बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha
Chapter 9
Select a line for its word-by-word analysis.
सरोजपत्त्रं करजैश् छेत्तुम् आरब्ध गोमुखः ॥ (१।२)
sarojapattraṃ karajaiś chettum ārabdha gomukhaḥ ||
पत्त्रच्छेद्यं ततस् तस्याः सरितस् तरदम्भसि । (२।१)
pattracchedyaṃ tatas tasyāḥ saritas taradambhasi |
अनुकूलं प्रसर्पन्तं प्रशंसन्तश् च गोमुखम् । (३।१)
anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham |
पत्त्रच्छेद्यम् अपश्यामो मुक्तावयवसंकरम् ॥ (३।२)
pattracchedyam apaśyāmo muktāvayavasaṃkaram ||
गोमुखो व्याकरोति स्म पत्त्रच्छेदस्य लक्षणम् ॥ (४।२)
gomukho vyākaroti sma pattracchedasya lakṣaṇam ||
इहार्यपुत्र विज्ञेयं पत्त्रच्छेद्यं समासतः । (५।१)
ihāryaputra vijñeyaṃ pattracchedyaṃ samāsataḥ |
त्र्यस्रं च चतुरस्रं च दीर्घं वृत्तं च भेदतः ॥ (५।२)
tryasraṃ ca caturasraṃ ca dīrghaṃ vṛttaṃ ca bhedataḥ ||
त्र्यस्रैः चतुष्पदशैला निष्पद्यन्ते गृहादि च । (६।१)
tryasraiḥ catuṣpadaśailā niṣpadyante gṛhādi ca |
अहो नु महद् आश्चर्यम् आर्यपुत्रेत्य् अभाषत ॥ (८।२)
aho nu mahad āścaryam āryaputrety abhāṣata ||
कूपकच्छपकल्पानाम् आश्चर्यं स्थूलचक्षुषाम् ॥ (९।२)
kūpakacchapakalpānām āścaryaṃ sthūlacakṣuṣām ||
पश्य दुःश्रद्दधानेति तम् उक्त्वा मरुभूतिकः । (१०।१)
paśya duḥśraddadhāneti tam uktvā marubhūtikaḥ |
इदम् आश्चर्यम् इत्य् उच्चैः पुलिनं नो व्यदर्शयत् ॥ (१०।२)
idam āścaryam ity uccaiḥ pulinaṃ no vyadarśayat ||
ततो हरिशिखेनोक्तं कृत्वा हसितम् उल्बणम् । (११।१)
tato hariśikhenoktaṃ kṛtvā hasitam ulbaṇam |
आश्चर्यं पुलिनं पश्य नमस् तस्मै सचक्षुषे ॥ (११।२)
āścaryaṃ pulinaṃ paśya namas tasmai sacakṣuṣe ||
आश्चर्यं यदि तन् मूढ द्वेषः कः सलिले तव ॥ (१२।२)
āścaryaṃ yadi tan mūḍha dveṣaḥ kaḥ salile tava ||
सो ऽब्रवीत् केन पुलिनम् आश्चर्यम् इति भाषितम् । (१३।१)
so 'bravīt kena pulinam āścaryam iti bhāṣitam |
पुलिने यत् तद् आश्चर्यम् अथवा दृश्यताम् इति ॥ (१३।२)
puline yat tad āścaryam athavā dṛśyatām iti ||
तेनोक्तं पुलिने सन्ति सिकताः किं तद् अद्भुतम् । (१४।१)
tenoktaṃ puline santi sikatāḥ kiṃ tad adbhutam |
नेत्य् उक्ते तेन दृष्ट्वा तु पुलिनं गोमुखो ऽब्रवीत् ॥ (१४।२)
nety ukte tena dṛṣṭvā tu pulinaṃ gomukho 'bravīt ||
मा मा भद्रमुखं कश्चित् परिभून् मरुभूतिकम् । (१५।१)
mā mā bhadramukhaṃ kaścit paribhūn marubhūtikam |
मया हि पुलिने दृष्टं संनिविष्टं पदद्वयम् ॥ (१५।२)
mayā hi puline dṛṣṭaṃ saṃniviṣṭaṃ padadvayam ||
उक्तं हरिशिखेनापि यद्य् आश्चर्यं पदद्वयम् । (१६।१)
uktaṃ hariśikhenāpi yady āścaryaṃ padadvayam |
अत्याश्चर्यम् इदं पश्य पदकोटीश् चतुर्दश ॥ (१६।२)
atyāścaryam idaṃ paśya padakoṭīś caturdaśa ||
तेनोक्तं सानुबन्धासु नाश्चर्यं पदकोटिषु । (१७।१)
tenoktaṃ sānubandhāsu nāścaryaṃ padakoṭiṣu |
इदं विच्छिन्नसंतानं तेनाश्चर्यं पदद्वयम् ॥ (१७।२)
idaṃ vicchinnasaṃtānaṃ tenāścaryaṃ padadvayam ||
भवेयुर् इति तेनोक्तं ततः स्याद् एव वालुका ॥ (१८।२)
bhaveyur iti tenoktaṃ tataḥ syād eva vālukā ||
तया गत्वावतीर्णः स्यात् कश्चिन् नागरको यदि ॥ (१९।२)
tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi ||
निवर्तेतेति तेनोक्ते पर्णाकीर्णा मही भवेत् ॥ (२०।२)
nivarteteti tenokte parṇākīrṇā mahī bhavet ||
कस्य तर्हीति तेनोक्ते दिव्यस्येत्य् अब्रवीत् स तम् । (२१।१)
kasya tarhīti tenokte divyasyety abravīt sa tam |
दिव्यानां कतमस्येति स विद्याधरम् आदिशत् ॥ (२१।२)
divyānāṃ katamasyeti sa vidyādharam ādiśat ||
न स्पृशन्ति भुवं देवाः स्थूलत्वाद् यक्षरक्षसाम् । (२२।१)
na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām |
तपःक्षामशरीरत्वात् सिद्धानाम् ऋषिभिः सह । (२३।१)
tapaḥkṣāmaśarīratvāt siddhānām ṛṣibhiḥ saha |
अव्यक्ताङ्गुलिपार्ष्ण्यादिनिक्षेपं जायते पदम् ॥ (२३।२)
avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam ||
अन्येषां च मनुष्याणाम् उपपत्त्या नियुज्यते । (२४।१)
anyeṣāṃ ca manuṣyāṇām upapattyā niyujyate |
अवगाढं भवत्य् अग्रे विपरीतं तु योषितः ॥ (२४।२)
avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ ||
भाराक्रान्तः स चेत्य् उक्ते भूयो हरिशिखो ऽब्रवीत् । (२५।१)
bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt |
शिलापादपशत्रूणां को ऽस्य भारो भवेद् इति ॥ (२५।२)
śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti ||
शिलायाम् अवगाढं स्यात् पर्णकीर्णं च पादपे । (२६।१)
śilāyām avagāḍhaṃ syāt parṇakīrṇaṃ ca pādape |
शत्रौ न शत्रुं पुलिने रमणीये ऽवतारयेत् ॥ (२६।२)
śatrau na śatruṃ puline ramaṇīye 'vatārayet ||
तस्माद् असिद्धविद्यास्य भारो विद्याधरी यतः । (२७।१)
tasmād asiddhavidyāsya bhāro vidyādharī yataḥ |
न विद्यासिद्धिम् आप्त्वापि जायन्ते पङ्गुवृत्तयः ॥ (२७।२)
na vidyāsiddhim āptvāpi jāyante paṅguvṛttayaḥ ||
आरोपितं च तेनास्या जघनं दक्षिणं भुजम् । (२८।१)
āropitaṃ ca tenāsyā jaghanaṃ dakṣiṇaṃ bhujam |
निमग्नं येन तस्येदं दक्षिणं कामिनः पदम् ॥ (२८।२)
nimagnaṃ yena tasyedaṃ dakṣiṇaṃ kāminaḥ padam ||
पतितैर् उत्तमाङ्गाच् च केशधूपाधिवासितैः । (२९।१)
patitair uttamāṅgāc ca keśadhūpādhivāsitaiḥ |
रमणीयतरां चैषां न त्यक्ष्यति स निमग्नाम् । (३०।१)
ramaṇīyatarāṃ caiṣāṃ na tyakṣyati sa nimagnām |
तेनान्यत्रापि दृश्यन्तां पदानि निपुणैर् इति ॥ (३०।२)
tenānyatrāpi dṛśyantāṃ padāni nipuṇair iti ||
ततः पौरैर् मदीयैश् च विचिन्वद्भिर् इतस् ततः । (३१।१)
tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ |
स्त्रीपुंसयोर् अदृश्यन्त पदानि सलिलान्तिके ॥ (३१।२)
strīpuṃsayor adṛśyanta padāni salilāntike ||
सहास्माभिस् तम् उद्देशं गत्वा दृष्ट्वा च गोमुखः । (३२।१)
sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ |
तेन नागरकेनापि भाव्यम् इत्य् एतद् उक्तवान् ॥ (३२।२)
tena nāgarakenāpi bhāvyam ity etad uktavān ||
कथं वेत्थेति पृष्टश् च स विहस्येदम् उक्तवान् । (३३।१)
kathaṃ vettheti pṛṣṭaś ca sa vihasyedam uktavān |
ज्ञेयं किम् अत्र दुर्ज्ञानम् अथवा कथयामि वः ॥ (३३।२)
jñeyaṃ kim atra durjñānam athavā kathayāmi vaḥ ||
परचित्तानुवृत्तिश् च स्वचित्तस्य च निग्रहः । (३४।१)
paracittānuvṛttiś ca svacittasya ca nigrahaḥ |
मन्थरं परिसर्पन्तीं कामिनीम् अनुगच्छति । (३५।१)
mantharaṃ parisarpantīṃ kāminīm anugacchati |
तथा हि चरणाक्रान्तिनतम् अद्यापि शाद्वलम् ॥ (३६।२)
tathā hi caraṇākrāntinatam adyāpi śādvalam ||
सप्तपर्णम् अपश्याम प्रवृत्तभ्रमरोत्सवम् ॥ (३७।२)
saptaparṇam apaśyāma pravṛttabhramarotsavam ||
स्वयम् आचरितानीव गोमुखस् तान्य् अवर्णयत् ॥ (३८।२)
svayam ācaritānīva gomukhas tāny avarṇayat ||
अयं सकुसुमश् चात्र कॢप्तः पल्लवसंस्तरः ॥ (३९।२)
ayaṃ sakusumaś cātra kḷptaḥ pallavasaṃstaraḥ ||
श्रान्ता चात्रोपविष्टा सा तथा चेदं निरूप्यताम् । (४०।१)
śrāntā cātropaviṣṭā sā tathā cedaṃ nirūpyatām |
निर्यान्तीम् अन्वगच्छाम तयोश् चरणपद्धतिम् ॥ (४२।२)
niryāntīm anvagacchāma tayoś caraṇapaddhatim ||
पुष्पवत्या परिष्वक्तं श्यामया तन् निरन्तरम् ॥ (४४।२)
puṣpavatyā pariṣvaktaṃ śyāmayā tan nirantaram ||
दृष्ट्वा च गोमुखेनोक्तम् अत्रैवास्ते स कामुकः । (४५।१)
dṛṣṭvā ca gomukhenoktam atraivāste sa kāmukaḥ |
प्रच्छन्नं रमणीयं च न हीदं त्यागम् अर्हति ॥ (४५।२)
pracchannaṃ ramaṇīyaṃ ca na hīdaṃ tyāgam arhati ||
न चापि दर्शनं युक्तम् आसीनस्य यथासुखम् । (४६।१)
na cāpi darśanaṃ yuktam āsīnasya yathāsukham |
तस्मान् मुहूर्तम् अन्यत्र क्वचिद् विश्रम्यताम् इति ॥ (४६।२)
tasmān muhūrtam anyatra kvacid viśramyatām iti ||
गोमुखस् तु तद् आलोक्य लतागृहकम् उन्मुखः । (४८।१)
gomukhas tu tad ālokya latāgṛhakam unmukhaḥ |
नास्त्य् असाव् अत्र कामीति सशिरःकम्पम् उक्तवान् ॥ (४८।२)
nāsty asāv atra kāmīti saśiraḥkampam uktavān ||
ततो हरिशिखेनोक्तं पूर्वम् अस्तीति भाषसे । (४९।१)
tato hariśikhenoktaṃ pūrvam astīti bhāṣase |
इदानीम् अपि नास्तीति सर्वथोन्मत्तको भवान् ॥ (४९।२)
idānīm api nāstīti sarvathonmattako bhavān ||
तेनोक्तम् इदम् अत्रस्तं निष्क्रान्तं माधवीगृहात् । (५०।१)
tenoktam idam atrastaṃ niṣkrāntaṃ mādhavīgṛhāt |
शिखण्डिमिथुनं कस्मान् मूकम् अन्ध न पश्यसि ॥ (५०।२)
śikhaṇḍimithunaṃ kasmān mūkam andha na paśyasi ||
यदि कश्चिद् भवेद् अत्र त्रस्तम् एतत् ततस् ततः । (५१।१)
yadi kaścid bhaved atra trastam etat tatas tataḥ |
मुक्तार्तकेकम् उड्डीय वृक्षदुर्गं विशेद् इति ॥ (५१।२)
muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti ||
ततः प्रस्थापयामि स्म विचेतुं परिवारकान् । (५२।१)
tataḥ prasthāpayāmi sma vicetuṃ parivārakān |
चलयन्तस् तु हस्तांस् ते शून्यम् आख्यंल् लतागृहम् ॥ (५२।२)
calayantas tu hastāṃs te śūnyam ākhyaṃl latāgṛham ||
स्वयं तत्राप्य् अपश्याम रचितं प्रस्तरं महत् । (५३।१)
svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat |
अन्यत्रान्यत्र च क्षौमम् अम्भोरुहदलारुणम् ॥ (५४।२)
anyatrānyatra ca kṣaumam ambhoruhadalāruṇam ||
वर्मरत्नं स्फुरद्रत्नप्रभाकुञ्चितलोचनम् ॥ (५५।२)
varmaratnaṃ sphuradratnaprabhākuñcitalocanam ||
सर्वं तद् ग्राहयामि स्म पुरुषैर् भूषणादिकम् । (५६।१)
sarvaṃ tad grāhayāmi sma puruṣair bhūṣaṇādikam |
तस्मै निर्यातयिष्यामि दृष्टायेत्य् अथ गोमुखः ॥ (५६।२)
tasmai niryātayiṣyāmi dṛṣṭāyety atha gomukhaḥ ||
अब्रवीद् वैरिणा नूनं स नीतः सह कान्तया । (५७।१)
abravīd vairiṇā nūnaṃ sa nītaḥ saha kāntayā |
ताभ्यां हि परतन्त्राभ्यां भूषणादीदम् उज्झितम् ॥ (५७।२)
tābhyāṃ hi paratantrābhyāṃ bhūṣaṇādīdam ujjhitam ||
दीर्घायुष्कं च तं वित्त स्निग्धास् तस्य शिरोरुहाः । (५८।१)
dīrghāyuṣkaṃ ca taṃ vitta snigdhās tasya śiroruhāḥ |
लग्नाः पादपशाखायाम् अद्यापि हि सुगन्धयः ॥ (५८।२)
lagnāḥ pādapaśākhāyām adyāpi hi sugandhayaḥ ||
एवं निरूपयन्तश् च समन्ताद् दत्तदृष्टयः । (५९।१)
evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ |
नातिदूरम् अतिक्रम्य क्वचित् तुङ्गतरौ वने ॥ (५९।२)
nātidūram atikramya kvacit tuṅgatarau vane ||
बद्धं स्कन्धे कदम्बस्य पञ्चभिर् लोहशङ्कुभिः । (६०।१)
baddhaṃ skandhe kadambasya pañcabhir lohaśaṅkubhiḥ |
अथावतार्यताम् एष स्कन्धाद् इत्य् अभिधाय तान् । (६१।१)
athāvatāryatām eṣa skandhād ity abhidhāya tān |
अपसृत्य ततश् छायाम् आश्रयामि स्म शाखिनः ॥ (६१।२)
apasṛtya tataś chāyām āśrayāmi sma śākhinaḥ ||
गोमुखस् त्व् अब्रवीन् नैते केनचिल् लोहशङ्कवः । (६२।१)
gomukhas tv abravīn naite kenacil lohaśaṅkavaḥ |
शक्याः क्रष्टुम् उपायेन सर्वैर् अपि सुरैर् इति ॥ (६२।२)
śakyāḥ kraṣṭum upāyena sarvair api surair iti ||
अथाहम् अब्रुवं स्मृत्वा राजाजल्पन् मया श्रुतम् । (६३।१)
athāham abruvaṃ smṛtvā rājājalpan mayā śrutam |
व्रणसंरोहिणी काचित् काचिद् वर्णप्रसादनी ॥ (६४।२)
vraṇasaṃrohiṇī kācit kācid varṇaprasādanī ||
यदि वर्मणि ताः सन्ति ताभिः संजीव्यताम् इति ॥ (६५।२)
yadi varmaṇi tāḥ santi tābhiḥ saṃjīvyatām iti ||
मुहूर्ताद् इव चागत्य विस्मितो गोमुखो ऽब्रवीत् । (६६।१)
muhūrtād iva cāgatya vismito gomukho 'bravīt |
प्रसादाद् अर्यपुत्रस्य जीवितः स नभश्चरः ॥ (६६।२)
prasādād aryaputrasya jīvitaḥ sa nabhaścaraḥ ||
ता महौषधयो दृष्टा निहितास् तस्य वर्मणि । (६७।१)
tā mahauṣadhayo dṛṣṭā nihitās tasya varmaṇi |
शल्यप्रोते च हरिणे प्रयुक्ताः क्रमशस् ततः ॥ (६७।२)
śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ ||
तत्र दृष्टप्रभावाभिः स विद्याधरसुन्दरः । (६८।१)
tatra dṛṣṭaprabhāvābhiḥ sa vidyādharasundaraḥ |
अकृताङ्गः कृतः सद्यः समाश्वस्येति भाषते ॥ (६८।२)
akṛtāṅgaḥ kṛtaḥ sadyaḥ samāśvasyeti bhāṣate ||
जीवितः केन बद्धो ऽहम् इत्य् अथाहं तम् उक्तवान् । (६९।१)
jīvitaḥ kena baddho 'ham ity athāhaṃ tam uktavān |
अस्माकम् अर्यपुत्रेण प्रकारैश्चतुरैर् इति ॥ (६९।२)
asmākam aryaputreṇa prakāraiścaturair iti ||
तेनोक्तं किं च युष्माकम् अर्यपुत्रो ऽपि विद्यते । (७०।१)
tenoktaṃ kiṃ ca yuṣmākam aryaputro 'pi vidyate |
आमेति च मया प्रोक्ते तेनोक्तं न स मानुषः ॥ (७०।२)
āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ ||
अस्माकम् अर्यपुत्रो ऽपि देवो विद्याधरो ऽपि वा । (७१।१)
asmākam aryaputro 'pi devo vidyādharo 'pi vā |
प्रसीदन्तु तम् आख्यात प्रसादं चक्षुषाम् इति ॥ (७१।२)
prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti ||
जीवयित्वाभ्यनुज्ञेयो मा स्म पश्यत् स माम् इति ॥ (७२।२)
jīvayitvābhyanujñeyo mā sma paśyat sa mām iti ||
कृतोपकारस् त्वां द्रष्टुं नायम् इच्छति लज्जया । (७३।१)
kṛtopakāras tvāṃ draṣṭuṃ nāyam icchati lajjayā |
पुनःसंदर्शनायातस् तात प्रस्थीयताम् इति ॥ (७३।२)
punaḥsaṃdarśanāyātas tāta prasthīyatām iti ||
विनिश्वस्य च तेनोक्तं दैन्यगद्गदया गिरा ॥ (७४।२)
viniśvasya ca tenoktaṃ dainyagadgadayā girā ||
स्वामिनं यन् न पश्यामि भविष्यचक्रवर्तिनम् ॥ (७५।२)
svāminaṃ yan na paśyāmi bhaviṣyacakravartinam ||
प्रदाय यदि मे प्राणान् पश्चात् तापेन खेद्यते । (७६।१)
pradāya yadi me prāṇān paścāt tāpena khedyate |
एवं मुञ्चामि भूयस् तान् न चेत् पश्यतु माम् इति ॥ (७६।२)
evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti ||
मया दत्ते ऽभ्यनुज्ञाने पश्यत्व् एवं करोत्व् इति । (७७।१)
mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti |
गां स्पृशञ् जानुशिरसा स माम् इदम् अभाषत ॥ (७७।२)
gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata ||
विद्याधरो ऽमृतगतिः कौशिकस्य मुनेः सुतः । (७८।१)
vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ |
सुहृद्दृष्ट्या च दृष्टः सन् प्रहृष्टः समुपाविशत् ॥ (७९।२)
suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat ||
सत्यं तत् प्रियसंभाषो महानागरको ह्य् अयम् ॥ (८०।२)
satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam ||
नेदं नागरकत्वं मे श्रूयतां च कथा यथा ॥ (८१।२)
nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā ||
शिखरे कौशिको नाम मुनिस् तुल्याश्मकाञ्चनः ॥ (८२।२)
śikhare kauśiko nāma munis tulyāśmakāñcanaḥ ||
आराधितवती यत्नात् सुदीर्घं कालम् अप्सराः ॥ (८३।२)
ārādhitavatī yatnāt sudīrghaṃ kālam apsarāḥ ||
एकदा कौशिकेनोक्ता वरं ब्रूहीति साब्रवीत् । (८४।१)
ekadā kauśikenoktā varaṃ brūhīti sābravīt |
यदि मे भगवान् प्रीतः ततो ऽपत्यं ददात्व् इति ॥ (८४।२)
yadi me bhagavān prītaḥ tato 'patyaṃ dadātv iti ||
तेन चोत्पादितं तस्याम् अपत्ययुगलं क्रमात् । (८५।१)
tena cotpāditaṃ tasyām apatyayugalaṃ kramāt |
अहं च पुत्रः पुत्री च मत्स्वसा मत्सनामिका ॥ (८५।२)
ahaṃ ca putraḥ putrī ca matsvasā matsanāmikā ||
सो ऽहं संवर्धितस् तेन नास्ति तद् यन् न शिक्षितम् । (८६।१)
so 'haṃ saṃvardhitas tena nāsti tad yan na śikṣitam |
धारयामि च तद्विद्यास् तेन विद्याधरो ऽभवम् ॥ (८६।२)
dhārayāmi ca tadvidyās tena vidyādharo 'bhavam ||
एकदा पितरं दृष्ट्वा रुदन्तम् अहम् अब्रुवम् । (८७।१)
ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam |
मादृशं पुत्रम् उत्पाद्य किं रोदिति भवान् इति ॥ (८७।२)
mādṛśaṃ putram utpādya kiṃ roditi bhavān iti ||
तेनोक्तं चक्रवर्तित्वं न ते पश्यामि पुत्रक । (८८।१)
tenoktaṃ cakravartitvaṃ na te paśyāmi putraka |
अङ्गाद् अङ्गान् मदीयात् तु वृथा जातो भवान् इति ॥ (८८।२)
aṅgād aṅgān madīyāt tu vṛthā jāto bhavān iti ||
मयोक्तं मम यः स्वामी स मह्यं कथ्यताम् इति । (८९।१)
mayoktaṃ mama yaḥ svāmī sa mahyaṃ kathyatām iti |
तेनोक्तं चक्रवर्ती यः स चाप्य् अन्विष्यताम् इति ॥ (८९।२)
tenoktaṃ cakravartī yaḥ sa cāpy anviṣyatām iti ||
मयोक्तं चक्रवर्तित्वं यैश् चिह्नैर् अवगम्यते । (९०।१)
mayoktaṃ cakravartitvaṃ yaiś cihnair avagamyate |
दृष्ट्वा तानि धिया मह्यम् आचष्टां भगवान् इति ॥ (९०।२)
dṛṣṭvā tāni dhiyā mahyam ācaṣṭāṃ bhagavān iti ||
तेनोक्तं शत्रुणा बद्धं यस् त्वां शङ्कुभिर् आयसैः । (९१।१)
tenoktaṃ śatruṇā baddhaṃ yas tvāṃ śaṅkubhir āyasaiḥ |
जीवयिष्यति जानीयात् स्वामिनं तं भवान् इति ॥ (९१।२)
jīvayiṣyati jānīyāt svāminaṃ taṃ bhavān iti ||
मम त्व् अङ्गारको नाम व्यालकश् चाभवत् सुहृत् । (९२।१)
mama tv aṅgārako nāma vyālakaś cābhavat suhṛt |
सौदर्यो गमयामि स्म ताभ्यां कालं सुखं सह ॥ (९२।२)
saudaryo gamayāmi sma tābhyāṃ kālaṃ sukhaṃ saha ||
प्रशस्यवर्णसंस्थाना सा मे बुद्धौ स्थिरा स्थिता । (९५।१)
praśasyavarṇasaṃsthānā sā me buddhau sthirā sthitā |
प्रशस्तिर् इव विन्यस्ता भित्तौ विन्ध्यशिलाभृतः ॥ (९५।२)
praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ ||
ताम् आदाय तया सार्धं सुहृद्भ्यां च मनोहराः । (९६।१)
tām ādāya tayā sārdhaṃ suhṛdbhyāṃ ca manoharāḥ |
अङ्गारकम् अथापश्यं पश्यन्तं कुसुमालिकाम् । (९७।१)
aṅgārakam athāpaśyaṃ paśyantaṃ kusumālikām |
रागाद् अपत्रपात्रासं वक्रग्रीवानिरीक्षितम् ॥ (९७।२)
rāgād apatrapātrāsaṃ vakragrīvānirīkṣitam ||
अनामन्त्र्यैव मां नीचो नीचैर् उत्थाय यातवान् ॥ (९८।२)
anāmantryaiva māṃ nīco nīcair utthāya yātavān ||
अहं तु जातवैलक्ष्यात् संरक्ताच् च ततस् त्रसन् । (९९।१)
ahaṃ tu jātavailakṣyāt saṃraktāc ca tatas trasan |
सुरतानुभवे योग्यं दृष्ट्वा तच् च सुसंवृतम् । (१०१।१)
suratānubhave yogyaṃ dṛṣṭvā tac ca susaṃvṛtam |
लतागृहम् अहं प्राप्तः फुल्लश्यामालतावृतम् ॥ (१०१।२)
latāgṛham ahaṃ prāptaḥ phullaśyāmālatāvṛtam ||
यच् च शेषम् अशेषं तत् कथितं गोमुखेन वः । (१०२।१)
yac ca śeṣam aśeṣaṃ tat kathitaṃ gomukhena vaḥ |
को हि विद्याधरैर् बद्धम् अविद्याधरसैन्यपः । (१०३।१)
ko hi vidyādharair baddham avidyādharasainyapaḥ |
मोचयेन् मादृशं तस्मात् तथेदम् ऋषिभाषितम् ॥ (१०३।२)
mocayen mādṛśaṃ tasmāt tathedam ṛṣibhāṣitam ||
सेवन्ते सेवकाः सेव्यान् प्रज्ञाप्राणधनादिभिः । (१०४।१)
sevante sevakāḥ sevyān prajñāprāṇadhanādibhiḥ |
येन तेनात्मरक्षार्थं मद्विद्या गृह्यताम् इति ॥ (१०४।२)
yena tenātmarakṣārthaṃ madvidyā gṛhyatām iti ||
न गृहीताब्रुवं चैनम् अनुगच्छ प्रियाम् इति ॥ (१०५।२)
na gṛhītābruvaṃ cainam anugaccha priyām iti ||
अब्रवीच् च दिनाद् अस्मात् परेणाहम् अहर्निशम् । (१०६।१)
abravīc ca dinād asmāt pareṇāham aharniśam |
स्मर्तव्यः संकटे चाहम् इत्य् उक्त्वा नः प्रणम्य च । (१०७।१)
smartavyaḥ saṃkaṭe cāham ity uktvā naḥ praṇamya ca |
वेगेनाकाशम् उत्पत्य प्रागाद् अङ्गारकं प्रति ॥ (१०७।२)
vegenākāśam utpatya prāgād aṅgārakaṃ prati ||
आदित्यशर्मवचनं वचनं च यक्ष्या यानं प्रदक्षिणम् इषोश् च मरुन्मृगाणाम् । (१०८।१)
ādityaśarmavacanaṃ vacanaṃ ca yakṣyā yānaṃ pradakṣiṇam iṣoś ca marunmṛgāṇām |
प्रह्लादिनामितगतेः कथितेन जातम् उत्खातसंशयकलङ्कतया विशुद्धम् ॥ (१०८।२)
prahlādināmitagateḥ kathitena jātam utkhātasaṃśayakalaṅkatayā viśuddham ||
Data courtesy of The Digital Corpus of Sanskrit.