बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha
Chapter 28
Select a line for its word-by-word analysis.
तांश् च भाषितवान् अस्मि सर्ववृत्तान्तकोविदः । (२।१)
tāṃś ca bhāṣitavān asmi sarvavṛttāntakovidaḥ |
अयम् आर्यकनिष्ठो वः श्रेणिश्रेष्ठी भवत्व् इति ॥ (२।२)
ayam āryakaniṣṭho vaḥ śreṇiśreṣṭhī bhavatv iti ||
सोपाने तारम् अश्रौषं हंसानाम् इव निस्वनम् ॥ (३।२)
sopāne tāram aśrauṣaṃ haṃsānām iva nisvanam ||
मम त्व् आसीन् न हंसानां नूपुराणाम् अयं ध्वनिः । (४।१)
mama tv āsīn na haṃsānāṃ nūpurāṇām ayaṃ dhvaniḥ |
उत्सवाभ्युदयेष्व् एव ता हि बिभ्रति भूषणम् ॥ (५।२)
utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam ||
मया व्रतकम् उद्दिश्य पूजिता देवताद्विजाः । (१०।१)
mayā vratakam uddiśya pūjitā devatādvijāḥ |
वण्टकस् तस्य युष्माभिः सदारैर् गृह्यताम् इति ॥ (१०।२)
vaṇṭakas tasya yuṣmābhiḥ sadārair gṛhyatām iti ||
अथ मह्यं सुसंस्कारं सा समुद्रं समुद्गकम् । (११।१)
atha mahyaṃ susaṃskāraṃ sā samudraṃ samudgakam |
वासःकुसुमगन्धांश् च हारिगन्धान् उपासरत् ॥ (११।२)
vāsaḥkusumagandhāṃś ca hārigandhān upāsarat ||
अथोद्वृत्य जगत्सारान् असौ मह्यम् अदर्शयत् । (१२।१)
athodvṛtya jagatsārān asau mahyam adarśayat |
मयोक्तं द्वयम् अप्य् एतद् अर्हति प्रियदर्शना । (१३।१)
mayoktaṃ dvayam apy etad arhati priyadarśanā |
प्रेषितं योषिता यत् तद् योषिद् एव यतो ऽर्हति ॥ (१३।२)
preṣitaṃ yoṣitā yat tad yoṣid eva yato 'rhati ||
इदम् आकर्ण्य ताः प्रेक्ष्य विस्मिताः सस्मिताश् च माम् । (१४।१)
idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām |
तस्यै दत्त्वा च तद् द्रव्यम् अगच्छन् कृतवन्दनाः ॥ (१४।२)
tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ ||
यशोभागिन्न् इति श्रुत्वा तयोक्तं पीडितो ऽभवम् । (१५।१)
yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam |
अनभ्यस्तं हि यद् येन तेन तद् वस्तु दुःसहम् ॥ (१५।२)
anabhyastaṃ hi yad yena tena tad vastu duḥsaham ||
सर्वो ऽसाव् आर्यपुत्रेति मुक्त्वैतां पुरुषाम् इति ॥ (१६।२)
sarvo 'sāv āryaputreti muktvaitāṃ puruṣām iti ||
किं चान्यत् कुलकन्यानां केयम् ईदृक् स्वतन्त्रता । (१७।१)
kiṃ cānyat kulakanyānāṃ keyam īdṛk svatantratā |
येयम् अस्मद्विधैः सार्धं लोकयात्रा निरङ्कुशैः ॥ (१७।२)
yeyam asmadvidhaiḥ sārdhaṃ lokayātrā niraṅkuśaiḥ ||
न धनायत्य् अपि स्वाङ्गं किम् अङ्ग धनम् अध्रुवम् ॥ (१८।२)
na dhanāyaty api svāṅgaṃ kim aṅga dhanam adhruvam ||
तद् अस्याः को भवेद् भावो मयीत्य् एतद् वितर्कयन् । (१९।१)
tad asyāḥ ko bhaved bhāvo mayīty etad vitarkayan |
अर्यपुत्र दुरन्तेयम् ईदृशीभिर् भवादृशाम् । (२०।१)
aryaputra duranteyam īdṛśībhir bhavādṛśām |
लोकयात्रेत्य् अथावोचम् एनं परिहसन्न् इव ॥ (२०।२)
lokayātrety athāvocam enaṃ parihasann iva ||
दुरन्ता वाथवा स्वन्ता न हीयं प्रस्तुता मया । (२१।१)
durantā vāthavā svantā na hīyaṃ prastutā mayā |
अथवा संकटात् त्राता ममास्त्य् एव भवान् इति ॥ (२१।२)
athavā saṃkaṭāt trātā mamāsty eva bhavān iti ||
अस्मद्दोषे कृतव्रीडा विज्ञापयति साञ्जलिः ॥ (२३।२)
asmaddoṣe kṛtavrīḍā vijñāpayati sāñjaliḥ ||
मूढभृत्यकृता दोषा न ग्राह्याः स्वामिनाम् इति ॥ (२४।२)
mūḍhabhṛtyakṛtā doṣā na grāhyāḥ svāminām iti ||
मयाप्य् उक्तं न पश्यामि दोषम् आचरितं तया । (२५।१)
mayāpy uktaṃ na paśyāmi doṣam ācaritaṃ tayā |
अस्ति चेत् क्षान्त एवासौ तथाप्य् आख्यायताम् इति ॥ (२५।२)
asti cet kṣānta evāsau tathāpy ākhyāyatām iti ||
ततः कुमुदिकाचष्टे माम् अपृच्छन् नृपात्मजा । (२६।१)
tataḥ kumudikācaṣṭe mām apṛcchan nṛpātmajā |
आर्यज्येष्ठस् त्वयालापान् भाषितः कीदृशान् इति ॥ (२६।२)
āryajyeṣṭhas tvayālāpān bhāṣitaḥ kīdṛśān iti ||
आर्यज्येष्ठ यशोभागिन्न् इत्यादौ कथिते मया । (२७।१)
āryajyeṣṭha yaśobhāginn ityādau kathite mayā |
यथोक्तो मन्दया ज्येष्ठो यशोभागिन्न् इति त्वया ॥ (२८।२)
yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā ||
न च त्वदीयम् एवेदं वचः संभावयत्य् असौ । (२९।१)
na ca tvadīyam evedaṃ vacaḥ saṃbhāvayaty asau |
यः श्रेष्ठिदुहितुर् भर्ता सो ऽस्माकम् अपि धर्मतः । (३०।१)
yaḥ śreṣṭhiduhitur bhartā so 'smākam api dharmataḥ |
प्रियदर्शनया सार्धम् अभिन्नैव हि मे तनुः ॥ (३०।२)
priyadarśanayā sārdham abhinnaiva hi me tanuḥ ||
अर्यपुत्रस् त्वया तस्माद् अर्यपुत्रेति भाष्यताम् । (३१।१)
aryaputras tvayā tasmād aryaputreti bhāṣyatām |
तथा विज्ञाप्यतां चेदं यथावज्ञां न मन्यते ॥ (३१।२)
tathā vijñāpyatāṃ cedaṃ yathāvajñāṃ na manyate ||
अस्मदर्थं मया चेयम् उच्यतां प्रियदर्शना । (३२।१)
asmadarthaṃ mayā ceyam ucyatāṃ priyadarśanā |
व्रतकोत्सवम् आसेव्य सायाह्ने प्रतियास्यति ॥ (३२।२)
vratakotsavam āsevya sāyāhne pratiyāsyati ||
इति श्रुत्वेदम् आसीन् मे को ऽन्यः परिभवः परः । (३३।१)
iti śrutvedam āsīn me ko 'nyaḥ paribhavaḥ paraḥ |
एतस्माद् यद् असाव् आह भार्या प्रस्थाप्यताम् इति ॥ (३३।२)
etasmād yad asāv āha bhāryā prasthāpyatām iti ||
या वधूस् तातपादानां मम भार्या च सा कथम् । (३४।१)
yā vadhūs tātapādānāṃ mama bhāryā ca sā katham |
अथ मां गोमुखो ऽवोचत् किम् अस्थाने विशङ्कया । (३५।१)
atha māṃ gomukho 'vocat kim asthāne viśaṅkayā |
नेदं परगृहं देव्यास् तथा विदितम् एव वः ॥ (३५।२)
nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ ||
मङ्गलं हि विवाहान्तम् अस्यास् तत्रैव कारितम् । (३६।१)
maṅgalaṃ hi vivāhāntam asyās tatraiva kāritam |
तच् चैतच् च गृहं तस्माद् अभिन्नं दृश्यताम् इति ॥ (३६।२)
tac caitac ca gṛhaṃ tasmād abhinnaṃ dṛśyatām iti ||
ततस् तद्वचनान् न्याय्याद् अनुज्ञाता सती मया । (३७।१)
tatas tadvacanān nyāyyād anujñātā satī mayā |
प्रासादाग्राद् अवारोहत् समं तु प्रियदर्शना ॥ (३७।२)
prāsādāgrād avārohat samaṃ tu priyadarśanā ||
अथ प्रासादपृष्ठस्थो दान्तैर् उज्ज्वलमण्डनैः । (३८।१)
atha prāsādapṛṣṭhastho dāntair ujjvalamaṇḍanaiḥ |
गोभिः प्रवहणं युक्तम् अपश्यं राजवर्त्मनि ॥ (३८।२)
gobhiḥ pravahaṇaṃ yuktam apaśyaṃ rājavartmani ||
राजकञ्चुकिभिर् वृद्धैर् अनन्तैर् वेत्रपाणिभिः । (३९।१)
rājakañcukibhir vṛddhair anantair vetrapāṇibhiḥ |
तच् च राजकुलाद् दृष्ट्वा गच्छत्प्रवहणं ततः । (४०।१)
tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ |
तद् दिनं गमयामि स्म दीर्घबन्धनदुर्गमम् ॥ (४०।२)
tad dinaṃ gamayāmi sma dīrghabandhanadurgamam ||
सूर्यो ऽपि तद् अहर् मन्ये भग्नाक्षस्यन्दनो भवेत् । (४१।१)
sūryo 'pi tad ahar manye bhagnākṣasyandano bhavet |
दैत्योच्छिन्नतुरंगो वा येनास्तं कथमप्य् अगात् ॥ (४१।२)
daityocchinnaturaṃgo vā yenāstaṃ kathamapy agāt ||
अवतीर्य च हर्म्याग्राद् दीपिकाचन्द्रिकासखीम् । (४३।१)
avatīrya ca harmyāgrād dīpikācandrikāsakhīm |
सोपाने दृष्टवान् अस्मि श्राम्यन्तीं प्रियदर्शनाम् ॥ (४३।२)
sopāne dṛṣṭavān asmi śrāmyantīṃ priyadarśanām ||
चिराद् आरोपयामि स्म हर्म्याग्रशयनान्तिकम् ॥ (४४।२)
cirād āropayāmi sma harmyāgraśayanāntikam ||
क्षणं च तत्र विश्रान्तां ताम् आलिङ्गम् असौ च माम् । (४५।१)
kṣaṇaṃ ca tatra viśrāntāṃ tām āliṅgam asau ca mām |
ततश् चड् इति विच्छिन्नं तत्काञ्चीगुणबन्धनम् ॥ (४५।२)
tataś caḍ iti vicchinnaṃ tatkāñcīguṇabandhanam ||
शिञ्जाना रशना शय्यां तन्नितम्बाद् अथापतत् ॥ (४६।२)
śiñjānā raśanā śayyāṃ tannitambād athāpatat ||
तां च भिन्नमणिच्छायाछत्रच्छादितदीपिकाम् । (४७।१)
tāṃ ca bhinnamaṇicchāyāchatracchāditadīpikām |
दृष्ट्वा पृष्टा मया तस्याः संप्राप्तिं प्रियदर्शना ॥ (४७।२)
dṛṣṭvā pṛṣṭā mayā tasyāḥ saṃprāptiṃ priyadarśanā ||
बहु श्रोतव्यम् अत्रास्ति क्रमेण श्रूयताम् इति । (४८।१)
bahu śrotavyam atrāsti krameṇa śrūyatām iti |
उक्त्वा रुष्टैव तां दृष्ट्वा साचष्ट स्म कथाम् इमाम् ॥ (४८।२)
uktvā ruṣṭaiva tāṃ dṛṣṭvā sācaṣṭa sma kathām imām ||
अस्त्य् अहं युष्मदादेशाद् गता कन्यावरोधनम् । (४९।१)
asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam |
न च तत्र मया दृष्टा मार्गयन्त्या नृपात्मजा ॥ (४९।२)
na ca tatra mayā dṛṣṭā mārgayantyā nṛpātmajā ||
ततः परिजनस् तस्याः प्राह मां राजदारिका । (५०।१)
tataḥ parijanas tasyāḥ prāha māṃ rājadārikā |
गृहोपवनम् अध्यास्ते तत्र संभाव्यताम् इति ॥ (५०।२)
gṛhopavanam adhyāste tatra saṃbhāvyatām iti ||
प्रविश्य च मया दृष्टा तस्मिन्न् उद्यानपालिका । (५१।१)
praviśya ca mayā dṛṣṭā tasminn udyānapālikā |
सा च पृष्टा मयावोचद् यो ऽयं संध्यावदारुणः । (५२।१)
sā ca pṛṣṭā mayāvocad yo 'yaṃ saṃdhyāvadāruṇaḥ |
यो ऽयं प्रियङ्गुषण्डस्य याति मध्येन निर्भयः ॥ (५३।२)
yo 'yaṃ priyaṅguṣaṇḍasya yāti madhyena nirbhayaḥ ||
भृङ्गदंशभयात् कस् तं नाप्रमत्तस् त्यजेद् इति ॥ (५५।२)
bhṛṅgadaṃśabhayāt kas taṃ nāpramattas tyajed iti ||
तेन च प्रस्थिताद्राक्षं कदम्बकुटजान् अपि । (५६।१)
tena ca prasthitādrākṣaṃ kadambakuṭajān api |
मालतीसप्तपर्णांश् च मञ्जरीछन्नपल्लवान् ॥ (५६।२)
mālatīsaptaparṇāṃś ca mañjarīchannapallavān ||
मम त्व् आसीद् अहो शक्तिर् दोहदस्य वरीयसी । (५७।१)
mama tv āsīd aho śaktir dohadasya varīyasī |
शिलापृष्ठे मया दृष्टा सान्द्रचन्दनकर्दमे ॥ (५८।२)
śilāpṛṣṭhe mayā dṛṣṭā sāndracandanakardame ||
समशीतातपे ऽप्य् अस्मिन् वसन्ते शारदीव सा । (५९।१)
samaśītātape 'py asmin vasante śāradīva sā |
संततैस् तालवृन्तैश् च चन्दनापाद्रमारुतैः । (६०।१)
saṃtatais tālavṛntaiś ca candanāpādramārutaiḥ |
वीज्यमाना वचोभिश् च सान्त्व्यमानातिकोमलैः ॥ (६०।२)
vījyamānā vacobhiś ca sāntvyamānātikomalaiḥ ||
तयापि क्षिप्तचेतस्त्वान् न किंचिद् अपि भाषितम् ॥ (६१।२)
tayāpi kṣiptacetastvān na kiṃcid api bhāṣitam ||
ततः कुमुदिका तस्याः पादम् आलम्ब्य निष्ठुरम् । (६२।१)
tataḥ kumudikā tasyāḥ pādam ālambya niṣṭhuram |
प्रतिबुद्धाम् अवोचत् तां भगिनी दृश्यताम् इति ॥ (६२।२)
pratibuddhām avocat tāṃ bhaginī dṛśyatām iti ||
ततः कुमुदिकाहस्तम् आलम्ब्योत्थाय मां चिरम् । (६३।१)
tataḥ kumudikāhastam ālambyotthāya māṃ ciram |
आलिङ्गितवती स्वाङ्गैर् ध्वान्ताङ्गाराग्निदुःसहैः ॥ (६३।२)
āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ ||
सुखासीनां च माम् आह भर्ता ते सुखभागिनि । (६४।१)
sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini |
पुनर् आह स ते भर्ता छात्त्रत्वाद् दुर्जनः किल । (६५।१)
punar āha sa te bhartā chāttratvād durjanaḥ kila |
आहाराद्यैर् दुराराधस् त्वया तद् इति मे मतिः ॥ (६५।२)
āhārādyair durārādhas tvayā tad iti me matiḥ ||
प्रीत्या नन्दोपनन्दाभ्यां येनाहरति साधितम् । (६६।१)
prītyā nandopanandābhyāṃ yenāharati sādhitam |
पुनर् उक्तं तया स्मित्वा नेदं संभाव्यते तयोः । (६७।१)
punar uktaṃ tayā smitvā nedaṃ saṃbhāvyate tayoḥ |
राज्यांशो दशमस् ताभ्याम् अभिमानात् किलोज्झितः ॥ (६७।२)
rājyāṃśo daśamas tābhyām abhimānāt kilojjhitaḥ ||
तौ त्वद्भर्तुर् अवित्तस्य पान्थस्याज्ञातजन्मनः । (६८।१)
tau tvadbhartur avittasya pānthasyājñātajanmanaḥ |
दासम् अभ्युपगच्छेतां कथं नामेति दुर्घटम् ॥ (६८।२)
dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam ||
मयोक्तं सर्वम् अस्त्य् एतत् किंतु तौ दिव्यचक्षुषौ । (६९।१)
mayoktaṃ sarvam asty etat kiṃtu tau divyacakṣuṣau |
यद् एवादिशतः किंचित् तत् तथैव हि सिध्यति ॥ (६९।२)
yad evādiśataḥ kiṃcit tat tathaiva hi sidhyati ||
ज्येष्ठस्य च गुणा ज्येष्ठास् ताभ्यां कस्येति मानुषाः । (७०।१)
jyeṣṭhasya ca guṇā jyeṣṭhās tābhyāṃ kasyeti mānuṣāḥ |
तेनाङ्गीकृतवन्तौ तौ मद्भर्तुर् भृत्यताम् इति ॥ (७०।२)
tenāṅgīkṛtavantau tau madbhartur bhṛtyatām iti ||
भगीरथयशाः श्रुत्वा निष्कम्पाक्षी कथाम् इमाम् । (७१।१)
bhagīrathayaśāḥ śrutvā niṣkampākṣī kathām imām |
अङ्गं प्रवहणक्षोभात् खिन्नम् अभ्यञ्ज्यताम् इति ॥ (७२।२)
aṅgaṃ pravahaṇakṣobhāt khinnam abhyañjyatām iti ||
आस्ताम् आस्ताम् इति मया अनिच्छन्त्या यावद् उच्यते । (७३।१)
āstām āstām iti mayā anicchantyā yāvad ucyate |
तावद् बलाद् बलातैलं न्यधात् कुमुदिका मयि ॥ (७३।२)
tāvad balād balātailaṃ nyadhāt kumudikā mayi ||
सर्वथाक्षिनिकोचाद्यैर् उक्त्वा कुमुदिकादिकाः । (७४।१)
sarvathākṣinikocādyair uktvā kumudikādikāḥ |
सा मे ऽभ्यङ्गापदेशेन विवृत्याङ्गानि पश्यति ॥ (७४।२)
sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati ||
एतत् त्वत्करशाखाभिर् लिखितं [॥। औ४ ज़ेइछेन्झ्] म्भकम् । (७५।१)
etat tvatkaraśākhābhir likhitaṃ mbhakam |
को ऽन्यो निष्करुणस् तस्मात् त्वं येनोत्पलकोमला । (७८।१)
ko 'nyo niṣkaruṇas tasmāt tvaṃ yenotpalakomalā |
मत्संदेशं च वाच्यो ऽसौ किम् अस्थाने कृतम् त्वया । (७९।१)
matsaṃdeśaṃ ca vācyo 'sau kim asthāne kṛtam tvayā |
इदं हि कर्कशाः सोढुं शक्ता राजन्यकन्यकाः । (८०।१)
idaṃ hi karkaśāḥ soḍhuṃ śaktā rājanyakanyakāḥ |
इत्यादि बहु जल्पित्वा सा माम् उद्वर्तनादिभिः । (८१।१)
ityādi bahu jalpitvā sā mām udvartanādibhiḥ |
सत्कारैर् अन्नपानान्तैः संमानितवती चिरम् ॥ (८१।२)
satkārair annapānāntaiḥ saṃmānitavatī ciram ||
तस्याश् च क्षणसंक्षिप्तं मम संवत्सरायतम् । (८२।१)
tasyāś ca kṣaṇasaṃkṣiptaṃ mama saṃvatsarāyatam |
युष्मत्कथाप्रसङ्गेन सार्कं गतम् इदं दिनम् ॥ (८२।२)
yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam ||
अथाचलनितम्बाभात् स्वनितम्बाद् विमुच्य सा । (८३।१)
athācalanitambābhāt svanitambād vimucya sā |
बहुर् विस्रंसमानायां ग्रन्थिर् अस्यां तया कृतः । (८४।१)
bahur visraṃsamānāyāṃ granthir asyāṃ tayā kṛtaḥ |
स्वहस्तविलतैर् यत्नान् मृणालीतन्तुसूत्रकैः ॥ (८४।२)
svahastavilatair yatnān mṛṇālītantusūtrakaiḥ ||
ततः प्रस्थापितवती माम् इत्यादि विधाय सा । (८५।१)
tataḥ prasthāpitavatī mām ityādi vidhāya sā |
मेखला स्खलिता चेयं छित्त्वा तत् तन्तुबन्धनम् ॥ (८५।२)
mekhalā skhalitā ceyaṃ chittvā tat tantubandhanam ||
इति तस्यास् तया चित्रे प्रपञ्चे ऽस्मिन् निवेदिते । (८६।१)
iti tasyās tayā citre prapañce 'smin nivedite |
तया यद् गुरु संदिष्टम् उपलब्धं च यत् तया । (८७।१)
tayā yad guru saṃdiṣṭam upalabdhaṃ ca yat tayā |
यत् पुनर् मेखला बद्धा निःसरैर् बिसतन्तुभिः । (८८।१)
yat punar mekhalā baddhā niḥsarair bisatantubhiḥ |
सत्स्व् अप्य् अन्येषु सूत्रेषु तत्रेदं चिन्तितं तया ॥ (८८।२)
satsv apy anyeṣu sūtreṣu tatredaṃ cintitaṃ tayā ||
निर्दयालिङ्गनक्षोभाद् इदं विच्छेदम् एष्यति । (८९।१)
nirdayāliṅganakṣobhād idaṃ vicchedam eṣyati |
अथेयं मेखला स्रस्ता शय्यायां निपतिष्यति ॥ (८९।२)
atheyaṃ mekhalā srastā śayyāyāṃ nipatiṣyati ||
लम्बां चेमाम् असौ दृष्ट्वा मन्नितम्बविशालताम् । (९०।१)
lambāṃ cemām asau dṛṣṭvā mannitambaviśālatām |
अनया [॥। औ४ ज़ेइछेन्झ्] प्रीतिम् आधास्यत्य् अपि काम् इति ॥ (९०।२)
anayā prītim ādhāsyaty api kām iti ||
मया तु ज्ञातकार्यत्वाद् उत्प्रेक्षेयम् उपेक्षिता ॥ (९१।२)
mayā tu jñātakāryatvād utprekṣeyam upekṣitā ||
अथाहम् अब्रवं श्यामा भगीरथयशाः स्फुटम् । (९२।१)
athāham abravaṃ śyāmā bhagīrathayaśāḥ sphuṭam |
कथं वेत्थेति सापृच्छद् अथेत्थम् अहम् उक्तवान् ॥ (९२।२)
kathaṃ vettheti sāpṛcchad athettham aham uktavān ||
श्यामानां मण्डनं तज्ज्ञैश् चित्रवर्णं तु वर्णितम् ॥ (९३।२)
śyāmānāṃ maṇḍanaṃ tajjñaiś citravarṇaṃ tu varṇitam ||
तयोक्तं धिग् धिग् अस्त्व् एषां रत्नलक्षणकारिणाम् । (९६।१)
tayoktaṃ dhig dhig astv eṣāṃ ratnalakṣaṇakāriṇām |
जनः प्रच्छादनीयो ऽपि ख्यापितो यैः शठैर् अपि ॥ (९६।२)
janaḥ pracchādanīyo 'pi khyāpito yaiḥ śaṭhair api ||
इत्याद्या कथया तस्याः क्षपायाः प्रहरद्वयम् । (९७।१)
ityādyā kathayā tasyāḥ kṣapāyāḥ praharadvayam |
प्राप्त्युपायविचारेण तृतीयः प्रेरितो मया ॥ (९७।२)
prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā ||
मम त्व् आसीद् इयं चिन्ता किं ममोपायचिन्तया । (९८।१)
mama tv āsīd iyaṃ cintā kiṃ mamopāyacintayā |
देवतास् तत् करिष्यन्ति येन शान्तिर् भविष्यति ॥ (९८।२)
devatās tat kariṣyanti yena śāntir bhaviṣyati ||
वेगवत्यादिकाप्राप्ताव् उपायः कः कृतो मया । (९९।१)
vegavatyādikāprāptāv upāyaḥ kaḥ kṛto mayā |
यथा ताः प्राप्तवान् अस्मि तथा राजसुताम् इति ॥ (९९।२)
yathā tāḥ prāptavān asmi tathā rājasutām iti ||
भगीरथयशा युष्मान् वन्दित्वा याचते यथा ॥ (१००।२)
bhagīrathayaśā yuṣmān vanditvā yācate yathā ||
अतः श्वस् तत्र गत्वाहं माधवीसहकारयोः । (१०२।१)
ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ |
कर्त्री विवाहसंस्कारम् अपरेषां च पूजनम् ॥ (१०२।२)
kartrī vivāhasaṃskāram apareṣāṃ ca pūjanam ||
तेन युष्मद्गृहद्वाराद् गृहीत्वा प्रियदर्शनाम् । (१०३।१)
tena yuṣmadgṛhadvārād gṛhītvā priyadarśanām |
प्रातर् एव प्रायातास्मि तद् एषा मुच्यताम् इति ॥ (१०३।२)
prātar eva prāyātāsmi tad eṣā mucyatām iti ||
अथ तस्यै प्रतिज्ञाय गच्छत्व् एवं भवत्व् इति । (१०४।१)
atha tasyai pratijñāya gacchatv evaṃ bhavatv iti |
द्रष्टव्या राजपुत्रीति खिद्यमानो ऽनयं निशाम् ॥ (१०४।२)
draṣṭavyā rājaputrīti khidyamāno 'nayaṃ niśām ||
प्रातः कुमुदिकागत्य भाषते स्म ससंभ्रमा । (१०५।१)
prātaḥ kumudikāgatya bhāṣate sma sasaṃbhramā |
भगीरथयशाः प्राप्ता गच्छत्व् अर्यसुतेति माम् ॥ (१०५।२)
bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām ||
अथ तां दृष्टवान् अस्मि प्रस्थाप्य प्रियदर्शनाम् । (१०६।१)
atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām |
प्रासादाग्रस्थितो द्वाःस्थस्वच्छप्रवहणास्थिताम् ॥ (१०६।२)
prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām ||
आस्तां च मम तां दृष्ट्वा क्षणं मानसचक्षुषी । (१०७।१)
āstāṃ ca mama tāṃ dṛṣṭvā kṣaṇaṃ mānasacakṣuṣī |
सुषुप्ताव् अस्थितस्येव नष्टसंकल्पदर्शने ॥ (१०७।२)
suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane ||
असाव् अकालमृत्युर् यैर् नारीरूपो न वीक्षितः ॥ (१०८।२)
asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ ||
तया चाननम् उन्नम्य हृष्टः संदृष्टवान् अहम् । (१०९।१)
tayā cānanam unnamya hṛṣṭaḥ saṃdṛṣṭavān aham |
सहस्राक्षं स्वम् आत्मानं तच्चक्षुष्कादिकोज्ज्वलम् ॥ (१०९।२)
sahasrākṣaṃ svam ātmānaṃ taccakṣuṣkādikojjvalam ||
मां च मद्दयितां नासौ संमानितवती समम् । (११०।१)
māṃ ca maddayitāṃ nāsau saṃmānitavatī samam |
मयि दृष्टम् अदात् तस्यां गाढ [॥। औ४ ज़ेइछेन्झ्] ठग्रहार्हणाम् ॥ (११०।२)
mayi dṛṣṭam adāt tasyāṃ gāḍha ṭhagrahārhaṇām ||
अथ स्वयानम् आरोप्य सा प्रियां प्रियदर्शनाम् । (१११।१)
atha svayānam āropya sā priyāṃ priyadarśanām |
अहं तु तद् दिनं नीत्वा कृच्छ्रान् मन्दिरनिष्कुटे । (११२।१)
ahaṃ tu tad dinaṃ nītvā kṛcchrān mandiraniṣkuṭe |
हर्म्यमूर्धानम् आरोहं राजपुत्रीदिदृक्षया ॥ (११२।२)
harmyamūrdhānam ārohaṃ rājaputrīdidṛkṣayā ||
मद्गृहद्वारम् आगच्छद् दूराद् उन्नमितानना ॥ (११३।२)
madgṛhadvāram āgacchad dūrād unnamitānanā ||
सा च मां तत्र पश्यन्ती संततं प्रियदर्शनाम् । (११४।१)
sā ca māṃ tatra paśyantī saṃtataṃ priyadarśanām |
गाढं निष्पीडयन्ती च चिरम् अङ्गं न्यपीडयत् ॥ (११४।२)
gāḍhaṃ niṣpīḍayantī ca ciram aṅgaṃ nyapīḍayat ||
वन्दनाछद्मना पश्चान् माय्य् आत्मानं निधाय सा । (११५।१)
vandanāchadmanā paścān māyy ātmānaṃ nidhāya sā |
चेतोविनिमयं कृत्वा प्रवृत्ता शिबिकाम् इति ॥ (११५।२)
cetovinimayaṃ kṛtvā pravṛttā śibikām iti ||
आराधयामि नृपसूनुकृते नु गौरीं किं खानयामि चतुरैस् त्वरितं सुरुङ्गाम् । (११६।१)
ārādhayāmi nṛpasūnukṛte nu gaurīṃ kiṃ khānayāmi caturais tvaritaṃ suruṅgām |
इत्याद्युपायशतचिन्तनतान्तचेताः कृच्छ्रान् निशाम् अनयम् अप्रतिलब्धनिद्रः ॥ (११६।२)
ityādyupāyaśatacintanatāntacetāḥ kṛcchrān niśām anayam apratilabdhanidraḥ ||
Data courtesy of The Digital Corpus of Sanskrit.