बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha
Chapter 19
Select a line for its word-by-word analysis.
स्निग्धैर् दारैः सुहृद्भिश् च मैत्रीमात्रनिबन्धनैः । (१।१)
snigdhair dāraiḥ suhṛdbhiś ca maitrīmātranibandhanaiḥ |
प्रक्षाल्य चरणौ भक्त्या स्वालंकारैर् अलंकृतः ॥ (४।२)
prakṣālya caraṇau bhaktyā svālaṃkārair alaṃkṛtaḥ ||
तच् च मे गुरुगाम्भीर्यं क्वापि नीतम् असूयया । (५।१)
tac ca me gurugāmbhīryaṃ kvāpi nītam asūyayā |
एष स्त्रीपुरुषः शोच्यो यो न स्त्री न पुमान् इति ॥ (६।२)
eṣa strīpuruṣaḥ śocyo yo na strī na pumān iti ||
नागेषुर् इव कर्णास्त्रः किरीटाग्रं किरीटिनः ॥ (८।२)
nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ ||
निःस्थाम्नः कुञ्जरस्येव विधानं विनशिष्यतः ॥ (९।२)
niḥsthāmnaḥ kuñjarasyeva vidhānaṃ vinaśiṣyataḥ ||
सो ऽथ ग्रामेयकेनेव धिया धूर्तो ऽतिसंधितः । (१०।१)
so 'tha grāmeyakeneva dhiyā dhūrto 'tisaṃdhitaḥ |
धूम्रछायः शनैर् जल्पन् धिग् धिङ् माम् इति निर्गतः ॥ (१०।२)
dhūmrachāyaḥ śanair jalpan dhig dhiṅ mām iti nirgataḥ ||
अथ गन्धर्वदत्ता मां दीप्तामर्षम् अशङ्किता । (११।१)
atha gandharvadattā māṃ dīptāmarṣam aśaṅkitā |
मम त्व् आसीद् अहो स्त्रीणाम् अत्रासमत्रपं मनः । (१२।१)
mama tv āsīd aho strīṇām atrāsamatrapaṃ manaḥ |
यत् पुरेव प्रगल्भेयम् उपसर्पति माम् इति ॥ (१२।२)
yat pureva pragalbheyam upasarpati mām iti ||
किंचिद् विज्ञापयाम्य् एष यातु वः क्रोधपावकः ॥ (१३।२)
kiṃcid vijñāpayāmy eṣa yātu vaḥ krodhapāvakaḥ ||
विद्याधरपतेर् भ्राता गौरिमुण्डस्य साधकः ॥ (१४।२)
vidyādharapater bhrātā gaurimuṇḍasya sādhakaḥ ||
भूतव्रतं च नामेदं बहुविध्नं चरत्य् अयम् । (१५।१)
bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam |
समाप्ते ऽस्मिन्न् अविघ्नेन वन्ध्याः स्युर् नो मनोरथः ॥ (१५।२)
samāpte 'sminn avighnena vandhyāḥ syur no manorathaḥ ||
या च पूजयते तं स्त्री गौरीव्रतविचारिणम् । (१६।१)
yā ca pūjayate taṃ strī gaurīvratavicāriṇam |
विज्ञापयामि संक्षिप्तं क्रोधाद् अन्यो महाबलः । (१७।१)
vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ |
विहन्ता सर्वसिद्धीनां नास्ति विघ्नविनायकः ॥ (१७।२)
vihantā sarvasiddhīnāṃ nāsti vighnavināyakaḥ ||
सिद्धकल्पं च तस्येदं खण्डयत्या महाव्रतम् । (१८।१)
siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam |
तुष्टया तोषिता गौरी मया यूयं च रोषिताः ॥ (१८।२)
tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ ||
तद् एतस्यास्य युष्मभ्यं क्रुद्धेभ्यः क्रुध्यतस् तथा । (१९।१)
tad etasyāsya yuṣmabhyaṃ kruddhebhyaḥ krudhyatas tathā |
गौरीभ्रष्टा महाविद्या विद्येव तनुमेधसः ॥ (१९।२)
gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ ||
तेन युष्माकम् एवेदं कार्यं कुर्वाणया गुरु । (२०।१)
tena yuṣmākam evedaṃ kāryaṃ kurvāṇayā guru |
यन् मया रोषिता यूयम् एतन् मे मृष्यताम् इति ॥ (२०।२)
yan mayā roṣitā yūyam etan me mṛṣyatām iti ||
स च क्रोधग्रहश् चण्डः शनकैः शनकैर् मम । (२१।१)
sa ca krodhagrahaś caṇḍaḥ śanakaiḥ śanakair mama |
तेन दोहदकं पृष्टा भार्यावोचत् त्रपावती ॥ (२३।२)
tena dohadakaṃ pṛṣṭā bhāryāvocat trapāvatī ||
क्रीडेयं सह युष्माभिर् जले जलनिधेर् इति ॥ (२४।२)
krīḍeyaṃ saha yuṣmābhir jale jalanidher iti ||
राज्ञापि मगधैर् साङ्गैर् बन्धयित्वाशु निम्नगाम् । (२५।१)
rājñāpi magadhair sāṅgair bandhayitvāśu nimnagām |
सरः सागरविस्तारम् अवन्ध्याज्ञेन खानितम् ॥ (२५।२)
saraḥ sāgaravistāram avandhyājñena khānitam ||
आरभ्य च ततः कालात् तत्र यात्रा प्रवर्तिता । (२७।१)
ārabhya ca tataḥ kālāt tatra yātrā pravartitā |
ते चैते दिवसाः प्राप्ताः पटुकोकिलकूजिताः । (२८।१)
te caite divasāḥ prāptāḥ paṭukokilakūjitāḥ |
इष्यते यदि च द्रष्टुं सह गन्धर्वदत्तया । (२९।१)
iṣyate yadi ca draṣṭuṃ saha gandharvadattayā |
अभिनीय ततो रात्रिं प्रातः प्रवहणाश्रितः । (३०।१)
abhinīya tato rātriṃ prātaḥ pravahaṇāśritaḥ |
निर्गच्छामि स्म चम्पायाः पौरनेत्रोत्पलार्चितः ॥ (३०।२)
nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ ||
पक्कणं दृष्टवान् अस्मि राजराजपुरोज्ज्वलम् ॥ (३१।२)
pakkaṇaṃ dṛṣṭavān asmi rājarājapurojjvalam ||
तस्य मध्ये च मातङ्गं गन्धमातङ्गधीरतम् । (३२।१)
tasya madhye ca mātaṅgaṃ gandhamātaṅgadhīratam |
कालम् अप्य् उज्ज्वलायामं घनाघनम् इवाम्बुदम् ॥ (३२।२)
kālam apy ujjvalāyāmaṃ ghanāghanam ivāmbudam ||
कालिन्दीनीलकालीं च वृद्धां पिङ्गशिरोरुहाम् । (३३।१)
kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām |
दीप्तसौदामनीचक्रां प्रावृषेण्याम् इव क्षपाम् ॥ (३३।२)
dīptasaudāmanīcakrāṃ prāvṛṣeṇyām iva kṣapām ||
चिन्तितं च मया कान्ता यदि मे कालिका भवेत् । (३५।१)
cintitaṃ ca mayā kāntā yadi me kālikā bhavet |
स्थानाच् चाचलितैवासौ दृष्ट्या मां दूरम् अन्वगात् । (३६।१)
sthānāc cācalitaivāsau dṛṣṭyā māṃ dūram anvagāt |
तां चालिङ्गितवान् अस्मि दृष्ट्या दूरीभवन्न् अपि । (३७।१)
tāṃ cāliṅgitavān asmi dṛṣṭyā dūrībhavann api |
नितान्तस्निग्धया प्राचीं प्रभयेव दिवाकरः ॥ (३७।२)
nitāntasnigdhayā prācīṃ prabhayeva divākaraḥ ||
स्निग्धे दृष्टी विसर्ज्येति दूतिकाप्रतिदूतिके । (३८।१)
snigdhe dṛṣṭī visarjyeti dūtikāpratidūtike |
तया मम मया तस्या नीताः प्राणा विधेयताम् ॥ (३८।२)
tayā mama mayā tasyā nītāḥ prāṇā vidheyatām ||
अथारामान् अभिक्रुध्यन्न् आवयोर् व्यवधायकान् । (३९।१)
athārāmān abhikrudhyann āvayor vyavadhāyakān |
तत्रस्थेनैव नो दृष्टः संसार इव योगिना ॥ (४०।२)
tatrasthenaiva no dṛṣṭaḥ saṃsāra iva yoginā ||
अथ यात्रोत्सवे तत्र पीत्वेव मधु भास्करः । (४१।१)
atha yātrotsave tatra pītveva madhu bhāskaraḥ |
मन्दमन्दपरिस्पन्दस् ताम्रमण्डलताम् अयात् ॥ (४१।२)
mandamandaparispandas tāmramaṇḍalatām ayāt ||
मम त्व् आसीद् यथा देवः प्राचीं कमलिनीप्रियः । (४२।१)
mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ |
अप्रसाद्यैव तां भानुः प्रतीचीम् उपसर्पति ॥ (४२।२)
aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati ||
तथा गन्धर्वदत्तायाः पुर एवानुवर्ण्य ताम् । (४३।१)
tathā gandharvadattāyāḥ pura evānuvarṇya tām |
मातङ्गीम् अनुसर्पामि यथा राजा तथा प्रजाः ॥ (४३।२)
mātaṅgīm anusarpāmi yathā rājā tathā prajāḥ ||
अथवा मानुषैर् एव यः पन्थाः कामिभिर् गतः । (४४।१)
athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ |
पश्चाज् जनसमूहस्य गच्छन्त्याः पथि पांसवः । (४६।१)
paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ |
शोभां यात्रिकलोकस्य पश्यन् प्रविशतः पुरम् । (४७।१)
śobhāṃ yātrikalokasya paśyan praviśataḥ puram |
अथ गन्धर्वदत्तायां प्रवृत्तायां पुरं प्रति । (४८।१)
atha gandharvadattāyāṃ pravṛttāyāṃ puraṃ prati |
दारिके द्वे परावृत्य वन्दित्वा माम् अवोचताम् ॥ (४८।२)
dārike dve parāvṛtya vanditvā mām avocatām ||
आवाम् आज्ञापिते देव्या स्वामिनं निर्विनोदनम् । (४९।१)
āvām ājñāpite devyā svāminaṃ nirvinodanam |
ततस् ते मदयित्वाहं तोषयित्वा च भूषणैः । (५०।१)
tatas te madayitvāhaṃ toṣayitvā ca bhūṣaṇaiḥ |
सापि तत्रैव दोलायां स्थिता मातङ्गसुन्दरी । (५१।१)
sāpi tatraiva dolāyāṃ sthitā mātaṅgasundarī |
गच्छन्तम् इव निर्व्याजम् आगच्छन्तं समैक्षत ॥ (५१।२)
gacchantam iva nirvyājam āgacchantaṃ samaikṣata ||
विश्रब्धम् अथ तां द्रष्टुं शनैर् यानम् अचोदयम् । (५२।१)
viśrabdham atha tāṃ draṣṭuṃ śanair yānam acodayam |
ततस् तद् अपि सम्प्राप्तं जवेन कुलटाद्वयम् ॥ (५२।२)
tatas tad api samprāptaṃ javena kulaṭādvayam ||
आसीच् च मम यल् लोके प्रसिद्धम् अभिधीयते । (५३।१)
āsīc ca mama yal loke prasiddham abhidhīyate |
श्रेयांसि बहुविघ्नानि भवन्तीति तथैव तत् ॥ (५३।२)
śreyāṃsi bahuvighnāni bhavantīti tathaiva tat ||
दुःखेन च गृहं गत्वा शून्यः संमान्य च प्रियाम् । (५४।१)
duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām |
अर्धरात्रे तु सहसा प्रतिबुद्धा मुनेः सुता । (५५।१)
ardharātre tu sahasā pratibuddhā muneḥ sutā |
प्रयुक्ते मयि ये दास्यौ ते पानीयम् अयाचत ॥ (५५।२)
prayukte mayi ye dāsyau te pānīyam ayācata ||
उपवेश्य पुरो ऽक्लेशैर् अपृच्छद् बन्धकीद्वयम् ॥ (५६।२)
upaveśya puro 'kleśair apṛcchad bandhakīdvayam ||
दृष्टो ऽयं तरलेनेति ततस् ताभ्यां निवेदितम् ॥ (५७।२)
dṛṣṭo 'yaṃ taraleneti tatas tābhyāṃ niveditam ||
न तथा सार्यपुत्रेण प्रेक्षिता जीर्णकन्यका । (५८।१)
na tathā sāryaputreṇa prekṣitā jīrṇakanyakā |
नेत्राभ्याम् अनिमेषाभ्याम् अर्यपुत्रस् तया यथा ॥ (५८।२)
netrābhyām animeṣābhyām aryaputras tayā yathā ||
ततः प्राक् प्रतिबुद्धं माम् अपृच्छत् सुप्रभासुता । (५९।१)
tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā |
जाग्रथ स्वपिथेत्य् उच्चैर् जाग्रमीति मयोदितम् ॥ (५९।२)
jāgratha svapithety uccair jāgramīti mayoditam ||
तयोक्तम् अयम् आरम्भो युष्माकं दृश्यते यथा । (६०।१)
tayoktam ayam ārambho yuṣmākaṃ dṛśyate yathā |
तथा नलिनिकां नूनं कर्तुम् इच्छसि माम् इति ॥ (६०।२)
tathā nalinikāṃ nūnaṃ kartum icchasi mām iti ||
अस्ति पश्चात् समुद्रान्ते स्वाचारधनवत्प्रजम् । (६२।१)
asti paścāt samudrānte svācāradhanavatprajam |
अमहेन्द्रगुणस् तत्र मनुजेन्द्रः प्रजाप्रियः । (६३।१)
amahendraguṇas tatra manujendraḥ prajāpriyaḥ |
विदिताशेषवेद्यो ऽपि गन्धशास्त्रप्रियो ऽधिकम् । (६४।१)
viditāśeṣavedyo 'pi gandhaśāstrapriyo 'dhikam |
नानारुचिषु सत्त्वेषु कस्यचित् किंचिद् ईप्सितम् ॥ (६४।२)
nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam ||
वसन्तम् इव तं प्रेम्णा न कदाचिद् अमुञ्चताम् ॥ (६५।२)
vasantam iva taṃ premṇā na kadācid amuñcatām ||
युष्मान् सुमङ्गलो नाम बुद्धगन्धानुशासनः । (६७।१)
yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ |
अग्राम्यो धीरवचनः कस्माद् अपि दिदृक्षते ॥ (६७।२)
agrāmyo dhīravacanaḥ kasmād api didṛkṣate ||
गच्छ प्रवेशयेत्य् उक्त्वा द्वारपालं मनोहरः । (६८।१)
gaccha praveśayety uktvā dvārapālaṃ manoharaḥ |
विलेपनम् उपादत्त धूपं च त्वरितो ऽदहत् ॥ (६८।२)
vilepanam upādatta dhūpaṃ ca tvarito 'dahat ||
सुमङ्गलो ऽप्य् अनुज्ञातः प्रविश्य द्वारदेशतः । (६९।१)
sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ |
शिरो निपीड्य पाणिभ्यां संकोच्याङ्गम् अपासरत् ॥ (६९।२)
śiro nipīḍya pāṇibhyāṃ saṃkocyāṅgam apāsarat ||
आघ्रातेन शिरःशूलम् उत्पन्नम् इति चावदत् ॥ (७०।२)
āghrātena śiraḥśūlam utpannam iti cāvadat ||
आकृष्टे स्थगिकायाश् च स्वस्याः फलकसंपुटे । (७१।१)
ākṛṣṭe sthagikāyāś ca svasyāḥ phalakasaṃpuṭe |
मनोहरं मुहुः पश्यन् स्वयं धूपम् अयोजयत् ॥ (७१।२)
manoharaṃ muhuḥ paśyan svayaṃ dhūpam ayojayat ||
सुमनोगन्धसंवादी धूपो ऽयं दाह्यताम् इति ॥ (७२।२)
sumanogandhasaṃvādī dhūpo 'yaṃ dāhyatām iti ||
प्रतीतो गन्धशास्त्रज्ञं सुमङ्गलम् अपूजयत् ॥ (७३।२)
pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat ||
दिनैस् त्रिचतुरैर् एव चतुरः पर्यतोषयत् ॥ (७४।२)
dinais tricaturair eva caturaḥ paryatoṣayat ||
मनोहराम् अगाद् द्रष्टुं यक्षसत्त्रां मनोहरः ॥ (७५।२)
manoharām agād draṣṭuṃ yakṣasattrāṃ manoharaḥ ||
तत्र तत्र ततस् तेन पश्यता तत् तद् अद्भुतम् । (७६।१)
tatra tatra tatas tena paśyatā tat tad adbhutam |
यक्षीप्रतिकृतिर् दृष्टा विन्यस्ता चित्रकर्मणि ॥ (७६।२)
yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi ||
चित्रे न्यस्तापि सा तेन चित्ते न्यस्तातिरागिणा ॥ (७७।२)
citre nyastāpi sā tena citte nyastātirāgiṇā ||
द्रष्टव्यं चान्यद् उज्झित्वा रमणं चित्तचक्षुषाम् । (७८।१)
draṣṭavyaṃ cānyad ujjhitvā ramaṇaṃ cittacakṣuṣām |
सुमनोगन्धधूपाद्यैस् ताम् एवैकाम् असेवत ॥ (७८।२)
sumanogandhadhūpādyais tām evaikām asevata ||
नितम्बाद् अम्बरं तस्याः स किलाक्रष्टुम् ऐहत ॥ (७९।२)
nitambād ambaraṃ tasyāḥ sa kilākraṣṭum aihata ||
चित्रभित्तिम् अथ त्यक्त्वा सापि पद्मेव पद्मिनीम् । (८०।१)
citrabhittim atha tyaktvā sāpi padmeva padminīm |
विष्णोर् वक्ष इव श्यामम् असेवत नभस्तलम् ॥ (८०।२)
viṣṇor vakṣa iva śyāmam asevata nabhastalam ||
यक्षी यक्षपतेः शापात् प्राप्तालेख्यशरीरताम् ॥ (८१।२)
yakṣī yakṣapateḥ śāpāt prāptālekhyaśarīratām ||
शापान्तम् अर्थितेनाहम् इति निध्याय धीरिता ॥ (८२।२)
śāpāntam arthitenāham iti nidhyāya dhīritā ||
चित्रन्यस्ततनुं यस् त्वां मनुष्यो ऽभिभविष्यति । (८३।१)
citranyastatanuṃ yas tvāṃ manuṣyo 'bhibhaviṣyati |
यदि ते ऽस्ति मयि प्रीतिस् ततः क्रीडत्सुरासुरम् । (८५।१)
yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram |
शैलं श्रीकुञ्जनामानं यक्षावासं व्रजेर् इति ॥ (८५।२)
śailaṃ śrīkuñjanāmānaṃ yakṣāvāsaṃ vrajer iti ||
लब्धसंज्ञश् च तैर् उक्तः श्रुत्वा यक्षीकथाम् असौ । (८७।१)
labdhasaṃjñaś ca tair uktaḥ śrutvā yakṣīkathām asau |
यद्य् असौ दुर्गमः शैलस् ततस् तं सुकुमारिका । (८८।१)
yady asau durgamaḥ śailas tatas taṃ sukumārikā |
युष्मत्संभोगम् इच्छन्ती न तथा कथयेद् इति ॥ (८८।२)
yuṣmatsaṃbhogam icchantī na tathā kathayed iti ||
सिद्धयात्रं परावृत्तम् अपश्यत् पोतवाणिजम् ॥ (८९।२)
siddhayātraṃ parāvṛttam apaśyat potavāṇijam ||
राज्ञो दत्तमहारत्नः स राज्ञा कृतसत्क्रियः । (९०।१)
rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ |
पृष्टस् तेन भवान् किं किम् आश्चर्यं दृष्टवान् इति ॥ (९०।२)
pṛṣṭas tena bhavān kiṃ kim āścaryaṃ dṛṣṭavān iti ||
दृष्टं किं नाम नाश्चर्यम् आश्चर्यनिधिर् अम्बुधिः ॥ (९१।२)
dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ ||
किंत्व् एकदाहम् अद्राक्षं हृतपोतो नभस्वता । (९२।१)
kiṃtv ekadāham adrākṣaṃ hṛtapoto nabhasvatā |
सान्द्रहेमप्रभापिङ्गं तुङ्गशृङ्गस्रजं नगम् ॥ (९२।२)
sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam ||
किम् एतद् इति पृष्टश् च मया निर्यामको ऽवदत् । (९३।१)
kim etad iti pṛṣṭaś ca mayā niryāmako 'vadat |
वृद्धैर् एष समाख्यातः श्रीकुञ्जः शृङ्गवान् इति ॥ (९३।२)
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti ||
राजपुत्रो ऽपि राजानं नत्वा वाणिजम् अन्वगात् ॥ (९४।२)
rājaputro 'pi rājānaṃ natvā vāṇijam anvagāt ||
प्रददाव् अथ सर्वस्वं तस्मै त्रासेन वाणिजः । (९५।१)
pradadāv atha sarvasvaṃ tasmai trāsena vāṇijaḥ |
राजपुत्राद् गृहप्राप्ताद् आढ्यः को नाम न त्रसेत् ॥ (९५।२)
rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset ||
किंतु यस् तातपादेभ्यः श्रीकुञ्जः कथितस् त्वया । (९७।१)
kiṃtu yas tātapādebhyaḥ śrīkuñjaḥ kathitas tvayā |
स कुतूहलिने मह्यं स्पष्टम् आख्यायताम् इति ॥ (९७।२)
sa kutūhaline mahyaṃ spaṣṭam ākhyāyatām iti ||
प्रत्याश्वस्तस् ततस् तस्य वचोभिर् मधुरैर् असौ । (९८।१)
pratyāśvastas tatas tasya vacobhir madhurair asau |
श्रीकुञ्जं सहितं चिह्नैर् इत्य् आख्यातुं प्रचक्रमे ॥ (९८।२)
śrīkuñjaṃ sahitaṃ cihnair ity ākhyātuṃ pracakrame ||
मरुता त्याजितस्थैर्यो यातः पोतः स्वतन्त्रताम् ॥ (९९।२)
marutā tyājitasthairyo yātaḥ potaḥ svatantratām ||
प्रशान्तोत्पातवातत्वात् सागरे चाम्बरस्थिरे । (१००।१)
praśāntotpātavātatvāt sāgare cāmbarasthire |
चित्राकारान् अपश्याम प्राणिनो जलचारिणः ॥ (१००।२)
citrākārān apaśyāma prāṇino jalacāriṇaḥ ||
क्वचित् केसरिशार्दूलद्वीपिखड्गर्क्षशम्बरान् । (१०१।१)
kvacit kesariśārdūladvīpikhaḍgarkṣaśambarān |
यूथशः प्रस्तुतक्रीडान् उन्मज्जननिमज्जनैः ॥ (१०१।२)
yūthaśaḥ prastutakrīḍān unmajjananimajjanaiḥ ||
अन्यत्राविद्धकर्णानां स्त्रीपुंसानाम् अवाससाम् । (१०२।१)
anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām |
ध्वनिमात्रकभाषाणां द्वंद्वानि पशुधर्मणाम् ॥ (१०२।२)
dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām ||
क्वचिद् उत्पततस् तुङ्गान् नागान् आयतपक्षतीन् । (१०३।१)
kvacid utpatatas tuṅgān nāgān āyatapakṣatīn |
पक्षच्छेदभयालीनान् नगान् इव महार्णवात् ॥ (१०३।२)
pakṣacchedabhayālīnān nagān iva mahārṇavāt ||
अवाच् च सहसा मोदः कौवेर्याः पवनाहृतः । (१०४।१)
avāc ca sahasā modaḥ kauveryāḥ pavanāhṛtaḥ |
यस्याघ्राणाय सम्पन्नं मन्ये घ्राणम् अयं जगत् ॥ (१०४।२)
yasyāghrāṇāya sampannaṃ manye ghrāṇam ayaṃ jagat ||
द्रक्ष्यन्तः संभवं तस्य सकुतूहलदृष्टयः । (१०५।१)
drakṣyantaḥ saṃbhavaṃ tasya sakutūhaladṛṣṭayaḥ |
दूराद् गिरिम् अपश्याम रत्नकूटस्थकिंनरम् ॥ (१०५।२)
dūrād girim apaśyāma ratnakūṭasthakiṃnaram ||
किम् एतद् इति पृष्टश् च मया निर्यामको ऽब्रवीत् । (१०६।१)
kim etad iti pṛṣṭaś ca mayā niryāmako 'bravīt |
वृद्धैर् एष समाख्यातः श्रीकुञ्जः शृङ्गवान् इति ॥ (१०६।२)
vṛddhair eṣa samākhyātaḥ śrīkuñjaḥ śṛṅgavān iti ||
इत्यादि कथितं तेन यद् यत् तत् तन् मनोहरः । (१०७।१)
ityādi kathitaṃ tena yad yat tat tan manoharaḥ |
सहसागरदिग्देशं स्पष्टं संपुटके ऽलिखत् ॥ (१०७।२)
sahasāgaradigdeśaṃ spaṣṭaṃ saṃpuṭake 'likhat ||
आगमय्य ततः पोतम् आप्तनिर्यामकास्थितम् । (१०८।१)
āgamayya tataḥ potam āptaniryāmakāsthitam |
सदृशैः स्फलकस्थानां चिह्नैर् जनितनिश्चयः । (११०।१)
sadṛśaiḥ sphalakasthānāṃ cihnair janitaniścayaḥ |
मनश्चक्षुःशरीरैः सः श्रीकुञ्जं युगपद् गतः ॥ (११०।२)
manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ ||
तत्रैव सुहृदस् त्यक्त्वा यद् उत्कण्ठो मनोहरः । (११२।१)
tatraiva suhṛdas tyaktvā yad utkaṇṭho manoharaḥ |
तेन शैलाग्रम् आरोहद् धर्मेनेव त्रिपिष्टपम् ॥ (११२।२)
tena śailāgram ārohad dharmeneva tripiṣṭapam ||
यक्षस्त्रीपुंसवृन्दैश् च प्रेक्ष्यमाणः ससंमदैः । (११३।१)
yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ |
संकल्पचक्षुषा पश्यन्न् अगच्छत् सुकुमारिकाम् ॥ (११३।२)
saṃkalpacakṣuṣā paśyann agacchat sukumārikām ||
तत्र काश्चिद् अभाषन्त कृतार्था सुकुमारिका । (११४।१)
tatra kāścid abhāṣanta kṛtārthā sukumārikā |
यो वृतः सहजाहार्यैः शरीरादिगुणैर् इति ॥ (११५।२)
yo vṛtaḥ sahajāhāryaiḥ śarīrādiguṇair iti ||
प्रक्रीडन्तीम् अथापश्यद् विशाले मन्दिराजिरे । (११६।१)
prakrīḍantīm athāpaśyad viśāle mandirājire |
स्वे संकल्पमये यक्षीं वक्षसीव मनोहरः ॥ (११६।२)
sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ ||
प्रत्युद्गम्य तया चासौ रूपाजीवाप्रगल्भया । (११७।१)
pratyudgamya tayā cāsau rūpājīvāpragalbhayā |
स्विन्नकण्टकिते पाणौ गृहीत्वान्तः प्रवेशितः ॥ (११७।२)
svinnakaṇṭakite pāṇau gṛhītvāntaḥ praveśitaḥ ||
तस्याः पितरम् अद्राक्षीत् तत्रारब्धदुरोदरम् । (११८।१)
tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram |
रक्ताक्षं शातकौम्भाभं समदं मेदुरोदरम् ॥ (११८।२)
raktākṣaṃ śātakaumbhābhaṃ samadaṃ medurodaram ||
उपवेश्य च तेनाङ्के घ्रात्वा मूर्ध्नि मनोहरः । (११९।१)
upaveśya ca tenāṅke ghrātvā mūrdhni manoharaḥ |
श्वश्रूः पश्येत्य् अनुज्ञातः प्रविवेशावरोधनम् ॥ (११९।२)
śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam ||
यत्र सम्पूर्णतारुण्याः कर्णिकारस्रगुज्ज्वलाः । (१२०।१)
yatra sampūrṇatāruṇyāḥ karṇikārasragujjvalāḥ |
श्वश्रूश्वशुरयोस् तस्य पितामह्यो ऽपि योषितः ॥ (१२०।२)
śvaśrūśvaśurayos tasya pitāmahyo 'pi yoṣitaḥ ||
अभिवाद्य च तास् तत्र स ताभिर् अभिनन्दितः । (१२१।१)
abhivādya ca tās tatra sa tābhir abhinanditaḥ |
अनुज्ञातश् च सस्नेहं प्राविशत् कन्यकागृहम् ॥ (१२१।२)
anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham ||
दिव्यस्य मधुनः पानं दिव्यतन्त्रीरुतिश्रुतिः । (१२२।१)
divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ |
दिव्यस्त्रीसंप्रयोगाश् च मनोहरमनो ऽहरन् ॥ (१२२।२)
divyastrīsaṃprayogāś ca manoharamano 'haran ||
इत्य् असौ क्षणम् आसीनः सुकुमारिकयोदितः । (१२३।१)
ity asau kṣaṇam āsīnaḥ sukumārikayoditaḥ |
अतीता दिवसाः पञ्च कुमार प्रतिगम्यताम् ॥ (१२३।२)
atītā divasāḥ pañca kumāra pratigamyatām ||
देवलोकैकदेशो ऽयं यत् ततो ऽस्मिन् न लभ्यते । (१२४।१)
devalokaikadeśo 'yaṃ yat tato 'smin na labhyate |
स्थातुं मानुषमात्रेण पञ्चमाद् दिवसात् परम् ॥ (१२४।२)
sthātuṃ mānuṣamātreṇa pañcamād divasāt param ||
भवन्तं च परित्यज्य गच्छेयुः पोतवाहकाः । (१२५।१)
bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ |
वहनस्वामिनं पञ्च प्रतीक्षन्ते दिनानि ते ॥ (१२५।२)
vahanasvāminaṃ pañca pratīkṣante dināni te ||
श्रुत्वेदं राजपुत्रस्य देवपुत्रस्य यादृशी । (१२६।१)
śrutvedaṃ rājaputrasya devaputrasya yādṛśī |
स्वर्गतश् च्यवमानस्य ध्यामध्यामाभवत् प्रभा ॥ (१२६।२)
svargataś cyavamānasya dhyāmadhyāmābhavat prabhā ||
तं दृष्ट्वा तादृशाकारम् अवोचत् सुकुमारिका । (१२७।१)
taṃ dṛṣṭvā tādṛśākāram avocat sukumārikā |
अद्यारभ्य गमिष्यामि तवैवाहं गृहान् इति ॥ (१२७।२)
adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti ||
स तया धीरितो गत्वा पोतम् उद्विग्नवाहकम् । (१२८।१)
sa tayā dhīrito gatvā potam udvignavāhakam |
तत्रैव सुहृदो ऽपश्यद् दिव्यरत्नाम्बरस्रजः ॥ (१२८।२)
tatraiva suhṛdo 'paśyad divyaratnāmbarasrajaḥ ||
स्थिताः स्थ दिवसान् एतान् क्व कथं वेति चोदिताः । (१२९।१)
sthitāḥ stha divasān etān kva kathaṃ veti coditāḥ |
तेन ते कथयन्ति स्म यथा यूयं तथा वयं ॥ (१२९।२)
tena te kathayanti sma yathā yūyaṃ tathā vayaṃ ||
सुकुमारिकयादिष्टाः प्रहृष्टा गुह्यकाङ्गनाः । (१३०।१)
sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ |
अस्मान् उपचरन्ति स्म सुरान् इव सुराङ्गनाः ॥ (१३०।२)
asmān upacaranti sma surān iva surāṅganāḥ ||
महादेवम् उपासीना मृता गच्छन्ति मानुषाः । (१३१।१)
mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ |
तासाम् एवानुभावेन संतेरुस् ते महोदधिम् ॥ (१३२।२)
tāsām evānubhāvena saṃterus te mahodadhim ||
व्यापारैर् उज्झितं सर्वैस् त्रिवर्गप्राप्तिहेतुभिः । (१३३।१)
vyāpārair ujjhitaṃ sarvais trivargaprāptihetubhiḥ |
प्राविशंस् तद्वियोगार्तं शून्यराजपथं पुरम् ॥ (१३३।२)
prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram ||
अथैका ब्राह्मणी वृद्धा किमर्थम् अपि निर्गता । (१३४।१)
athaikā brāhmaṇī vṛddhā kimartham api nirgatā |
अवगुष्ठितमूर्धानं पश्यति स्म मनोहरम् ॥ (१३४।२)
avaguṣṭhitamūrdhānaṃ paśyati sma manoharam ||
तम् असौ प्रत्यभिज्ञाय परितोषस्खलद्गतिः । (१३५।१)
tam asau pratyabhijñāya paritoṣaskhaladgatiḥ |
गत्वा ध्यानपरास्थानं महीपालम् अतोषयत् ॥ (१३५।२)
gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat ||
मन्त्रिप्रभृतयस् तेन वारिताः पुरवासिनः । (१३६।१)
mantriprabhṛtayas tena vāritāḥ puravāsinaḥ |
मा वोचद् दारकं कश्चित् क्व गतो ऽभूद् भवान् इति ॥ (१३६।२)
mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti ||
राजपुत्रो ऽपि राजानम् अवन्दत विलक्षकः । (१३७।१)
rājaputro 'pi rājānam avandata vilakṣakaḥ |
सो ऽपि तस्याङ्कम् आरोप्य हरति स्म विलक्षताम् ॥ (१३७।२)
so 'pi tasyāṅkam āropya harati sma vilakṣatām ||
स्वं च मन्दिरम् आगत्य स सुमङ्गलम् उक्तवान् । (१३८।१)
svaṃ ca mandiram āgatya sa sumaṅgalam uktavān |
गन्धशास्त्रफलं सारं धूपम् आयोज्यताम् इति ॥ (१३८।२)
gandhaśāstraphalaṃ sāraṃ dhūpam āyojyatām iti ||
अद्यागच्छति युष्माकं सखीभिः सहिता सखी । (१३९।१)
adyāgacchati yuṣmākaṃ sakhībhiḥ sahitā sakhī |
सुगन्धिताप्रधानं च रतम् आहुर् अनिन्दितम् ॥ (१३९।२)
sugandhitāpradhānaṃ ca ratam āhur aninditam ||
गन्धराजश् च यो ऽस्माकं घुष्यते यक्षकर्दमः । (१४०।१)
gandharājaś ca yo 'smākaṃ ghuṣyate yakṣakardamaḥ |
स कर्दमसमस् तासाम् अतो ऽसौ यक्षकर्दमः ॥ (१४०।२)
sa kardamasamas tāsām ato 'sau yakṣakardamaḥ ||
तस्माद् आदरम् आस्थाय शास्त्रम् अद्य प्रकाश्यताम् । (१४१।१)
tasmād ādaram āsthāya śāstram adya prakāśyatām |
धनुर्वेदस्य कृत्स्नस्य विद्धसारं हि सौष्ठवम् ॥ (१४१।२)
dhanurvedasya kṛtsnasya viddhasāraṃ hi sauṣṭhavam ||
इति प्रोत्साहितस् तेन स्वार्थेन च सुमङ्गलः । (१४२।१)
iti protsāhitas tena svārthena ca sumaṅgalaḥ |
ततः स तादृशो गन्धस् तथायत्नेन साधितः । (१४४।१)
tataḥ sa tādṛśo gandhas tathāyatnena sādhitaḥ |
भासा विच्छाययन्तीव चन्द्रकान्तादिचन्द्रिकाम् । (१४५।१)
bhāsā vicchāyayantīva candrakāntādicandrikām |
प्रविश्य सहसाछ्यास्त पर्यङ्कं सुकुमारिका ॥ (१४५।२)
praviśya sahasāchyāsta paryaṅkaṃ sukumārikā ||
यथा तथाविधोत्कण्ठे तथागमयतां निशाम् ॥ (१४७।२)
yathā tathāvidhotkaṇṭhe tathāgamayatāṃ niśām ||
प्रभाते राजपुत्राय रात्रिवृत्तं न्यवेदयन् ॥ (१४८।२)
prabhāte rājaputrāya rātrivṛttaṃ nyavedayan ||
रात्रौ रात्रौ समेतानां वियुक्तानां दिवा दिवा । (१४९।१)
rātrau rātrau sametānāṃ viyuktānāṃ divā divā |
इति संवत्सरो यातस् ताभिस् तेषाम् अचेतितः ॥ (१४९।२)
iti saṃvatsaro yātas tābhis teṣām acetitaḥ ||
एकदा स्यन्दमानाश्रुः साक्रन्दा सा तम् अब्रवीत् । (१५०।१)
ekadā syandamānāśruḥ sākrandā sā tam abravīt |
स्वाधीनानां पराधीनैः सह संगतिर् ईदृशी ॥ (१५०।२)
svādhīnānāṃ parādhīnaiḥ saha saṃgatir īdṛśī ||
अद्यारभ्य मया देवः सेवितव्यो धनेश्वरः । (१५१।१)
adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ |
पितरौ वन्दितुं चाहम् अष्टम्यादिषु पर्वसु । (१५२।१)
pitarau vandituṃ cāham aṣṭamyādiṣu parvasu |
स्वगृहाय गमिष्यामि तत्र गच्छेद् भवान् इति ॥ (१५२।२)
svagṛhāya gamiṣyāmi tatra gacched bhavān iti ||
त्वत्सङ्गसुभगा या दिक् ताम् अपि प्रेक्ष्य जीव्यते । (१५३।१)
tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate |
निन्दितामृतपानेन किं पुनर् दर्शनेन ते ॥ (१५३।२)
ninditāmṛtapānena kiṃ punar darśanena te ||
तस्याम् उक्त्वेति यातायाम् आयाता बकुलादयः । (१५४।१)
tasyām uktveti yātāyām āyātā bakulādayaḥ |
खं पश्यन्तम् अपश्यंस् तम् इयं यातीति वादिनम् ॥ (१५४।२)
khaṃ paśyantam apaśyaṃs tam iyaṃ yātīti vādinam ||
किम् अस्ताने विषादेन पोतम् आरुह्य मामकम् । (१५६।१)
kim astāne viṣādena potam āruhya māmakam |
दृष्टमार्गा मुहूर्तेन यामस् तं गुह्यकाचलम् ॥ (१५६।२)
dṛṣṭamārgā muhūrtena yāmas taṃ guhyakācalam ||
ध्यायन्तस् तत्र ताः कान्ताः पश्यन्तश् चान्तरान्तरा । (१५७।१)
dhyāyantas tatra tāḥ kāntāḥ paśyantaś cāntarāntarā |
ततः स तेन पोतेन प्रस्थितश् च महार्णवम् । (१५८।१)
tataḥ sa tena potena prasthitaś ca mahārṇavam |
स च पोतः समीरेण दूरं हृत्वा विपादितः ॥ (१५८।२)
sa ca potaḥ samīreṇa dūraṃ hṛtvā vipāditaḥ ||
राजपुत्रस् तु दयितां सिद्धां विद्याम् इव स्मरन् । (१५९।१)
rājaputras tu dayitāṃ siddhāṃ vidyām iva smaran |
तां न चेतितवान् एव विपत्तिं मारदारुणाम् ॥ (१५९।२)
tāṃ na cetitavān eva vipattiṃ māradāruṇām ||
उत्तीर्णस्यैव जलधेर् वेलारोधासि सर्पतः । (१६०।१)
uttīrṇasyaiva jaladher velārodhāsi sarpataḥ |
चौरसैन्येन संयम्य तस्यालंकरणं हृतम् ॥ (१६०।२)
caurasainyena saṃyamya tasyālaṃkaraṇaṃ hṛtam ||
ततस् तस्करसैन्यं तद् वाजिसैन्येन सर्वतः । (१६१।१)
tatas taskarasainyaṃ tad vājisainyena sarvataḥ |
वेष्टितं कुट्टितं बद्धम् उद्बद्धं पादपेषु च ॥ (१६१।२)
veṣṭitaṃ kuṭṭitaṃ baddham udbaddhaṃ pādapeṣu ca ||
एकश् चारुतराकारः पुरुषः प्रणिपत्य तम् । (१६२।१)
ekaś cārutarākāraḥ puruṣaḥ praṇipatya tam |
करिणीपृष्ठम् आरोप्य ससैन्यः प्रस्थितः पुरः ॥ (१६२।२)
kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ ||
अदूरं चान्तरं गत्वा बन्दिस्तुतिगुणान्वयः । (१६३।१)
adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ |
मनोहरः पुरं प्रापत् कुङ्कुमालिप्तचत्वरम् ॥ (१६३।२)
manoharaḥ puraṃ prāpat kuṅkumāliptacatvaram ||
रत्नवन्दनमालानां स शृण्वन् पटुशिञ्जितम् । (१६४।१)
ratnavandanamālānāṃ sa śṛṇvan paṭuśiñjitam |
आगच्छत् कलरासानां नानापत्त्रिस्रजाम् इव ॥ (१६४।२)
āgacchat kalarāsānāṃ nānāpattrisrajām iva ||
अवतीर्य च हस्तिन्याः स राजानम् अवन्दत । (१६६।१)
avatīrya ca hastinyāḥ sa rājānam avandata |
गाढम् आलिङ्ग्य तेनापि चिरं प्रीत्या निरूपितः ॥ (१६६।२)
gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ ||
शरीरावयवान् दृष्ट्वा मुहुस् तस्यावदत् ततः । (१६७।१)
śarīrāvayavān dṛṣṭvā muhus tasyāvadat tataḥ |
कुतः सुमङ्गलाद् अन्यश् चक्षुष्मान् इति भूपतिः ॥ (१६७।२)
kutaḥ sumaṅgalād anyaś cakṣuṣmān iti bhūpatiḥ ||
भवेद् अहम् इव भ्रष्टः पोतभङ्गभयाद् इति ॥ (१६८।२)
bhaved aham iva bhraṣṭaḥ potabhaṅgabhayād iti ||
गच्छ विश्रम्य तातेति राज्ञोक्तः प्राविशत् पुरम् । (१६९।१)
gaccha viśramya tāteti rājñoktaḥ prāviśat puram |
अपश्यन् नतमूर्धानं स तम् एव सुमङ्गलम् ॥ (१६९।२)
apaśyan natamūrdhānaṃ sa tam eva sumaṅgalam ||
पृच्छति स्म च तं भद्र मित्रे प्राणसमे तव । (१७०।१)
pṛcchati sma ca taṃ bhadra mitre prāṇasame tava |
भुजौ मे बकुलाशोकौ कच्चित् कुशलिनाव् इति ॥ (१७०।२)
bhujau me bakulāśokau kaccit kuśalināv iti ||
तेनोक्तं बकुलाशोकौ गृहान् कुशलिनौ गतौ । (१७१।१)
tenoktaṃ bakulāśokau gṛhān kuśalinau gatau |
यथा चाहम् इहायातस् तथाश्रोतुं प्रसीदत ॥ (१७१।२)
yathā cāham ihāyātas tathāśrotuṃ prasīdata ||
पुनरुक्तगुणाख्यानम् एतत् नागपुरं पुरम् । (१७२।१)
punaruktaguṇākhyānam etat nāgapuraṃ puram |
दृष्टम् एव हि युष्माभिर् नृपश् चैष पुरंदरः ॥ (१७२।२)
dṛṣṭam eva hi yuṣmābhir nṛpaś caiṣa puraṃdaraḥ ||
जयन्त इति पुत्रो ऽस्य शूरः चारुः कविः पटुः । (१७३।१)
jayanta iti putro 'sya śūraḥ cāruḥ kaviḥ paṭuḥ |
यस्या न प्रमदालोके न चास्ति सदृशो वरः ॥ (१७४।२)
yasyā na pramadāloke na cāsti sadṛśo varaḥ ||
वरं वरयता तस्याः पित्रा द्वीपान्तराण्य् अपि । (१७५।१)
varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api |
तदा माम् अयम् आहूय सदैन्यस्मितम् उक्तवान् ॥ (१७६।२)
tadā mām ayam āhūya sadainyasmitam uktavān ||
त्वं न केवलम् अस्माकं सर्वाध्यक्षगणाग्रणीः । (१७७।१)
tvaṃ na kevalam asmākaṃ sarvādhyakṣagaṇāgraṇīḥ |
नाथो ऽपि भव नस् तात संकटाद् उद्धरन्न् इतः ॥ (१७७।२)
nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ ||
कुलशीलवयोरूपैर् यः स्याद् अस्याः समो वरः । (१७८।१)
kulaśīlavayorūpair yaḥ syād asyāḥ samo varaḥ |
आदरेण तम् अन्विष्येस् त्यज श्रीमदिरारुजम् ॥ (१७८।२)
ādareṇa tam anviṣyes tyaja śrīmadirārujam ||
दुर्गतेभ्यः सुदूरेण शोचनीयः सताम् इति ॥ (१७९।२)
durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti ||
मही साष्टादशद्वीपा परिक्रान्ता वरार्थिना ॥ (१८०।२)
mahī sāṣṭādaśadvīpā parikrāntā varārthinā ||
यदा तु पटुयत्नो ऽपि नालभे वरम् ईप्सितम् । (१८१।१)
yadā tu paṭuyatno 'pi nālabhe varam īpsitam |
तदा त्यक्तुमनः प्राणान् प्राविविक्षं महोदधिम् ॥ (१८१।२)
tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim ||
गतश् च काननद्वीपं दृष्टवान् अस्मि संचरन् । (१८२।१)
gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran |
युष्मद्गुणकथासक्ताः संतताः साधुसंपदः ॥ (१८२।२)
yuṣmadguṇakathāsaktāḥ saṃtatāḥ sādhusaṃpadaḥ ||
ततः स मे स्थिराधैर्यस् तादृङ्मरणनिश्चयः । (१८३।१)
tataḥ sa me sthirādhairyas tādṛṅmaraṇaniścayaḥ |
ज्योत्स्नयेव तमोराशिर् युष्मत्कीर्त्या निराकृतः ॥ (१८३।२)
jyotsnayeva tamorāśir yuṣmatkīrtyā nirākṛtaḥ ||
गन्धशास्त्रव्यसनिनो युष्मान् बुद्ध्वा च लोकतः । (१८४।१)
gandhaśāstravyasanino yuṣmān buddhvā ca lokataḥ |
आत्मापि गन्धशास्त्रज्ञस् तदा वः श्रावितो मया ॥ (१८४।२)
ātmāpi gandhaśāstrajñas tadā vaḥ śrāvito mayā ||
तुल्यज्ञानस्वभावा हि भर्तॄणाम् अनुजीविनः । (१८५।१)
tulyajñānasvabhāvā hi bhartṝṇām anujīvinaḥ |
रञ्जयन्ति मनः क्षिप्रं गुणैर् अपि निराकृताः ॥ (१८५।२)
rañjayanti manaḥ kṣipraṃ guṇair api nirākṛtāḥ ||
गन्धमाल्यविसंवादी धूपो यच् चापि दाहितः । (१८६।१)
gandhamālyavisaṃvādī dhūpo yac cāpi dāhitaḥ |
सुहृद्भिः सह युष्माभिर् अहं जिज्ञासितस् तदा ॥ (१८६।२)
suhṛdbhiḥ saha yuṣmābhir ahaṃ jijñāsitas tadā ||
यच् च योजितवान् अस्मि गन्धमाल्यानुवादिनम् । (१८७।१)
yac ca yojitavān asmi gandhamālyānuvādinam |
धूपं तत् फलके न्यस्ताम् अपश्यं भर्तृदारिकाम् ॥ (१८७।२)
dhūpaṃ tat phalake nyastām apaśyaṃ bhartṛdārikām ||
ताम् आलोक्य ततो युष्मान् मन्ये ऽहं धन्यजन्मनाम् । (१८८।१)
tām ālokya tato yuṣmān manye 'haṃ dhanyajanmanām |
आत्मनो राजपुत्र्याश् च विधातुश् च कृतार्थताम् ॥ (१८८।२)
ātmano rājaputryāś ca vidhātuś ca kṛtārthatām ||
सो ऽहं स्वार्थपरो युष्मान् अपहर्तुम् इतो गतः । (१८९।१)
so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ |
यावद् युष्मद्गुणैर् एव हृतः साधुमनोहरैः ॥ (१८९।२)
yāvad yuṣmadguṇair eva hṛtaḥ sādhumanoharaiḥ ||
तथापि सत्कृतो युष्मान् हर्तुम् एवाहम् उद्यतः । (१९०।१)
tathāpi satkṛto yuṣmān hartum evāham udyataḥ |
पापम् अध्याचरन्त्य् एव भृत्या भर्तृप्रियेप्सवः ॥ (१९०।२)
pāpam adhyācaranty eva bhṛtyā bhartṛpriyepsavaḥ ||
पुण्यैर् नलिनिकायाश् च युष्मत्संगमहेतुभिः । (१९१।१)
puṇyair nalinikāyāś ca yuṣmatsaṃgamahetubhiḥ |
इदं चान्तरम् आसाद्य मया यूयं त्वरावता । (१९२।१)
idaṃ cāntaram āsādya mayā yūyaṃ tvarāvatā |
प्रदेशे यत्र चाम्भोधिर् विपन्नं वहनं वहेत् । (१९३।१)
pradeśe yatra cāmbhodhir vipannaṃ vahanaṃ vahet |
तेन तौ बकुलाशोकाव् अविपन्नौ गृहान् गतौ । (१९४।१)
tena tau bakulāśokāv avipannau gṛhān gatau |
इदं च पुरम् आयाता यथा यूयं तथा वयम् ॥ (१९४।२)
idaṃ ca puram āyātā yathā yūyaṃ tathā vayam ||
तस्मान् नलिनिकाद्यैव युष्माभिर् अनुगम्यताम् । (१९५।१)
tasmān nalinikādyaiva yuṣmābhir anugamyatām |
न हि श्रीः स्वयम् आयान्ती कालातिक्रमम् अर्हति ॥ (१९५।२)
na hi śrīḥ svayam āyāntī kālātikramam arhati ||
मनोहरस् तु तां प्राप्य सर्वाकारमनोहराम् । (१९६।१)
manoharas tu tāṃ prāpya sarvākāramanoharām |
सुमङ्गलेन सा चोक्ता मा स्म शेथाः पृथङ्निशि । (१९७।१)
sumaṅgalena sā coktā mā sma śethāḥ pṛthaṅniśi |
पत्युस् ते दयिता यक्षी मैवं नैषीद् असाव् इति ॥ (१९७।२)
patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti ||
उन्निद्रैव सनिद्रेव सुप्ता किल पृथक् क्षणम् ॥ (१९८।२)
unnidraiva sanidreva suptā kila pṛthak kṣaṇam ||
अथ सेवावधौ पूर्णे वर्षान्ते सुकुमारिका । (१९९।१)
atha sevāvadhau pūrṇe varṣānte sukumārikā |
युष्मान् अपि हरेद् एषा तथा मातङ्गकन्यका ॥ (२००।२)
yuṣmān api hared eṣā tathā mātaṅgakanyakā ||
मन्यध्वे यादृशीम् एनां कन्यका नेयम् ईदृशी । (२०१।१)
manyadhve yādṛśīm enāṃ kanyakā neyam īdṛśī |
न हि चण्डालकन्यासु रज्यन्ते देवसूनवः ॥ (२०१।२)
na hi caṇḍālakanyāsu rajyante devasūnavaḥ ||
इदं नलिनिकावृत्तं स्मृत्वा यूयं मयोदिताः । (२०२।१)
idaṃ nalinikāvṛttaṃ smṛtvā yūyaṃ mayoditāḥ |
न मे नलिनिकावार्त्ता विरसान्ता भवेद् इति ॥ (२०२।२)
na me nalinikāvārttā virasāntā bhaved iti ||
अनन्यगतसंकल्पम् एवं मां मा स्म कल्पयः । (२०३।१)
ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ |
इति जिह्मं पुरस् तस्याः कामुकाचारम् आचरम् ॥ (२०३।२)
iti jihmaṃ puras tasyāḥ kāmukācāram ācaram ||
गन्धर्वदत्तावचनात् प्रियत्वं मातङ्गकन्या सुतराम् अगान् मे । (२०४।१)
gandharvadattāvacanāt priyatvaṃ mātaṅgakanyā sutarām agān me |
मदं विधत्ते मदिरा प्रकृत्या किम् अङ्ग कान्ताननसङ्गरम्या ॥ (२०४।२)
madaṃ vidhatte madirā prakṛtyā kim aṅga kāntānanasaṅgaramyā ||
Data courtesy of The Digital Corpus of Sanskrit.