बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 27

27 of 28 · 234 verses

Select a line for its word-by-word analysis.

1.1१.१

ततः समापिताहारः सुहृदाम् एव संनिधौ । (१।१)

tataḥ samāpitāhāraḥ suhṛdām eva saṃnidhau |

1.2१.२

प्रियदर्शनम् आलिङ्गम् अनङ्गोन्मूलितत्रपः ॥ (१।२)

priyadarśanam āliṅgam anaṅgonmūlitatrapaḥ ||

2.1२.१

अथ क्रोधारुणमुखो गोमुखः प्रियदर्शनम् । (२।१)

atha krodhāruṇamukho gomukhaḥ priyadarśanam |

2.2२.२

पाणाव् आकृष्य त्वरितः स्वगृहान् प्रतियातवान् ॥ (२।२)

pāṇāv ākṛṣya tvaritaḥ svagṛhān pratiyātavān ||

3.1३.१

स मयोक्तः समायातः क्रोधविस्तीर्णचक्षुषा । (३।१)

sa mayoktaḥ samāyātaḥ krodhavistīrṇacakṣuṣā |

3.2३.२

पाण्डित्यान्धक मित्रारे मा स्म तिष्ठः पुरो मम ॥ (३।२)

pāṇḍityāndhaka mitrāre mā sma tiṣṭhaḥ puro mama ||

4.1४.१

पिपासोर् मधुशौण्डस्य मधुशुक्तिं हरेत् करात् । (४।१)

pipāsor madhuśauṇḍasya madhuśuktiṃ haret karāt |

4.2४.२

यस्य यस् तस्य कस् तस्माद् अरातिर् अपरः परः ॥ (४।२)

yasya yas tasya kas tasmād arātir aparaḥ paraḥ ||

5.1५.१

इत्य् उक्तः स विषादेन त्याजितश् चम्पकाभताम् । (५।१)

ity uktaḥ sa viṣādena tyājitaś campakābhatām |

5.2५.२

राहुणेव तुषारांशुर् अगमद् धूमधूम्रताम् ॥ (५।२)

rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām ||

6.1६.१

तं च दीर्घम् अहःशेषम् आयतां च विभावरीम् । (६।१)

taṃ ca dīrgham ahaḥśeṣam āyatāṃ ca vibhāvarīm |

6.2६.२

प्रवृद्धैर् गमयामि स्म निषादासनचङ्क्रमैः ॥ (६।२)

pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ ||

7.1७.१

सुहृद्वृन्दवृतः प्रायो द्वेष्याशेषविनोदनः । (७।१)

suhṛdvṛndavṛtaḥ prāyo dveṣyāśeṣavinodanaḥ |

7.2७.२

प्रियदर्शनसंप्राप्तेर् उपायम् अगवेषयम् ॥ (७।२)

priyadarśanasaṃprāpter upāyam agaveṣayam ||

8.1८.१

एवंप्राये च वृत्तान्ते धवलोष्णीषकञ्चुकौ । (८।१)

evaṃprāye ca vṛttānte dhavaloṣṇīṣakañcukau |

8.2८.२

विस्मितौ चिरम् आलोक्य स्थविरौ माम् अवोचताम् ॥ (८।२)

vismitau ciram ālokya sthavirau mām avocatām ||

9.1९.१

किंनिमित्तम् अपि ब्रह्मन् ब्रह्मदत्तः प्रजेश्वरः । (९।१)

kiṃnimittam api brahman brahmadattaḥ prajeśvaraḥ |

9.2९.२

भवन्तम् इच्छति द्रष्टुम् इष्टं चेद् गम्यताम् इति ॥ (९।२)

bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti ||

10.1१०.१

इदम् आकर्ण्य यत् सत्यम् ईषद् आकुलमानसः । (१०।१)

idam ākarṇya yat satyam īṣad ākulamānasaḥ |

10.2१०.२

गोमुखस्य स्मरामि स्म विचारचतुरं मनः ॥ (१०।२)

gomukhasya smarāmi sma vicāracaturaṃ manaḥ ||

11.1११.१

किं गच्छानि न गच्छानि गच्छतः किं भवेद् इति । (११।१)

kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti |

11.2११.२

वितर्क्य क्षणम् आसीन् मे संदेहच्छेदनी मतिः ॥ (११।२)

vitarkya kṣaṇam āsīn me saṃdehacchedanī matiḥ ||

12.1१२.१

यो बन्धव्यो ऽथवा वध्यो न स कञ्चुकिदूतकः । (१२।१)

yo bandhavyo 'thavā vadhyo na sa kañcukidūtakaḥ |

12.2१२.२

स हि शृङ्खलनिस्त्रिंशपाणिभिः परिवार्यते ॥ (१२।२)

sa hi śṛṅkhalanistriṃśapāṇibhiḥ parivāryate ||

13.1१३.१

ये च केचिज् जना येषां विषये सुखम् आसते । (१३।१)

ye ca kecij janā yeṣāṃ viṣaye sukham āsate |

13.2१३.२

राज्ञाम् आज्ञाम् अवज्ञाय तेषां जीवन्ति ते कथम् ॥ (१३।२)

rājñām ājñām avajñāya teṣāṃ jīvanti te katham ||

14.1१४.१

अमन्दस्पन्दम् एतच् च काङ्क्षिताम् अक्षि दक्षिणम् । (१४।१)

amandaspandam etac ca kāṅkṣitām akṣi dakṣiṇam |

14.2१४.२

आख्यतीव प्रियाप्राप्तिं मह्यं तद् गमनं हितम् ॥ (१४।२)

ākhyatīva priyāprāptiṃ mahyaṃ tad gamanaṃ hitam ||

15.1१५.१

निश्चित्येत्यादि निर्गत्य गृहात् प्रवहणं बहिः । (१५।१)

niścityetyādi nirgatya gṛhāt pravahaṇaṃ bahiḥ |

15.2१५.२

कञ्चुक्यानीतम् अद्राक्षम् आरुक्षं चाविशङ्कितः ॥ (१५।२)

kañcukyānītam adrākṣam ārukṣaṃ cāviśaṅkitaḥ ||

16.1१६.१

पौरसंघातसंबाधं राजमार्गं व्यतीत्य च । (१६।१)

paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca |

16.2१६.२

राजद्वारं व्रजामि स्म चित्रमङ्गलमण्डलम् ॥ (१६।२)

rājadvāraṃ vrajāmi sma citramaṅgalamaṇḍalam ||

17.1१७.१

गोमुखाख्यापिताभिख्यं तद् अध्यास्य क्षणं ततः । (१७।१)

gomukhākhyāpitābhikhyaṃ tad adhyāsya kṣaṇaṃ tataḥ |

17.2१७.२

प्राविक्षं प्रथमां कक्षां द्वाःस्थवृन्दाभिनन्दितः ॥ (१७।२)

prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ ||

18.1१८.१

समृद्धिः स्रूयतां तस्याः कृतं वा तत्प्रशंसया । (१८।१)

samṛddhiḥ srūyatāṃ tasyāḥ kṛtaṃ vā tatpraśaṃsayā |

18.2१८.२

को हि वर्णयितुं शक्तो नरो मेरोर् अधित्यकाम् ॥ (१८।२)

ko hi varṇayituṃ śakto naro meror adhityakām ||

19.1१९.१

ताम् अतिक्रम्य पञ्चान्याः प्रकृष्टतररम्यताः । (१९।१)

tām atikramya pañcānyāḥ prakṛṣṭatararamyatāḥ |

19.2१९.२

सप्तम्यां दृष्टवान् अस्मि महास्थानं महीपतेः ॥ (१९।२)

saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ ||

20.1२०.१

श्रुतिस्मृतिपुराणादिग्रन्थसागरपारगैः । (२०।१)

śrutismṛtipurāṇādigranthasāgarapāragaiḥ |

20.2२०.२

धनुर्वेदादितत्त्वज्ञैः कलादक्षैश् च सेवितम् ॥ (२०।२)

dhanurvedāditattvajñaiḥ kalādakṣaiś ca sevitam ||

21.1२१.१

विरुद्धं बिभ्रतं मूर्त्या चन्द्रमःसवितृप्रभाम् । (२१।१)

viruddhaṃ bibhrataṃ mūrtyā candramaḥsavitṛprabhām |

21.2२१.२

सुखसेव्यं दुरीक्षं च तप्तांशुम् इव हैमनम् ॥ (२१।२)

sukhasevyaṃ durīkṣaṃ ca taptāṃśum iva haimanam ||

22.1२२.१

स्वस्तिकृत्वा ततस् तस्मै जातरूपाङ्गम् आनसम् । (२२।१)

svastikṛtvā tatas tasmai jātarūpāṅgam ānasam |

22.2२२.२

अध्यतिष्ठं नृपादिष्टं निर्विकाराम्बरावृतम् ॥ (२२।२)

adhyatiṣṭhaṃ nṛpādiṣṭaṃ nirvikārāmbarāvṛtam ||

23.1२३.१

नृपस् तु मां चिरं दृष्ट्वा स्नेहस्निग्धायतेक्षणः । (२३।१)

nṛpas tu māṃ ciraṃ dṛṣṭvā snehasnigdhāyatekṣaṇaḥ |

23.2२३.२

ततस् तारकराजाख्यं सेनाभृतारम् ऐक्षत ॥ (२३।२)

tatas tārakarājākhyaṃ senābhṛtāram aikṣata ||

24.1२४.१

स तु माम् अभितः स्थित्वा कार्यमात्रस्य वाचकः । (२४।१)

sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ |

24.2२४.२

अवोचद् वचनं चारु विस्पष्टमधुराक्षरम् ॥ (२४।२)

avocad vacanaṃ cāru vispaṣṭamadhurākṣaram ||

25.1२५.१

आर्यज्येष्ठ मनस् तावद् अविक्षिप्तं कुरु क्षणम् । (२५।१)

āryajyeṣṭha manas tāvad avikṣiptaṃ kuru kṣaṇam |

25.2२५.२

राजा मन्मुखसंक्रान्तैर् वाक्यैस् त्वाम् एष भाषते ॥ (२५।२)

rājā manmukhasaṃkrāntair vākyais tvām eṣa bhāṣate ||

26.1२६.१

येयं भागीरथीशुभ्रा काशिभूपतिसंततिः । (२६।१)

yeyaṃ bhāgīrathīśubhrā kāśibhūpatisaṃtatiḥ |

26.2२६.२

सा किम् आख्यायते तुभ्यं प्रथिता पृथिवीव या ॥ (२६।२)

sā kim ākhyāyate tubhyaṃ prathitā pṛthivīva yā ||

27.1२७.१

अस्याम् अस्य प्रसूतस्य ब्रह्मदत्तस्य भूपतेः । (२७।१)

asyām asya prasūtasya brahmadattasya bhūpateḥ |

27.2२७.२

ये गुणास् ते ऽपि ते बुद्धाः शिशिरांशोर् इवांशवः ॥ (२७।२)

ye guṇās te 'pi te buddhāḥ śiśirāṃśor ivāṃśavaḥ ||

28.1२८.१

अस्यासीत् कालियो नाम श्रेष्ठी प्राणप्रियः सुहृत् । (२८।१)

asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt |

28.2२८.२

सफलैर् द्रविणैर् यस्माद् द्रविणेशो ऽपि लज्जितः ॥ (२८।२)

saphalair draviṇair yasmād draviṇeśo 'pi lajjitaḥ ||

29.1२९.१

अन्तर्वत्याम् असौ पत्न्यां नीतः पुण्यैस् त्रिपिष्टपम् । (२९।१)

antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam |

29.2२९.२

अथ सा गृहिणी तस्य काले पुत्रं व्यजायत ॥ (२९।२)

atha sā gṛhiṇī tasya kāle putraṃ vyajāyata ||

30.1३०.१

तस्मिञ् जाते महाराजः स्वात्मजाद् अपि हर्षदे । (३०।१)

tasmiñ jāte mahārājaḥ svātmajād api harṣade |

30.2३०.२

पुरे सान्तःपुरे रम्यं महामहम् अकारयत् ॥ (३०।२)

pure sāntaḥpure ramyaṃ mahāmaham akārayat ||

31.1३१.१

स कृताशेषसंस्कारः शिशुर् गच्छन् कुमारताम् । (३१।१)

sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām |

31.2३१.२

अङ्गैर् विद्याकलाभिश् च सकलाभिर् अलंकृतः ॥ (३१।२)

aṅgair vidyākalābhiś ca sakalābhir alaṃkṛtaḥ ||

32.1३२.१

एवंप्राये च वृत्तान्ते द्वाःस्थैर् विज्ञापितो नृपः । (३२।१)

evaṃprāye ca vṛttānte dvāḥsthair vijñāpito nṛpaḥ |

32.2३२.२

द्वारे वः कालियः श्रेष्ठी तिष्ठतीति ससंभ्रमैः ॥ (३२।२)

dvāre vaḥ kāliyaḥ śreṣṭhī tiṣṭhatīti sasaṃbhramaiḥ ||

33.1३३.१

ततश् चित्रीयमाणेन स नृपेण प्रवेशितः । (३३।१)

tataś citrīyamāṇena sa nṛpeṇa praveśitaḥ |

33.2३३.२

कस् त्वं कस्य कुतो वेति पृष्टश् चेदम् अभाषत ॥ (३३।२)

kas tvaṃ kasya kuto veti pṛṣṭaś cedam abhāṣata ||

34.1३४.१

देवाहं कालियः श्रेष्ठी देवेन स्वशरीरवत् । (३४।१)

devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat |

34.2३४.२

लालितः पालितश् चासं शिक्षितश् चाखिलाः कलाः ॥ (३४।२)

lālitaḥ pālitaś cāsaṃ śikṣitaś cākhilāḥ kalāḥ ||

35.1३५.१

सो ऽहं सुचरितैर् अङ्गैः सुखाद् युष्मत्प्रसादजात् । (३५।१)

so 'haṃ sucaritair aṅgaiḥ sukhād yuṣmatprasādajāt |

35.2३५.२

च्यावयित्वा दिवं नीतो न हि नाशो ऽस्ति कर्मणाम् ॥ (३५।२)

cyāvayitvā divaṃ nīto na hi nāśo 'sti karmaṇām ||

36.1३६.१

अथासौ भवतां दासी दुर्मनाः सुमनाः सुताम् । (३६।१)

athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām |

36.2३६.२

जातां पुत्र इति ख्यातिम् अनयल् लोभदूषिता ॥ (३६।२)

jātāṃ putra iti khyātim anayal lobhadūṣitā ||

37.1३७.१

मृषावादेन तेनास्याः सुरलोकाद् अहं च्युतः । (३७।१)

mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ |

37.2३७.२

भार्यया हि कृतं कर्म पत्याव् अपि विपच्यते ॥ (३७।२)

bhāryayā hi kṛtaṃ karma patyāv api vipacyate ||

38.1३८.१

कुले च कुलपुत्रस्य जातो जातिस्मरः पुनः । (३८।१)

kule ca kulaputrasya jāto jātismaraḥ punaḥ |

38.2३८.२

एतम् ईदृशम् आकारं वहामि जननिन्दितम् ॥ (३८।२)

etam īdṛśam ākāraṃ vahāmi jananinditam ||

39.1३९.१

असौ च युवतिर् जाता कान्ताकारा च दारिका । (३९।१)

asau ca yuvatir jātā kāntākārā ca dārikā |

39.2३९.२

कस्मैचिद् अभिरूपाय वराय प्रतिपाद्यताम् ॥ (३९।२)

kasmaicid abhirūpāya varāya pratipādyatām ||

40.1४०.१

अहम् अप्य् एतम् आत्मानम् अङ्गवैकल्यनिन्दितम् । (४०।१)

aham apy etam ātmānam aṅgavaikalyaninditam |

40.2४०.२

प्रयागे संन्यसिष्यामि प्रस्थापयत माम् इति ॥ (४०।२)

prayāge saṃnyasiṣyāmi prasthāpayata mām iti ||

41.1४१.१

एवमाद्य् उक्तवान् उक्तो विस्मितेन स भूभृता । (४१।१)

evamādy uktavān ukto vismitena sa bhūbhṛtā |

41.2४१.२

पूर्वं यद् आवयोर् वृत्तं तत् किंचित् स्मर्यताम् इति ॥ (४१।२)

pūrvaṃ yad āvayor vṛttaṃ tat kiṃcit smaryatām iti ||

42.1४२.१

अनेनापि विहस्योक्तं यद् यद् देवाय रोचते । (४२।१)

anenāpi vihasyoktaṃ yad yad devāya rocate |

42.2४२.२

असंदिग्धं सुविश्रब्धस् तत् तत् पृष्टतु माम् इति ॥ (४२।२)

asaṃdigdhaṃ suviśrabdhas tat tat pṛṣṭatu mām iti ||

43.1४३.१

अथाध्याय चिरं राज्ञा यद् यत् पृष्टं चिरन्तनम् । (४३।१)

athādhyāya ciraṃ rājñā yad yat pṛṣṭaṃ cirantanam |

43.2४३.२

अशेषं तत् तद् एतेन सविशेषं निवेदितम् ॥ (४३।२)

aśeṣaṃ tat tad etena saviśeṣaṃ niveditam ||

44.1४४.१

अथात्यद्भुतम् इत्य् उक्त्वा जातसंप्रत्ययो नृपः । (४४।१)

athātyadbhutam ity uktvā jātasaṃpratyayo nṛpaḥ |

44.2४४.२

आहैनं दारिका कस्मै जामात्रे दीयताम् इति ॥ (४४।२)

āhainaṃ dārikā kasmai jāmātre dīyatām iti ||

45.1४५.१

अयं तु परितोषेण स्खलदक्षरम् उक्तवान् । (४५।१)

ayaṃ tu paritoṣeṇa skhaladakṣaram uktavān |

45.2४५.२

रोचते यो वरस् तस्यै तस्मै सा दीयताम् इति ॥ (४५।२)

rocate yo varas tasyai tasmai sā dīyatām iti ||

46.1४६.१

ततो ऽन्तःपुरम् आनाय्य सा सार्धम् ऋषिदत्तया । (४६।१)

tato 'ntaḥpuram ānāyya sā sārdham ṛṣidattayā |

46.2४६.२

पृष्टा देवीसमूहेन ह्रिया कूर्माङ्गनाकृतिः ॥ (४६।२)

pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ ||

47.1४७.१

असौ चासौ च जामाता कुलरूपादिभूषणः । (४७।१)

asau cāsau ca jāmātā kularūpādibhūṣaṇaḥ |

47.2४७.२

भवत्यै रोचते नेति मातर् आख्यायताम् इति ॥ (४७।२)

bhavatyai rocate neti mātar ākhyāyatām iti ||

48.1४८.१

अथारुणकरछायकपोलेक्षणयानया । (४८।१)

athāruṇakarachāyakapolekṣaṇayānayā |

48.2४८.२

पुण्डरीकम् इवावाते मन्थरं चलितं शिरः ॥ (४८।२)

puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ ||

49.1४९.१

अथार्यज्येष्ठ इत्य् उक्ते प्रसन्नाक्षिकपोलया । (४९।१)

athāryajyeṣṭha ity ukte prasannākṣikapolayā |

49.2४९.२

स्वेदार्द्रांशुकया प्राग्वन् न तद् विचलितं शिरः ॥ (४९।२)

svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ ||

50.1५०.१

तद् भवान् रूचितस् तस्यै नृपाय च यतस् ततः । (५०।१)

tad bhavān rūcitas tasyai nṛpāya ca yatas tataḥ |

50.2५०.२

अद्यैव श्रेष्ठिकन्यायाः पाणिम् आलम्बताम् इति ॥ (५०।२)

adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti ||

51.1५१.१

ततो मन्दस्पृहेणेव मया अनादरमन्थरम् । (५१।१)

tato mandaspṛheṇeva mayā anādaramantharam |

51.2५१.२

भीतान्तःपुरदृष्टेन चिराद् इदम् उदीरितम् ॥ (५१।२)

bhītāntaḥpuradṛṣṭena cirād idam udīritam ||

52.1५२.१

अवन्तेर् अहम् आयातः सह भ्रात्रा कनीयसा । (५२।१)

avanter aham āyātaḥ saha bhrātrā kanīyasā |

52.2५२.२

वेदशास्त्रागमायैव न योषित्प्राप्तिवाञ्छया ॥ (५२।२)

vedaśāstrāgamāyaiva na yoṣitprāptivāñchayā ||

53.1५३.१

किंतु भूभर्तुर् आदेशो दुर्लङ्घ्यः पुरवासिभिः । (५३।१)

kiṃtu bhūbhartur ādeśo durlaṅghyaḥ puravāsibhiḥ |

53.2५३.२

योगक्षेमार्थिभिर् भव्यैस् तस्माद् एवं भवत्व् इति ॥ (५३।२)

yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti ||

54.1५४.१

एतस्मिन्न् अन्तरे मन्द्रं सतालतुमुलध्वनि । (५४।१)

etasminn antare mandraṃ satālatumuladhvani |

54.2५४.२

प्रतिध्वानध्वनद्व्योम प्राध्वनत् तूर्यमण्डलम् ॥ (५४।२)

pratidhvānadhvanadvyoma prādhvanat tūryamaṇḍalam ||

55.1५५.१

यश् च संवत्सरेणापि दुःसंभारो नृपैः परैः । (५५।१)

yaś ca saṃvatsareṇāpi duḥsaṃbhāro nṛpaiḥ paraiḥ |

55.2५५.२

विवाहार्थः स संभारो राज्ञा संभारितः क्षणात् ॥ (५५।२)

vivāhārthaḥ sa saṃbhāro rājñā saṃbhāritaḥ kṣaṇāt ||

56.1५६.१

ततः सान्तःपुरो राजा स सदारसुहृद्गणः । (५६।१)

tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ |

56.2५६.२

राजाजिरे ममोदारं करग्रहम् अकारयत् ॥ (५६।२)

rājājire mamodāraṃ karagraham akārayat ||

57.1५७.१

दत्त्वा ततः श्रेष्ठिपदं नगर्यां वित्तं च भूमण्डलमूल्यतुल्यम् । (५७।१)

dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam |

57.2५७.२

समृद्धिम् अन्वेष्य च कालियस्य प्रास्थापयन् मां मुदितो नरेन्द्रः ॥ (५७।२)

samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ ||

58.1५८.१

आसीच् च मम लोकोक्तिर् इयं मय्य् एव संप्रति । (५८।१)

āsīc ca mama lokoktir iyaṃ mayy eva saṃprati |

58.2५८.२

वर्धमानो यथा राजा श्रेष्ठी जात इति स्थिता ॥ (५८।२)

vardhamāno yathā rājā śreṣṭhī jāta iti sthitā ||

59.1५९.१

अथ नन्दोपनन्दाद्यैः प्रवृद्धप्रीतिविस्मयैः । (५९।१)

atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ |

59.2५९.२

प्रियदर्शनया चास्मि सह क्षिप्तशचीपतिः ॥ (५९।२)

priyadarśanayā cāsmi saha kṣiptaśacīpatiḥ ||

60.1६०.१

अहोरात्रे त्व् अतिक्रान्ते स गोमुखम् अपश्यतः । (६०।१)

ahorātre tv atikrānte sa gomukham apaśyataḥ |

60.2६०.२

महाव्यसनसंकीर्ण इवासीन् मे महोत्सवः ॥ (६०।२)

mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ ||

61.1६१.१

आसीच् च मे विलक्षस्य विलक्षं गोमुखं बलात् । (६१।१)

āsīc ca me vilakṣasya vilakṣaṃ gomukhaṃ balāt |

61.2६१.२

विदग्धसुहृदां कश्चिद् अपि नामानयेद् इति ॥ (६१।२)

vidagdhasuhṛdāṃ kaścid api nāmānayed iti ||

62.1६२.१

ततः संमानयन्तं तम् आनतान् पुरवासिनः । (६२।१)

tataḥ saṃmānayantaṃ tam ānatān puravāsinaḥ |

62.2६२.२

अद्राक्षं भृत्यवर्गं च संचरन्तम् इतस् ततः ॥ (६२।२)

adrākṣaṃ bhṛtyavargaṃ ca saṃcarantam itas tataḥ ||

63.1६३.१

चिन्तितं च मया दिङ् मां विलक्षकम् अकारणे । (६३।१)

cintitaṃ ca mayā diṅ māṃ vilakṣakam akāraṇe |

63.2६३.२

बलाद् आनाययाम्य् एनं किं दुःखासिकया मम ॥ (६३।२)

balād ānāyayāmy enaṃ kiṃ duḥkhāsikayā mama ||

64.1६४.१

अथ नन्दोपनन्दाभ्याम् असाव् आनायितो मया । (६४।१)

atha nandopanandābhyām asāv ānāyito mayā |

64.2६४.२

आसीनः स्मयमानेन सोपालम्भम् इवोदितः ॥ (६४।२)

āsīnaḥ smayamānena sopālambham ivoditaḥ ||

65.1६५.१

किं गोमुखः सखा यस्य प्राज्ञंमन्यो न विद्यते । (६५।१)

kiṃ gomukhaḥ sakhā yasya prājñaṃmanyo na vidyate |

65.2६५.२

तस्य साध्यानि कार्याणि न सिध्यन्तीति सो ऽब्रवीत् ॥ (६५।२)

tasya sādhyāni kāryāṇi na sidhyantīti so 'bravīt ||

66.1६६.१

सर्वप्राणभृताम् एव पुराकृतकृतं फलम् । (६६।१)

sarvaprāṇabhṛtām eva purākṛtakṛtaṃ phalam |

66.2६६.२

न तु तत्कारणैर् योग्यैर् विना सिध्यति कस्यचित् ॥ (६६।२)

na tu tatkāraṇair yogyair vinā sidhyati kasyacit ||

67.1६७.१

यद् अपीदं महत् कार्यं युष्माभिः किल साधितम् । (६७।१)

yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam |

67.2६७.२

तत्रापि गोमुखस्यैव प्राज्ञंमन्यस्य कौशलम् ॥ (६७।२)

tatrāpi gomukhasyaiva prājñaṃmanyasya kauśalam ||

68.1६८.१

प्रभवः प्रभवन्तो हि दोषाभासे मनाग् अपि । (६८।१)

prabhavaḥ prabhavanto hi doṣābhāse manāg api |

68.2६८.२

भृत्यान् उद्वेजयन्त्य् एव तेषां किं क्रियताम् इति ॥ (६८।२)

bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti ||

69.1६९.१

किम् अस्मिन् भवता कार्ये कृतम् इत्य् उदिते मया । (६९।१)

kim asmin bhavatā kārye kṛtam ity udite mayā |

69.2६९.२

आख्यातुम् अयम् आरब्धः श्रूयतां यन् मया कृतम् ॥ (६९।२)

ākhyātum ayam ārabdhaḥ śrūyatāṃ yan mayā kṛtam ||

70.1७०.१

अस्त्य् अहं भर्त्सितः क्रुद्धैर् युष्माभिः स्वगृहं गतः । (७०।१)

asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ |

70.2७०.२

तत्र प्रावृत्य मूर्धानं पतित्वा शयनो स्थितः ॥ (७०।२)

tatra prāvṛtya mūrdhānaṃ patitvā śayano sthitaḥ ||

71.1७१.१

ततस् त्रसद्द्रुतगिरा पृष्टो ऽहम् ऋषिदत्तया । (७१।१)

tatas trasaddrutagirā pṛṣṭo 'ham ṛṣidattayā |

71.2७१.२

किम् एतद् इति तस्यैव न मया दत्तम् उत्तरम् ॥ (७१।२)

kim etad iti tasyaiva na mayā dattam uttaram ||

72.1७२.१

सा यदा दृढनिबन्धा पृच्छति स्म पुनः पुनः । (७२।१)

sā yadā dṛḍhanibandhā pṛcchati sma punaḥ punaḥ |

72.2७२.२

युष्मद्वृत्तान्तम् अखिलं तदा कथितवान् अहम् ॥ (७२।२)

yuṣmadvṛttāntam akhilaṃ tadā kathitavān aham ||

73.1७३.१

साथ प्रमोदबाष्पार्द्रकपोलापृच्छद् आदरात् । (७३।१)

sātha pramodabāṣpārdrakapolāpṛcchad ādarāt |

73.2७३.२

वत्सेश्वरसुतः कश्चिद् आर्यज्येष्ठो भवेद् इति ॥ (७३।२)

vatseśvarasutaḥ kaścid āryajyeṣṭho bhaved iti ||

74.1७४.१

शपथैः प्रतिषिध्यैनां त्वद्वृत्तान्तप्रकाशनात् । (७४।१)

śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt |

74.2७४.२

आम सुभ्रू स एवायम् इति तस्यै न्यवेदयम् ॥ (७४।२)

āma subhrū sa evāyam iti tasyai nyavedayam ||

75.1७५.१

अथासौ स्थिरधीरत्वं गोमुख श्रूयताम् इति । (७५।१)

athāsau sthiradhīratvaṃ gomukha śrūyatām iti |

75.2७५.२

सासूया सप्रमोदेव माम् उक्त्वाकथयत् कथाम् ॥ (७५।२)

sāsūyā sapramodeva mām uktvākathayat kathām ||

76.1७६.१

आसीत् सुमनसः कापि प्रिया विद्याधरी सखी । (७६।१)

āsīt sumanasaḥ kāpi priyā vidyādharī sakhī |

76.2७६.२

दिव्यज्ञाना मरुद्वेगा नाम्ना च प्रियदर्शना ॥ (७६।२)

divyajñānā marudvegā nāmnā ca priyadarśanā ||

77.1७७.१

सा यदृच्छागता चैनां प्रसङ्गे क्वचिद् अब्रवीत् । (७७।१)

sā yadṛcchāgatā caināṃ prasaṅge kvacid abravīt |

77.2७७.२

त्वं माम् आपदि कष्टायां वर्तमाना स्मरेर् इति ॥ (७७।२)

tvaṃ mām āpadi kaṣṭāyāṃ vartamānā smarer iti ||

78.1७८.१

ततः श्रेष्ठिनि कालेन नीते वैवस्वतक्षयम् । (७८।१)

tataḥ śreṣṭhini kālena nīte vaivasvatakṣayam |

78.2७८.२

श्रेष्ठिन्याः कन्यका जाता शोकानलघृताहुतिः ॥ (७८।२)

śreṣṭhinyāḥ kanyakā jātā śokānalaghṛtāhutiḥ ||

79.1७९.१

अस्यास् त्व् आसीद् अपुत्राया द्रविणस्यातिभूरिणः । (७९।१)

asyās tv āsīd aputrāyā draviṇasyātibhūriṇaḥ |

79.2७९.२

सारस्यास्यास्मदीयस्य पालकः को भविष्यति ॥ (७९।२)

sārasyāsyāsmadīyasya pālakaḥ ko bhaviṣyati ||

80.1८०.१

उक्ता चास्मि पुरा सख्या व्यसने मां स्मरेर् इति । (८०।१)

uktā cāsmi purā sakhyā vyasane māṃ smarer iti |

80.2८०.२

ततश् चिन्तितमात्रैव ददृशे प्रियदर्शना ॥ (८०।२)

tataś cintitamātraiva dadṛśe priyadarśanā ||

81.1८१.१

तां चासौ दारिकां दृष्ट्वा प्रकर्षप्रमदस्मिता । (८१।१)

tāṃ cāsau dārikāṃ dṛṣṭvā prakarṣapramadasmitā |

81.2८१.२

अवोचत् सखि मा भैषीर् जनयित्वेदृशीं सुताम् ॥ (८१।२)

avocat sakhi mā bhaiṣīr janayitvedṛśīṃ sutām ||

82.1८२.१

एषा विद्याधरेन्द्रस्य भविष्यति भविष्यतः । (८२।१)

eṣā vidyādharendrasya bhaviṣyati bhaviṣyataḥ |

82.2८२.२

प्रिया प्रियतमा तस्माज् जृम्भन्तां तूर्यपङ्क्तयः ॥ (८२।२)

priyā priyatamā tasmāj jṛmbhantāṃ tūryapaṅktayaḥ ||

83.1८३.१

अथासाव् ओषधीगर्भं बद्ध्वा तस्याः स्फुरत्करम् । (८३।१)

athāsāv oṣadhīgarbhaṃ baddhvā tasyāḥ sphuratkaram |

83.2८३.२

कन्याया हाटकं दृष्ट्वा कण्ठे गण्डकम् अब्रवीत् ॥ (८३।२)

kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt ||

84.1८४.१

प्रभावाद् ओषधेर् अस्याः स्त्रियम् एनां सतीं जनाः । (८४।१)

prabhāvād oṣadher asyāḥ striyam enāṃ satīṃ janāḥ |

84.2८४.२

द्रक्ष्यन्ति पुरुषं मुक्त्वा भविष्यच्चक्रवर्तिनम् ॥ (८४।२)

drakṣyanti puruṣaṃ muktvā bhaviṣyaccakravartinam ||

85.1८५.१

अमलानन्तपुण्यत्वात् सर्वज्ञाश् चक्रवर्तिनः । (८५।१)

amalānantapuṇyatvāt sarvajñāś cakravartinaḥ |

85.2८५.२

पश्यन्ति हि यथाभूतम् अर्थं दिव्येन चक्षुषा ॥ (८५।२)

paśyanti hi yathābhūtam arthaṃ divyena cakṣuṣā ||

86.1८६.१

तेन यः स्त्रियम् एवैनां द्रष्टा स भवति ध्रुवम् । (८६।१)

tena yaḥ striyam evaināṃ draṣṭā sa bhavati dhruvam |

86.2८६.२

चक्रवर्ती पतिश् चास्याः सर्वविद्याधराधिपः ॥ (८६।२)

cakravartī patiś cāsyāḥ sarvavidyādharādhipaḥ ||

87.1८७.१

ओषधिर् या च कण्ठे ऽस्याः सा नाम्ना प्रियदर्शना । (८७।१)

oṣadhir yā ca kaṇṭhe 'syāḥ sā nāmnā priyadarśanā |

87.2८७.२

इदम् एव च नामास्याः प्रशस्तं क्रियताम् इति ॥ (८७।२)

idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti ||

88.1८८.१

तेन यो ऽयं पुरश्रेष्ठी पुरुषः प्रियदर्शनः । (८८।१)

tena yo 'yaṃ puraśreṣṭhī puruṣaḥ priyadarśanaḥ |

88.2८८.२

विद्याधरेन्द्रयोग्येयं प्रमदा प्रियदर्शना ॥ (८८।२)

vidyādharendrayogyeyaṃ pramadā priyadarśanā ||

89.1८९.१

किंच वीणासमस्यायां यद् उक्तं चक्रवर्तिना । (८९।१)

kiṃca vīṇāsamasyāyāṃ yad uktaṃ cakravartinā |

89.2८९.२

चिरं सुन्दरि जीवेति तेनैव विदितं मया ॥ (८९।२)

ciraṃ sundari jīveti tenaiva viditaṃ mayā ||

90.1९०.१

न हि शक्तः स्त्रियं द्रष्टुम् एनाम् अवनिगोचरः । (९०।१)

na hi śaktaḥ striyaṃ draṣṭum enām avanigocaraḥ |

90.2९०.२

यस् तु पश्यति स्म व्यक्तं चक्रवर्तीत्य् अभून् मम ॥ (९०।२)

yas tu paśyati sma vyaktaṃ cakravartīty abhūn mama ||

91.1९१.१

त्वं च गोमुख एवेति तदैव ज्ञातवत्य् अहम् । (९१।१)

tvaṃ ca gomukha eveti tadaiva jñātavaty aham |

91.2९१.२

सरूपः सवयाश् चान्यो नास्ति यच् चक्रवर्तिनः ॥ (९१।२)

sarūpaḥ savayāś cānyo nāsti yac cakravartinaḥ ||

92.1९२.१

रूपं च युवराजस्य तव चानायितं मया । (९२।१)

rūpaṃ ca yuvarājasya tava cānāyitaṃ mayā |

92.2९२.२

कौशाम्बीतः पटे न्यस्तं तच् च निश्चयकारणम् ॥ (९२।२)

kauśāmbītaḥ paṭe nyastaṃ tac ca niścayakāraṇam ||

93.1९३.१

इत्यादिभिर् मया चिह्नैर् अयम् अव्यभिचारितः । (९३।१)

ityādibhir mayā cihnair ayam avyabhicāritaḥ |

93.2९३.२

चक्रवर्तीति विज्ञातः पश्चिमं स्तनदर्शनम् ॥ (९३।२)

cakravartīti vijñātaḥ paścimaṃ stanadarśanam ||

94.1९४.१

यः पुनर् घटनोपायः कार्यः स भवतानयोः । (९४।१)

yaḥ punar ghaṭanopāyaḥ kāryaḥ sa bhavatānayoḥ |

94.2९४.२

घटने दुर्घटस्यापि चतुरो हि भवान् इति ॥ (९४।२)

ghaṭane durghaṭasyāpi caturo hi bhavān iti ||

95.1९५.१

एवमादि ततः श्रुत्वा स्पृहयामि स्म मृत्यवे । (९५।१)

evamādi tataḥ śrutvā spṛhayāmi sma mṛtyave |

95.2९५.२

यस्मान् निश्चितवान् अस्मि त्रयं मरणकारणम् ॥ (९५।२)

yasmān niścitavān asmi trayaṃ maraṇakāraṇam ||

96.1९६.१

मया सत्यं ब्रुवद् भर्ता मिथ्या ब्रूतेति खेदितः । (९६।१)

mayā satyaṃ bruvad bhartā mithyā brūteti kheditaḥ |

96.2९६.२

अत्र जीवति यस् तस्य मृत एवामृतोपमः ॥ (९६।२)

atra jīvati yas tasya mṛta evāmṛtopamaḥ ||

97.1९७.१

पाण्डित्यान्धसुहृद्वैरि मा स्म तिष्ठ पुरो मम । (९७।१)

pāṇḍityāndhasuhṛdvairi mā sma tiṣṭha puro mama |

97.2९७.२

इति यः स्वामिनादिष्टस् तस्य मृत्युम् अर्होत्सवः ॥ (९७।२)

iti yaḥ svāminādiṣṭas tasya mṛtyum arhotsavaḥ ||

98.1९८.१

न चास्ति दुर्घटस्यास्य घटने मम कौशलम् । (९८।१)

na cāsti durghaṭasyāsya ghaṭane mama kauśalam |

98.2९८.२

तस्मान् मरणम् एवास्तु धिक् प्राणान् दुःस्थितान् इति ॥ (९८।२)

tasmān maraṇam evāstu dhik prāṇān duḥsthitān iti ||

99.1९९.१

निर्यातश् च पुरीबाह्यं मरणोपायलिप्सया । (९९।१)

niryātaś ca purībāhyaṃ maraṇopāyalipsayā |

99.2९९.२

कस्याप्य् अदृष्टरूपस्य वाचम् अश्रौषम् अम्बरे ॥ (९९।२)

kasyāpy adṛṣṭarūpasya vācam aśrauṣam ambare ||

100.1१००.१

विपर्यस्त निवर्तस्व निन्द्यान् मरणनिश्चयात् । (१००।१)

viparyasta nivartasva nindyān maraṇaniścayāt |

100.2१००.२

न हि दुःखक्षयोपायो मृत्युर् इष्टः सताम् इति ॥ (१००।२)

na hi duḥkhakṣayopāyo mṛtyur iṣṭaḥ satām iti ||

101.1१०१.१

ततः शिथिलितोद्वेगो गिरा खेचरयानया । (१०१।१)

tataḥ śithilitodvego girā khecarayānayā |

101.2१०१.२

पुरः पुरुषम् अद्राक्षं स्कन्धारोपितदारकम् ॥ (१०१।२)

puraḥ puruṣam adrākṣaṃ skandhāropitadārakam ||

102.1१०२.१

असौ च दारकः कुण्ठः खञ्जः कुब्जः पृथूदरः । (१०२।१)

asau ca dārakaḥ kuṇṭhaḥ khañjaḥ kubjaḥ pṛthūdaraḥ |

102.2१०२.२

इति संतक्षितः पित्रा कर्कशैर् वचनक्षुरैः ॥ (१०२।२)

iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ ||

103.1१०३.१

म्रियस्व धर्षिणीपुत्र प्रेतखादितमातृक । (१०३।१)

mriyasva dharṣiṇīputra pretakhāditamātṛka |

103.2१०३.२

न वहामि न पुष्णामि भवन्तं निष्प्रयोजनम् ॥ (१०३।२)

na vahāmi na puṣṇāmi bhavantaṃ niṣprayojanam ||

104.1१०४.१

एष त्वां गाढम् आवेष्ट्य ग्रीवां भित्त्वाथवा शिरः । (१०४।१)

eṣa tvāṃ gāḍham āveṣṭya grīvāṃ bhittvāthavā śiraḥ |

104.2१०४.२

मारयिष्यामि तद् गच्छ वैवस्वतपुरीम् इति ॥ (१०४।२)

mārayiṣyāmi tad gaccha vaivasvatapurīm iti ||

105.1१०५.१

ततस् तेन विहस्योक्तं मा वाक्षीर् मा च मां पुषः । (१०५।१)

tatas tena vihasyoktaṃ mā vākṣīr mā ca māṃ puṣaḥ |

105.2१०५.२

एतावता हि ते कार्यं न मदीयेन मृत्युना ॥ (१०५।२)

etāvatā hi te kāryaṃ na madīyena mṛtyunā ||

106.1१०६.१

मयापि किल कर्तव्यं महत् कार्यं महात्मनाम् । (१०६।१)

mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām |

106.2१०६.२

तद् भवान् मां सहस्रेण विक्रीणीतां महात्मसु ॥ (१०६।२)

tad bhavān māṃ sahasreṇa vikrīṇītāṃ mahātmasu ||

107.1१०७.१

सहस्रं यच् च तद् दत्तं पर्याप्तं जीवनं यतः । (१०७।१)

sahasraṃ yac ca tad dattaṃ paryāptaṃ jīvanaṃ yataḥ |

107.2१०७.२

मा स्म तस्माद् विना कार्यान् मारयन् मां भवान् इति ॥ (१०७।२)

mā sma tasmād vinā kāryān mārayan māṃ bhavān iti ||

108.1१०८.१

मम त्व् आसीन् महात्मानः के ऽन्ये युष्मज् जगत्त्रये । (१०८।१)

mama tv āsīn mahātmānaḥ ke 'nye yuṣmaj jagattraye |

108.2१०८.२

कुतश् चान्यन् महत् कार्यं युष्मज्जीवितरक्षणात् ॥ (१०८।२)

kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt ||

109.1१०९.१

सहस्रं ते न यत् किंचित् कोट्यापि यदि लभ्यते । (१०९।१)

sahasraṃ te na yat kiṃcit koṭyāpi yadi labhyate |

109.2१०९.२

तुच्छमूल्यस् तथाप्य् एष तृणमुष्टिसमा हि सा ॥ (१०९।२)

tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā ||

110.1११०.१

तत् तद् इत्यादि निश्चित्य गृहम् आनाय्य तं ततः । (११०।१)

tat tad ityādi niścitya gṛham ānāyya taṃ tataḥ |

110.2११०.२

क्रीणामि स्म सहस्रेण चिन्तामणिम् इवाश्मना ॥ (११०।२)

krīṇāmi sma sahasreṇa cintāmaṇim ivāśmanā ||

111.1१११.१

ऋषिदत्ताम् अथावोचं यावत् स्मरसि किंचन । (१११।१)

ṛṣidattām athāvocaṃ yāvat smarasi kiṃcana |

111.2१११.२

प्रच्छन्नं श्रेष्ठिनो वृत्तं तावन् मे कथ्यताम् इति ॥ (१११।२)

pracchannaṃ śreṣṭhino vṛttaṃ tāvan me kathyatām iti ||

112.1११२.१

कालियेन च राज्ञा च यद् यत् कार्यं रहः कृतम् । (११२।१)

kāliyena ca rājñā ca yad yat kāryaṃ rahaḥ kṛtam |

112.2११२.२

तत् तत् सुमनसे भर्त्रा कथितं धीरचेतसे ॥ (११२।२)

tat tat sumanase bhartrā kathitaṃ dhīracetase ||

113.1११३.१

यच् च श्रुतधरा कार्यं राज्ञः श्रुतवती गुरु । (११३।१)

yac ca śrutadharā kāryaṃ rājñaḥ śrutavatī guru |

113.2११३.२

तया तद् ऋषिदत्तायै दुष्प्रकाशं प्रकाशितम् ॥ (११३।२)

tayā tad ṛṣidattāyai duṣprakāśaṃ prakāśitam ||

114.1११४.१

तया तया च तन् मह्यं कुब्जाय कथितं मया । (११४।१)

tayā tayā ca tan mahyaṃ kubjāya kathitaṃ mayā |

114.2११४.२

कुब्जेन ब्रह्मदत्ताय शेषं प्रत्यक्षम् एव च ॥ (११४।२)

kubjena brahmadattāya śeṣaṃ pratyakṣam eva ca ||

115.1११५.१

तद् युष्माभिर् यद् आदिष्टं यद् अत्र भवता कृतम् । (११५।१)

tad yuṣmābhir yad ādiṣṭaṃ yad atra bhavatā kṛtam |

115.2११५.२

तद् आचक्ष्वेति कार्यं तद् एतद् अत्र मया कृतम् ॥ (११५।२)

tad ācakṣveti kāryaṃ tad etad atra mayā kṛtam ||

116.1११६.१

इत्याद्य् आकर्ण्य तत् तस्माद् इन्द्रजालाधिकाद्भुतम् । (११६।१)

ityādy ākarṇya tat tasmād indrajālādhikādbhutam |

116.2११६.२

प्राशंसं चरितं तस्य प्रशस्या हि गुणाधिकाः ॥ (११६।२)

prāśaṃsaṃ caritaṃ tasya praśasyā hi guṇādhikāḥ ||

117.1११७.१

का विद्याधरचक्रवर्तिपदके तुच्छा रतिर् मादृशः सुप्रापं धरणीचरैर् यद् अपरैः क्रोधादिवश्यैर् अपि । (११७।१)

kā vidyādharacakravartipadake tucchā ratir mādṛśaḥ suprāpaṃ dharaṇīcarair yad aparaiḥ krodhādivaśyair api |

117.2११७.२

प्रज्ञाधिक्कृतदेवदानवगुरुर् येषां सुहृद् गोमुखः ते यत् पिष्टपसप्तकाप्तिविमुखास् तत्कर्मणां जृम्भितम् ॥ (११७।२)

prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 27

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit