बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 17

17 of 28 · 362 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ गन्धर्वदत्तायास् तां गुणाकारसंपदम् । (१।१)

atha gandharvadattāyās tāṃ guṇākārasaṃpadam |

1.2१.२

समाकर्ण्यैव कर्णाभ्यां मनो नीतं विधेयताम् ॥ (१।२)

samākarṇyaiva karṇābhyāṃ mano nītaṃ vidheyatām ||

2.1२.१

पृच्छामि स्म च भूयस् तम् अपि शक्या भवेन् मया । (२।१)

pṛcchāmi sma ca bhūyas tam api śakyā bhaven mayā |

2.2२.२

द्रष्टुं गन्धर्वदत्तेति तेन चोक्तं न शक्यते ॥ (२।२)

draṣṭuṃ gandharvadatteti tena coktaṃ na śakyate ||

3.1३.१

अगान्धर्वेण सा द्रष्टुं देवेनापि न शक्यते । (३।१)

agāndharveṇa sā draṣṭuṃ devenāpi na śakyate |

3.2३.२

यदि चेच्छथ तां द्रष्टुं गान्धर्वं शिक्ष्यताम् इति ॥ (३।२)

yadi cecchatha tāṃ draṣṭuṃ gāndharvaṃ śikṣyatām iti ||

4.1४.१

मयोक्तं नारदीये ऽपि निवृत्ते किल लभ्यते । (४।१)

mayoktaṃ nāradīye 'pi nivṛtte kila labhyate |

4.2४.२

गान्धर्वशब्दस् तत् तस्माद् अस्माकं कार्यताम् इति ॥ (४।२)

gāndharvaśabdas tat tasmād asmākaṃ kāryatām iti ||

5.1५.१

ततो व्याहरितस् तेन वीणाचार्यः खरस्वरः । (५।१)

tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ |

5.2५.२

नष्टश्रुतिस्वरज्ञानो भूतिको नाम दुर्भगः ॥ (५।२)

naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ ||

6.1६.१

आसीच् च मम तं दृष्ट्वा विकृतं नरवानरम् । (६।१)

āsīc ca mama taṃ dṛṣṭvā vikṛtaṃ naravānaram |

6.2६.२

अलं मे नारदीयेन कृतं गन्धर्वदत्तया ॥ (६।२)

alaṃ me nāradīyena kṛtaṃ gandharvadattayā ||

7.1७.१

ईदृशः शिष्यतां गत्वा राज्यलाभो ऽपि गर्हति । (७।१)

īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati |

7.2७.२

अन्यायागतम् ऐश्वर्यं निन्दन्त्य् एव हि साधवः ॥ (७।२)

anyāyāgatam aiśvaryaṃ nindanty eva hi sādhavaḥ ||

8.1८.१

अभ्युत्थानाभिवादाभ्यां तं वीणादत्तकादयः । (८।१)

abhyutthānābhivādābhyāṃ taṃ vīṇādattakādayaḥ |

8.2८.२

अपूजयन् मया चासौ न द्रष्टुम् अपि पारितः ॥ (८।२)

apūjayan mayā cāsau na draṣṭum api pāritaḥ ||

9.1९.१

अथ रुष्टकटाक्षेण लोहिताक्षः स वीक्ष्य माम् । (९।१)

atha ruṣṭakaṭākṣeṇa lohitākṣaḥ sa vīkṣya mām |

9.2९.२

वीणादत्तकदत्तायां पीठिकायाम् उपाविशत् ॥ (९।२)

vīṇādattakadattāyāṃ pīṭhikāyām upāviśat ||

10.1१०.१

अब्रवीद् दत्तकस् तं च यक्षीभर्तुर् द्विजन्मनः । (१०।१)

abravīd dattakas taṃ ca yakṣībhartur dvijanmanaḥ |

10.2१०.२

भवान् अस्योपपन्नस्य नारदीयं करोत्व् इति ॥ (१०।२)

bhavān asyopapannasya nāradīyaṃ karotv iti ||

11.1११.१

तेनोक्तं साभिमानत्वाद् अयं माम् अवमन्यते । (११।१)

tenoktaṃ sābhimānatvād ayaṃ mām avamanyate |

11.2११.२

न च पारयते दातुं दारिद्र्यात् काकणीम् अपि ॥ (११।२)

na ca pārayate dātuṃ dāridryāt kākaṇīm api ||

12.1१२.१

गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । (१२।१)

guruśuśrūṣayā vidyā puṣkalena dhanena vā |

12.2१२.२

न चास्मिन्न् एकम् अप्य् अस्ति यद्य् अस्ति प्रतिपद्यताम् ॥ (१२।२)

na cāsminn ekam apy asti yady asti pratipadyatām ||

13.1१३.१

दत्तकेनोक्तम् आचार्य विरूपं मन्त्रितं त्वया । (१३।१)

dattakenoktam ācārya virūpaṃ mantritaṃ tvayā |

13.2१३.२

को यक्षीकामुकं शक्तो दरिद्रम् इति जल्पितुम् ॥ (१३।२)

ko yakṣīkāmukaṃ śakto daridram iti jalpitum ||

14.1१४.१

यस्य दासः सदासो ऽहं त्वं जानास्य् एव मादृशः । (१४।१)

yasya dāsaḥ sadāso 'haṃ tvaṃ jānāsy eva mādṛśaḥ |

14.2१४.२

स यक्षीकामुकः कस्माद् दरिद्र इति भण्यते ॥ (१४।२)

sa yakṣīkāmukaḥ kasmād daridra iti bhaṇyate ||

15.1१५.१

सुवर्णानां शतं वापि गृह्यतां त्वाद्।शोचितम् । (१५।१)

suvarṇānāṃ śataṃ vāpi gṛhyatāṃ tvād.śocitam |

15.2१५.२

पतिते द्रोणमेघो ऽपि न तिष्ठति जलं स्थले ॥ (१५।२)

patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale ||

16.1१६.१

नारदादिपरीवारां स चाभ्यर्च्य सरस्वतीम् । (१६।१)

nāradādiparīvārāṃ sa cābhyarcya sarasvatīm |

16.2१६.२

दुर्व्यवस्थिततन्त्रीकां वीणां मह्यम् उपानयत् ॥ (१६।२)

durvyavasthitatantrīkāṃ vīṇāṃ mahyam upānayat ||

17.1१७.१

मया तु सा विपर्यक्स्था स्थापिताङ्के यदा तदा । (१७।१)

mayā tu sā viparyaksthā sthāpitāṅke yadā tadā |

17.2१७.२

भूतिको मां धिग् इत्य् उक्त्वा वीणादत्तकम् उक्तवान् ॥ (१७।२)

bhūtiko māṃ dhig ity uktvā vīṇādattakam uktavān ||

18.1१८.१

न यक्षीकामुको मन्दः शक्यः शिक्षयितुं मया । (१८।१)

na yakṣīkāmuko mandaḥ śakyaḥ śikṣayituṃ mayā |

18.2१८.२

वीणाग्रहणम् अप्य् एष न जानाति सुखैदितः ॥ (१८।२)

vīṇāgrahaṇam apy eṣa na jānāti sukhaiditaḥ ||

19.1१९.१

न नाम स्वयम् एतेन यदि वीणा न वादिता । (१९।१)

na nāma svayam etena yadi vīṇā na vāditā |

19.2१९.२

आलेख्यवादकाः के ऽपि न दृष्ट् नष्टदृष्टिना ॥ (१९।२)

ālekhyavādakāḥ ke 'pi na dṛṣṭ naṣṭadṛṣṭinā ||

20.1२०.१

इति संतक्ष्य मां वाग्भिर् आतोद्यं परिवर्त्य च । (२०।१)

iti saṃtakṣya māṃ vāgbhir ātodyaṃ parivartya ca |

20.2२०.२

स निषादो निषादं मे षड्ज इत्युपदिष्टवान् ॥ (२०।२)

sa niṣādo niṣādaṃ me ṣaḍja ityupadiṣṭavān ||

21.1२१.१

अथामर्षपरीतेन दृढं ताडयता मया । (२१।१)

athāmarṣaparītena dṛḍhaṃ tāḍayatā mayā |

21.2२१.२

चतस्रः पञ्च वा तन्त्र्यश् छिन्नाश् चड् इति विस्वराः ॥ (२१।२)

catasraḥ pañca vā tantryaś chinnāś caḍ iti visvarāḥ ||

22.1२२.१

अथोक्तो दत्तकस् तेन तन्त्रीवर्तकसंग्रहम् । (२२।१)

athokto dattakas tena tantrīvartakasaṃgraham |

22.2२२.२

अकृत्वा किं करोत्य् अस्य नारदीयं भवान् इति ॥ (२२।२)

akṛtvā kiṃ karoty asya nāradīyaṃ bhavān iti ||

23.1२३.१

अहं तु विस्मृतच्छद्मा छिन्नतन्त्रीम् अपि क्षणम् । (२३।१)

ahaṃ tu vismṛtacchadmā chinnatantrīm api kṣaṇam |

23.2२३.२

श्रुतिवासितकर्णत्वान् मृदु वीणाम् अवादयम् ॥ (२३।२)

śrutivāsitakarṇatvān mṛdu vīṇām avādayam ||

24.1२४.१

अथ विस्फारितैर् नेत्रैर् उत्कर्णा दत्तकादयः । (२४।१)

atha visphāritair netrair utkarṇā dattakādayaḥ |

24.2२४.२

किम् एतद् इति जल्पन्तो माम् ऐक्षन्त सविस्मयाः ॥ (२४।२)

kim etad iti jalpanto mām aikṣanta savismayāḥ ||

25.1२५.१

भूतिकस् तु भयक्रोधलज्जाविस्मयनिष्प्रभः । (२५।१)

bhūtikas tu bhayakrodhalajjāvismayaniṣprabhaḥ |

25.2२५.२

काकतालीयम् इत्य् उक्त्वा गत एव सदक्षिणः ॥ (२५।२)

kākatālīyam ity uktvā gata eva sadakṣiṇaḥ ||

26.1२६.१

एवं च दिवसं नीत्वा कृतप्रादोषिकाशनः । (२६।१)

evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ |

26.2२६.२

आवसं शयनावासं मालाधूपाधिवासितम् ॥ (२६।२)

āvasaṃ śayanāvāsaṃ mālādhūpādhivāsitam ||

27.1२७.१

हंसपक्षांशुकप्रायकोमलास्तरणास्तृतम् । (२७।१)

haṃsapakṣāṃśukaprāyakomalāstaraṇāstṛtam |

27.2२७.२

भास्वद्वज्रशिलापादम् आसेवे शयनं ततः ॥ (२७।२)

bhāsvadvajraśilāpādam āseve śayanaṃ tataḥ ||

28.1२८.१

रूपाकृष्टजगन्नेत्रे युवती सारभूषणे । (२८।१)

rūpākṛṣṭajagannetre yuvatī sārabhūṣaṇe |

28.2२८.२

रूपाजीवे शनैः पादौ समवाहयतां मम ॥ (२८।२)

rūpājīve śanaiḥ pādau samavāhayatāṃ mama ||

29.1२९.१

सहजाहार्यमाधुर्यरमणीयतराक्षरैः । (२९।१)

sahajāhāryamādhuryaramaṇīyatarākṣaraiḥ |

29.2२९.२

वचोभिः किल ते चित्तं मदीयं हर्तुम् ऐच्छताम् ॥ (२९।२)

vacobhiḥ kila te cittaṃ madīyaṃ hartum aicchatām ||

30.1३०.१

वेगवत्या विमुक्तं च प्रतिभान्ति स्म तानि माम् । (३०।१)

vegavatyā vimuktaṃ ca pratibhānti sma tāni mām |

30.2३०.२

रासभीरसितानीव विरसानि स्वकर्णयोः ॥ (३०।२)

rāsabhīrasitānīva virasāni svakarṇayoḥ ||

31.1३१.१

तानि चाश्रोतुकामेन निद्राव्याजः कृतो मया । (३१।१)

tāni cāśrotukāmena nidrāvyājaḥ kṛto mayā |

31.2३१.२

अथ प्रसुप्त एवास्मि निराशे ते च जग्मतुः ॥ (३१।२)

atha prasupta evāsmi nirāśe te ca jagmatuḥ ||

32.1३२.१

अर्धे याते च यामिन्याः श्वासानुमितचेतने । (३२।१)

ardhe yāte ca yāminyāḥ śvāsānumitacetane |

32.2३२.२

दृष्टतत्त्व इवाविद्यां निद्राम् अत्यजम् उत्कटाम् ॥ (३२।२)

dṛṣṭatattva ivāvidyāṃ nidrām atyajam utkaṭām ||

33.1३३.१

चित्रपट्टपिधानायां तिष्ठन्त्यां नागदन्तके । (३३।१)

citrapaṭṭapidhānāyāṃ tiṣṭhantyāṃ nāgadantake |

33.2३३.२

वीणादत्तकवीणायां ततो दृष्टिं न्यपातयम् ॥ (३३।२)

vīṇādattakavīṇāyāṃ tato dṛṣṭiṃ nyapātayam ||

34.1३४.१

मम त्व् आसीद् अवश्यं मां नेता श्वस् तत्र दत्तकः । (३४।१)

mama tv āsīd avaśyaṃ māṃ netā śvas tatra dattakaḥ |

34.2३४.२

वीणा च वादनीया स्याच् चिरोत्सृष्टा च सा मया ॥ (३४।२)

vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā ||

35.1३५.१

विद्या चाराध्यमानापि दुःखेन परिचीयते । (३५।१)

vidyā cārādhyamānāpi duḥkhena paricīyate |

35.2३५.२

भक्त्या मातुः सपत्नीव निसर्गकुटिला हि सा ॥ (३५।२)

bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā ||

36.1३६.१

वीणा संनिहिता चेयं वेला चेयं निराकुला । (३६।१)

vīṇā saṃnihitā ceyaṃ velā ceyaṃ nirākulā |

36.2३६.२

जिज्ञासे तावद् इत्य् एनां विचार्याहं गृहीतवान् ॥ (३६।२)

jijñāse tāvad ity enāṃ vicāryāhaṃ gṛhītavān ||

37.1३७.१

उत्कर्षन्न् अपकर्षंश् च काश्चित् काश्चिन् मनाङ् मनाक् । (३७।१)

utkarṣann apakarṣaṃś ca kāścit kāścin manāṅ manāk |

37.2३७.२

व्यवस्थापयितुं तन्त्रीः करशाखाभिर् अस्पृशम् ॥ (३७।२)

vyavasthāpayituṃ tantrīḥ karaśākhābhir aspṛśam ||

38.1३८.१

अथाशृणवम् आलापान् स्वस्माद् वासगृहाद् बहिः । (३८।१)

athāśṛṇavam ālāpān svasmād vāsagṛhād bahiḥ |

38.2३८.२

समुद्रसेन गोदत्त धाव धाव सखे द्रुतम् ॥ (३८।२)

samudrasena godatta dhāva dhāva sakhe drutam ||

39.1३९.१

वीणादत्तकभद्रस्य गृहेषु कृतकर्मणः । (३९।१)

vīṇādattakabhadrasya gṛheṣu kṛtakarmaṇaḥ |

39.2३९.२

सरस्वती भगवती वीणां सारयति स्वयम् ॥ (३९।२)

sarasvatī bhagavatī vīṇāṃ sārayati svayam ||

40.1४०.१

वीणायाः सार्यमाणायाः स्वनस्योदय ईदृशः । (४०।१)

vīṇāyāḥ sāryamāṇāyāḥ svanasyodaya īdṛśaḥ |

40.2४०.२

समाप्तसारणायास् तु कीदृङ् नाम भविष्यति ॥ (४०।२)

samāptasāraṇāyās tu kīdṛṅ nāma bhaviṣyati ||

41.1४१.१

तस्मात् सरस्वतीवीणे दृष्ट्वा श्रुत्वा च संहते । (४१।१)

tasmāt sarasvatīvīṇe dṛṣṭvā śrutvā ca saṃhate |

41.2४१.२

नेत्रश्रोत्राणि नो यान्ति पवित्रकरताम् इति ॥ (४१।२)

netraśrotrāṇi no yānti pavitrakaratām iti ||

42.1४२.१

अथावलम्बयत् तां वीणां त्वरया नागदन्तके । (४२।१)

athāvalambayat tāṃ vīṇāṃ tvarayā nāgadantake |

42.2४२.२

प्रावृत्य सशिरःपादं कायं निद्रां किलागमम् ॥ (४२।२)

prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam ||

43.1४३.१

नागरास् तु न्यवर्तन्त जल्पन्तो दीनचेतसः । (४३।१)

nāgarās tu nyavartanta jalpanto dīnacetasaḥ |

43.2४३.२

कथं सरस्वती क्षुद्रैर् दृश्यते ऽस्मद्विधैर् इति ॥ (४३।२)

kathaṃ sarasvatī kṣudrair dṛśyate 'smadvidhair iti ||

44.1४४.१

यापितायां तु यामिन्यां कृतपूर्वाह्णिकक्रमम् । (४४।१)

yāpitāyāṃ tu yāminyāṃ kṛtapūrvāhṇikakramam |

44.2४४.२

माम् अनुल्बणवेषं च वन्दित्वा दत्तको ऽब्रवीत् ॥ (४४।२)

mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt ||

45.1४५.१

अमी नागरकाः प्राप्ताश् चित्रयानप्रसाधनाः । (४५।१)

amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ |

45.2४५.२

तद् गन्धर्वसमस्यायै युष्माभिर् अपि गम्यताम् ॥ (४५।२)

tad gandharvasamasyāyai yuṣmābhir api gamyatām ||

46.1४६.१

आज्ञापयत यानं च करेणुतुरगादिकम् । (४६।१)

ājñāpayata yānaṃ ca kareṇuturagādikam |

46.2४६.२

येन वो रोचते गन्तुं तेन प्रस्थीयताम् इति ॥ (४६।२)

yena vo rocate gantuṃ tena prasthīyatām iti ||

47.1४७.१

मयोक्तं गच्छतु भवान् वाहनेन यथासुखम् । (४७।१)

mayoktaṃ gacchatu bhavān vāhanena yathāsukham |

47.2४७.२

अहं तु पादचारेण गच्छामि शनकैर् इति ॥ (४७।२)

ahaṃ tu pādacāreṇa gacchāmi śanakair iti ||

48.1४८.१

अथास्मदनुरोधेन मां पुरोधाय दत्तकः । (४८।१)

athāsmadanurodhena māṃ purodhāya dattakaḥ |

48.2४८.२

प्रस्थितः पादचारेण सनागरकमण्डलः ॥ (४८।२)

prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ ||

49.1४९.१

अमन्त्रयन्त यान्तश् च क्रुद्धा नागरका मिथः । (४९।१)

amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ |

49.2४९.२

यक्षीकामुकरूपो ऽयम् अनर्थो ऽस्मान् उपागतः ॥ (४९।२)

yakṣīkāmukarūpo 'yam anartho 'smān upāgataḥ ||

50.1५०.१

वयम् अस्य प्रसादेन त्यक्तमण्डितवाहनाः । (५०।१)

vayam asya prasādena tyaktamaṇḍitavāhanāḥ |

50.2५०.२

आशादीर्घासु रथ्यासु चरणैः संचरामहे ॥ (५०।२)

āśādīrghāsu rathyāsu caraṇaiḥ saṃcarāmahe ||

51.1५१.१

मेरोर् द्रोणीर् इवाक्रमन् विशिखा विस्तृतायताः । (५१।१)

meror droṇīr ivākraman viśikhā vistṛtāyatāḥ |

51.2५१.२

अपश्यं वेश्मनां मालास् तस्यैव सिरसाम् इव ॥ (५१।२)

apaśyaṃ veśmanāṃ mālās tasyaiva sirasām iva ||

52.1५२.१

प्रासादेषु च जल्पन्तीर् गवाक्षप्रेरितेक्षणाः । (५२।१)

prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ |

52.2५२.२

कोकिलासुभगालापाः शृणोमि स्म कुलाङ्गनाः ॥ (५२।२)

kokilāsubhagālāpāḥ śṛṇomi sma kulāṅganāḥ ||

53.1५३.१

अयि मागधि वैदेहि मलयावति यावनि । (५३।१)

ayi māgadhi vaidehi malayāvati yāvani |

53.2५३.२

यक्षीकामुकम् आयातुं सख्यः पश्यत धावत ॥ (५३।२)

yakṣīkāmukam āyātuṃ sakhyaḥ paśyata dhāvata ||

54.1५४.१

खलया किल यक्ष्यायम् ईर्ष्यामुषितचेतसा । (५४।१)

khalayā kila yakṣyāyam īrṣyāmuṣitacetasā |

54.2५४.२

आकाशात् पातितः प्राप्तो दत्तकेन सुजन्मना ॥ (५४।२)

ākāśāt pātitaḥ prāpto dattakena sujanmanā ||

55.1५५.१

ध्रुवं सा राक्षसी यक्षी यदि वा मृत्तिकामयी । (५५।१)

dhruvaṃ sā rākṣasī yakṣī yadi vā mṛttikāmayī |

55.2५५.२

क्रुद्धया मुग्धया वापि यया स्वार्थो न चेतितः ॥ (५५।२)

kruddhayā mugdhayā vāpi yayā svārtho na cetitaḥ ||

56.1५६.१

अथवा सर्वम् एवेदम् अलीकं प्रतिभाति माम् । (५६।१)

athavā sarvam evedam alīkaṃ pratibhāti mām |

56.2५६.२

क्व यक्षीकामिकः क्वायं कामः कामी रतेर् इव ॥ (५६।२)

kva yakṣīkāmikaḥ kvāyaṃ kāmaḥ kāmī rater iva ||

57.1५७.१

इति निर्दिश्यमानो ऽहम् अङ्गुलीभिर् इतस् ततः । (५७।१)

iti nirdiśyamāno 'ham aṅgulībhir itas tataḥ |

57.2५७.२

नयनोत्पलमालाभिर् अर्च्यमानश् च यातवान् ॥ (५७।२)

nayanotpalamālābhir arcyamānaś ca yātavān ||

58.1५८.१

अथ नागरकाः प्रापन् सुधां गृहपतेर् गृहम् । (५८।१)

atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham |

58.2५८.२

अङ्गं गन्धर्वदत्तायास् तेषाम् इव मनोरथाः ॥ (५८।२)

aṅgaṃ gandharvadattāyās teṣām iva manorathāḥ ||

59.1५९.१

मणिहाटकदन्ताद्यैर् अङ्गैस् तैर् एव कल्पितम् । (५९।१)

maṇihāṭakadantādyair aṅgais tair eva kalpitam |

59.2५९.२

स्फुरद्दिव्यप्रभावात् तु न विद्म किंमयैर् इति ॥ (५९।२)

sphuraddivyaprabhāvāt tu na vidma kiṃmayair iti ||

60.1६०.१

ततः प्रथमकक्षायाम् अपश्यं संनिधापिताम् । (६०।१)

tataḥ prathamakakṣāyām apaśyaṃ saṃnidhāpitām |

60.2६०.२

आसनानां चतुःषष्टिं महापट्टोर्णवेष्टितम् ॥ (६०।२)

āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam ||

61.1६१.१

तेषु नागरकः कश्चित् कांश्चिद् आह स्म सस्मितम् । (६१।१)

teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam |

61.2६१.२

अहो महाखलीकारो यक्षीकामुकम् आगतः ॥ (६१।२)

aho mahākhalīkāro yakṣīkāmukam āgataḥ ||

62.1६२.१

सानुदासाभ्यनुज्ञाताः सुहृदो दत्तकादयः । (६२।१)

sānudāsābhyanujñātāḥ suhṛdo dattakādayaḥ |

62.2६२.२

समायाताश् चतुःषष्टिस् तावन्त्य् एवासनान्य् अपि ॥ (६२।२)

samāyātāś catuḥṣaṣṭis tāvanty evāsanāny api ||

63.1६३.१

यक्षीकामुकम् आलोक्य पञ्चषष्टम् अनासनम् । (६३।१)

yakṣīkāmukam ālokya pañcaṣaṣṭam anāsanam |

63.2६३.२

यत् सत्यं लज्जितो ऽस्मीति ततश् चोक्तम् ऋजुर् भवान् ॥ (६३।२)

yat satyaṃ lajjito 'smīti tataś coktam ṛjur bhavān ||

64.1६४.१

आयत्तो दत्तको यस्य सपुत्रपशुबान्धवः । (६४।१)

āyatto dattako yasya saputrapaśubāndhavaḥ |

64.2६४.२

तेन गन्धर्वदत्तापि सुलभा किम् उतासनम् ॥ (६४।२)

tena gandharvadattāpi sulabhā kim utāsanam ||

65.1६५.१

पञ्चषष्टम् अदृष्ट्वा तु निक्षिप्तं तत्र दत्तकः । (६५।१)

pañcaṣaṣṭam adṛṣṭvā tu nikṣiptaṃ tatra dattakaḥ |

65.2६५.२

दत्तवान् स्वयम् आकृष्य मह्यम् आत्मीयम् आसनम् ॥ (६५।२)

dattavān svayam ākṛṣya mahyam ātmīyam āsanam ||

66.1६६.१

ते ऽपि नागरकाः शेषाः स्थिते तिष्ठति दत्तके । (६६।१)

te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake |

66.2६६.२

तिष्ठन्ति स्म स्थिता एव भृतका इव भर्तरि ॥ (६६।२)

tiṣṭhanti sma sthitā eva bhṛtakā iva bhartari ||

67.1६७.१

अथान्यद् आसनं दत्तं दत्तकायोज्ज्वलप्रभम् । (६७।१)

athānyad āsanaṃ dattaṃ dattakāyojjvalaprabham |

67.2६७.२

स तद् अध्यास्त शेषाश् च यथासनम् उपाविशन् ॥ (६७।२)

sa tad adhyāsta śeṣāś ca yathāsanam upāviśan ||

68.1६८.१

ततस् त्रिंशच्छतं तस्माद् गणिकानां विनिर्गतम् । (६८।१)

tatas triṃśacchataṃ tasmād gaṇikānāṃ vinirgatam |

68.2६८.२

गृहाद् असुरकन्यानां महासुरपुराद् इव ॥ (६८।२)

gṛhād asurakanyānāṃ mahāsurapurād iva ||

69.1६९.१

आत्तशृङ्गारभृङ्गारा काचिद् आवर्जयज् जलम् । (६९।१)

āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam |

69.2६९.२

तासां प्रत्येकम् एकैका तेषां पादान् अधावत ॥ (६९।२)

tāsāṃ pratyekam ekaikā teṣāṃ pādān adhāvata ||

70.1७०.१

मदीयस् तु यया पादः पाणिभ्याम् अवलम्बितः । (७०।१)

madīyas tu yayā pādaḥ pāṇibhyām avalambitaḥ |

70.2७०.२

तया स्वेदजलेनैव धौतः श्लथशरीरया ॥ (७०।२)

tayā svedajalenaiva dhautaḥ ślathaśarīrayā ||

71.1७१.१

आवर्जितवती या च जलं लुलितलोचना । (७१।१)

āvarjitavatī yā ca jalaṃ lulitalocanā |

71.2७१.२

विस्रस्तहस्तया हस्ताद् भृङ्गारः पातितस् तया ॥ (७१।२)

visrastahastayā hastād bhṛṅgāraḥ pātitas tayā ||

72.1७२.१

प्रविशन् धौतपादश् च शृणोमि स्म प्रजल्पिताः । (७२।१)

praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ |

72.2७२.२

प्रांशुप्राकारगर्भस्थाः श्रुतिहारिगिरः स्त्रियः ॥ (७२।२)

prāṃśuprākāragarbhasthāḥ śrutihārigiraḥ striyaḥ ||

73.1७३.१

अनर्थो ऽयम् उपन्यस्तः सानुदासेन दारुणः । (७३।१)

anartho 'yam upanyastaḥ sānudāsena dāruṇaḥ |

73.2७३.२

शुल्कं गन्धर्वदत्ताया वीणावादननामकम् ॥ (७३।२)

śulkaṃ gandharvadattāyā vīṇāvādananāmakam ||

74.1७४.१

यदि रूपम् उपन्यस्येच् छुल्कं गृहपतिस् ततः । (७४।१)

yadi rūpam upanyasyec chulkaṃ gṛhapatis tataḥ |

74.2७४.२

न यक्षीकामुकाद् अन्यं प्राप्नुयाद् भर्तृदारिका ॥ (७४।२)

na yakṣīkāmukād anyaṃ prāpnuyād bhartṛdārikā ||

75.1७५.१

वीणायां तु प्रयुक्तायां भग्नो ऽयं नो मनोरथः । (७५।१)

vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ |

75.2७५.२

ह्यो यस्माद् भूतिकेनास्य नारदीयं कृतं किल ॥ (७५।२)

hyo yasmād bhūtikenāsya nāradīyaṃ kṛtaṃ kila ||

76.1७६.१

इदं तावन् महद् दुःखं यद् यक्षीकामुको ऽनया । (७६।१)

idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā |

76.2७६.२

अयं नासुलभीभूतः शुल्कदोषान् न लभ्यते ॥ (७६।२)

ayaṃ nāsulabhībhūtaḥ śulkadoṣān na labhyate ||

77.1७७.१

इदं तु दुःसहतरं यद् इमां बकुलावलीम् । (७७।१)

idaṃ tu duḥsahataraṃ yad imāṃ bakulāvalīm |

77.2७७.२

अनात्मज्ञो बलात् को ऽपि गले तां लम्बयिष्यति ॥ (७७।२)

anātmajño balāt ko 'pi gale tāṃ lambayiṣyati ||

78.1७८.१

वीणावादनशुल्केयं साभियोगाश् च नागराः । (७८।१)

vīṇāvādanaśulkeyaṃ sābhiyogāś ca nāgarāḥ |

78.2७८.२

प्रजापतिश् च दुर्लग्नः सर्वथा शिवम् अस्त्व् इति ॥ (७८।२)

prajāpatiś ca durlagnaḥ sarvathā śivam astv iti ||

79.1७९.१

अथ निष्कम्पकालिन्दी सलिलस्वच्छकुट्टिमाम् । (७९।१)

atha niṣkampakālindī salilasvacchakuṭṭimām |

79.2७९.२

ज्वलन्मणिशिलास्तम्भां विशालां प्राविशं सभाम् ॥ (७९।२)

jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām ||

80.1८०.१

सभा नागरकैः साभाद् भिन्नप्रभविभूषणैः । (८०।१)

sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ |

80.2८०.२

उपत्यकास्थली मेरोः फुल्लैः कल्पद्रुमैर् इव ॥ (८०।२)

upatyakāsthalī meroḥ phullaiḥ kalpadrumair iva ||

81.1८१.१

अथ हंस इवोत्सार्य नलिनीदलमण्डलम् । (८१।१)

atha haṃsa ivotsārya nalinīdalamaṇḍalam |

81.2८१.२

निर्गतः कञ्चुकी प्रेर्य तिरस्करिणिकाम्बरम् ॥ (८१।२)

nirgataḥ kañcukī prerya tiraskariṇikāmbaram ||

82.1८२.१

स नागरकसंघातम् अवोचद् विनयानतः । (८२।१)

sa nāgarakasaṃghātam avocad vinayānataḥ |

82.2८२.२

विज्ञापयति वः श्रेष्ठी स्वागतं गुणरागिणाम् ॥ (८२।२)

vijñāpayati vaḥ śreṣṭhī svāgataṃ guṇarāgiṇām ||

83.1८३.१

भवद्भिर् वर्णसम्पन्नैर् अन्तःसारैर् इदं गृहम् । (८३।१)

bhavadbhir varṇasampannair antaḥsārair idaṃ gṛham |

83.2८३.२

शातकुम्भमयैः पूतं गङ्गाम्भःकलशैर् इव ॥ (८३।२)

śātakumbhamayaiḥ pūtaṃ gaṅgāmbhaḥkalaśair iva ||

84.1८४.१

यदि सर्वे समायाता यातो वागमनश्रमः । (८४।१)

yadi sarve samāyātā yāto vāgamanaśramaḥ |

84.2८४.२

ततो गन्धर्वदत्तायै निर्देशो दीयताम् इति ॥ (८४।२)

tato gandharvadattāyai nirdeśo dīyatām iti ||

85.1८५.१

ते परस्परम् आलोक्य विद्राणवदनप्रभाः । (८५।१)

te parasparam ālokya vidrāṇavadanaprabhāḥ |

85.2८५.२

ह्रीताः सदिशम् आकाशम् अपश्यन् प्रोषितोत्तराः ॥ (८५।२)

hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ ||

86.1८६.१

ततः कञ्चुकिना वक्त्रं क्षणाद् दीनतया कृतम् । (८६।१)

tataḥ kañcukinā vaktraṃ kṣaṇād dīnatayā kṛtam |

86.2८६.२

समरे कातरस्येव सन्नचक्षुःकपोलकम् ॥ (८६।२)

samare kātarasyeva sannacakṣuḥkapolakam ||

87.1८७.१

प्रत्येकं च मुखान्य् एषाम् अवलोक्य चिरं चिरम् । (८७।१)

pratyekaṃ ca mukhāny eṣām avalokya ciraṃ ciram |

87.2८७.२

स यदा यातुम् आरब्धस् तदाहूय मयोदितः ॥ (८७।२)

sa yadā yātum ārabdhas tadāhūya mayoditaḥ ||

88.1८८.१

समाप्तप्रतिकर्मा वा कल्या वा यदि सा ततः । (८८।१)

samāptapratikarmā vā kalyā vā yadi sā tataḥ |

88.2८८.२

आगच्छतु किम् अद्यापि दृष्टैर् नागरकैर् इति ॥ (८८।२)

āgacchatu kim adyāpi dṛṣṭair nāgarakair iti ||

89.1८९.१

एतावतैव दत्तस्य तत् तादृङ्म्लानम् आननम् । (८९।१)

etāvataiva dattasya tat tādṛṅmlānam ānanam |

89.2८९.२

जातम् उच्छ्वसितं स्विन्नकपोलस्थलपीवरम् ॥ (८९।२)

jātam ucchvasitaṃ svinnakapolasthalapīvaram ||

90.1९०.१

अलपत् सानुदासस्य प्रीतः परिजनस् ततः । (९०।१)

alapat sānudāsasya prītaḥ parijanas tataḥ |

90.2९०.२

यक्षीकामुक वन्द्यो ऽसि सर्वथा शोभितं त्वया ॥ (९०।२)

yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā ||

91.1९१.१

वाङ्मात्रेणापि भवतश् चिराद् उच्छ्वसिता वयम् । (९१।१)

vāṅmātreṇāpi bhavataś cirād ucchvasitā vayam |

91.2९१.२

अवग्रहे हि जीमूतो विस्फूर्जन्न् अपि शोभते ॥ (९१।२)

avagrahe hi jīmūto visphūrjann api śobhate ||

92.1९२.१

तद् एवं यादृशं रूपं यादृशी चातिधीरता । (९२।१)

tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā |

92.2९२.२

तादृशं यदि विज्ञानं भवेत् किं न भवेद् इति ॥ (९२।२)

tādṛśaṃ yadi vijñānaṃ bhavet kiṃ na bhaved iti ||

93.1९३.१

एको नागरकश् चैकम् अवोचद् दर्शितस्मितः । (९३।१)

eko nāgarakaś caikam avocad darśitasmitaḥ |

93.2९३.२

उद्दामितमुखा लोके सुखं जीवन्ति निस्त्रपाः ॥ (९३।२)

uddāmitamukhā loke sukhaṃ jīvanti nistrapāḥ ||

94.1९४.१

को हि वेदजडं मुक्त्वा छान्दसं छात्त्रम् अत्रपम् । (९४।१)

ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam |

94.2९४.२

मध्ये महामनुष्याणाम् एवम् उद्दामयेन् मुखम् ॥ (९४।२)

madhye mahāmanuṣyāṇām evam uddāmayen mukham ||

95.1९५.१

यक्षीकामुकशब्दो ऽपि शब्द एवास्य केवलम् । (९५।१)

yakṣīkāmukaśabdo 'pi śabda evāsya kevalam |

95.2९५.२

क्व च प्रियगुणा यक्षी गुणर्द्धिः क्व चेदृशः ॥ (९५।२)

kva ca priyaguṇā yakṣī guṇarddhiḥ kva cedṛśaḥ ||

96.1९६.१

यत् किंचिद् अपि बालानां चेतस्तोषाय कल्पते । (९६।१)

yat kiṃcid api bālānāṃ cetastoṣāya kalpate |

96.2९६.२

उत्कटेन हि नाम्नापि प्रायस् तुष्यन्ति डिण्डिकाः ॥ (९६।२)

utkaṭena hi nāmnāpi prāyas tuṣyanti ḍiṇḍikāḥ ||

97.1९७.१

श्रुत्वेदम् इतरेणोक्तं मा स्म निन्दद् भवान् इमम् । (९७।१)

śrutvedam itareṇoktaṃ mā sma nindad bhavān imam |

97.2९७.२

को जानाति मनुष्याणां चरितं गूढचारिणाम् ॥ (९७।२)

ko jānāti manuṣyāṇāṃ caritaṃ gūḍhacāriṇām ||

98.1९८.१

यक्षीकान्तः प्रकृष्टेन धार्ष्ट्येनाज्ञापयन्न् अपि । (९८।१)

yakṣīkāntaḥ prakṛṣṭena dhārṣṭyenājñāpayann api |

98.2९८.२

यथा परिचितश्रीकस् तथा मां प्रति शोभते ॥ (९८।२)

yathā paricitaśrīkas tathā māṃ prati śobhate ||

99.1९९.१

ततो जवनिकां प्रेर्य कन्या कञ्चुकिभिर् वृता । (९९।१)

tato javanikāṃ prerya kanyā kañcukibhir vṛtā |

99.2९९.२

देवी गन्धर्वदत्तागाद् अभिभूतसभाप्रभा ॥ (९९।२)

devī gandharvadattāgād abhibhūtasabhāprabhā ||

100.1१००.१

कथयामि कथं रूपं तस्याः संक्षिप्तम् उच्यते । (१००।१)

kathayāmi kathaṃ rūpaṃ tasyāḥ saṃkṣiptam ucyate |

100.2१००.२

प्रव्रज्याम् आस्थिता नूनम् इदानीम् अप्सरोगणाः ॥ (१००।२)

pravrajyām āsthitā nūnam idānīm apsarogaṇāḥ ||

101.1१०१.१

कल्पितं च सभामध्ये पद्मरागशिलामयम् । (१०१।१)

kalpitaṃ ca sabhāmadhye padmarāgaśilāmayam |

101.2१०१.२

चन्द्रलेखेव संध्याभ्रम् अध्यास्त चतुरन्तकम् ॥ (१०१।२)

candralekheva saṃdhyābhram adhyāsta caturantakam ||

102.1१०२.१

तेजसो ऽभिभवात् तस्याः संकुचन्ति स्म नागराः । (१०२।१)

tejaso 'bhibhavāt tasyāḥ saṃkucanti sma nāgarāḥ |

102.2१०२.२

बालायाः शशिलेखायाः पुण्डरीकाकरा इव ॥ (१०२।२)

bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva ||

103.1१०३.१

साथ प्रज्ञावचःशून्यां रूपमात्रकशालिनीम् । (१०३।१)

sātha prajñāvacaḥśūnyāṃ rūpamātrakaśālinīm |

103.2१०३.२

परिभूतवती गोष्ठीं सभास्तम्भावलीम् इव ॥ (१०३।२)

paribhūtavatī goṣṭhīṃ sabhāstambhāvalīm iva ||

104.1१०४.१

अथ दक्षिणम् उत्क्षिप्य करं कञ्चुकिनोदितम् । (१०४।१)

atha dakṣiṇam utkṣipya karaṃ kañcukinoditam |

104.2१०४.२

श्रूयतां श्रेष्ठिनो वाक्यं भो नागरककुञ्जराः ॥ (१०४।२)

śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ ||

105.1१०५.१

आस्ते गन्धर्वदत्तेयम् इयं वीणा च सारिता । (१०५।१)

āste gandharvadatteyam iyaṃ vīṇā ca sāritā |

105.2१०५.२

यो वो वादयितुं शक्तः स किं तिष्ठति ढौकताम् ॥ (१०५।२)

yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām ||

106.1१०६.१

अशेषैर् न च कर्तव्या परिपाटिर् अपार्थिका । (१०६।१)

aśeṣair na ca kartavyā paripāṭir apārthikā |

106.2१०६.२

सा हि युष्माकम् अस्याश् च लज्जाखेदप्रयोजना ॥ (१०६।२)

sā hi yuṣmākam asyāś ca lajjākhedaprayojanā ||

107.1१०७.१

ततः स्वयं भवद्भिश् च यस्मिन् वो भावनाहिता । (१०७।१)

tataḥ svayaṃ bhavadbhiś ca yasmin vo bhāvanāhitā |

107.2१०७.२

युष्मान् आत्मानम् एतां च स क्लेशान् मोचयत्व् इति ॥ (१०७।२)

yuṣmān ātmānam etāṃ ca sa kleśān mocayatv iti ||

108.1१०८.१

अथ नागरकाः सर्वे वीणादत्तकम् अब्रुवन् । (१०८।१)

atha nāgarakāḥ sarve vīṇādattakam abruvan |

108.2१०८.२

त्वं नः पूज्यः प्रवीणश् च तस्माद् उत्थीयताम् इति ॥ (१०८।२)

tvaṃ naḥ pūjyaḥ pravīṇaś ca tasmād utthīyatām iti ||

109.1१०९.१

स यदा कम्पितशिरा नेच्छति स्म तदापरः । (१०९।१)

sa yadā kampitaśirā necchati sma tadāparaḥ |

109.2१०९.२

संभाविततमस् तेषां गत्वा वीणाम् अवादयत् ॥ (१०९।२)

saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat ||

110.1११०.१

तस्मिन् दोषैर् असंकीर्णान् गुणान् मधुरतोत्तरान् । (११०।१)

tasmin doṣair asaṃkīrṇān guṇān madhuratottarān |

110.2११०.२

सम्पादयति शब्दो ऽभूद् उच्चकैः साधु साध्व् इति ॥ (११०।२)

sampādayati śabdo 'bhūd uccakaiḥ sādhu sādhv iti ||

111.1१११.१

ततो गन्धर्वदत्तायां प्रगीतायाम् अभून् मम । (१११।१)

tato gandharvadattāyāṃ pragītāyām abhūn mama |

111.2१११.२

अरे ज्ञातं मयेदानीं तेनैवामी वृथाश्रमाः ॥ (१११।२)

are jñātaṃ mayedānīṃ tenaivāmī vṛthāśramāḥ ||

112.1११२.१

पुरा वामनरूपेण बलिं छलयता किल । (११२।१)

purā vāmanarūpeṇa baliṃ chalayatā kila |

112.2११२.२

त्रिपिष्टपं त्रिभिः क्रान्तं विक्रमैश् चक्रपाणिना ॥ (११२।२)

tripiṣṭapaṃ tribhiḥ krāntaṃ vikramaiś cakrapāṇinā ||

113.1११३.१

तं च विश्वावसुर् नाम गन्धर्वगणसेवितः । (११३।१)

taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ |

113.2११३.२

क्रामन्तं गगनं वेगात् त्रिश् चकार प्रदक्षिणम् ॥ (११३।२)

krāmantaṃ gaganaṃ vegāt triś cakāra pradakṣiṇam ||

114.1११४.१

तेन च स्वयम् उत्पाद्य स्तुवता गरुडध्वजम् । (११४।१)

tena ca svayam utpādya stuvatā garuḍadhvajam |

114.2११४.२

नारायणस्तुतिं नाम गीतं गीतकम् अद्भुतम् ॥ (११४।२)

nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam ||

115.1११५.१

नारदेन ततः प्राप्तं नारदाद् वृत्रशत्रुणा । (११५।१)

nāradena tataḥ prāptaṃ nāradād vṛtraśatruṇā |

115.2११५.२

अर्जुनेन ततस् तस्माद् विराटसुतया किल ॥ (११५।२)

arjunena tatas tasmād virāṭasutayā kila ||

116.1११६.१

परीक्षित् प्राप्नुयान् मातुस् ततो ऽपि जनमेजयः । (११६।१)

parīkṣit prāpnuyān mātus tato 'pi janamejayaḥ |

116.2११६.२

इति क्रमागतं तातस् ताताद् आगमितं मया ॥ (११६।२)

iti kramāgataṃ tātas tātād āgamitaṃ mayā ||

117.1११७.१

गान्धारग्रामसम्बद्धं क्व गान्धारः क्व मानुषाः । (११७।१)

gāndhāragrāmasambaddhaṃ kva gāndhāraḥ kva mānuṣāḥ |

117.2११७.२

स्वर्गान् नान्यत्र गान्धार इत्य् आहुर् नारदादयः ॥ (११७।२)

svargān nānyatra gāndhāra ity āhur nāradādayaḥ ||

118.1११८.१

तेन यो ऽयं न जानाति न चेद् अभ्युपगच्छति । (११८।१)

tena yo 'yaṃ na jānāti na ced abhyupagacchati |

118.2११८.२

तद् असंपादयन्न् एव जायते दोषवान् असौ ॥ (११८।२)

tad asaṃpādayann eva jāyate doṣavān asau ||

119.1११९.१

अहं पुनर् इदं जानन् सद्यः परिणमत्फलम् । (११९।१)

ahaṃ punar idaṃ jānan sadyaḥ pariṇamatphalam |

119.2११९.२

पुरो नागरकाणां च यथासामर्थ्यम् उत्सहे ॥ (११९।२)

puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe ||

120.1१२०.१

मयि संकल्पयत्य् एवम् असौ नागरकर्षभः । (१२०।१)

mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ |

120.2१२०.२

स्मयमानो विलक्ष्यत्वात् स्वम् एवाभजतासनम् ॥ (१२०।२)

smayamāno vilakṣyatvāt svam evābhajatāsanam ||

121.1१२१.१

ततः प्रतिहते तस्मिन् सुहृद्मण्डलमण्डने । (१२१।१)

tataḥ pratihate tasmin suhṛdmaṇḍalamaṇḍane |

121.2१२१.२

रङ्गो भङ्गम् अगृह्णात् स निगृह्यज्येष्ठमल्लवत् ॥ (१२१।२)

raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat ||

122.1१२२.१

अथ मां जनितोत्साहम् उत्तिष्ठासन्तम् आसनात् । (१२२।१)

atha māṃ janitotsāham uttiṣṭhāsantam āsanāt |

122.2१२२.२

दृष्ट्वा संभाविताज्ञानं लज्जयाग्राहि दत्तकः ॥ (१२२।२)

dṛṣṭvā saṃbhāvitājñānaṃ lajjayāgrāhi dattakaḥ ||

123.1१२३.१

अन्येन च निमित्तेन चलितो ऽहं किलासनात् । (१२३।१)

anyena ca nimittena calito 'haṃ kilāsanāt |

123.2१२३.२

तेनोक्तं संकटास्थानाद् अन्यत्र स्थीयताम् इति ॥ (१२३।२)

tenoktaṃ saṃkaṭāsthānād anyatra sthīyatām iti ||

124.1१२४.१

ततस् तम् उक्तवान् अस्मि किम् इदं न त्वया श्रुतम् । (१२४।१)

tatas tam uktavān asmi kim idaṃ na tvayā śrutam |

124.2१२४.२

पथा सकृत् प्रवृत्तायाः किं करोत्य् अवगुण्ठनम् ॥ (१२४।२)

pathā sakṛt pravṛttāyāḥ kiṃ karoty avaguṇṭhanam ||

125.1१२५.१

प्रविष्टो ऽहं सुहृद्गोष्ठीं यथैव बटुचापलात् । (१२५।१)

praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt |

125.2१२५.२

तथा गन्धर्वदत्तापि धृष्टम् आज्ञापिता मया ॥ (१२५।२)

tathā gandharvadattāpi dhṛṣṭam ājñāpitā mayā ||

126.1१२६.१

तद् अस्या बटुविद्यायाः प्रान्तम् अप्राप्य मादृशः । (१२६।१)

tad asyā baṭuvidyāyāḥ prāntam aprāpya mādṛśaḥ |

126.2१२६.२

हा कष्टं वञ्चितो ऽस्मीति पश्चात् तापेन खेद्यते ॥ (१२६।२)

hā kaṣṭaṃ vañcito 'smīti paścāt tāpena khedyate ||

127.1१२७.१

यत्र चामी न लज्जन्ते सलज्जाः सुहृदस् तव । (१२७।१)

yatra cāmī na lajjante salajjāḥ suhṛdas tava |

127.2१२७.२

तत्र निर्लज्जताश्लाघी लज्जयैव हि लज्जते ॥ (१२७।२)

tatra nirlajjatāślāghī lajjayaiva hi lajjate ||

128.1१२८.१

समर्थयति मय्य् एवं दत्तको ऽपि निरुत्तरः । (१२८।१)

samarthayati mayy evaṃ dattako 'pi niruttaraḥ |

128.2१२८.२

अहो साहसम् इत्य् उक्त्वा तूष्णींभावम् उपेयिवान् ॥ (१२८।२)

aho sāhasam ity uktvā tūṣṇīṃbhāvam upeyivān ||

129.1१२९.१

अहम् अप्य् आसनं त्यक्त्वा तिर्यक् पश्यति दत्तके । (१२९।१)

aham apy āsanaṃ tyaktvā tiryak paśyati dattake |

129.2१२९.२

पार्श्वे गन्धर्वदत्ताया दत्तम् आसनम् आस्थितः ॥ (१२९।२)

pārśve gandharvadattāyā dattam āsanam āsthitaḥ ||

130.1१३०.१

अथ कञ्चुकिनानीतां वीणां दृष्ट्वाहम् उक्तवान् । (१३०।१)

atha kañcukinānītāṃ vīṇāṃ dṛṣṭvāham uktavān |

130.2१३०.२

अपरानीयताम् आर्य नैतां स्पृशति मादृशः ॥ (१३०।२)

aparānīyatām ārya naitāṃ spṛśati mādṛśaḥ ||

131.1१३१.१

उदरं दृष्टम् एतस्या लूतातन्तुनिरन्तरम् । (१३१।१)

udaraṃ dṛṣṭam etasyā lūtātantunirantaram |

131.2१३१.२

जडतां गमिता येन पटुतन्त्रीपरंपरा ॥ (१३१।२)

jaḍatāṃ gamitā yena paṭutantrīparaṃparā ||

132.1१३२.१

स्मितदर्शितदन्ताग्रैर् अन्यतः क्षिप्तदृष्टिभिः । (१३२।१)

smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ |

132.2१३२.२

माम् आलोक्य तथाभूतम् उक्तं नागरकैर् इति ॥ (१३२।२)

mām ālokya tathābhūtam uktaṃ nāgarakair iti ||

133.1१३३.१

ब्राह्मणः पूज्यताम् एष निर्लज्जाग्रपताकया । (१३३।१)

brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā |

133.2१३३.२

येन साहसम् आरब्धं स्वगुणाख्यापनोपमम् ॥ (१३३।२)

yena sāhasam ārabdhaṃ svaguṇākhyāpanopamam ||

134.1१३४.१

तन्त्रीकिणकठोराग्रा विशीर्णकरजातताः । (१३४।१)

tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ |

134.2१३४.२

करशाखाश् च नो जाता न च संभावनेदृशी ॥ (१३४।२)

karaśākhāś ca no jātā na ca saṃbhāvanedṛśī ||

135.1१३५.१

अयं तु कोमलाग्राभिस् तन्त्रीर् अङ्गुलिभिः स्पृशन् । (१३५।१)

ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan |

135.2१३५.२

कदा वादयिता वीणां वेदवेदाङ्गपारगः ॥ (१३५।२)

kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ ||

136.1१३६.१

सर्वथायम् अभिप्रायो मयैतस्योपलक्षितः । (१३६।१)

sarvathāyam abhiprāyo mayaitasyopalakṣitaḥ |

136.2१३६.२

प्रीतिम् उत्पादयिष्यामि तावल् लोचनयोर् इति ॥ (१३६।२)

prītim utpādayiṣyāmi tāval locanayor iti ||

137.1१३७.१

यावद् उत्सार्यते वीणा यावच् चानीयते ऽपरा । (१३७।१)

yāvad utsāryate vīṇā yāvac cānīyate 'parā |

137.2१३७.२

तावद् गन्धर्वदत्ताया रूपं पश्याम्य् अवारितः ॥ (१३७।२)

tāvad gandharvadattāyā rūpaṃ paśyāmy avāritaḥ ||

138.1१३८.१

रथ्याचत्वरयात्रासु वक्ष्यामि जनसंनिधौ । (१३८।१)

rathyācatvarayātrāsu vakṣyāmi janasaṃnidhau |

138.2१३८.२

ईदृशी तादृशी दृष्टा रूपिणी युवतिर् मया ॥ (१३८।२)

īdṛśī tādṛśī dṛṣṭā rūpiṇī yuvatir mayā ||

139.1१३९.१

लूतातन्तुततं चायं वीणाकर्परम् आह यत् । (१३९।१)

lūtātantutataṃ cāyaṃ vīṇākarparam āha yat |

139.2१३९.२

किं तत् सत्यं मृषेत्य् एतद् देवैर् विज्ञायताम् इति ॥ (१३९।२)

kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti ||

140.1१४०.१

उद्वेष्टिते च तत् तस्मिन् दृष्टं वेष्टनचर्मणि । (१४०।१)

udveṣṭite ca tat tasmin dṛṣṭaṃ veṣṭanacarmaṇi |

140.2१४०.२

तन्तुचक्रं भयोद्भ्रान्तलूतामण्डलसंकुलम् ॥ (१४०।२)

tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam ||

141.1१४१.१

अथ गन्धर्वदत्ताया जातम् अङ्गं निरीक्ष्य माम् । (१४१।१)

atha gandharvadattāyā jātam aṅgaṃ nirīkṣya mām |

141.2१४१.२

वेपथुस्वेदरोमाञ्चलज्जाविधुरम् आकुलम् ॥ (१४१।२)

vepathusvedaromāñcalajjāvidhuram ākulam ||

142.1१४२.१

अपरापि मया वीणा समास्फाल्य पटुक्वणा । (१४२।१)

aparāpi mayā vīṇā samāsphālya paṭukvaṇā |

142.2१४२.२

केशदूषिततन्त्रीका प्रथमेव विवर्जिता ॥ (१४२।२)

keśadūṣitatantrīkā prathameva vivarjitā ||

143.1१४३.१

सानुदासस् ततो वीणां सुगन्धिकुसुमार्चिताम् । (१४३।१)

sānudāsas tato vīṇāṃ sugandhikusumārcitām |

143.2१४३.२

कच्छपाकारफलकाम् आदाय स्वयम् आगतः ॥ (१४३।२)

kacchapākāraphalakām ādāya svayam āgataḥ ||

144.1१४४.१

मां च प्रदक्षिणीकृत्य सविकारतनूरुहः । (१४४।१)

māṃ ca pradakṣiṇīkṛtya savikāratanūruhaḥ |

144.2१४४.२

गन्धर्वदत्ताम् इव ताम् अददात् सुभगस्वनाम् ॥ (१४४।२)

gandharvadattām iva tām adadāt subhagasvanām ||

145.1१४५.१

मया तु धौतपादेन वीणां कृत्वा प्रदक्षिणाम् । (१४५।१)

mayā tu dhautapādena vīṇāṃ kṛtvā pradakṣiṇām |

145.2१४५.२

अभुक्ताम्बरसंवीतं पीठपृष्ठम् अधिष्ठितम् ॥ (१४५।२)

abhuktāmbarasaṃvītaṃ pīṭhapṛṣṭham adhiṣṭhitam ||

146.1१४६.१

मनाक् संस्पृष्टमात्राश् च करशाखामुखैः स्वयम् । (१४६।१)

manāk saṃspṛṣṭamātrāś ca karaśākhāmukhaiḥ svayam |

146.2१४६.२

तन्त्रीबन्धा यथास्थानम् असरन् धैवतादिकम् ॥ (१४६।२)

tantrībandhā yathāsthānam asaran dhaivatādikam ||

147.1१४७.१

ततस् तन्त्रीषु गान्धारे जृम्भमानासु मन्थरम् । (१४७।१)

tatas tantrīṣu gāndhāre jṛmbhamānāsu mantharam |

147.2१४७.२

गन्धर्वदत्ताम् अवदं भीरु संगीयताम् इति ॥ (१४७।२)

gandharvadattām avadaṃ bhīru saṃgīyatām iti ||

148.1१४८.१

सा प्रगल्भापि गान्धारम् आकर्ण्यामरगोचरम् । (१४८।१)

sā pragalbhāpi gāndhāram ākarṇyāmaragocaram |

148.2१४८.२

तथा च धृष्टम् आदिष्टा बालाशालीनतां गता ॥ (१४८।२)

tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā ||

149.1१४९.१

तां च प्रवर्तयन् भीतां त्रपाजनितमूकताम् । (१४९।१)

tāṃ ca pravartayan bhītāṃ trapājanitamūkatām |

149.2१४९.२

तद् एव गीतकं दिव्यम् अहं मन्दम् अवादयम् ॥ (१४९।२)

tad eva gītakaṃ divyam ahaṃ mandam avādayam ||

150.1१५०.१

हृते तस्यास् त्रपासेनौ संदर्शितपथा यथा । (१५०।१)

hṛte tasyās trapāsenau saṃdarśitapathā yathā |

150.2१५०.२

लोकं पावयितुं पुण्या प्रावर्तत सरस्वती ॥ (१५०।२)

lokaṃ pāvayituṃ puṇyā prāvartata sarasvatī ||

151.1१५१.१

वृत्तिभिर् दक्षिणाद्याभिस् तद् गीतं गीतकं तया । (१५१।१)

vṛttibhir dakṣiṇādyābhis tad gītaṃ gītakaṃ tayā |

151.2१५१.२

उपर्य् उपरि पाण्यन्तैः पाणिभिर् योजितं मया ॥ (१५१।२)

upary upari pāṇyantaiḥ pāṇibhir yojitaṃ mayā ||

152.1१५२.१

आसीद् इदं तमोभूतम् अप्रज्ञातम् अलक्षणम् । (१५२।१)

āsīd idaṃ tamobhūtam aprajñātam alakṣaṇam |

152.2१५२.२

तद्गीतमात्रविषयश्रोत्रमात्रजगत् तदा ॥ (१५२।२)

tadgītamātraviṣayaśrotramātrajagat tadā ||

153.1१५३.१

सभायां गाढमूर्च्छायां मृदु तद् गीतवादिनम् । (१५३।१)

sabhāyāṃ gāḍhamūrcchāyāṃ mṛdu tad gītavādinam |

153.2१५३.२

पटुभिर् दुन्दुभिध्वानैर् अभिभूतं विमानिनाम् ॥ (१५३।२)

paṭubhir dundubhidhvānair abhibhūtaṃ vimāninām ||

154.1१५४.१

पतितासु सरत्नासु दिवः कुसुमवृष्टिषु । (१५४।१)

patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu |

154.2१५४.२

कञ्चुकी चेतनाप्राप्तान् अभाषत सभासदः ॥ (१५४।२)

kañcukī cetanāprāptān abhāṣata sabhāsadaḥ ||

155.1१५५.१

भो भो निर्मत्सराः सन्तः सत्यम् आख्यात साधवः । (१५५।१)

bho bho nirmatsarāḥ santaḥ satyam ākhyāta sādhavaḥ |

155.2१५५.२

गीतं यद् अनयानेन किं तत् संवादितं न हि ॥ (१५५।२)

gītaṃ yad anayānena kiṃ tat saṃvāditaṃ na hi ||

156.1१५६.१

अथोद्यमितहस्तैस् तैः समस्तैर् उक्तम् उच्चकैः । (१५६।१)

athodyamitahastais taiḥ samastair uktam uccakaiḥ |

156.2१५६.२

धर्म्यशुल्कार्जिताम् एष कन्यकां लभताम् इति ॥ (१५६।२)

dharmyaśulkārjitām eṣa kanyakāṃ labhatām iti ||

157.1१५७.१

तिरस्करिणिकां नीत्वा ततः कञ्चुकिनान्तरा । (१५७।१)

tiraskariṇikāṃ nītvā tataḥ kañcukināntarā |

157.2१५७.२

बहिष्कृता नागरका नास्तिकास् त्रिदिवाद् इव ॥ (१५७।२)

bahiṣkṛtā nāgarakā nāstikās tridivād iva ||

158.1१५८.१

निर्गच्छन्ति हतच्छायास् ते खण्डितमनोरथाः । (१५८।१)

nirgacchanti hatacchāyās te khaṇḍitamanorathāḥ |

158.2१५८.२

स्वभ्यस्तगुणवैफल्यं गुणिनः कान् न तापयेत् ॥ (१५८।२)

svabhyastaguṇavaiphalyaṃ guṇinaḥ kān na tāpayet ||

159.1१५९.१

सवीणादत्तको ऽहं तु श्रेष्ठिनाभ्यन्तरीकृतः । (१५९।१)

savīṇādattako 'haṃ tu śreṣṭhinābhyantarīkṛtaḥ |

159.2१५९.२

परीक्ष्य बहुशो राज्ञा सचिवो गुणवान् इव ॥ (१५९।२)

parīkṣya bahuśo rājñā sacivo guṇavān iva ||

160.1१६०.१

अभाषत च निर्गच्छंस् तेषु नागरकर्षभः । (१६०।१)

abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ |

160.2१६०.२

यक्षीकामुक देवस् त्वम् अमानुषपराक्रमः ॥ (१६०।२)

yakṣīkāmuka devas tvam amānuṣaparākramaḥ ||

161.1१६१.१

वयं गन्धर्वदत्ता च सानुदासश् च सानुगः । (१६१।१)

vayaṃ gandharvadattā ca sānudāsaś ca sānugaḥ |

161.2१६१.२

कृच्छ्राम् आपदम् आपन्ना लीलयैव त्वयोद्धृताः ॥ (१६१।२)

kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ ||

162.1१६२.१

काश्मर्यः खदिराः शाकाश् चम्पकाश् च सवेणवः । (१६२।१)

kāśmaryaḥ khadirāḥ śākāś campakāś ca saveṇavaḥ |

162.2१६२.२

आतोद्याङ्गार्थम् उत्खाताः प्ररोहन्तु यथा पुरा ॥ (१६२।२)

ātodyāṅgārtham utkhātāḥ prarohantu yathā purā ||

163.1१६३.१

अग्निहोत्राणि हूयन्तां द्विजाः संध्याम् उपासताम् । (१६३।१)

agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām |

163.2१६३.२

कुमार्यः परिणीयन्तां प्रसूयन्तां कुलस्त्रियः ॥ (१६३।२)

kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ ||

164.1१६४.१

परिव्राजकनिर्ग्रन्थभिक्षुपाशुपतादयः । (१६४।१)

parivrājakanirgranthabhikṣupāśupatādayaḥ |

164.2१६४.२

गुरुवक्त्राभिसंक्रान्तान् स्वसिद्धान्तान् अधीयताम् ॥ (१६४।२)

guruvaktrābhisaṃkrāntān svasiddhāntān adhīyatām ||

165.1१६५.१

शान्तवीणोपसर्गत्वात् सकीरनगराः सुखम् । (१६५।१)

śāntavīṇopasargatvāt sakīranagarāḥ sukham |

165.2१६५.२

सचम्पामगधाश् चाङ्गाः स्वस्थाङ्गाः शेरताम् इति ॥ (१६५।२)

sacampāmagadhāś cāṅgāḥ svasthāṅgāḥ śeratām iti ||

166.1१६६.१

ततो गृहपतिर् दीनः प्रार्थनाभङ्गशङ्कया । (१६६।१)

tato gṛhapatir dīnaḥ prārthanābhaṅgaśaṅkayā |

166.2१६६.२

वीणादत्तकम् आलोक्य प्रावोचन् नीचकैस्तराम् ॥ (१६६।२)

vīṇādattakam ālokya prāvocan nīcakaistarām ||

167.1१६७.१

प्रशस्तं दिनम् अद्यैवं तेनायं पौरुषार्जितः । (१६७।१)

praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ |

167.2१६७.२

श्लाघ्यो गन्धर्वदत्तायाः करः संस्क्रियताम् इति ॥ (१६७।२)

ślāghyo gandharvadattāyāḥ karaḥ saṃskriyatām iti ||

168.1१६८.१

अहं तु साभिलाषो ऽपि दर्शितालीकधीर् अतः । (१६८।१)

ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ |

168.2१६८.२

अवोचं स्मितसंकीर्णाम् अनास्थामन्थरां गिरम् ॥ (१६८।२)

avocaṃ smitasaṃkīrṇām anāsthāmantharāṃ giram ||

169.1१६९.१

द्विजो ऽहं मेरुकैलासतुल्यामलकुलोद्भवः । (१६९।१)

dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ |

169.2१६९.२

परिणेतुं न मे युक्तम् असवर्णाम् इमाम् इति ॥ (१६९।२)

pariṇetuṃ na me yuktam asavarṇām imām iti ||

170.1१७०.१

अथोक्तं सानुदासेन विश्रब्धं परिणीयताम् । (१७०।१)

athoktaṃ sānudāsena viśrabdhaṃ pariṇīyatām |

170.2१७०.२

युष्माकं हि सवर्णेयम् उत्कृष्टा वा भवेद् इति ॥ (१७०।२)

yuṣmākaṃ hi savarṇeyam utkṛṣṭā vā bhaved iti ||

171.1१७१.१

आसीच् च मम किं मत्तः किम् उन्मत्तः किम् आर्जवः । (१७१।१)

āsīc ca mama kiṃ mattaḥ kim unmattaḥ kim ārjavaḥ |

171.2१७१.२

अयं यस्माद् असंबद्धम् अबुद्धिर् इव भाषते ॥ (१७१।२)

ayaṃ yasmād asaṃbaddham abuddhir iva bhāṣate ||

172.1१७२.१

अहं चेयं च यद्य् अस्य ब्राह्मणाव् इति निश्चयः । (१७२।१)

ahaṃ ceyaṃ ca yady asya brāhmaṇāv iti niścayaḥ |

172.2१७२.२

ततो मत् कथम् उत्कृष्टा ब्राह्मणी ब्राह्मणाद् इयम् ॥ (१७२।२)

tato mat katham utkṛṣṭā brāhmaṇī brāhmaṇād iyam ||

173.1१७३.१

अथ इमां ब्राह्मणीम् एष मन्यते क्षत्रियं तु माम् । (१७३।१)

atha imāṃ brāhmaṇīm eṣa manyate kṣatriyaṃ tu mām |

173.2१७३.२

तथा सति कथाप्य् एषा क्रियमाणा विरुध्यते ॥ (१७३।२)

tathā sati kathāpy eṣā kriyamāṇā virudhyate ||

174.1१७४.१

किं तु संभाव्यते नायम् असंबद्धं प्रभाषितुम् । (१७४।१)

kiṃ tu saṃbhāvyate nāyam asaṃbaddhaṃ prabhāṣitum |

174.2१७४.२

येन धर्मार्थशास्त्रार्थक्षुण्णधीर् इव भाषते ॥ (१७४।२)

yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate ||

175.1१७५.१

अग्रजो ऽवरजां भार्यां स्वीकुर्वन् न प्रदुष्यति । (१७५।१)

agrajo 'varajāṃ bhāryāṃ svīkurvan na praduṣyati |

175.2१७५.२

ते च स्वा चैव नृपतेर् इत्य् उक्तं मनुना यतः ॥ (१७५।२)

te ca svā caiva nṛpater ity uktaṃ manunā yataḥ ||

176.1१७६.१

प्रत्याख्यानं च नितराम् इयं नार्हति निन्दितम् । (१७६।१)

pratyākhyānaṃ ca nitarām iyaṃ nārhati ninditam |

176.2१७६.२

यस्माद् अखण्डिताज्ञेन दापिता गुरुणैव मे ॥ (१७६।२)

yasmād akhaṇḍitājñena dāpitā guruṇaiva me ||

177.1१७७.१

यद् अहं ग्राहितस् तेन विज्ञानम् अतिमानुषम् । (१७७।१)

yad ahaṃ grāhitas tena vijñānam atimānuṣam |

177.2१७७.२

दापिता येन तेनैव तेन तेनैव दापिता ॥ (१७७।२)

dāpitā yena tenaiva tena tenaiva dāpitā ||

178.1१७८.१

न चावश्यपरिग्राह्या कुमारी चिरम् अर्हति । (१७८।१)

na cāvaśyaparigrāhyā kumārī ciram arhati |

178.2१७८.२

साभिलाषा विशेषेण प्रत्याख्यानकदर्थनाम् ॥ (१७८।२)

sābhilāṣā viśeṣeṇa pratyākhyānakadarthanām ||

179.1१७९.१

तस्माद् अलं ममानेन निर्बन्धेनेति निश्चितम् । (१७९।१)

tasmād alaṃ mamānena nirbandheneti niścitam |

179.2१७९.२

अर्थितां सानुदासस्य तथेति सममानयम् ॥ (१७९।२)

arthitāṃ sānudāsasya tatheti samamānayam ||

180.1१८०.१

अथ वैश्रवणस्येव सूनोराखण्डलात्मजः । (१८०।१)

atha vaiśravaṇasyeva sūnorākhaṇḍalātmajaḥ |

180.2१८०.२

करं गन्धर्वदत्तायाः ससंस्कारम् उपाददे ॥ (१८०।२)

karaṃ gandharvadattāyāḥ sasaṃskāram upādade ||

181.1१८१.१

मन्दं पादतलेन तालम् अनया यत् कुट्टयन्त्याचिरं गीतं माम् अभि विस्फुरत्कुहरितं तारैः सुभुग्नभ्रुवा । (१८१।१)

mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā |

181.2१८१.२

तेनैव प्रतनूकृताम् अपहरन्न् अस्याः क्रमेण त्रपां निर्वाणान् महतान्तरेण सुभगं संसारम् अज्ञासिषम् ॥ (१८१।२)

tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 17

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit