बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 23

23 of 28 · 248 verses

Select a line for its word-by-word analysis.

1.1१.१

इत्य् आख्याय कथितौ च मिथः प्रव्रजितौ गतौ । (१।१)

ity ākhyāya kathitau ca mithaḥ pravrajitau gatau |

1.2१.२

द्रुतप्रवहणारूढो गोमुखश् च परागतः ॥ (१।२)

drutapravahaṇārūḍho gomukhaś ca parāgataḥ ||

2.1२.१

माम् अवोचत् स वन्दित्वा प्रीतिदासः पुनर्वसुः । (२।१)

mām avocat sa vanditvā prītidāsaḥ punarvasuḥ |

2.2२.२

सर्वनागरकश्रेणिग्रामणीर् दृश्यताम् इति ॥ (२।२)

sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti ||

3.1३.१

अथ प्रणतम् अद्राक्षम् अनुल्बणविभूषणम् । (३।१)

atha praṇatam adrākṣam anulbaṇavibhūṣaṇam |

3.2३.२

युवानम् अपि वैनीत्याल्लज्जितस्थविरं नरम् ॥ (३।२)

yuvānam api vainītyāllajjitasthaviraṃ naram ||

4.1४.१

गोमुखाख्यातमाहात्म्यं तं चालिङ्गितवान् अहम् । (४।१)

gomukhākhyātamāhātmyaṃ taṃ cāliṅgitavān aham |

4.2४.२

संभावितगुणाः सद्भिर् अर्हन्त्य् एव च सत्क्रियाम् ॥ (४।२)

saṃbhāvitaguṇāḥ sadbhir arhanty eva ca satkriyām ||

5.1५.१

अथ यानं समारुह्य तत् पुनर्वसुवाहकम् । (५।१)

atha yānaṃ samāruhya tat punarvasuvāhakam |

5.2५.२

सांयात्रिक इवाम्भोधिं तदावासम् अवातरम् ॥ (५।२)

sāṃyātrika ivāmbhodhiṃ tadāvāsam avātaram ||

6.1६.१

सेविताहारपर्यन्तशरीरस्थितिसाधनः । (६।१)

sevitāhāraparyantaśarīrasthitisādhanaḥ |

6.2६.२

दिनशेषं नयामि स्म गीतिश्रुतिविनोदनः ॥ (६।२)

dinaśeṣaṃ nayāmi sma gītiśrutivinodanaḥ ||

7.1७.१

ततः सुप्तजने काले पृष्टवान् अस्मि गोमुखम् । (७।१)

tataḥ suptajane kāle pṛṣṭavān asmi gomukham |

7.2७.२

कथम् एष त्वया प्राप्तः सुहृद् इत्य् अथ सो ऽब्रवीत् ॥ (७।२)

katham eṣa tvayā prāptaḥ suhṛd ity atha so 'bravīt ||

8.1८.१

श्रूयताम् अस्त्य् अहं युष्मान् वन्दित्वा पुनर् आगतः । (८।१)

śrūyatām asty ahaṃ yuṣmān vanditvā punar āgataḥ |

8.2८.२

न च कंचन पश्यामि योग्यम् आश्रयदायिनम् ॥ (८।२)

na ca kaṃcana paśyāmi yogyam āśrayadāyinam ||

9.1९.१

ततश् चिन्तितवान् अस्मि धनविद्यादिदायिनाम् । (९।१)

tataś cintitavān asmi dhanavidyādidāyinām |

9.2९.२

संभवः सर्वसाधूनां नास्ति राजकुलाद् ऋते ॥ (९।२)

saṃbhavaḥ sarvasādhūnāṃ nāsti rājakulād ṛte ||

10.1१०.१

योगक्षेमप्रयुक्ता हि प्रायः सज्जनसंसदः । (१०।१)

yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ |

10.2१०.२

राजद्वारं विगाहन्ते समुद्रम् इव सिन्धवः ॥ (१०।२)

rājadvāraṃ vigāhante samudram iva sindhavaḥ ||

11.1११.१

राजद्वारं ततो गत्वा याचिष्ये कंचिद् आश्रयम् । (११।१)

rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam |

11.2११.२

राजद्वारं हि कार्याणां द्वारम् उक्तं बुधैर् इति ॥ (११।२)

rājadvāraṃ hi kāryāṇāṃ dvāram uktaṃ budhair iti ||

12.1१२.१

निग्रहानुग्रहप्राप्तलोककोलाहलाकुलम् । (१२।१)

nigrahānugrahaprāptalokakolāhalākulam |

12.2१२.२

तद् गत्वा स्मृतवान् अस्मि प्रेताधिपधनाधिपौ ॥ (१२।२)

tad gatvā smṛtavān asmi pretādhipadhanādhipau ||

13.1१३.१

महामनुष्यचरितः पुरुषो ऽयं विभाव्यते । (१३।१)

mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate |

13.2१३.२

आश्रयप्रार्थना तस्मान् नास्मिन् सम्पद्यते मृषा ॥ (१३।२)

āśrayaprārthanā tasmān nāsmin sampadyate mṛṣā ||

14.1१४.१

अयम् अन्यः सुवेषो ऽपि कीनाशविरसाकृतिः । (१४।१)

ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ |

14.2१४.२

तेन संभाव्यते नास्मात् प्रार्थनाफलम् अण्व् अपि ॥ (१४।२)

tena saṃbhāvyate nāsmāt prārthanāphalam aṇv api ||

15.1१५.१

पुरुषं पुरुषं तत्र चिरम् इत्थं विचारयन् । (१५।१)

puruṣaṃ puruṣaṃ tatra ciram itthaṃ vicārayan |

15.2१५.२

अभ्यन्तरात् प्रतीहारं दृष्टवान् अस्मि निर्गतम् ॥ (१५।२)

abhyantarāt pratīhāraṃ dṛṣṭavān asmi nirgatam ||

16.1१६.१

स्वस्तिकारनमस्कारज्योत्कारान् स च कार्यिणाम् । (१६।१)

svastikāranamaskārajyotkārān sa ca kāryiṇām |

16.2१६.२

प्रतिमानितवान् सर्वान् सकृन् नमितमस्तकः ॥ (१६।२)

pratimānitavān sarvān sakṛn namitamastakaḥ ||

17.1१७.१

अथ विज्ञापनामात्रं पश्यद्भिः कार्यसाधनम् । (१७।१)

atha vijñāpanāmātraṃ paśyadbhiḥ kāryasādhanam |

17.2१७.२

कार्यिभिर् युगपत् तत्र कार्यविज्ञापना कृता ॥ (१७।२)

kāryibhir yugapat tatra kāryavijñāpanā kṛtā ||

18.1१८.१

तेभ्यस् तेनापि सामान्यम् एकम् एवोत्तरं कृतम् । (१८।१)

tebhyas tenāpi sāmānyam ekam evottaraṃ kṛtam |

18.2१८.२

भवतः सुमुखो राजा मा त्वरिष्ट भवान् इति ॥ (१८।२)

bhavataḥ sumukho rājā mā tvariṣṭa bhavān iti ||

19.1१९.१

स प्रतीहारवेषं च वारबाणादिम् अङ्गतः । (१९।१)

sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ |

19.2१९.२

अवतार्य समीपस्थे न्यस्तवान् परिचारके ॥ (१९।२)

avatārya samīpasthe nyastavān paricārake ||

20.1२०.१

तं च दृष्ट्वा समाप्तैव समाश्रयगवेषणा । (२०।१)

taṃ ca dṛṣṭvā samāptaiva samāśrayagaveṣaṇā |

20.2२०.२

न हि दृष्टसुवर्णाद्रिः ताम्रं धमति वातिकः ॥ (२०।२)

na hi dṛṣṭasuvarṇādriḥ tāmraṃ dhamati vātikaḥ ||

21.1२१.१

स्वस्तिकृत्वा ततस् तस्मै स्वगृहान् प्रतिगच्छते । (२१।१)

svastikṛtvā tatas tasmai svagṛhān pratigacchate |

21.2२१.२

मां मुहुः पश्यता प्रीत्या तेनैव सहितो ऽगमम् ॥ (२१।२)

māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam ||

22.1२२.१

गृहे च कृतसत्कारम् असौ माम् अनुयुक्तवान् । (२२।१)

gṛhe ca kṛtasatkāram asau mām anuyuktavān |

22.2२२.२

आगच्छति कुतः किं वा मद् इच्छति भवान् इति ॥ (२२।२)

āgacchati kutaḥ kiṃ vā mad icchati bhavān iti ||

23.1२३.१

मयोक्तं भ्रातराव् आवां द्विजौ द्वाव् आगमार्थिनौ । (२३।१)

mayoktaṃ bhrātarāv āvāṃ dvijau dvāv āgamārthinau |

23.2२३.२

विद्यास्थानम् इदं श्रुत्वा अवन्तिदेशात् समागतौ ॥ (२३।२)

vidyāsthānam idaṃ śrutvā avantideśāt samāgatau ||

24.1२४.१

इह वासितुम् इच्छावो युष्मत्कृतपरिग्रहौ । (२४।१)

iha vāsitum icchāvo yuṣmatkṛtaparigrahau |

24.2२४.२

बलवत्तरगुप्तो हि कृशो ऽपि बलवान् इति ॥ (२४।२)

balavattaragupto hi kṛśo 'pi balavān iti ||

25.1२५.१

तेनोक्तं त्वादृशाम् एतद् गुणग्रहणकाङ्क्षिणाम् । (२५।१)

tenoktaṃ tvādṛśām etad guṇagrahaṇakāṅkṣiṇām |

25.2२५.२

अग्राम्यालापरूपाणां स्वगृहं भवताम् इति ॥ (२५।२)

agrāmyālāparūpāṇāṃ svagṛhaṃ bhavatām iti ||

26.1२६.१

मुहूर्तं तत्र चासीनः श्रुतवान् अहम् उत्थितम् । (२६।१)

muhūrtaṃ tatra cāsīnaḥ śrutavān aham utthitam |

26.2२६.२

क्षुभिताम्भोधिकल्लोलकोलाहलम् इव क्षणम् ॥ (२६।२)

kṣubhitāmbhodhikallolakolāhalam iva kṣaṇam ||

27.1२७.१

मां तदाकर्णनोत्कर्णम् असौ सस्मितम् उक्तवान् । (२७।१)

māṃ tadākarṇanotkarṇam asau sasmitam uktavān |

27.2२७.२

किं त्वम् एतन् न वेत्थेति न वेदेति मयोदितम् ॥ (२७।२)

kiṃ tvam etan na vettheti na vedeti mayoditam ||

28.1२८.१

अयं पुनर्वसुर् नाम दाता वाणिजदारकः । (२८।१)

ayaṃ punarvasur nāma dātā vāṇijadārakaḥ |

28.2२८.२

वृतः कितवसंघेन दीव्यति द्यूतमण्डपे ॥ (२८।२)

vṛtaḥ kitavasaṃghena dīvyati dyūtamaṇḍape ||

29.1२९.१

यदा विजयते द्यूते स सर्वं द्रविणं तदा । (२९।१)

yadā vijayate dyūte sa sarvaṃ draviṇaṃ tadā |

29.2२९.२

वितरत्य् अर्थिवर्गाय तस्यैष तुमुलो ध्वनिः ॥ (२९।२)

vitaraty arthivargāya tasyaiṣa tumulo dhvaniḥ ||

30.1३०.१

जीयमाने पुनस् तस्मिञ् जानुमूर्धस्थमस्तकाः । (३०।१)

jīyamāne punas tasmiñ jānumūrdhasthamastakāḥ |

30.2३०.२

विषादमुषितालापा ध्यायन्ति शिवम् अर्थिनः ॥ (३०।२)

viṣādamuṣitālāpā dhyāyanti śivam arthinaḥ ||

31.1३१.१

यदि कौतूहलं तत्र ततो ऽसौ दृश्यताम् इति । (३१।१)

yadi kautūhalaṃ tatra tato 'sau dṛśyatām iti |

31.2३१.२

प्रतीहारेण कथिते ततश् चिन्तितवान् अहम् ॥ (३१।२)

pratīhāreṇa kathite tataś cintitavān aham ||

32.1३२.१

नीतिविद्यावयोवृद्धैर् अमात्यैः किं प्रयोजनम् । (३२।१)

nītividyāvayovṛddhair amātyaiḥ kiṃ prayojanam |

32.2३२.२

येषां यन्त्रितवाक्कायैर् अग्रतो दुःखम् आस्यते ॥ (३२।२)

yeṣāṃ yantritavākkāyair agrato duḥkham āsyate ||

33.1३३.१

यः समानवयःशीलो मुक्तहस्तः सकिंचन । (३३।१)

yaḥ samānavayaḥśīlo muktahastaḥ sakiṃcana |

33.2३३.२

व्यसनी च स्वतन्त्रश् च सो ऽस्माकम् अधुना सुहृत् ॥ (३३।२)

vyasanī ca svatantraś ca so 'smākam adhunā suhṛt ||

34.1३४.१

तस्माद् द्यूतसभाम् एव यामि द्रष्टुं पुनर्वसुम् । (३४।१)

tasmād dyūtasabhām eva yāmi draṣṭuṃ punarvasum |

34.2३४.२

निर्धार्येति तम् आमन्त्र्य द्यूतकारसभाम् अगाम् ॥ (३४।२)

nirdhāryeti tam āmantrya dyūtakārasabhām agām ||

35.1३५.१

साकीर्णा देवनव्यग्रैः सभा कितवचन्द्रकैः । (३५।१)

sākīrṇā devanavyagraiḥ sabhā kitavacandrakaiḥ |

35.2३५.२

सरसीवामिषास्वादगृद्धैर् बककदम्बकैः ॥ (३५।२)

sarasīvāmiṣāsvādagṛddhair bakakadambakaiḥ ||

36.1३६.१

तत्रान्यतमयोर् अक्षान् दीव्यतोर् अक्षधूर्तयोः । (३६।१)

tatrānyatamayor akṣān dīvyator akṣadhūrtayoḥ |

36.2३६.२

अक्षः कोणेन पतितः संदिग्धपदपञ्चकः ॥ (३६।२)

akṣaḥ koṇena patitaḥ saṃdigdhapadapañcakaḥ ||

37.1३७.१

पञ्चको ऽयं पदं नेदं पदम् एतन् न पञ्चकः । (३७।१)

pañcako 'yaṃ padaṃ nedaṃ padam etan na pañcakaḥ |

37.2३७.२

इति जाता तयोः स्पर्धा परस्परजयैषिणोः ॥ (३७।२)

iti jātā tayoḥ spardhā parasparajayaiṣiṇoḥ ||

38.1३८.१

तयोर् एकतरेणोक्तं मध्यस्थः पृच्छ्यताम् इति । (३८।१)

tayor ekatareṇoktaṃ madhyasthaḥ pṛcchyatām iti |

38.2३८.२

प्रत्युक्तम् इतरेणापि यथेच्छसि तथास्त्व् इति ॥ (३८।२)

pratyuktam itareṇāpi yathecchasi tathāstv iti ||

39.1३९.१

अथैकः पुरुषः प्रांशुः पृष्टस् ताभ्याम् अनागरः । (३९।१)

athaikaḥ puruṣaḥ prāṃśuḥ pṛṣṭas tābhyām anāgaraḥ |

39.2३९.२

कतरत् पश्यसि स्पष्टं पदपञ्चकयोर् इति ॥ (३९।२)

katarat paśyasi spaṣṭaṃ padapañcakayor iti ||

40.1४०.१

तत्र चान्यतमेनोच्चैर् उक्तम् उत्क्षिप्तपाणिना । (४०।१)

tatra cānyatamenoccair uktam utkṣiptapāṇinā |

40.2४०.२

दीर्घत्वाद् एष निर्बुद्धिर् अतो ऽन्यः पृच्छ्यताम् इति ॥ (४०।२)

dīrghatvād eṣa nirbuddhir ato 'nyaḥ pṛcchyatām iti ||

41.1४१.१

ततः पृष्टो ऽपरो ह्रस्वः सो ऽपि तेन निवारितः । (४१।१)

tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ |

41.2४१.२

नेदृशाः प्रश्नम् अर्हन्ति बहुदोषा हि खट्वकाः ॥ (४१।२)

nedṛśāḥ praśnam arhanti bahudoṣā hi khaṭvakāḥ ||

42.1४२.१

अथ मां दृष्टवन्तौ तौ पृष्टवन्तौ च सादरम् । (४२।१)

atha māṃ dṛṣṭavantau tau pṛṣṭavantau ca sādaram |

42.2४२.२

साधो यदि न दोषो ऽस्ति ततो नौ छिन्द्धि संशयम् ॥ (४२।२)

sādho yadi na doṣo 'sti tato nau chinddhi saṃśayam ||

43.1४३.१

त्वं न दीर्घो न च ह्रस्वस् तस्मात् प्राज्ञो न दुष्टधीः । (४३।१)

tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ |

43.2४३.२

तेन मध्यप्रमाणत्वाद् गच्छ मध्यस्थताम् इति ॥ (४३।२)

tena madhyapramāṇatvād gaccha madhyasthatām iti ||

44.1४४.१

चिन्तितं च मया कष्टः खलसंदिग्धनिर्णयः । (४४।१)

cintitaṃ ca mayā kaṣṭaḥ khalasaṃdigdhanirṇayaḥ |

44.2४४.२

पारद्रविणगृद्धेषु कितवेषु विशेषतः ॥ (४४।२)

pāradraviṇagṛddheṣu kitaveṣu viśeṣataḥ ||

45.1४५.१

अवश्यं तु कलाज्ञानं ख्यापनीयं कलाविदा । (४५।१)

avaśyaṃ tu kalājñānaṃ khyāpanīyaṃ kalāvidā |

45.2४५.२

अप्रकाशं हि विज्ञानं कृपणार्थनिरर्थकम् ॥ (४५।२)

aprakāśaṃ hi vijñānaṃ kṛpaṇārthanirarthakam ||

46.1४६.१

न च द्यूतकलान्यत्र कितवेभ्यः प्रकाश्यते । (४६।१)

na ca dyūtakalānyatra kitavebhyaḥ prakāśyate |

46.2४६.२

न हि प्रयुञ्जते प्राज्ञाः वेशाद् अन्यत्र वैशिकम् ॥ (४६।२)

na hi prayuñjate prājñāḥ veśād anyatra vaiśikam ||

47.1४७.१

द्यूते जेष्यति यश् चात्र स मे मित्रं भविष्यति । (४७।१)

dyūte jeṣyati yaś cātra sa me mitraṃ bhaviṣyati |

47.2४७.२

धनवन्मित्रलाभं हि निधिलाभादिकं विदुः ॥ (४७।२)

dhanavanmitralābhaṃ hi nidhilābhādikaṃ viduḥ ||

48.1४८.१

इत्यादि बहु निश्चित्य पुरस् तेषां सविस्तरम् । (४८।१)

ityādi bahu niścitya puras teṣāṃ savistaram |

48.2४८.२

अक्षाष्टापदशारीणाम् आख्यं भूमेश् च लक्षणम् ॥ (४८।२)

akṣāṣṭāpadaśārīṇām ākhyaṃ bhūmeś ca lakṣaṇam ||

49.1४९.१

ततः संदिग्धपातस्य तस्याहं कोणपातिनः । (४९।१)

tataḥ saṃdigdhapātasya tasyāhaṃ koṇapātinaḥ |

49.2४९.२

सुपिष्टम् इष्टकाक्षोदम् अक्षस्योपरि दत्तवान् ॥ (४९।२)

supiṣṭam iṣṭakākṣodam akṣasyopari dattavān ||

50.1५०.१

अथासाव् इष्टकाक्षोदः पदस्योपरि यो ऽपतत् । (५०।१)

athāsāv iṣṭakākṣodaḥ padasyopari yo 'patat |

50.2५०.२

सो ऽपतत् सकलो भूमौ पञ्चकस्योपरि स्थितः ॥ (५०।२)

so 'patat sakalo bhūmau pañcakasyopari sthitaḥ ||

51.1५१.१

ततस् तान् उक्तवान् अस्मि यो भागः पञ्चकाङ्कितः । (५१।१)

tatas tān uktavān asmi yo bhāgaḥ pañcakāṅkitaḥ |

51.2५१.२

तस्योत्तानत्वम् उत्कृष्टं क्षोदस् तत्र यतः स्थितः ॥ (५१।२)

tasyottānatvam utkṛṣṭaṃ kṣodas tatra yataḥ sthitaḥ ||

52.1५२.१

एतावन् मम विज्ञानम् इत्य् उक्त्वावस्थिते मयि । (५२।१)

etāvan mama vijñānam ity uktvāvasthite mayi |

52.2५२.२

अहो साध्व् इति निर्घोषः समन्तात् सहसोत्थितः ॥ (५२।२)

aho sādhv iti nirghoṣaḥ samantāt sahasotthitaḥ ||

53.1५३.१

ततस् तत्रोदितं कैश्चिद् अयम् अक्षविशारदौ । (५३।१)

tatas tatroditaṃ kaiścid ayam akṣaviśāradau |

53.2५३.२

ध्रुवं विजयते दूरान् नलकुन्तीसुताव् इति ॥ (५३।२)

dhruvaṃ vijayate dūrān nalakuntīsutāv iti ||

54.1५४.१

ते ऽपरैः कुपितैर् उक्ता जितौ नलयुधिष्ठिरौ । (५४।१)

te 'paraiḥ kupitair uktā jitau nalayudhiṣṭhirau |

54.2५४.२

अयं जयति जेताराव् अपि पुष्करसौबलौ ॥ (५४।२)

ayaṃ jayati jetārāv api puṣkarasaubalau ||

55.1५५.१

इति प्रशस्यमानं मां तिर्यग् दृष्ट्वा समत्सरः । (५५।१)

iti praśasyamānaṃ māṃ tiryag dṛṣṭvā samatsaraḥ |

55.2५५.२

पदवादी जितो यो ऽसाव् असौ मन्थरम् उक्तवान् ॥ (५५।२)

padavādī jito yo 'sāv asau mantharam uktavān ||

56.1५६.१

येषां द्यूतपणाभावस् ते किमर्थम् इहासते । (५६।१)

yeṣāṃ dyūtapaṇābhāvas te kimartham ihāsate |

56.2५६.२

द्यूतस्थाने हि किं कृत्यं प्रवीणैः प्राश्निकैर् इति ॥ (५६।२)

dyūtasthāne hi kiṃ kṛtyaṃ pravīṇaiḥ prāśnikair iti ||

57.1५७.१

आसीच् च मम कस्मान् मां कौलटेयः क्षिपत्य् अयम् । (५७।१)

āsīc ca mama kasmān māṃ kaulaṭeyaḥ kṣipaty ayam |

57.2५७.२

यो ऽहं त्रैलोक्यसारेण पणेन पणवान् इति ॥ (५७।२)

yo 'haṃ trailokyasāreṇa paṇena paṇavān iti ||

58.1५८.१

अथ निक्षिप्य सक्रोधं यौष्माकं भूषणं भुवि । (५८।१)

atha nikṣipya sakrodhaṃ yauṣmākaṃ bhūṣaṇaṃ bhuvi |

58.2५८.२

एहि दीव्याव मित्रेति तम् अहं धूर्तम् उक्तवान् ॥ (५८।२)

ehi dīvyāva mitreti tam ahaṃ dhūrtam uktavān ||

59.1५९.१

स च धूर्तैर् अलंकारः प्रसर्पद्बहलप्रभः । (५९।१)

sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ |

59.2५९.२

दृष्टस् तृष्णाविशालाक्षैः पतंगैर् इव पावकः ॥ (५९।२)

dṛṣṭas tṛṣṇāviśālākṣaiḥ pataṃgair iva pāvakaḥ ||

60.1६०.१

अथासौ क्रोधलोभाभ्याम् अक्षधूर्तः प्रतारितः । (६०।१)

athāsau krodhalobhābhyām akṣadhūrtaḥ pratāritaḥ |

60.2६०.२

मया सह ससंरम्भम् अक्षान् आरब्धो देवितुम् ॥ (६०।२)

mayā saha sasaṃrambham akṣān ārabdho devitum ||

61.1६१.१

तेन चाहं त्रिभिः पातैर् अनक्षकुशलः किल । (६१।१)

tena cāhaṃ tribhiḥ pātair anakṣakuśalaḥ kila |

61.2६१.२

प्रबुद्धैर् गर्धगृद्धेन सहस्रत्रितयं जितः ॥ (६१।२)

prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ ||

62.1६२.१

ततस् तत् सकृद् उन्मोच्य सहस्रत्रितयं मया । (६२।१)

tatas tat sakṛd unmocya sahasratritayaṃ mayā |

62.2६२.२

लक्षम् एकेन पातेन जितः स कितवाधमः ॥ (६२।२)

lakṣam ekena pātena jitaḥ sa kitavādhamaḥ ||

63.1६३.१

विजयाज् जृम्भितोत्साहः शङ्कितश् च पराजयात् । (६३।१)

vijayāj jṛmbhitotsāhaḥ śaṅkitaś ca parājayāt |

63.2६३.२

न विरन्तुं न वा रन्तुम् असाव् अशकद् आकुलः ॥ (६३।२)

na virantuṃ na vā rantum asāv aśakad ākulaḥ ||

64.1६४.१

दीव्य वा देहि वा लक्षं सौम्येति च मयोदितः । (६४।१)

dīvya vā dehi vā lakṣaṃ saumyeti ca mayoditaḥ |

64.2६४.२

वैलक्ष्याद् घट्टयन्न् अक्षान् न किंचित् प्रतिपन्नवान् ॥ (६४।२)

vailakṣyād ghaṭṭayann akṣān na kiṃcit pratipannavān ||

65.1६५.१

एतस्मिन्न् अन्तरे भृत्यं स्वम् अवोचत् पुनर्वसुः । (६५।१)

etasminn antare bhṛtyaṃ svam avocat punarvasuḥ |

65.2६५.२

कितवो ऽयम् इदं लक्षम् अचलं दाप्यताम् इति ॥ (६५।२)

kitavo 'yam idaṃ lakṣam acalaṃ dāpyatām iti ||

66.1६६.१

मां चायं स्वं गृहं नीत्वा हर्षाद् ऋजुतनूरुहः । (६६।१)

māṃ cāyaṃ svaṃ gṛhaṃ nītvā harṣād ṛjutanūruhaḥ |

66.2६६.२

तथा पूजितवान् देवं हरं दत्तवरं यथा ॥ (६६।२)

tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā ||

67.1६७.१

मां चावोचद् धनं यत् तद् भवद्भिः कितवार्जितम् । (६७।१)

māṃ cāvocad dhanaṃ yat tad bhavadbhiḥ kitavārjitam |

67.2६७.२

तद् उद्ग्राह्येदम् आनीतं लक्षं ते गृह्यताम् इति ॥ (६७।२)

tad udgrāhyedam ānītaṃ lakṣaṃ te gṛhyatām iti ||

68.1६८.१

मयाप्य् उक्तम् उपान्ते यद् द्रविणं त्वत्परिग्रहात् । (६८।१)

mayāpy uktam upānte yad draviṇaṃ tvatparigrahāt |

68.2६८.२

साधितं भवता यच् च तस्य स्वामी भवान् इति ॥ (६८।२)

sādhitaṃ bhavatā yac ca tasya svāmī bhavān iti ||

69.1६९.१

उक्तं चानेन यन् नाम युष्माभिः स्वयम् अर्जितम् । (६९।१)

uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam |

69.2६९.२

स्वामिनो यूयम् एवास्य धनस्येत्य् अत्र का कथा ॥ (६९।२)

svāmino yūyam evāsya dhanasyety atra kā kathā ||

70.1७०.१

यद् अपीदं मयावाप्तं युष्मत्स्वामिकम् एव तत् । (७०।१)

yad apīdaṃ mayāvāptaṃ yuṣmatsvāmikam eva tat |

70.2७०.२

अधिगच्छति यद् दासो भर्तुर् एव हि तद् धनम् ॥ (७०।२)

adhigacchati yad dāso bhartur eva hi tad dhanam ||

71.1७१.१

यच् च पृच्छामि तन् मह्यं प्रसादे सति कथ्यताम् । (७१।१)

yac ca pṛcchāmi tan mahyaṃ prasāde sati kathyatām |

71.2७१.२

भूतलं यूयम् आयाताः किंनिमित्तं त्रिपिष्टपात् ॥ (७१।२)

bhūtalaṃ yūyam āyātāḥ kiṃnimittaṃ tripiṣṭapāt ||

72.1७२.१

मन्ये सत्य् अपि देवत्वे भवद्भिः क्रीडयाहृतैः । (७२।१)

manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ |

72.2७२.२

आकारान्तरनिर्माणं नात्यन्तम् अनुशीलितम् ॥ (७२।२)

ākārāntaranirmāṇaṃ nātyantam anuśīlitam ||

73.1७३.१

तथा च वर्णसंस्थानकलाविज्ञानसम्पदः । (७३।१)

tathā ca varṇasaṃsthānakalāvijñānasampadaḥ |

73.2७३.२

दृष्टाः केन मनुष्येषु यादृशो भवताम् इति ॥ (७३।२)

dṛṣṭāḥ kena manuṣyeṣu yādṛśo bhavatām iti ||

74.1७४.१

तेन यत् सत्यम् इत्य् उक्ते दुःखम् आशितवान् अहम् । (७४।१)

tena yat satyam ity ukte duḥkham āśitavān aham |

74.2७४.२

दूरेण ह्य् अतिनिन्दाया दुःखहेतुर् अतिस्तुतिः ॥ (७४।२)

dūreṇa hy atinindāyā duḥkhahetur atistutiḥ ||

75.1७५.१

वाराणसीप्रवेशेषु प्रतीहाराय पृच्छते । (७५।१)

vārāṇasīpraveśeṣu pratīhārāya pṛcchate |

75.2७५.२

यन् मया कार्यम् आख्यातं तद् एवास्मै निवेदितम् ॥ (७५।२)

yan mayā kāryam ākhyātaṃ tad evāsmai niveditam ||

76.1७६.१

अथानेनोक्तम् आश्चर्यं ज्येष्ठस्य जगतां गुणैः । (७६।१)

athānenoktam āścaryaṃ jyeṣṭhasya jagatāṃ guṇaiḥ |

76.2७६.२

त्वादृशस्यापि यो ज्येष्ठः कीदृशः स भविष्यति ॥ (७६।२)

tvādṛśasyāpi yo jyeṣṭhaḥ kīdṛśaḥ sa bhaviṣyati ||

77.1७७.१

किं वानेन विमर्देन ज्येष्ठस् तिष्ठति यत्र सः । (७७।१)

kiṃ vānena vimardena jyeṣṭhas tiṣṭhati yatra saḥ |

77.2७७.२

सर्वतीर्थाधिके देशे तं प्रापयत माम् इति ॥ (७७।२)

sarvatīrthādhike deśe taṃ prāpayata mām iti ||

78.1७८.१

अथैनम् अहम् आदाय गतवान् भवदन्तिकम् । (७८।१)

athainam aham ādāya gatavān bhavadantikam |

78.2७८.२

यच् चोत्तरम् अतस् तत्र प्रत्यक्षं भवताम् अपि ॥ (७८।२)

yac cottaram atas tatra pratyakṣaṃ bhavatām api ||

79.1७९.१

इति क्षिप्रम् अयं लब्धो मया वः परिचारकः । (७९।१)

iti kṣipram ayaṃ labdho mayā vaḥ paricārakaḥ |

79.2७९.२

न हिंसन्ति न सर्वत्र श्रियः पुण्यवताम् इति ॥ (७९।२)

na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti ||

80.1८०.१

ततस् तम् उक्तवान् अस्मि विपदस् तेन दुर्लभाः । (८०।१)

tatas tam uktavān asmi vipadas tena durlabhāḥ |

80.2८०.२

फलं सुचरितस्यैव हृदयं यस्य गोमुखः ॥ (८०।२)

phalaṃ sucaritasyaiva hṛdayaṃ yasya gomukhaḥ ||

81.1८१.१

किंतु संश्रयमात्रेण पीडनीयः पुनर्वसुः । (८१।१)

kiṃtu saṃśrayamātreṇa pīḍanīyaḥ punarvasuḥ |

81.2८१.२

परान्नं हि वृथाभुक्तं दुःखायैव सताम् इति ॥ (८१।२)

parānnaṃ hi vṛthābhuktaṃ duḥkhāyaiva satām iti ||

82.1८२.१

एवमादिभिर् आलापैर् अर्धम् अर्धं च निद्रया । (८२।१)

evamādibhir ālāpair ardham ardhaṃ ca nidrayā |

82.2८२.२

नीतवान् अस्मि यामिन्याः प्रातश् चागात् पुनर्वसुः ॥ (८२।२)

nītavān asmi yāminyāḥ prātaś cāgāt punarvasuḥ ||

83.1८३.१

तं च वन्दितमत्पादम् अवोचद् इति गोमुखः । (८३।१)

taṃ ca vanditamatpādam avocad iti gomukhaḥ |

83.2८३.२

बल्लवः कुशलः कश्चित् कुतश्चन गवेष्यताम् ॥ (८३।२)

ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām ||

84.1८४.१

त्वदन्यस्य गृहे नान्नम् अर्यज्येष्ठेन सेवितम् । (८४।१)

tvadanyasya gṛhe nānnam aryajyeṣṭhena sevitam |

84.2८४.२

परपाकनिवृत्ता हि साधुवृत्ता द्विजातयः ॥ (८४।२)

parapākanivṛttā hi sādhuvṛttā dvijātayaḥ ||

85.1८५.१

आदराराधितश् चायं त्वदीयं परिभुक्तवान् । (८५।१)

ādarārādhitaś cāyaṃ tvadīyaṃ paribhuktavān |

85.2८५.२

आराधनानुरोधो हि चरितं महताम् इति ॥ (८५।२)

ārādhanānurodho hi caritaṃ mahatām iti ||

86.1८६.१

प्रत्याख्यानविचित्तस् तु तम् आह स्म पुनर्वसुः । (८६।१)

pratyākhyānavicittas tu tam āha sma punarvasuḥ |

86.2८६.२

यद्य् एवं जगदीशानां किं नास्ति भवताम् इति ॥ (८६।२)

yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti ||

87.1८७.१

अचिराच् च तदानीतौ संभाव्यगुणसंपदौ । (८७।१)

acirāc ca tadānītau saṃbhāvyaguṇasaṃpadau |

87.2८७.२

आकारक्षिप्तनासत्याव् अपश्यं पुरुषौ पुरः ॥ (८७।२)

ākārakṣiptanāsatyāv apaśyaṃ puruṣau puraḥ ||

88.1८८.१

तौ च मां चिरम् आलोक्य वदनं च परस्परम् । (८८।१)

tau ca māṃ ciram ālokya vadanaṃ ca parasparam |

88.2८८.२

प्रसार्य सभुजान् पादाञ् जयेत्य् उक्त्वा भुवं गतौ ॥ (८८।२)

prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau ||

89.1८९.१

तौ चाहूय मयायातौ स्पृष्टपृष्ठौ सभाजितौ । (८९।१)

tau cāhūya mayāyātau spṛṣṭapṛṣṭhau sabhājitau |

89.2८९.२

वन्दित्वा पुनर् अब्रूतां ब्रूत किं क्रियताम् इति ॥ (८९।२)

vanditvā punar abrūtāṃ brūta kiṃ kriyatām iti ||

90.1९०.१

ततस् तौ गोमुखेनोक्तौ भवन्तौ किल बल्लवौ । (९०।१)

tatas tau gomukhenoktau bhavantau kila ballavau |

90.2९०.२

सत्यं चेद् इदम् आर्यस्य पाकः संसाध्यताम् इति ॥ (९०।२)

satyaṃ ced idam āryasya pākaḥ saṃsādhyatām iti ||

91.1९१.१

तौ च प्रीतौ प्रतिज्ञाय निकर्त्य नखमूर्धजान् । (९१।१)

tau ca prītau pratijñāya nikartya nakhamūrdhajān |

91.2९१.२

स्नातौ सोष्णीषमूर्धानौ महानसम् अगच्छताम् ॥ (९१।२)

snātau soṣṇīṣamūrdhānau mahānasam agacchatām ||

92.1९२.१

अथवा तिष्ठति व्यासः समासः श्रूयताम् अयम् । (९२।१)

athavā tiṣṭhati vyāsaḥ samāsaḥ śrūyatām ayam |

92.2९२.२

सर्वा ताभ्याम् अपूर्वेव प्रक्रिया सम्प्रसारिता ॥ (९२।२)

sarvā tābhyām apūrveva prakriyā samprasāritā ||

93.1९३.१

यावत्या चापरः स्थालीम् अधिश्रयति बल्लवः । (९३।१)

yāvatyā cāparaḥ sthālīm adhiśrayati ballavaḥ |

93.2९३.२

तावत्या वेलया ताभ्यां पाक एव समापितः ॥ (९३।२)

tāvatyā velayā tābhyāṃ pāka eva samāpitaḥ ||

94.1९४.१

ततो निर्वर्तितस्नानदेवतानलतर्पणः । (९४।१)

tato nirvartitasnānadevatānalatarpaṇaḥ |

94.2९४.२

आहारस्थानम् अध्यासि विप्रपङ्क्तिनिरन्तरम् ॥ (९४।२)

āhārasthānam adhyāsi viprapaṅktinirantaram ||

95.1९५.१

पञ्च तित्तिरयः पक्वाश् चत्वारः कुक्कुटा इति । (९५।१)

pañca tittirayaḥ pakvāś catvāraḥ kukkuṭā iti |

95.2९५.२

आहारो यैः प्रशस्तस् तैर् अशितं प्राकृताशनम् ॥ (९५।२)

āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam ||

96.1९६.१

आहारं यदि सेवेरन् सकृत् तम् अमृताशनम् । (९६।१)

āhāraṃ yadi severan sakṛt tam amṛtāśanam |

96.2९६.२

समुत्सृष्टामृताहारा भवेयुर् नामरास् तदा ॥ (९६।२)

samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā ||

97.1९७.१

ततः समापिताहारः कर्णे गोमुखम् अब्रवम् । (९७।१)

tataḥ samāpitāhāraḥ karṇe gomukham abravam |

97.2९७.२

सूदाभ्यां भुक्तभक्ताभ्याम् अयुतं दीयताम् इति ॥ (९७।२)

sūdābhyāṃ bhuktabhaktābhyām ayutaṃ dīyatām iti ||

98.1९८.१

स गत्वा सहितस् ताभ्यां चिराच् चागत्य केवलः । (९८।१)

sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ |

98.2९८.२

स्मितसंसूचितप्रीतिर् उपाक्रमत भाषितुम् ॥ (९८।२)

smitasaṃsūcitaprītir upākramata bhāṣitum ||

99.1९९.१

मया याव् उदिताव् एतौ न युवाम् एतद् अर्हथ । (९९।१)

mayā yāv uditāv etau na yuvām etad arhatha |

99.2९९.२

अवस्थासादृशं किंतु यत् किंचिद् गृह्यताम् इति ॥ (९९।२)

avasthāsādṛśaṃ kiṃtu yat kiṃcid gṛhyatām iti ||

100.1१००.१

तयोर् एकतरेणाथ भर्तुर् दौःस्थित्यवर्तिनः । (१००।१)

tayor ekatareṇātha bhartur dauḥsthityavartinaḥ |

100.2१००.२

न युक्तं धनम् आदातुम् आवाभ्याम् इति भाषितम् ॥ (१००।२)

na yuktaṃ dhanam ādātum āvābhyām iti bhāṣitam ||

101.1१०१.१

स क्रुद्धेनेतरेणोक्तो धिक् त्वां दीनतराशयम् । (१०१।१)

sa kruddhenetareṇokto dhik tvāṃ dīnatarāśayam |

101.2१०१.२

जितत्रैलोक्यवित्तेशं वित्तेशं यो ऽनुकम्पसे ॥ (१०१।२)

jitatrailokyavitteśaṃ vitteśaṃ yo 'nukampase ||

102.1१०२.१

महापद्मसहस्राणि यत् प्रसादाद् विमानिनाम् । (१०२।१)

mahāpadmasahasrāṇi yat prasādād vimāninām |

102.2१०२.२

सुस्थितानि भविष्यन्ति दौःस्थित्यं तस्य कीदृशम् ॥ (१०२।२)

susthitāni bhaviṣyanti dauḥsthityaṃ tasya kīdṛśam ||

103.1१०३.१

प्रयच्छत्य् अयुतं यश् च पाकस्यैकस्य निष्क्रयम् । (१०३।१)

prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam |

103.2१०३.२

दुःस्थितस् तादृशो यस्य सुस्थितस् तस्य कीदृशः ॥ (१०३।२)

duḥsthitas tādṛśo yasya susthitas tasya kīdṛśaḥ ||

104.1१०४.१

एवमादि ब्रुवन्न् एव स माल्यम् इव तद् धनम् । (१०४।१)

evamādi bruvann eva sa mālyam iva tad dhanam |

104.2१०४.२

धारयित्वा क्षणं मूर्ध्ना प्रस्थाय प्राप्तवान् गृहम् ॥ (१०४।२)

dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham ||

105.1१०५.१

अथैनं पृष्टवान् अस्मि पटुकौतूहलाकुलः । (१०५।१)

athainaṃ pṛṣṭavān asmi paṭukautūhalākulaḥ |

105.2१०५.२

दिव्यम् ऐश्वर्यम् आगामि कथं वेद भवान् इति ॥ (१०५।२)

divyam aiśvaryam āgāmi kathaṃ veda bhavān iti ||

106.1१०६.१

ततस् तेनोक्तम् अस्यैव ब्रह्मदत्तस्य भूपतेः । (१०६।१)

tatas tenoktam asyaiva brahmadattasya bhūpateḥ |

106.2१०६.२

शतयज्ञाधिकश्रीकः पञ्चयज्ञः पिताभवत् ॥ (१०६।२)

śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat ||

107.1१०७.१

चिकित्सासूदशास्त्रज्ञः शिल्पित्वे ऽप्य् अशठो ऽभवत् । (१०७।१)

cikitsāsūdaśāstrajñaḥ śilpitve 'py aśaṭho 'bhavat |

107.2१०७.२

द्वितीय इव तस्यात्मा देववान् इति बल्लवः ॥ (१०७।२)

dvitīya iva tasyātmā devavān iti ballavaḥ ||

108.1१०८.१

शरीरम् एतद् आयत्तं ममेति कृतबुद्धिना । (१०८।१)

śarīram etad āyattaṃ mameti kṛtabuddhinā |

108.2१०८.२

राज्ञा तस्मै स्वराज्यस्य दशमो ऽंशः प्रकल्पितः ॥ (१०८।२)

rājñā tasmai svarājyasya daśamo 'ṃśaḥ prakalpitaḥ ||

109.1१०९.१

नन्दोपनन्दनामानौ तस्य सूदपतेः सुतौ । (१०९।१)

nandopanandanāmānau tasya sūdapateḥ sutau |

109.2१०९.२

ईदृशाकारविज्ञानाव् आवाम् एव च विद्धि तौ ॥ (१०९।२)

īdṛśākāravijñānāv āvām eva ca viddhi tau ||

110.1११०.१

बालाभ्याम् एव चावाभ्यां सूदशास्त्रचिकित्सिते । (११०।१)

bālābhyām eva cāvābhyāṃ sūdaśāstracikitsite |

110.2११०.२

सहज्ञानप्रयोगाभ्यां कुलविद्येति शिक्षिते ॥ (११०।२)

sahajñānaprayogābhyāṃ kulavidyeti śikṣite ||

111.1१११.१

एकदा नौ पितावोचत् पुत्रकौ शृणुतं हितम् । (१११।१)

ekadā nau pitāvocat putrakau śṛṇutaṃ hitam |

111.2१११.२

श्रोतारं गुरुवाक्यानां न स्पृशन्ति विपत्तयः ॥ (१११।२)

śrotāraṃ guruvākyānāṃ na spṛśanti vipattayaḥ ||

112.1११२.१

पदवाक्यप्रमाणानि काव्यानि विविधानि च । (११२।१)

padavākyapramāṇāni kāvyāni vividhāni ca |

112.2११२.२

भवद्भ्यां शिक्षितव्यानि चित्रादिश् च कलागणः ॥ (११२।२)

bhavadbhyāṃ śikṣitavyāni citrādiś ca kalāgaṇaḥ ||

113.1११३.१

कदाचिद् अजितं जेतुं यातो यातव्यमण्डलम् । (११३।१)

kadācid ajitaṃ jetuṃ yāto yātavyamaṇḍalam |

113.2११३.२

शास्त्रकाव्यकथालापैर् विनोदं प्रभुर् इच्छति ॥ (११३।२)

śāstrakāvyakathālāpair vinodaṃ prabhur icchati ||

114.1११४.१

विज्ञाय तु तदास्थानम् असंनिहितपण्डितम् । (११४।१)

vijñāya tu tadāsthānam asaṃnihitapaṇḍitam |

114.2११४.२

विनोदं तस्य कुर्यातं शास्त्रालापादिभिर् युवाम् ॥ (११४।२)

vinodaṃ tasya kuryātaṃ śāstrālāpādibhir yuvām ||

115.1११५.१

प्रगल्भाः प्रतिभावन्तो बहुवृत्तान्तपण्डिताः । (११५।१)

pragalbhāḥ pratibhāvanto bahuvṛttāntapaṇḍitāḥ |

115.2११५.२

प्रकाशितमनोवृत्तैर् भृत्याः क्रीडन्ति भर्तृभिः ॥ (११५।२)

prakāśitamanovṛttair bhṛtyāḥ krīḍanti bhartṛbhiḥ ||

116.1११६.१

एकविद्यः पुनस् तत्र प्रगल्भो ऽपि तपस्विकः । (११६।१)

ekavidyaḥ punas tatra pragalbho 'pi tapasvikaḥ |

116.2११६.२

स्वविद्यालापपर्यायखिन्नश् चिरम् उदीक्षते ॥ (११६।२)

svavidyālāpaparyāyakhinnaś ciram udīkṣate ||

117.1११७.१

अभ्यस्तबहुविद्यश् च निर्विपर्यायमानसः । (११७।१)

abhyastabahuvidyaś ca nirviparyāyamānasaḥ |

117.2११७.२

गतसंशयदुःखत्वात् सुखिनां परमेश्वरः ॥ (११७।२)

gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ ||

118.1११८.१

उत्साहेन च शिक्षेथाम् आयुरैश्वर्यलक्षणम् । (११८।१)

utsāhena ca śikṣethām āyuraiśvaryalakṣaṇam |

118.2११८.२

दीर्घायुर्वित्तवन्तो हि संसेव्याः सेवकैर् इति ॥ (११८।२)

dīrghāyurvittavanto hi saṃsevyāḥ sevakair iti ||

119.1११९.१

तच् च पित्राज्ञयाशेषम् आवाभ्याम् अनुशीलितम् । (११९।१)

tac ca pitrājñayāśeṣam āvābhyām anuśīlitam |

119.2११९.२

रम्यास्वादं च पथ्यं च को ऽवमन्येत भेषजम् ॥ (११९।२)

ramyāsvādaṃ ca pathyaṃ ca ko 'vamanyeta bheṣajam ||

120.1१२०.१

तद् विद्याधरचक्रस्य चक्रवर्ती भविष्यति । (१२०।१)

tad vidyādharacakrasya cakravartī bhaviṣyati |

120.2१२०.२

ज्यैष्ठचन्द्रसहस्रांशुदीर्घायुश् चेति नौ मतिः ॥ (१२०।२)

jyaiṣṭhacandrasahasrāṃśudīrghāyuś ceti nau matiḥ ||

121.1१२१.१

तेन प्रसारिताङ्गाभ्याम् आवाभ्याम् एष वन्दितः । (१२१।१)

tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ |

121.2१२१.२

न हि वन्दनसामान्यम् अर्हन्ति बहुवन्दिताः ॥ (१२१।२)

na hi vandanasāmānyam arhanti bahuvanditāḥ ||

122.1१२२.१

बहवो हीह तिष्ठन्ति ब्राह्मणास् तीर्थकुक्कुटाः । (१२२।१)

bahavo hīha tiṣṭhanti brāhmaṇās tīrthakukkuṭāḥ |

122.2१२२.२

शिरःस्पन्दनमात्रेण तान् आवां पूजयावहे ॥ (१२२।२)

śiraḥspandanamātreṇa tān āvāṃ pūjayāvahe ||

123.1१२३.१

तस्माद् यस्माद् असङ्गेन सर्वत्रागमचक्षुषा । (१२३।१)

tasmād yasmād asaṅgena sarvatrāgamacakṣuṣā |

123.2१२३.२

ज्येष्ठस्य दृष्टम् ऐश्वर्यम् अतः श्रद्धीयताम् इति ॥ (१२३।२)

jyeṣṭhasya dṛṣṭam aiśvaryam ataḥ śraddhīyatām iti ||

124.1१२४.१

प्रज्ञप्तिकौशिकसुतप्रमुखैर् उक्तं नन्दस्य निश्चिततरं वचनात् तद् आसीत् । (१२४।१)

prajñaptikauśikasutapramukhair uktaṃ nandasya niścitataraṃ vacanāt tad āsīt |

124.2१२४.२

भावं हि संशयतमःपटलापिनद्धम् उद्भावयन्त्य् अवितथा वचनप्रदीपाः ॥ (१२४।२)

bhāvaṃ hi saṃśayatamaḥpaṭalāpinaddham udbhāvayanty avitathā vacanapradīpāḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 23

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit