बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 7

7 of 28 · 161 verses

Select a line for its word-by-word analysis.

1.1१.१

ततस् तातः सभां दृष्ट्वा तथा संजातसंपदम् । (१।१)

tatas tātaḥ sabhāṃ dṛṣṭvā tathā saṃjātasaṃpadam |

1.2१.२

यथाप्रधानम् आभाष्य विनीतवद् अभाषत ॥ (१।२)

yathāpradhānam ābhāṣya vinītavad abhāṣata ||

2.1२.१

किम् अत्र पृच्छ्यते यत्र क्षिप्ताङ्गिरसबुद्धयः । (२।१)

kim atra pṛcchyate yatra kṣiptāṅgirasabuddhayaḥ |

2.2२.२

अपृष्टा एव भाषध्वे प्रीतिनिर्वासितत्रपाः ॥ (२।२)

apṛṣṭā eva bhāṣadhve prītinirvāsitatrapāḥ ||

3.1३.१

तेन यद् रोचते साधु पूज्येभ्यः पूजितं दिनम् । (३।१)

tena yad rocate sādhu pūjyebhyaḥ pūjitaṃ dinam |

3.2३.२

तत्रायं स्वसुतः प्रीत्या बालः संस्क्रियताम् इति ॥ (३।२)

tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti ||

4.1४.१

अथ प्रस्ताव एतस्मिन्न् अनुज्ञातप्रवेशया । (४।१)

atha prastāva etasminn anujñātapraveśayā |

4.2४.२

कलिङ्गसेनया राजा दूराद् एव नमस्कृतः ॥ (४।२)

kaliṅgasenayā rājā dūrād eva namaskṛtaḥ ||

5.1५.१

एहीति सा नृपेणोक्ता न अतिमन्थरविक्रमा । (५।१)

ehīti sā nṛpeṇoktā na atimantharavikramā |

5.2५.२

उपगम्योपपर्यङ्कम् अध्यास्तादिष्टम् आसनम् ॥ (५।२)

upagamyopaparyaṅkam adhyāstādiṣṭam āsanam ||

6.1६.१

आयुक्तमौक्तिकस्तोकभूषणा विमलाम्बरा । (६।१)

āyuktamauktikastokabhūṣaṇā vimalāmbarā |

7.1७.१

कंधरामूलविस्रस्तश्लथबन्धशिरोरुहा । (७।१)

kaṃdharāmūlavisrastaślathabandhaśiroruhā |

7.2७.२

पश्चिमाचलकूटस्थतिमिरा द्यौर् इवोषसि ॥ (७।२)

paścimācalakūṭasthatimirā dyaur ivoṣasi ||

8.1८.१

यौवनान्तम् अनुप्राप्ता प्रावृडन्तम् इवापगा । (८।१)

yauvanāntam anuprāptā prāvṛḍantam ivāpagā |

8.2८.२

चलच्चटुलताकारा भृतापि निभृताकृतिः ॥ (८।२)

calaccaṭulatākārā bhṛtāpi nibhṛtākṛtiḥ ||

9.1९.१

विनीतापि प्रगल्भेव स्थविरेव तरुण्य् अपि । (९।१)

vinītāpi pragalbheva sthavireva taruṇy api |

9.2९.२

मितवाग् अपि वाचाला व्याख्यातव्या हि तन्मतिः ॥ (९।२)

mitavāg api vācālā vyākhyātavyā hi tanmatiḥ ||

10.1१०.१

उपविष्टा पुरस् तस्या दशवर्षेव बालिका । (१०।१)

upaviṣṭā puras tasyā daśavarṣeva bālikā |

10.2१०.२

तया मे दृष्टिर् आकृष्टा गुणैर् नौर् इव मन्थरा ॥ (१०।२)

tayā me dṛṣṭir ākṛṣṭā guṇair naur iva mantharā ||

11.1११.१

अचिरस्थापितस्फीतभङ्गुरस्निग्धमूर्धजा । (११।१)

acirasthāpitasphītabhaṅgurasnigdhamūrdhajā |

11.2११.२

निलीनकोकिलकुला तन्वी चूतलतेव सा ॥ (११।२)

nilīnakokilakulā tanvī cūtalateva sā ||

12.1१२.१

निमेषोन्मेषशून्येन सहजायाम् अशोभिना । (१२।१)

nimeṣonmeṣaśūnyena sahajāyām aśobhinā |

12.2१२.२

चक्षुषा वीक्ष्यमाणा मां सहस्राक्षम् इवाकरोत् ॥ (१२।२)

cakṣuṣā vīkṣyamāṇā māṃ sahasrākṣam ivākarot ||

13.1१३.१

रूढा दाडिमगर्भाभदशनोद्भासतिआनना । (१३।१)

rūḍhā dāḍimagarbhābhadaśanodbhāsatiānanā |

13.2१३.२

दाडिमीमुकुलाकारविभक्तदशनच्छदा ॥ (१३।२)

dāḍimīmukulākāravibhaktadaśanacchadā ||

14.2१४.२

रक्तेन्दीवरमालेव मृणालदलबन्धना ॥ (१४।२)

raktendīvaramāleva mṛṇāladalabandhanā ||

15.1१५.१

उन्नीयन्ते स्म बालायाश् चिह्नैर् अङ्गानि कोमलैः । (१५।१)

unnīyante sma bālāyāś cihnair aṅgāni komalaiḥ |

15.2१५.२

लतायाः सहकारस्य फलानि मुकुलैर् इव ॥ (१५।२)

latāyāḥ sahakārasya phalāni mukulair iva ||

16.1१६.१

अथापृच्छन् महीपालः कस्येयं रूपिणीर् इति । (१६।१)

athāpṛcchan mahīpālaḥ kasyeyaṃ rūpiṇīr iti |

16.2१६.२

दुहितृत्वम् अनुप्राप्ता नामास्याः कथ्यताम् इति ॥ (१६।२)

duhitṛtvam anuprāptā nāmāsyāḥ kathyatām iti ||

17.1१७.१

कलिङ्गसेनयाख्यातं शोच्येयं तनया मम । (१७।१)

kaliṅgasenayākhyātaṃ śocyeyaṃ tanayā mama |

17.2१७.२

याम् एव पृच्छति स्वामी भृत्यां मदनमञ्जुकाम् ॥ (१७।२)

yām eva pṛcchati svāmī bhṛtyāṃ madanamañjukām ||

18.1१८.१

ततः सस्नेहम् आहूय मातर् एहीति भूपतिः । (१८।१)

tataḥ sasneham āhūya mātar ehīti bhūpatiḥ |

18.2१८.२

ऊरूम् आरोपयद् बालां सा चेमां वामलोचनाम् ॥ (१८।२)

ūrūm āropayad bālāṃ sā cemāṃ vāmalocanām ||

19.1१९.१

द्रुतम् आदित्यशर्मा च गृहीत्वा लग्नम् अब्रवीत् । (१९।१)

drutam ādityaśarmā ca gṛhītvā lagnam abravīt |

19.2१९.२

अहो चित्रम् इति स्मेरम् अभूच् च नृपतेर् मुखम् ॥ (१९।२)

aho citram iti smeram abhūc ca nṛpater mukham ||

20.2२०.२

ध्वनिनापि न तच्चक्षुर् आक्षिप्तं निहितं मयि ॥ (२०।२)

dhvanināpi na taccakṣur ākṣiptaṃ nihitaṃ mayi ||

21.1२१.१

राजा तु वस्त्राभरणम् अनल्पम् अपकल्मषम् । (२१।१)

rājā tu vastrābharaṇam analpam apakalmaṣam |

21.2२१.२

साम्बायै दापयित्वास्यै तदास्थानं व्यसर्जयत् ॥ (२१।२)

sāmbāyai dāpayitvāsyai tadāsthānaṃ vyasarjayat ||

22.1२२.१

अन्तःपुरं महीपालः कुमारवटकाम् अहम् । (२२।१)

antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham |

22.2२२.२

दीर्घम् उष्णं च विश्वस्य बाला स्वं भवनं ययौ ॥ (२२।२)

dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau ||

23.1२३.१

अथ पुण्ये दिने राजा द्विजराजजनावृतः । (२३।१)

atha puṇye dine rājā dvijarājajanāvṛtaḥ |

23.2२३.२

स्वयं भद्रासनस्थं मां यौवराज्ये ऽभिषिक्तवान् ॥ (२३।२)

svayaṃ bhadrāsanasthaṃ māṃ yauvarājye 'bhiṣiktavān ||

24.1२४.१

तथा हरिशिखं राजा मुदाज्ञापितवान् इति । (२४।१)

tathā hariśikhaṃ rājā mudājñāpitavān iti |

24.2२४.२

यत्र प्रस्थाप्यते भर्ता गन्तव्यं तव निर्व्यथम् ॥ (२४।२)

yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham ||

25.1२५.१

सेनापतिश् च मन्त्री च भवान् भवतु सोद्यमः । (२५।१)

senāpatiś ca mantrī ca bhavān bhavatu sodyamaḥ |

25.2२५.२

इत्य् आज्ञापितवान् राजा प्रह्वं हरिशिखं ततः ॥ (२५।२)

ity ājñāpitavān rājā prahvaṃ hariśikhaṃ tataḥ ||

26.1२६.१

खड्गचर्मधरो रक्षेद् अप्रमत्तः प्रभुं भवान् । (२६।१)

khaḍgacarmadharo rakṣed apramattaḥ prabhuṃ bhavān |

26.2२६.२

इत्य् आज्ञया प्रमुदितं कृतवान् मरुभूतिकम् ॥ (२६।२)

ity ājñayā pramuditaṃ kṛtavān marubhūtikam ||

27.1२७.१

आदिशद् गोमुखं भर्तू रमणीयं मनस् त्वया । (२७।१)

ādiśad gomukhaṃ bhartū ramaṇīyaṃ manas tvayā |

27.2२७.२

रमणीयैः क्रियालापैर् अपवादोज्झितैर् इति ॥ (२७।२)

ramaṇīyaiḥ kriyālāpair apavādojjhitair iti ||

28.1२८.१

तपन्तकम् अथावोचत् कर्णकुण्डलवृत्तिना । (२८।१)

tapantakam athāvocat karṇakuṇḍalavṛttinā |

28.2२८.२

न त्याज्यो भवता स्वामी कदाचिद् इति पार्थिवः ॥ (२८।२)

na tyājyo bhavatā svāmī kadācid iti pārthivaḥ ||

29.1२९.१

तैर् अहं संवृतो ऽन्यैश् च गृहीतछत्त्रचामरैः । (२९।१)

tair ahaṃ saṃvṛto 'nyaiś ca gṛhītachattracāmaraiḥ |

29.2२९.२

मङ्गलालंकृताङ्गश् च सुरविप्रान् अवन्दिषि ॥ (२९।२)

maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi ||

30.1३०.१

पितुर् मातरम् आसीनां पितरं च समन्त्रिणम् । (३०।१)

pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam |

30.2३०.२

अम्बाद्वयप्रधानं च स्फीतं राजावरोधनम् ॥ (३०।२)

ambādvayapradhānaṃ ca sphītaṃ rājāvarodhanam ||

31.1३१.१

ततः पुष्परथारूढः प्रसर्पन् मङ्गलध्वनिम् । (३१।१)

tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim |

31.2३१.२

पुष्पपल्लवलाजाद्याम् आक्रामं परितः पुरीम् ॥ (३१।२)

puṣpapallavalājādyām ākrāmaṃ paritaḥ purīm ||

32.1३२.१

ततः प्राप्ताभिषेको ऽहं सार्धं हरिशिखादिभिः । (३२।१)

tataḥ prāptābhiṣeko 'haṃ sārdhaṃ hariśikhādibhiḥ |

32.2३२.२

स्वाधिकारपरैः क्रीडन् संवत्सरम् अयापयम् ॥ (३२।२)

svādhikāraparaiḥ krīḍan saṃvatsaram ayāpayam ||

33.1३३.१

वर्षाभिषेके निर्वृत्ते पूर्वेण समडम्बरे । (३३।१)

varṣābhiṣeke nirvṛtte pūrveṇa samaḍambare |

33.2३३.२

आवृत्त्या सर्वविद्यानां स्थिरताम् उदपादयम् ॥ (३३।२)

āvṛttyā sarvavidyānāṃ sthiratām udapādayam ||

34.1३४.१

एवं मे समतीतेषु केषुचिद् दिवसेष्व् अहम् । (३४।१)

evaṃ me samatīteṣu keṣucid divaseṣv aham |

34.2३४.२

प्रातर् भोजनवेलायां न पश्यामि स्म गोमुखम् ॥ (३४।२)

prātar bhojanavelāyāṃ na paśyāmi sma gomukham ||

35.1३५.१

न चानेन विना मह्यं निर्वाणम् अपि रोचते । (३५।१)

na cānena vinā mahyaṃ nirvāṇam api rocate |

35.2३५.२

तेनानेन विनास्माभिर् अभुक्तैर् गमितं दिनम् ॥ (३५।२)

tenānena vināsmābhir abhuktair gamitaṃ dinam ||

36.1३६.१

ज्ञायतां गोमुखः क्वेति मयोक्ते मरुभूतिकः । (३६।१)

jñāyatāṃ gomukhaḥ kveti mayokte marubhūtikaḥ |

36.2३६.२

उन्मत्तकः स संवृत्त इत्य् अवोचद् गतागतः ॥ (३६।२)

unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ ||

37.1३७.१

यदि चात्रार्यपुत्रस्य नास्ति संप्रत्ययस् ततः । (३७।१)

yadi cātrāryaputrasya nāsti saṃpratyayas tataḥ |

37.2३७.२

गत्वा तपन्तकस् तस्य विकारान् प्रेक्षताम् इति ॥ (३७।२)

gatvā tapantakas tasya vikārān prekṣatām iti ||

38.1३८.१

ततस् तपन्तको गत्वा पुनर् आगत्य चोक्तवान् । (३८।१)

tatas tapantako gatvā punar āgatya coktavān |

38.2३८.२

आर्यपुत्र न तन् मिथ्या यद् आह मरुभूतिकः ॥ (३८।२)

āryaputra na tan mithyā yad āha marubhūtikaḥ ||

39.1३९.१

विमलादर्शसंक्रान्तं मुखम् आलोक्य गोमुखः । (३९।१)

vimalādarśasaṃkrāntaṃ mukham ālokya gomukhaḥ |

39.2३९.२

कम्पयित्वा शिरः क्रोधान् निर्दारयति लोचने ॥ (३९।२)

kampayitvā śiraḥ krodhān nirdārayati locane ||

40.1४०.१

कदाचिच् च स्मितं कृत्वा प्रसन्ने नेत्रतारके । (४०।१)

kadācic ca smitaṃ kṛtvā prasanne netratārake |

40.2४०.२

संचारयति कर्णान्तं कदाचिन् नासिकान्तरम् ॥ (४०।२)

saṃcārayati karṇāntaṃ kadācin nāsikāntaram ||

41.1४१.१

मधूच्छिष्टनिगृष्टौ च ताम्बूलद्रवलोहितौ । (४१।१)

madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau |

41.2४१.२

विवृत्य दूरम् अधरौ दन्तान्तेनापि निश्यति ॥ (४१।२)

vivṛtya dūram adharau dantāntenāpi niśyati ||

42.1४२.१

विकारान् एवमाकारान् दृष्ट्वा तस्याहम् आगतः । (४२।१)

vikārān evamākārān dṛṣṭvā tasyāham āgataḥ |

42.2४२.२

तेनार्यपुत्र त्वरितं क्रियास्य क्रियताम् इति ॥ (४२।२)

tenāryaputra tvaritaṃ kriyāsya kriyatām iti ||

43.1४३.१

अथानन्तरम् आगत्य संभोगमृदिताम्बरः । (४३।१)

athānantaram āgatya saṃbhogamṛditāmbaraḥ |

43.2४३.२

प्रागल्भ्यान् मृदुवैलक्ष्यो माम् अवन्दत गोमुखः ॥ (४३।२)

prāgalbhyān mṛduvailakṣyo mām avandata gomukhaḥ ||

44.1४४.१

कच्चित् स्वस्थो ऽसि भद्रेति मयोक्तः सन्न् अभाषत । (४४।१)

kaccit svastho 'si bhadreti mayoktaḥ sann abhāṣata |

44.2४४.२

किम् अर्थं चाहम् स्वस्थो न ह्य् अहं मरुभूतिकः ॥ (४४।२)

kim arthaṃ cāham svastho na hy ahaṃ marubhūtikaḥ ||

45.1४५.१

यो हि नागरकं मन्यो मन्यते माम् अनामयम् । (४५।१)

yo hi nāgarakaṃ manyo manyate mām anāmayam |

45.2४५.२

उन्मत्तकं स उन्मत्तः प्रकृतिभ्रष्टमानसः ॥ (४५।२)

unmattakaṃ sa unmattaḥ prakṛtibhraṣṭamānasaḥ ||

46.1४६.१

अथ शास्त्रोपनिषदस् तात यौगन्धरायणात् । (४६।१)

atha śāstropaniṣadas tāta yaugandharāyaṇāt |

46.2४६.२

अहं शिक्षितुम् आरब्धः स चापि व्यापृतः सदा ॥ (४६।२)

ahaṃ śikṣitum ārabdhaḥ sa cāpi vyāpṛtaḥ sadā ||

47.1४७.१

व्याचष्टे च तदा मह्यम् अन्तरं लभते यदा । (४७।१)

vyācaṣṭe ca tadā mahyam antaraṃ labhate yadā |

47.2४७.२

तेन मां मा प्रतीक्षध्वं भोजनायोद्यता इति ॥ (४७।२)

tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti ||

48.1४८.१

ततश् चारभ्य दिवसात् सायम् आयातवान् अयम् । (४८।१)

tataś cārabhya divasāt sāyam āyātavān ayam |

48.2४८.२

कदाचिद् दिवसे ऽन्यस्मिन् द्वयोस् त्रिषु गतेषु च ॥ (४८।२)

kadācid divase 'nyasmin dvayos triṣu gateṣu ca ||

49.1४९.१

एकदा भोजनस्यान्ते कुतो ऽप्य् आगत्य सादरः । (४९।१)

ekadā bhojanasyānte kuto 'py āgatya sādaraḥ |

49.2४९.२

अहो शोभन्त इत्य् उच्चैः प्राशंसत् खण्डमोदकान् ॥ (४९।२)

aho śobhanta ity uccaiḥ prāśaṃsat khaṇḍamodakān ||

50.1५०.१

मया तु दापितान् अन्यान् क्रुध्यन्न् इव विहाय सः । (५०।१)

mayā tu dāpitān anyān krudhyann iva vihāya saḥ |

50.2५०.२

बलाद् आकृष्य गतवान् स्वयम् उच्छिष्टमोदकान् ॥ (५०।२)

balād ākṛṣya gatavān svayam ucchiṣṭamodakān ||

51.1५१.१

आर्यपुत्र स्फुटीभूतम् उन्मत्तत्वं प्रियस्य वः । (५१।१)

āryaputra sphuṭībhūtam unmattatvaṃ priyasya vaḥ |

51.2५१.२

अचिकित्स्यश् च संवृत्त इत्य् अवोचत् तपन्तकः ॥ (५१।२)

acikitsyaś ca saṃvṛtta ity avocat tapantakaḥ ||

52.1५२.१

एवम् आभरणं वासस् ताम्बूलं चन्दनादि च । (५२।१)

evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca |

52.2५२.२

लब्धलब्धं गच्छति स्म गृहीत्वा क्वापि गोमुखः ॥ (५२।२)

labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ ||

53.1५३.१

एवंप्राये च वृत्तान्ते कुमारवटकं गतः । (५३।१)

evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ |

53.2५३.२

निवेदिताभ्यागमनो रुमण्वान् माम् अवन्दत ॥ (५३।२)

niveditābhyāgamano rumaṇvān mām avandata ||

54.1५४.१

तं तातम् इव दृष्ट्वाहम् उपक्रान्तश् च वन्दितुम् । (५४।१)

taṃ tātam iva dṛṣṭvāham upakrāntaś ca vanditum |

54.2५४.२

तेन चोद्धतहस्तेन तात मा मेति वारितः ॥ (५४।२)

tena coddhatahastena tāta mā meti vāritaḥ ||

55.1५५.१

उक्तं च न त्वया तात बालेन वास्मदादयः । (५५।१)

uktaṃ ca na tvayā tāta bālena vāsmadādayaḥ |

55.2५५.२

वन्द्यस् त्वम् अधुना प्राप्तो लोके ऽस्मिंल् लोकपालताम् ॥ (५५।२)

vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām ||

56.1५६.१

अन्यच् च राजसंदेशम् आख्यातुम् अहम् आगतः । (५६।१)

anyac ca rājasaṃdeśam ākhyātum aham āgataḥ |

56.2५६.२

यत् त्वाम् आह महाराजः सभृत्यं तन् निबोध्यताम् ॥ (५६।२)

yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām ||

57.1५७.१

पुर्याम् अत्र शरत्काले यात्रा चित्रा प्रवर्तिता । (५७।१)

puryām atra śaratkāle yātrā citrā pravartitā |

57.2५७.२

या नागवनयात्रेति न क्वचिन् न विकथ्यते ॥ (५७।२)

yā nāgavanayātreti na kvacin na vikathyate ||

58.1५८.१

एतावन्तं च सा कालं युष्मभ्यं न प्रकाशिता । (५८।१)

etāvantaṃ ca sā kālaṃ yuṣmabhyaṃ na prakāśitā |

58.2५८.२

मा भूद् विद्याविघातो वस् तद्व्याक्षिप्तधियाम् इति ॥ (५८।२)

mā bhūd vidyāvighāto vas tadvyākṣiptadhiyām iti ||

59.1५९.१

चित्तापहारिणी यात्रा हार्यचित्ता च बालता । (५९।१)

cittāpahāriṇī yātrā hāryacittā ca bālatā |

59.2५९.२

चित्तविद्या च विद्येत दुर्घटस् त्रिकसंगमः ॥ (५९।२)

cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ ||

60.1६०.१

उक्तं चाजागरूकस्य मन्दबुद्धेः सुखात्मनः । (६०।१)

uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ |

60.2६०.२

ग्रन्थभीरोश् च सिध्यन्ति न शास्त्राणि तपांसि च ॥ (६०।२)

granthabhīroś ca sidhyanti na śāstrāṇi tapāṃsi ca ||

61.1६१.१

अधुना बुद्धबोद्धव्याः प्राप्तकोमलयौवनाः । (६१।१)

adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ |

61.2६१.२

भवन्तो निःसुखाः सन्तः संतपन्तीव मे मनः ॥ (६१।२)

bhavanto niḥsukhāḥ santaḥ saṃtapantīva me manaḥ ||

62.1६२.१

तद् अस्ति यदि वः काङ्क्षा तं यात्रोत्सवम् ईक्षितुम् । (६२।१)

tad asti yadi vaḥ kāṅkṣā taṃ yātrotsavam īkṣitum |

62.2६२.२

ततो यात निराशङ्का नास्ति चेद् आस्यताम् इति ॥ (६२।२)

tato yāta nirāśaṅkā nāsti ced āsyatām iti ||

63.1६३.१

मयोक्तं सुहृदः पृष्ट्वा यन्नो निष्पद्यते हितम् । (६३।१)

mayoktaṃ suhṛdaḥ pṛṣṭvā yanno niṣpadyate hitam |

63.2६३.२

तद् वो विज्ञापयिष्यामि तावत् पृच्छामि तान् इति ॥ (६३।२)

tad vo vijñāpayiṣyāmi tāvat pṛcchāmi tān iti ||

64.1६४.१

रुमण्वता ततः प्रोक्तं कपोलागलिताश्रुणा । (६४।१)

rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā |

64.2६४.२

हैहयानां कुलं तुङ्गं चिरं विजयतां जगत् ॥ (६४।२)

haihayānāṃ kulaṃ tuṅgaṃ ciraṃ vijayatāṃ jagat ||

65.1६५.१

भवता साधुवृत्तेन गोत्रदासाः कृता वयम् । (६५।१)

bhavatā sādhuvṛttena gotradāsāḥ kṛtā vayam |

65.2६५.२

यन् नः संभाविताः पुत्राः प्रश्नप्रतिवचःक्षमाः ॥ (६५।२)

yan naḥ saṃbhāvitāḥ putrāḥ praśnaprativacaḥkṣamāḥ ||

66.1६६.१

इत्य् उक्त्वा निर्गते तस्मिन् सुहृदः पृष्टवान् अहम् । (६६।१)

ity uktvā nirgate tasmin suhṛdaḥ pṛṣṭavān aham |

66.2६६.२

यस्य यद् वः स्थितं बुद्धौ तेन तत् कथ्यताम् इति ॥ (६६।२)

yasya yad vaḥ sthitaṃ buddhau tena tat kathyatām iti ||

67.1६७.१

ततो हरिशिखेनोक्तं न मे गमनम् ईप्सितम् । (६७।१)

tato hariśikhenoktaṃ na me gamanam īpsitam |

67.2६७.२

यतः शून्यानि दुर्गाणि गृह्यन्ते ऽनन्तरैर् नृपैः ॥ (६७।२)

yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ ||

68.1६८.१

श्रुतम् एवार्यपुत्रेण प्रोषिते जगतीपतौ । (६८।१)

śrutam evāryaputreṇa proṣite jagatīpatau |

68.2६८.२

विज्ञाय नगरीं शून्यां यत् तद् आरुणिना कृतम् ॥ (६८।२)

vijñāya nagarīṃ śūnyāṃ yat tad āruṇinā kṛtam ||

69.1६९.१

दुर्गस्य च कृता रक्षा राजा च परितोषितः । (६९।१)

durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ |

69.2६९.२

ख्यापितं धीरचित्तत्वम् आत्मनश् च भवेद् इति ॥ (६९।२)

khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti ||

70.1७०.१

त्वं किम् आत्थेति पृष्टः सन्न् अवोचन् मरुभूतिकः । (७०।१)

tvaṃ kim āttheti pṛṣṭaḥ sann avocan marubhūtikaḥ |

70.2७०.२

युक्तं हरिशिखेनोक्तम् इत्य् एतच् च तपन्तकः ॥ (७०।२)

yuktaṃ hariśikhenoktam ity etac ca tapantakaḥ ||

71.1७१.१

अथोक्तवान् स्मितमुखः सासूय इव गोमुखः । (७१।१)

athoktavān smitamukhaḥ sāsūya iva gomukhaḥ |

71.2७१.२

किम् अत्र भण्यते को ऽन्यो मन्त्री हरिशिखाद् वरः ॥ (७१।२)

kim atra bhaṇyate ko 'nyo mantrī hariśikhād varaḥ ||

72.1७२.१

इदं त्व् आचक्ष्व केनायं नियुक्तो दुर्गरक्षणे । (७२।१)

idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe |

72.2७२.२

रक्षतश् चानियुक्तस्य दोषम् अन्ध न पश्यसि ॥ (७२।२)

rakṣataś cāniyuktasya doṣam andha na paśyasi ||

73.1७३.१

युवराजो युवा विद्वान् कृतास्त्रो मन्दकौतुकः । (७३।१)

yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ |

73.2७३.२

भवदादिसहायश् च कथं यायाद् अचित्तताम् ॥ (७३।२)

bhavadādisahāyaś ca kathaṃ yāyād acittatām ||

74.1७४.१

यच् च राजोदितं वक्ष्ये नास्ति चेद् आस्यताम् इति । (७४।१)

yac ca rājoditaṃ vakṣye nāsti ced āsyatām iti |

74.2७४.२

तदाशयपरीक्षार्थम् अपि चेत् तन् न दुष्यति ॥ (७४।२)

tadāśayaparīkṣārtham api cet tan na duṣyati ||

75.1७५.१

अतः पुस्तकविन्यस्तग्रन्थबद्धार्थबुद्धयः । (७५।१)

ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ |

75.2७५.२

प्रश्नानुग्रहम् अर्हन्ति नेदृशकूटमन्त्रिणः ॥ (७५।२)

praśnānugraham arhanti nedṛśakūṭamantriṇaḥ ||

76.1७६.१

अहं पुनर् गुणोपायप्रयोगकुशलो यतः । (७६।१)

ahaṃ punar guṇopāyaprayogakuśalo yataḥ |

76.2७६.२

चेतस्यैः सह संपर्कः प्रयोगकुशलैर् मम ॥ (७६।२)

cetasyaiḥ saha saṃparkaḥ prayogakuśalair mama ||

77.1७७.१

सुखं नः सेवितुं कालो न षाड्गुण्यकदर्थनाम् । (७७।१)

sukhaṃ naḥ sevituṃ kālo na ṣāḍguṇyakadarthanām |

77.2७७.२

यच् चोक्तं धर्मशास्त्रेण तत् तावद् अवधीयताम् ॥ (७७।२)

yac coktaṃ dharmaśāstreṇa tat tāvad avadhīyatām ||

78.1७८.१

वयसः कर्मणो ऽर्थस्य श्रुतस्याभिजनस्य च । (७८।१)

vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca |

78.2७८.२

वेषवाग्बुद्धिसारूप्यम् आचरन् विचरेद् इह ॥ (७८।२)

veṣavāgbuddhisārūpyam ācaran vicared iha ||

79.1७९.१

तेनोत्तिष्ठत गच्छामो यात्राम् अद्भुतदर्शनाम् । (७९।१)

tenottiṣṭhata gacchāmo yātrām adbhutadarśanām |

79.2७९.२

क्रीडिष्यामश् च कान्तासु स्थलीषु मृगयाम् इति ॥ (७९।२)

krīḍiṣyāmaś ca kāntāsu sthalīṣu mṛgayām iti ||

80.1८०.१

तच् च मे गोमुखेनोक्तं प्रविष्टं हृदयं यतः । (८०।१)

tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ |

80.2८०.२

युक्तसच् चानुकूलं च वचः कस्मै न रोचते ॥ (८०।२)

yuktasac cānukūlaṃ ca vacaḥ kasmai na rocate ||

81.1८१.१

पुनश् च गोमुखेनोक्तं यात्रां लोकस्य गच्छतः । (८१।१)

punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ |

81.2८१.२

प्रासादतलम् आरुह्य समृद्धिर् दृश्यताम् इति ॥ (८१।२)

prāsādatalam āruhya samṛddhir dṛśyatām iti ||

82.1८२.१

अथाहम् अभ्रंलिहशङ्गचक्रं ध्वजप्रभापीडितशक्रचापम् । (८२।१)

athāham abhraṃlihaśaṅgacakraṃ dhvajaprabhāpīḍitaśakracāpam |

82.2८२.२

प्रासादम् आरोहम् उदारशोभं शशीव पूर्वाचलराजकूटम् ॥ (८२।२)

prāsādam āroham udāraśobhaṃ śaśīva pūrvācalarājakūṭam ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 7

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit