः ॥ (१८२।२)

sa samāhṛtavān kāntāḥ kumārīr ā mahodadheḥ ||

183.1१८३.१

युगपत् परिनियाहम् एताः सर्वा रहोगताः । (१८३।१)

yugapat pariniyāham etāḥ sarvā rahogatāḥ |

183.2१८३.२

सुखान्य् अनुभविष्यामि संततानीत्य् अचिन्तयत् ॥ (१८३।२)

sukhāny anubhaviṣyāmi saṃtatānīty acintayat ||

184.1१८४.१

यस्याश् च प्रथमं तेन गृहीतः कम्पनः करः । (१८४।१)

yasyāś ca prathamaṃ tena gṛhītaḥ kampanaḥ karaḥ |

184.2१८४.२

तस्याम् एव स संतुष्टः शुद्धपुण्यार्जिताकृतौ ॥ (१८४।२)

tasyām eva sa saṃtuṣṭaḥ śuddhapuṇyārjitākṛtau ||

185.1१८५.१

परिशेषास् तु यास् तासां मनोनयनहारिणः । (१८५।१)

pariśeṣās tu yās tāsāṃ manonayanahāriṇaḥ |

185.2१८५.२

मनोरुहकराकारान् अष्टौ प्राकल्पयद् गणान् ॥ (१८५।२)

manoruhakarākārān aṣṭau prākalpayad gaṇān ||

186.1१८६.१

गणे गणे च प्रमुखां मुखराभरणावृताम् । (१८६।१)

gaṇe gaṇe ca pramukhāṃ mukharābharaṇāvṛtām |

186.2१८६.२

अनुज्ञातासनच्छत्रचामराम् अकरोन् नृपः ॥ (१८६।२)

anujñātāsanacchatracāmarām akaron nṛpaḥ ||

187.1१८७.१

ता गणान्तर्गता यस्माद् अन्यासां च महत्तमाः । (१८७।१)

tā gaṇāntargatā yasmād anyāsāṃ ca mahattamāḥ |

187.2१८७.२

तं महागणिकाशब्दम् अलभन्त नराधिपात् ॥ (१८७।२)

taṃ mahāgaṇikāśabdam alabhanta narādhipāt ||

188.1१८८.१

महागुणास् ततश् चान्यास् ततो ऽप्य् अन्यास् ततः पराः । (१८८।१)

mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ |

188.2१८८.२

यावद् घटकसंघट्टकठोरकटयः खलाः ॥ (१८८।२)

yāvad ghaṭakasaṃghaṭṭakaṭhorakaṭayaḥ khalāḥ ||

189.1१८९.१

य एष गणिकाभेद इदानीम् अपि दृश्यते । (१८९।१)

ya eṣa gaṇikābheda idānīm api dṛśyate |

189.2१८९.२

ततः कालात् प्रभृत्य् एव भरतेन प्रवर्तितः ॥ (१८९।२)

tataḥ kālāt prabhṛty eva bharatena pravartitaḥ ||

190.1१९०.१

गणमुख्यास् तु यास् तासाम् एकस्यां किल संततौ । (१९०।१)

gaṇamukhyās tu yās tāsām ekasyāṃ kila saṃtatau |

190.2१९०.२

जाता कलिङ्गसेनेयं सरस्याम् इव पद्मिनी ॥ (१९०।२)

jātā kaliṅgaseneyaṃ sarasyām iva padminī ||

191.1१९१.१

सुरासुरोरगस्त्रीणां निन्दन्ती रूपसंपदम् । (१९१।१)

surāsuroragastrīṇāṃ nindantī rūpasaṃpadam |

191.2१९१.२

अनया तनया लब्धा सेयं मदनमञ्जुका ॥ (१९१।२)

anayā tanayā labdhā seyaṃ madanamañjukā ||

192.1१९२.१

एषा राजकुलं यान्तीं दृष्ट्वा मातरम् एकदा । (१९२।१)

eṣā rājakulaṃ yāntīṃ dṛṣṭvā mātaram ekadā |

192.2१९२.२

अहम् अप्य् आचि यामीति पुनः पुनर् अभाषत ॥ (१९२।२)

aham apy āci yāmīti punaḥ punar abhāṣata ||

193.1१९३.१

ज्ञात्वा तु दृढनिर्बन्धां साची दुहितरं प्रियाम् । (१९३।१)

jñātvā tu dṛḍhanirbandhāṃ sācī duhitaraṃ priyām |

193.2१९३.२

गृहीतबालाभरणाम् अनयन् नृपसंसदम् ॥ (१९३।२)

gṛhītabālābharaṇām anayan nṛpasaṃsadam ||

194.1१९४.१

अथ राजकुलाद् एषा निवृत्ता लक्षिता मया । (१९४।१)

atha rājakulād eṣā nivṛttā lakṣitā mayā |

194.2१९४.२

सविकासैः सतोषेव कपोलनयनाधरैः ॥ (१९४।२)

savikāsaiḥ satoṣeva kapolanayanādharaiḥ ||

195.1१९५.१

स्थिता सम्प्रस्थितासीना निषीदन्ती च संतताः । (१९५।१)

sthitā samprasthitāsīnā niṣīdantī ca saṃtatāḥ |

195.2१९५.२

करोति स्म सखीमध्ये राजास्थानगताः कथाः ॥ (१९५।२)

karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ ||

196.1१९६.१

दिनशेषम् अतिप्रेर्य क्षणदां च सजागरा । (१९६।१)

dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā |

196.2१९६.२

प्रातः सादरम् आदत्त चित्रं मण्डनम् आत्मनः ॥ (१९६।२)

prātaḥ sādaram ādatta citraṃ maṇḍanam ātmanaḥ ||

197.1१९७.१

प्रस्थिता प्रस्थिताम् दृष्ट्वा राजास्थानाय मातरम् । (१९७।१)

prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram |

197.2१९७.२

तया पृष्टा क्व यासीति यत्र त्वम् इति चाब्रवीत् ॥ (१९७।२)

tayā pṛṣṭā kva yāsīti yatra tvam iti cābravīt ||

198.1१९८.१

तयोक्तम् अननुज्ञातैः पुत्रि गन्तुं न लभ्यते । (१९८।१)

tayoktam ananujñātaiḥ putri gantuṃ na labhyate |

198.2१९८.२

राजास्थानं तनुस्नेहाः परुषा हि नराधिपाः ॥ (१९८।२)

rājāsthānaṃ tanusnehāḥ paruṣā hi narādhipāḥ ||

199.1१९९.१

तेन मातर् निवर्तस्व लब्धानुज्ञा गमिष्यसि । (१९९।१)

tena mātar nivartasva labdhānujñā gamiṣyasi |

199.2१९९.२

धृष्टा हि द्वेष्यतां यान्ति प्रणयिन्यो ऽपि योषितः ॥ (१९९।२)

dhṛṣṭā hi dveṣyatāṃ yānti praṇayinyo 'pi yoṣitaḥ ||

200.1२००.१

मधुराश् चोपपन्नाश् च श्रुत्वा मातुर् इमा गिरः । (२००।१)

madhurāś copapannāś ca śrutvā mātur imā giraḥ |

200.2२००.२

कटुका दुर्घटाश् चेयं मन्यमाना न्यवर्तत ॥ (२००।२)

kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata ||

201.1२०१.१

दृष्टनष्टनिधानेव दरिद्रवणिगङ्गना । (२०१।१)

dṛṣṭanaṣṭanidhāneva daridravaṇigaṅganā |

201.2२०१.२

मुक्तनिद्राशनालापा शय्यैकशरणाभवत् ॥ (२०१।२)

muktanidrāśanālāpā śayyaikaśaraṇābhavat ||

202.1२०२.१

एकदा प्रस्तुतकथाः सखीर् इयम् अभाषत । (२०२।१)

ekadā prastutakathāḥ sakhīr iyam abhāṣata |

202.2२०२.२

स्वप्तुम् इच्छाम्य् अहं सख्यस् तावन् निर्गम्यताम् इति ॥ (२०२।२)

svaptum icchāmy ahaṃ sakhyas tāvan nirgamyatām iti ||

203.1२०३.१

यातासु तासु मनसा यत्सत्यं मम शङ्कितम् । (२०३।१)

yātāsu tāsu manasā yatsatyaṃ mama śaṅkitam |

203.2२०३.२

एताः प्रस्थापिताः सख्यः किम् अकारणम् एतया ॥ (२०३।२)

etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā ||

204.1२०४.१

या सखीभिर् विना निद्रां नैव लब्धवती पुरा । (२०४।१)

yā sakhībhir vinā nidrāṃ naiva labdhavatī purā |

204.2२०४.२

तस्यास् ता एव निघ्नन्ति निद्राम् इति न बध्यते ॥ (२०४।२)

tasyās tā eva nighnanti nidrām iti na badhyate ||

205.1२०५.१

चिन्तयित्वेति तिष्ठन्ती जालवातायनावृता । (२०५।१)

cintayitveti tiṣṭhantī jālavātāyanāvṛtā |

205.2२०५.२

मण्डनव्यापृताम् एतां पश्यामि स्म सदर्पणा ॥ (२०५।२)

maṇḍanavyāpṛtām etāṃ paśyāmi sma sadarpaṇā ||

206.1२०६.१

अभि राजकुलं स्थित्वा बद्धाञ्जलिर् अभाषत । (२०६।१)

abhi rājakulaṃ sthitvā baddhāñjalir abhāṣata |

206.2२०६.२

जन्मान्तरे ऽपि भूयासम् अहं तस्मिन् वधूर् इति ॥ (२०६।२)

janmāntare 'pi bhūyāsam ahaṃ tasmin vadhūr iti ||

207.1२०७.१

दुकूलपाशम् आसज्य कंधरायाम् अनन्तरम् । (२०७।१)

dukūlapāśam āsajya kaṃdharāyām anantaram |

207.2२०७.२

उदलम्बयद् आत्मानं सत्वरा नागदन्तके ॥ (२०७।२)

udalambayad ātmānaṃ satvarā nāgadantake ||

208.1२०८.१

वेगाद् इषुर् इवागत्य प्राणापहरणोद्यतम् । (२०८।१)

vegād iṣur ivāgatya prāṇāpaharaṇodyatam |

208.2२०८.२

कण्ठपाशं तम् एतस्याः कालपाशम् इवाक्षिपम् ॥ (२०८।२)

kaṇṭhapāśaṃ tam etasyāḥ kālapāśam ivākṣipam ||

209.1२०९.१

शयनीयम् अथानीय सजलैर् व्यजनानिलैः । (२०९।१)

śayanīyam athānīya sajalair vyajanānilaiḥ |

209.2२०९.२

बलात् प्रत्यानयं संज्ञां प्रेतराजकुलाद् अहम् ॥ (२०९।२)

balāt pratyānayaṃ saṃjñāṃ pretarājakulād aham ||

210.1२१०.१

क्रमेणोन्मील्य नयने मन्थरा ताम्रतारके । (२१०।१)

krameṇonmīlya nayane mantharā tāmratārake |

210.2२१०.२

निनीय मयि मत्तश् च प्रत्याहृत्येदम् अब्रवीत् ॥ (२१०।२)

ninīya mayi mattaś ca pratyāhṛtyedam abravīt ||

211.1२११.१

तन् मित्रम् अतिकष्टाद् यद् व्यसनात् किल रक्षति । (२११।१)

tan mitram atikaṣṭād yad vyasanāt kila rakṣati |

211.2२११.२

व्यसने प्रहरन्त्या तु शत्रुत्वं दर्शितं त्वया ॥ (२११।२)

vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā ||

212.1२१२.१

अहं हि सर्वदुःखानाम् इदम् उत्पन्नम् आलयम् । (२१२।१)

ahaṃ hi sarvaduḥkhānām idam utpannam ālayam |

212.2२१२.२

त्वया जीवितम् उझन्ती विधृता किम् अकारणम् ॥ (२१२।२)

tvayā jīvitam ujhantī vidhṛtā kim akāraṇam ||

213.1२१३.१

आनुकूल्येन निर्वाह्य कालम् एकपदे त्वया । (२१३।१)

ānukūlyena nirvāhya kālam ekapade tvayā |

213.2२१३.२

विघ्नन्त्या मम संकल्पं दर्शिता प्रतिकूलता ॥ (२१३।२)

vighnantyā mama saṃkalpaṃ darśitā pratikūlatā ||

214.1२१४.१

यद् एतद् उच्यते लोके सर्वथा न तद् अन्यथा । (२१४।१)

yad etad ucyate loke sarvathā na tad anyathā |

214.2२१४.२

अशेषोपायदुःसाध्यो मित्रम् शत्रुर् महान् इति ॥ (२१४।२)

aśeṣopāyaduḥsādhyo mitram śatrur mahān iti ||

215.1२१५.१

ब्रुवाणाम् इत्य् असंबद्धम् इत्य् एनाम् अहम् अब्रुवम् । (२१५।१)

bruvāṇām ity asaṃbaddham ity enām aham abruvam |

215.2२१५.२

स्वामिनि प्रभुर् इत्य् अस्मान् उपालम्भेन तक्षसि ॥ (२१५।२)

svāmini prabhur ity asmān upālambhena takṣasi ||

216.1२१६.१

इदं कथय नस् तावद् व्यसने ऽभ्युदये ऽपि वा । (२१६।१)

idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā |

216.2२१६.२

स्वामिन्या वयम् आयाते कस्मिन् नाभ्यन्तरीकृताः ॥ (२१६।२)

svāminyā vayam āyāte kasmin nābhyantarīkṛtāḥ ||

217.1२१७.१

जातासि कृपणेदानीं दासवर्गम् अपास्य या । (२१७।१)

jātāsi kṛpaṇedānīṃ dāsavargam apāsya yā |

217.2२१७.२

तनुम् एकाकिनी त्यक्त्वा सुखम् आसितुम् इच्छसि ॥ (२१७।२)

tanum ekākinī tyaktvā sukham āsitum icchasi ||

218.1२१८.१

दुःखहेतुम् अतः शंस यदि साध्यं भविष्यति । (२१८।१)

duḥkhahetum ataḥ śaṃsa yadi sādhyaṃ bhaviṣyati |

218.2२१८.२

जीविष्यामस् ततः सर्वा मरिष्यामो विपर्यये ॥ (२१८।२)

jīviṣyāmas tataḥ sarvā mariṣyāmo viparyaye ||

219.1२१९.१

अथ स्थित्वा क्षणं तूष्णीं शनकैर् इदम् अब्रवीत् । (२१९।१)

atha sthitvā kṣaṇaṃ tūṣṇīṃ śanakair idam abravīt |

219.2२१९.२

एकजीवशरीरायै किं तुभ्यम् अपि कथ्यते ॥ (२१९।२)

ekajīvaśarīrāyai kiṃ tubhyam api kathyate ||

220.1२२०.१

अथ जानन्त्य् अपि त्वं मां निर्लज्जयितुम् इच्छसि । (२२०।१)

atha jānanty api tvaṃ māṃ nirlajjayitum icchasi |

220.2२२०.२

इदम् आख्याय ते को वा स्त्रीभ्यः साहसिकः परः ॥ (२२०।२)

idam ākhyāya te ko vā strībhyaḥ sāhasikaḥ paraḥ ||

221.1२२१.१

अहं राजकुलं याता देवेनाहूय सादरम् । (२२१।१)

ahaṃ rājakulaṃ yātā devenāhūya sādaram |

221.2२२१.२

दक्षिणं परिघाकारम् ऊरुम् आरोपिता तदा ॥ (२२१।२)

dakṣiṇaṃ parighākāram ūrum āropitā tadā ||

222.1२२२.१

उपविष्टस् तु नृपतेर् ऊरौ वामे नृपात्मजः । (२२२।१)

upaviṣṭas tu nṛpater ūrau vāme nṛpātmajaḥ |

222.2२२२.२

मया दृष्टः प्रविष्टश् च हृदयं मे अनिवारितः ॥ (२२२।२)

mayā dṛṣṭaḥ praviṣṭaś ca hṛdayaṃ me anivāritaḥ ||

223.1२२३.१

दहने ऽपि वसन्न् अन्तर् न दहत्य् अरणीं स तु । (२२३।१)

dahane 'pi vasann antar na dahaty araṇīṃ sa tu |

223.2२२३.२

सौम्यो ऽपि पुण्यवान् अस्मान् निर्धूमं दग्धुम् इच्छति ॥ (२२३।२)

saumyo 'pi puṇyavān asmān nirdhūmaṃ dagdhum icchati ||

224.1२२४.१

स हेतुर् अस्य दुःखस्य सकृद्दर्शनम् आगतः । (२२४।१)

sa hetur asya duḥkhasya sakṛddarśanam āgataḥ |

224.2२२४.२

अधुना श्रूयमाणो ऽपि किं वा विलपितैर् इति ॥ (२२४।२)

adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti ||

225.1२२५.१

श्रुत्वेदम् अहम् अस्यास् तु जाता यत् सत्यम् आकुला । (२२५।१)

śrutvedam aham asyās tu jātā yat satyam ākulā |

225.2२२५.२

उपायम् एतम् आशङ्क्य समुद्रोत्सेकदुष्करम् ॥ (२२५।२)

upāyam etam āśaṅkya samudrotsekaduṣkaram ||

226.1२२६.१

हा हेति हसितेनोच्चैर् गूहमाना विषण्णताम् । (२२६।१)

hā heti hasitenoccair gūhamānā viṣaṇṇatām |

226.2२२६.२

एताम् आश्वासयामि स्म निःसारैर् वचनैर् इति ॥ (२२६।२)

etām āśvāsayāmi sma niḥsārair vacanair iti ||

227.1२२७.१

मुञ्च स्वामिनि संतापम् अपि विद्याधरेश्वरम् । (२२७।१)

muñca svāmini saṃtāpam api vidyādhareśvaram |

227.2२२७.२

वशयेयं तव प्रीत्यै किं पुनः पुरुषेश्वरम् ॥ (२२७।२)

vaśayeyaṃ tava prītyai kiṃ punaḥ puruṣeśvaram ||

228.1२२८.१

किं तु त्वारवता शक्यं न लब्धं फलम् ईप्सितम् । (२२८।१)

kiṃ tu tvāravatā śakyaṃ na labdhaṃ phalam īpsitam |

228.2२२८.२

राजानो ऽपि हि सामादीन् क्रमेणैव प्रयुञ्जते ॥ (२२८।२)

rājāno 'pi hi sāmādīn krameṇaiva prayuñjate ||

229.1२२९.१

तेन धैर्यप्रकर्षेण मनः संधृत्य चञ्चलम् । (२२९।१)

tena dhairyaprakarṣeṇa manaḥ saṃdhṛtya cañcalam |

229.2२२९.२

लोकेनालक्षिता कांश्चित् सहस्व दिवसान् इति ॥ (२२९।२)

lokenālakṣitā kāṃścit sahasva divasān iti ||

230.1२३०.१

तं चेयं सिद्धम् एवार्थम् अर्थिभावाद् अबुध्यत । (२३०।१)

taṃ ceyaṃ siddham evārtham arthibhāvād abudhyata |

230.2२३०.२

अन्तश् चाकथयत् तोषं विकसन्मुखपङ्कजा ॥ (२३०।२)

antaś cākathayat toṣaṃ vikasanmukhapaṅkajā ||

231.1२३१.१

दिवसे दिवसे चैतां वचोभिर् मधुरानृतैः । (२३१।१)

divase divase caitāṃ vacobhir madhurānṛtaiḥ |

231.2२३१.२

कार्यसंसिद्धसम्बद्धैर् दर्शिताशाम् अयापयम् ॥ (२३१।२)

kāryasaṃsiddhasambaddhair darśitāśām ayāpayam ||

232.1२३२.१

वन्ध्योत्तरैर् यदात्मानं वञ्च्यमानाम् अमन्यत । (२३२।१)

vandhyottarair yadātmānaṃ vañcyamānām amanyata |

232.2२३२.२

मोक्तुकामा तदा प्राणान् पुनर् उत्प्रेक्षिता मया ॥ (२३२।२)

moktukāmā tadā prāṇān punar utprekṣitā mayā ||

233.1२३३.१

ततः संभ्रान्तया गत्वा मयास्या मातुर् अन्तिकम् । (२३३।१)

tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam |

233.2२३३.२

सम्प्रधार्य तया सार्धम् उपायो ऽयम् अनुष्ठितः ॥ (२३३।२)

sampradhārya tayā sārdham upāyo 'yam anuṣṭhitaḥ ||

234.1२३४.१

शरीरं राजपुत्रस्य द्वितीयम् इव गोमुखः । (२३४।१)

śarīraṃ rājaputrasya dvitīyam iva gomukhaḥ |

234.2२३४.२

स केनचिद् उपायेन वेशम् आशु प्रवेश्यताम् ॥ (२३४।२)

sa kenacid upāyena veśam āśu praveśyatām ||

235.1२३५.१

स एव सहचारित्वाद् आनेष्यति नृपात्मजम् । (२३५।१)

sa eva sahacāritvād āneṣyati nṛpātmajam |

235.2२३५.२

मनःश्रोत्रहरालापो वसन्तम् इव कोकिलः ॥ (२३५।२)

manaḥśrotraharālāpo vasantam iva kokilaḥ ||

236.1२३६.१

कलिङ्गसेनया चायं वृत्तान्तः कथितस् तदा । (२३६।१)

kaliṅgasenayā cāyaṃ vṛttāntaḥ kathitas tadā |

236.2२३६.२

पद्मावत्यै तया चासि चेतस्य इति भाषितः ॥ (२३६।२)

padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ ||

237.1२३७.१

ततः सारथिकायस्थहस्त्यारोहादिभिस् तथा । (२३७।१)

tataḥ sārathikāyasthahastyārohādibhis tathā |

237.2२३७.२

धूर्तैर् अस्मत्प्रयुक्तैस् त्वं वेशम् एतं प्रवेशितः ॥ (२३७।२)

dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ ||

238.1२३८.१

तिसृणां च प्रयुक्तानाम् अभवद् भवतः प्रिया । (२३८।१)

tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā |

238.2२३८.२

तन्त्रीणां वर्णतन्त्रीव मधुरा पद्मदेविका ॥ (२३८।२)

tantrīṇāṃ varṇatantrīva madhurā padmadevikā ||

239.1२३९.१

सा तु निर्वर्तितस्वार्था सुहृदर्थपराङ्मुखी । (२३९।१)

sā tu nirvartitasvārthā suhṛdarthaparāṅmukhī |

239.2२३९.२

न निवेदयते तुभ्यं स्वार्थभ्रंशविशङ्कया ॥ (२३९।२)

na nivedayate tubhyaṃ svārthabhraṃśaviśaṅkayā ||

240.1२४०.१

नोपायम् अपरं दृष्ट्वा प्रयुक्तं भर्तृदारिका । (२४०।१)

nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā |

240.2२४०.२

असाध्यायतनिश्वासा निराशा दृश्यताम् इति ॥ (२४०।२)

asādhyāyataniśvāsā nirāśā dṛśyatām iti ||

241.1२४१.१

तद् इदं दुःसहं दुःखं यस्माद् अस्माकम् आगतम् । (२४१।१)

tad idaṃ duḥsahaṃ duḥkhaṃ yasmād asmākam āgatam |

241.2२४१.२

त्वदायत्तः स शेषश् च संविधत्तां भवान् इति ॥ (२४१।२)

tvadāyattaḥ sa śeṣaś ca saṃvidhattāṃ bhavān iti ||

242.1२४२.१

अथाहम् अब्रुवं कस्मान् नखच्छेद्यम् उपेक्षया । (२४२।१)

athāham abruvaṃ kasmān nakhacchedyam upekṣayā |

242.2२४२.२

कुठारच्छेद्यतां नीतं भवतीभिर् इदं तृणम् ॥ (२४२।२)

kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam ||

243.1२४३.१

स्वयम् एव ततो गत्वा देवी विज्ञापिता मया । (२४३।१)

svayam eva tato gatvā devī vijñāpitā mayā |

243.2२४३.२

मुच्यताम् एष संतापः सिद्धं विद्धि प्रयोजनम् ॥ (२४३।२)

mucyatām eṣa saṃtāpaḥ siddhaṃ viddhi prayojanam ||

244.1२४४.१

युवराजार्थिनी देवी स चर्तगुणवत्सलः । (२४४।१)

yuvarājārthinī devī sa cartaguṇavatsalaḥ |

244.2२४४.२

संधाता गोमुखश् चेति धन्यस् त्रिकसमागमः ॥ (२४४।२)

saṃdhātā gomukhaś ceti dhanyas trikasamāgamaḥ ||

245.1२४५.१

नास्त्य् एव च ममायासः शरत्कान्त्युन्मना यतः । (२४५।१)

nāsty eva ca mamāyāsaḥ śaratkāntyunmanā yataḥ |

245.2२४५.२

राजहंसो हि नलिनीं स्वयम् एवोपसर्पति ॥ (२४५।२)

rājahaṃso hi nalinīṃ svayam evopasarpati ||

246.1२४६.१

अलं चालापजालेन सर्वथाहं नृपात्मजम् । (२४६।१)

alaṃ cālāpajālena sarvathāhaṃ nṛpātmajam |

246.2२४६.२

स्वामिन्यै कारयिष्यामि प्रणामम् अचिराद् इति ॥ (२४६।२)

svāminyai kārayiṣyāmi praṇāmam acirād iti ||

247.1२४७.१

साब्रवीन् न नसंभाव्यम् इदं नागरके त्वयि । (२४७।१)

sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi |

247.2२४७.२

किं तु प्रस्तावम् आसाद्य यतेथाः कार्यसिद्धये ॥ (२४७।२)

kiṃ tu prastāvam āsādya yatethāḥ kāryasiddhaye ||

248.1२४८.१

अप्रस्तावप्रयुक्ता हि यान्ति निष्फलतां क्रियाः । (२४८।१)

aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ |

248.2२४८.२

अनिष्टफलतां वापि कोपयित्वा प्रभून् इति ॥ (२४८।२)

aniṣṭaphalatāṃ vāpi kopayitvā prabhūn iti ||

249.1२४९.१

ततस् तस्यै नमस्कृत्य कुमारवटकाम् अगाम् । (२४९।१)

tatas tasyai namaskṛtya kumāravaṭakām agām |

249.2२४९.२

उच्छिष्टान् आगतश् चास्मि गृहीत्वा मोदकादिकान् ॥ (२४९।२)

ucchiṣṭān āgataś cāsmi gṛhītvā modakādikān ||

250.1२५०.१

तां च विज्ञापयामि स्म राजपुत्रेण मोदकः । (२५०।१)

tāṃ ca vijñāpayāmi sma rājaputreṇa modakaḥ |

250.2२५०.२

स्वयम् आरभ्य हस्ताभ्यां युष्मभ्यं प्रहिता इति ॥ (२५०।२)

svayam ārabhya hastābhyāṃ yuṣmabhyaṃ prahitā iti ||

251.1२५१.१

साब्रवीज् जालम् अप्य् एतद् आश्वासयति मादृशम् । (२५१।१)

sābravīj jālam apy etad āśvāsayati mādṛśam |

251.2२५१.२

आश्वासन्ति क्षणं दृष्ट्वा मृगा हि मृगतृष्णिकाम् ॥ (२५१।२)

āśvāsanti kṣaṇaṃ dṛṣṭvā mṛgā hi mṛgatṛṣṇikām ||

252.1२५२.१

माल्यचन्दनताम्बूलवासोभूषणधूपनैः । (२५२।१)

mālyacandanatāmbūlavāsobhūṣaṇadhūpanaiḥ |

252.2२५२.२

युष्माभिः प्रेषितानीति ताम् आश्वासितवान् अहम् ॥ (२५२।२)

yuṣmābhiḥ preṣitānīti tām āśvāsitavān aham ||

253.1२५३.१

एष विज्ञापयाम्य् अद्य श्वो विज्ञापयितेति च । (२५३।१)

eṣa vijñāpayāmy adya śvo vijñāpayiteti ca |

253.2२५३.२

अलब्धावसरः कालम् एतावन्तम् अयापयम् ॥ (२५३।२)

alabdhāvasaraḥ kālam etāvantam ayāpayam ||

254.1२५४.१

अथ माम् अब्रवीद् देव्याः पुरतो मुद्रिकालता । (२५४।१)

atha mām abravīd devyāḥ purato mudrikālatā |

254.2२५४.२

अहो संभावना कार्या महानागरको भवान् ॥ (२५४।२)

aho saṃbhāvanā kāryā mahānāgarako bhavān ||

255.1२५५.१

प्रणामं कारयामीति विस्फूर्ज्य भवता तथा । (२५५।१)

praṇāmaṃ kārayāmīti visphūrjya bhavatā tathā |

255.2२५५.२

किम् इयं वञ्च्यते मुग्धा पत्रपुष्पफलादिभिः ॥ (२५५।२)

kim iyaṃ vañcyate mugdhā patrapuṣpaphalādibhiḥ ||

256.1२५६.१

अथवा तिष्ठ तावत् त्वम् अहम् एवानयामि तम् । (२५६।१)

athavā tiṣṭha tāvat tvam aham evānayāmi tam |

256.2२५६.२

विरक्तम् अपि संधातुम् अलं कौशलम् अस्ति नः ॥ (२५६।२)

viraktam api saṃdhātum alaṃ kauśalam asti naḥ ||

257.1२५७.१

एवम् उत्तेजितस् तस्या गुरुभिर् वचनैर् अहम् । (२५७।१)

evam uttejitas tasyā gurubhir vacanair aham |

257.2२५७.२

फलेन ज्ञास्यसीत्य् उक्त्वा प्रस्तावावहितो ऽभवम् ॥ (२५७।२)

phalena jñāsyasīty uktvā prastāvāvahito 'bhavam ||

258.1२५८.१

यात्रायां तु प्रवृत्तायाम् अभ्यासे ऽत्र यद् एव मे । (२५८।१)

yātrāyāṃ tu pravṛttāyām abhyāse 'tra yad eva me |

258.2२५८.२

तन् मया कारिता यूयं क्षिप्त्वा हरिशिखादिकान् ॥ (२५८।२)

tan mayā kāritā yūyaṃ kṣiptvā hariśikhādikān ||

259.1२५९.१

यत् तत् प्रवहणं गच्छत् पथि युष्माभिर् ईक्षितम् । (२५९।१)

yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam |

259.2२५९.२

तद् अर्यदुहिताध्यास्त विद्युदभ्रम् इव ध्वनत् ॥ (२५९।२)

tad aryaduhitādhyāsta vidyudabhram iva dhvanat ||

260.1२६०.१

यत्र यत् तन्मुखस्यार्द्धं ललाटनिहिताङ्गुलि । (२६०।१)

yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli |

260.2२६०.२

युष्मभ्यं दर्शितं वन्द्यं तत् तया वन्दमानया ॥ (२६०।२)

yuṣmabhyaṃ darśitaṃ vandyaṃ tat tayā vandamānayā ||

261.1२६१.१

यच् च विज्ञापिता यूयम् आनतं मुकुटं मनाक् । (२६१।१)

yac ca vijñāpitā yūyam ānataṃ mukuṭaṃ manāk |

261.2२६१.२

उन्नम्यताम् इति मया तत्रापीदं प्रयोजनम् ॥ (२६१।२)

unnamyatām iti mayā tatrāpīdaṃ prayojanam ||

262.1२६२.१

आसीद् आसां प्रणामो ऽयम् अर्यपुत्रेण नागरः । (२६२।१)

āsīd āsāṃ praṇāmo 'yam aryaputreṇa nāgaraḥ |

262.2२६२.२

कृतस् तोषयता कान्ताम् अस्माकं स्वामिनीम् इति ॥ (२६२।२)

kṛtas toṣayatā kāntām asmākaṃ svāminīm iti ||

263.1२६३.१

सेयं कामयते देवं देवी मदनमञ्जुका । (२६३।१)

seyaṃ kāmayate devaṃ devī madanamañjukā |

263.2२६३.२

प्रज्ञापराक्रमप्राणं लक्ष्मीर् इव नराधिपम् ॥ (२६३।२)

prajñāparākramaprāṇaṃ lakṣmīr iva narādhipam ||

264.1२६४.१

अयत्नोपनता चेयं न प्रत्याख्यातुम् अर्हति । (२६४।१)

ayatnopanatā ceyaṃ na pratyākhyātum arhati |

264.2२६४.२

नवेव मालतीमाला लोभनीयगुणाकृतिः ॥ (२६४।२)

naveva mālatīmālā lobhanīyaguṇākṛtiḥ ||

265.1२६५.१

दष्टानङ्गभुजंगेन लघु संभाव्यताम् असौ । (२६५।१)

daṣṭānaṅgabhujaṃgena laghu saṃbhāvyatām asau |

265.2२६५.२

न ह्य् आशीविषदग्ध अन्त्राः क्षमन्ते दिवसान् इति ॥ (२६५।२)

na hy āśīviṣadagdha antrāḥ kṣamante divasān iti ||

266.1२६६.१

इति गोमुखतः श्रुत्वा कथां नवदशप्रियाम् । (२६६।१)

iti gomukhataḥ śrutvā kathāṃ navadaśapriyām |

266.2२६६.२

तत्कथापहृतव्रीडः प्रकाशम् अहम् अब्रवम् ॥ (२६६।२)

tatkathāpahṛtavrīḍaḥ prakāśam aham abravam ||

267.1२६७.१

तदैव हृदये ऽस्माकं राजोत्सङ्गनिषण्णया । (२६७।१)

tadaiva hṛdaye 'smākaṃ rājotsaṅganiṣaṇṇayā |

267.2२६७.२

अशीर्णं मन्मथतरोः प्रकीर्णं बीजम् एतया ॥ (२६७।२)

aśīrṇaṃ manmathataroḥ prakīrṇaṃ bījam etayā ||

268.1२६८.१

तद्गुणश्रवणाम्भोभिः सिच्यमानं तदा तदा । (२६८।१)

tadguṇaśravaṇāmbhobhiḥ sicyamānaṃ tadā tadā |

268.2२६८.२

बाधमानं मनो जातम् उच्छ्वसत्कर्कशाङ्कुरम् ॥ (२६८।२)

bādhamānaṃ mano jātam ucchvasatkarkaśāṅkuram ||

269.1२६९.१

तद् दोहदम् इवासाद्य प्रियां प्रवहणे स्थिताम् । (२६९।१)

tad dohadam ivāsādya priyāṃ pravahaṇe sthitām |

269.2२६९.२

कम्पनिःश्वासजननान् अमुञ्चत् पल्लवान् इव ॥ (२६९।२)

kampaniḥśvāsajananān amuñcat pallavān iva ||

270.1२७०.१

समाप्तावयवो यावन् मनोभवमहातरुः । (२७०।१)

samāptāvayavo yāvan manobhavamahātaruḥ |

270.2२७०.२

न समाक्रम्य मृद्नाति तावद् दर्शय ताम् इति ॥ (२७०।२)

na samākramya mṛdnāti tāvad darśaya tām iti ||

271.1२७१.१

तेनोक्तं नर्तनाचार्याव् अस्पर्धेतां परस्परम् । (२७१।१)

tenoktaṃ nartanācāryāv aspardhetāṃ parasparam |

271.2२७१.२

त्वत्प्रवीणो ऽहम् इत्य् उक्तौ तौ च भूपतिना किल ॥ (२७१।२)

tvatpravīṇo 'ham ity uktau tau ca bhūpatinā kila ||

272.1२७२.१

अलं वां कलहं कृत्वा कर्मशास्त्रविदौ युवाम् । (२७२।१)

alaṃ vāṃ kalahaṃ kṛtvā karmaśāstravidau yuvām |

272.2२७२.२

यस्य या कुशला शिष्या स नर्तयतु ताम् इति ॥ (२७२।२)

yasya yā kuśalā śiṣyā sa nartayatu tām iti ||

273.1२७३.१

श्वः सुयामुनदन्तां च तस्माद् अर्यसुतां च नः । (२७३।१)

śvaḥ suyāmunadantāṃ ca tasmād aryasutāṃ ca naḥ |

273.2२७३.२

नृत्यन्तीं नृपतिर् द्रष्टा तत्र द्रष्टास्थ ताम् इति ॥ (२७३।२)

nṛtyantīṃ nṛpatir draṣṭā tatra draṣṭāstha tām iti ||

274.1२७४.१

या स्वाभाविकरूपखण्डितजगद्रूपाभिमाना प्रिया शृङ्गारादिरसप्रयोगसुभगा जायेत सा कीदृशी । (२७४।१)

yā svābhāvikarūpakhaṇḍitajagadrūpābhimānā priyā śṛṅgārādirasaprayogasubhagā jāyeta sā kīdṛśī |

274.2२७४.२

इत्य् अध्यासितचेतसा कथम् अपि प्रक्रान्तया चिन्तया पर्यङ्काङ्कविवर्तिनार्ततनुना नीता त्रियामा मया ॥ (२७४।२)

ity adhyāsitacetasā katham api prakrāntayā cintayā paryaṅkāṅkavivartinārtatanunā nītā triyāmā mayā ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 10

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit