बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha
Chapter 22
Select a line for its word-by-word analysis.
ततः किंचिद् विहस्योक्तः परिव्राड् ब्रह्मचारिणा । (१।१)
tataḥ kiṃcid vihasyoktaḥ parivrāḍ brahmacāriṇā |
यथा पुरुषकारस्य प्राधान्यं तन् निशाम्यताम् ॥ (१।२)
yathā puruṣakārasya prādhānyaṃ tan niśāmyatām ||
यूयं ये वा यतस् त्या वा तन् नः प्रत्युच्यताम् इति ॥ (५।२)
yūyaṃ ye vā yatas tyā vā tan naḥ pratyucyatām iti ||
भवन्तः के कुतो वेति ततः सो ऽपि न्यवेदयत् ॥ (६।२)
bhavantaḥ ke kuto veti tataḥ so 'pi nyavedayat ||
प्रीतिर् नः स्थिरतां यायाद् यथा संपाद्यतां तथा ॥ (९।२)
prītir naḥ sthiratāṃ yāyād yathā saṃpādyatāṃ tathā ||
भार्यायां गुरुगर्भायां निरगच्छम् अहं गृहात् । (१०।१)
bhāryāyāṃ gurugarbhāyāṃ niragaccham ahaṃ gṛhāt |
तस्याश् च दिवसिर् एभिर् जातम् अन्यतरद् द्वयोः ॥ (१०।२)
tasyāś ca divasir ebhir jātam anyatarad dvayoḥ ||
दुहिता चेत् ततो दत्ता भवत्पुत्राय सा मया । (११।१)
duhitā cet tato dattā bhavatputrāya sā mayā |
पुत्रश् चेत् त्वं ततस् तस्मै दद्याः स्वतनयाम् इति ॥ (११।२)
putraś cet tvaṃ tatas tasmai dadyāḥ svatanayām iti ||
तेनोक्तं महद् आश्चर्यम् इयम् एव हि नो मतिः । (१२।१)
tenoktaṃ mahad āścaryam iyam eva hi no matiḥ |
अथवा किम् इहाश्चर्यम् एकम् एवावयोर् वपुः ॥ (१२।२)
athavā kim ihāścaryam ekam evāvayor vapuḥ ||
महामहिषसार्थाभ्यां यथास्थानम् अगच्छताम् ॥ (१३।२)
mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām ||
तत्प्रयुक्तातिसत्कारौ ययतुः स्वगृहान् प्रति ॥ (१४।२)
tatprayuktātisatkārau yayatuḥ svagṛhān prati ||
तत्र सत्क्रियमाणौ च सत्कुर्वाणौ च संततम् । (१५।१)
tatra satkriyamāṇau ca satkurvāṇau ca saṃtatam |
बन्धुभिर् ब्राह्मणादींश् च गमयामासतुर् दिनम् ॥ (१५।२)
bandhubhir brāhmaṇādīṃś ca gamayāmāsatur dinam ||
उत्सङ्गे दारिका न्यस्ता विराजत्कुन्दमालिका ॥ (१६।२)
utsaṅge dārikā nyastā virājatkundamālikā ||
कस्येयं कुन्दमालेति स भार्याम् अनुयुक्तवान् । (१७।१)
kasyeyaṃ kundamāleti sa bhāryām anuyuktavān |
तेन चोक्तम् इदं यादृग् बालिका कुन्दमालिका । (१८।१)
tena coktam idaṃ yādṛg bālikā kundamālikā |
ययोः स्याद् ईदृशः पुत्रः पितरौ तौ सपुत्रकौ ॥ (१८।२)
yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau ||
तस्माद् दुहितृमातेति मा गास् त्वं भीरु भीरुताम् । (१९।१)
tasmād duhitṛmāteti mā gās tvaṃ bhīru bhīrutām |
न कीर्तिजननी विद्या निन्द्या भवितुम् अर्हति ॥ (१९।२)
na kīrtijananī vidyā nindyā bhavitum arhati ||
बुद्धवर्मसखित्वं च तस्यै कथितवान् असौ ॥ (२०।२)
buddhavarmasakhitvaṃ ca tasyai kathitavān asau ||
कस्येयं कुन्दमालेति ताम् अपृच्छद् यतः पिता । (२१।१)
kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā |
प्रसिद्धा तस्य नाम्नापि सा ततः कुन्दमालिका ॥ (२१।२)
prasiddhā tasya nāmnāpi sā tataḥ kundamālikā ||
बुद्धवर्मापि पप्रच्छ निरालापां कुटुम्बिनीम् । (२२।१)
buddhavarmāpi papraccha nirālāpāṃ kuṭumbinīm |
तस्मिन् गर्भे तवोत्पन्नं यत् तन् नः कथ्यताम् इति ॥ (२२।२)
tasmin garbhe tavotpannaṃ yat tan naḥ kathyatām iti ||
अथ वामनम् एकाक्षं रूक्षं तुन्दिलदन्तुरम् । (२३।१)
atha vāmanam ekākṣaṃ rūkṣaṃ tundiladanturam |
लम्बौष्ठं भुग्नपृष्ठं च सा तं पुत्रं समर्पयत् ॥ (२३।२)
lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat ||
सो ऽब्रवीत् किं वृथैवायं धृतः कुरुभकस् त्वया । (२४।१)
so 'bravīt kiṃ vṛthaivāyaṃ dhṛtaḥ kurubhakas tvayā |
कस्माद् ईक्षणिकां पृष्ट्वा गर्भ एव न पातितः ॥ (२४।२)
kasmād īkṣaṇikāṃ pṛṣṭvā garbha eva na pātitaḥ ||
तदा किं प्रतिसंदेश्यं मयाहं पुत्रवान् इति ॥ (२६।२)
tadā kiṃ pratisaṃdeśyaṃ mayāhaṃ putravān iti ||
भार्यां चावोचद् आगच्छेद् दूतो मालवकाद् यदि । (२७।१)
bhāryāṃ cāvocad āgacched dūto mālavakād yadi |
एनं कुरुभकं तस्मै न कश्चित् कथयेद् इति ॥ (२७।२)
enaṃ kurubhakaṃ tasmai na kaścit kathayed iti ||
अयं कुरुभकः कस्माद् इति यत् तं पिताब्रवीत् । (२८।१)
ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt |
व्याहरन्ति स्म तं पौरास् ततः कुरुभकाख्यया ॥ (२८।२)
vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā ||
अथातीते क्वचित् काले बुद्धिवर्मा रहः स्थितः । (२९।१)
athātīte kvacit kāle buddhivarmā rahaḥ sthitaḥ |
स्व् अस्ति राजगृहे पूज्यं बुद्धवर्माणम् ऊर्जितम् । (३०।१)
sv asti rājagṛhe pūjyaṃ buddhavarmāṇam ūrjitam |
सख्यास् ते दुहिता जाता श्रेयोलक्षणभूषणा । (३१।१)
sakhyās te duhitā jātā śreyolakṣaṇabhūṣaṇā |
तवापि यदि भार्यायाः पुत्रो जातः शिवं ततः । (३२।१)
tavāpi yadi bhāryāyāḥ putro jātaḥ śivaṃ tataḥ |
निर्निमित्तापि हि प्रीतिर् या न संबन्धबृंहिता । (३३।१)
nirnimittāpi hi prītir yā na saṃbandhabṛṃhitā |
श्रीर् उत्साहसनाथेव प्रयाति स्थिरताम् इति ॥ (३३।२)
śrīr utsāhasanātheva prayāti sthiratām iti ||
ततः सत्कृत्य तं दूतम् अपृच्छद् गृहिणीं वणिक् । (३४।१)
tataḥ satkṛtya taṃ dūtam apṛcchad gṛhiṇīṃ vaṇik |
तस्मिन्न् एवं गते कार्ये ब्रूहि किं क्रियताम् इति ॥ (३४।२)
tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti ||
तयोक्तं द्व्यङ्गुलप्रज्ञा जानीयुर् वा स्त्रियः कियत् । (३५।१)
tayoktaṃ dvyaṅgulaprajñā jānīyur vā striyaḥ kiyat |
किं तु पृष्टेति वक्ष्यामि पृष्टधृष्टा हि मादृशी ॥ (३५।२)
kiṃ tu pṛṣṭeti vakṣyāmi pṛṣṭadhṛṣṭā hi mādṛśī ||
सत्यानृतं वणिग्वृत्तं परित्याज्यं न वाणिजैः । (३६।१)
satyānṛtaṃ vaṇigvṛttaṃ parityājyaṃ na vāṇijaiḥ |
सहजं हि त्यजन् वृत्तं दुर्वृत्त इति निन्द्यते ॥ (३६।२)
sahajaṃ hi tyajan vṛttaṃ durvṛtta iti nindyate ||
पुत्रस् तावत् तवोत्पन्नस् तत्र कानृतवादिता । (३७।१)
putras tāvat tavotpannas tatra kānṛtavāditā |
ये पुनस् तस्य दोषास् तान् मिथ्या भण गुणा इति ॥ (३७।२)
ye punas tasya doṣās tān mithyā bhaṇa guṇā iti ||
आख्यायन्ते हि सर्वार्थाः कृत्रिमैर् एव नामभिः । (३८।१)
ākhyāyante hi sarvārthāḥ kṛtrimair eva nāmabhiḥ |
आहुर् मधुरकं केचित् तं तादृङ्मारकं विषम् ॥ (३८।२)
āhur madhurakaṃ kecit taṃ tādṛṅmārakaṃ viṣam ||
कार्ये हि गुरुणि प्राप्ते मिथ्या सत्यम् अपीष्यते । (३९।१)
kārye hi guruṇi prāpte mithyā satyam apīṣyate |
अश्वत्थामा हतो द्रौणिर् इत्य् ऊचे किं न पाण्डवः ॥ (३९।२)
aśvatthāmā hato drauṇir ity ūce kiṃ na pāṇḍavaḥ ||
क्रीडाकमलिनीं यान्ति त्वद्विधाः क्षारसागरे ॥ (४०।२)
krīḍākamalinīṃ yānti tvadvidhāḥ kṣārasāgare ||
तस्मान् मा स्मावमन्यध्वम् अधन्यैर् दुर्लभां श्रियम् । (४२।१)
tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam |
कृच्छ्रायासशतप्राप्यां न कृच्छ्राधिगताम् इति ॥ (४२।२)
kṛcchrāyāsaśataprāpyāṃ na kṛcchrādhigatām iti ||
इत्यादिवचनं तस्याः सूक्तम् इत्य् अभिनन्द्य सः । (४३।१)
ityādivacanaṃ tasyāḥ sūktam ity abhinandya saḥ |
वक्तव्यः सुहृद् अस्माकम् अस्माकम् अपि दारकः । (४४।१)
vaktavyaḥ suhṛd asmākam asmākam api dārakaḥ |
उत्पन्नस् तादृशो यस्य कथिता कथम् आकृतिः ॥ (४४।२)
utpannas tādṛśo yasya kathitā katham ākṛtiḥ ||
स्वयम् एवासि तान् दृष्टा किं नस् तैः कथितैर् इति ॥ (४५।२)
svayam evāsi tān dṛṣṭā kiṃ nas taiḥ kathitair iti ||
इत्यादि बहु संकीर्णम् असौ संदिश्य सादरम् । (४६।१)
ityādi bahu saṃkīrṇam asau saṃdiśya sādaram |
एवम् अष्टाव् अतिक्रान्ताः समा दूतसमागमैः । (४७।१)
evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ |
अथ दूतः स्फुटालापो बुद्धवर्माणम् उक्तवान् ॥ (४७।२)
atha dūtaḥ sphuṭālāpo buddhavarmāṇam uktavān ||
जामातरम् अनालोक्य मा स्मागच्छद् भवान् इति ॥ (४८।२)
jāmātaram anālokya mā smāgacchad bhavān iti ||
तन् माम् उज्जयनीं यूयं यदि गच्छन्तम् इच्छथ । (४९।१)
tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha |
तं मे दारकम् आख्यात तदीयांश् च गुणान् इति ॥ (४९।२)
taṃ me dārakam ākhyāta tadīyāṃś ca guṇān iti ||
तेन तु क्षणम् उत्प्रेक्ष्य समग्रस्मृतिनोदितम् । (५०।१)
tena tu kṣaṇam utprekṣya samagrasmṛtinoditam |
आस्ते मातुलशाले ऽसौ ताम्रलिप्त्यां पठन्न् इति ॥ (५०।२)
āste mātulaśāle 'sau tāmraliptyāṃ paṭhann iti ||
अथ त्रिचतुराः प्रापुर् दूताश् चतुरभाषिणः ॥ (५१।२)
atha tricaturāḥ prāpur dūtāś caturabhāṣiṇaḥ ||
ते चादृतम् अनादृत्य बुद्धवर्माणम् अब्रुवन् । (५२।१)
te cādṛtam anādṛtya buddhavarmāṇam abruvan |
आह संबन्धिनी यत् त्वां सदारं तन् निशाम्यताम् ॥ (५२।२)
āha saṃbandhinī yat tvāṃ sadāraṃ tan niśāmyatām ||
अद्यापि च न पश्यामो वयं जामातुर् आकृतिम् ॥ (५३।२)
adyāpi ca na paśyāmo vayaṃ jāmātur ākṛtim ||
दृष्टस्य किल पण्यस्य भवतः क्रयविक्रयौ । (५४।१)
dṛṣṭasya kila paṇyasya bhavataḥ krayavikrayau |
इति लोकप्रवादो ऽयं भवतापि न किं श्रुतः ॥ (५४।२)
iti lokapravādo 'yaṃ bhavatāpi na kiṃ śrutaḥ ||
त्वं यच् चात्थ पठन्न् आस्ते ताम्रलिप्त्याम् असाव् इति । (५५।१)
tvaṃ yac cāttha paṭhann āste tāmraliptyām asāv iti |
इदम् अप्य् अतिदुर्बद्धं सव्याजम् इव वाचकम् ॥ (५५।२)
idam apy atidurbaddhaṃ savyājam iva vācakam ||
येषां कर्म च वृत्तिश् च विहिते पाठपाठने । (५६।१)
yeṣāṃ karma ca vṛttiś ca vihite pāṭhapāṭhane |
तेषाम् अपि परिच्छिन्नः पाठकालः कियान् अपि ॥ (५६।२)
teṣām api paricchinnaḥ pāṭhakālaḥ kiyān api ||
त्वदीयेन तु पुत्रेण त्यक्तसर्वान्यकर्मणा । (५७।१)
tvadīyena tu putreṇa tyaktasarvānyakarmaṇā |
तस्मात् क्रीडाम् इमां त्यक्त्वा यमहासविभीषणाम् । (५८।१)
tasmāt krīḍām imāṃ tyaktvā yamahāsavibhīṣaṇām |
अत्र वा ताम्रलिप्त्यां वा दारको दर्श्यताम् इति ॥ (५८।२)
atra vā tāmraliptyāṃ vā dārako darśyatām iti ||
इति यावद् असौ तावत् पूज्यैर् विश्रम्यताम् इति । (५९।१)
iti yāvad asau tāvat pūjyair viśramyatām iti |
तान् उक्त्वा गृहिणीम् ऊचे बुद्धवर्मा ससंभ्रमः ॥ (५९।२)
tān uktvā gṛhiṇīm ūce buddhavarmā sasaṃbhramaḥ ||
अनुत्प्रेक्ष्यैव मन्देन दोषम् आगामिनं मया । (६०।१)
anutprekṣyaiva mandena doṣam āgāminaṃ mayā |
त्वत्पुत्रस्य हि ये दोषाः काणदन्तुरतादयः । (६१।१)
tvatputrasya hi ye doṣāḥ kāṇadanturatādayaḥ |
तस्माद् दर्शय दूतेभ्यः पुत्रं हरगणाकृतिम् । (६३।१)
tasmād darśaya dūtebhyaḥ putraṃ haragaṇākṛtim |
अथवा पण्डितेनैवम् उपायश् चिन्त्यताम् इति ॥ (६३।२)
athavā paṇḍitenaivam upāyaś cintyatām iti ||
तया चोक्तं मयोपायः कीदृशो ऽप्य् अत्र चिन्तितः । (६४।१)
tayā coktaṃ mayopāyaḥ kīdṛśo 'py atra cintitaḥ |
यद्य् असौ रोचते तुभ्यं ततः प्रस्तूयताम् इति ॥ (६४।२)
yady asau rocate tubhyaṃ tataḥ prastūyatām iti ||
उच्यताम् इति तेनोक्ता कर्णे किमपि साब्रवीत् । (६५।१)
ucyatām iti tenoktā karṇe kimapi sābravīt |
सो ऽपि शोभनम् इत्य् उक्त्वा तम् उपायं प्रयुक्तवान् ॥ (६५।२)
so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān ||
विविक्ते ब्राह्मणं मित्रं तत्प्रतिग्रहजीविनम् । (६६।१)
vivikte brāhmaṇaṃ mitraṃ tatpratigrahajīvinam |
श्वेतकाकप्रसिद्धस्य मम पुत्रस्य ये गुणाः । (६७।१)
śvetakākaprasiddhasya mama putrasya ye guṇāḥ |
आकारश् च प्रकारश् च यादृक् किं तस्य कथ्यते ॥ (६७।२)
ākāraś ca prakāraś ca yādṛk kiṃ tasya kathyate ||
तेन नस् तेन सौहार्दं सुहृदा स्थिरतां नय । (६९।१)
tena nas tena sauhārdaṃ suhṛdā sthiratāṃ naya |
अथवा स्वार्थ एवायं तव धिङ् मां मुधाकुलम् ॥ (६९।२)
athavā svārtha evāyaṃ tava dhiṅ māṃ mudhākulam ||
श्रुतिस्मृत्यादितत्त्वज्ञः कलासु च विशारदः ॥ (७०।२)
śrutismṛtyāditattvajñaḥ kalāsu ca viśāradaḥ ||
यच् च रत्नसुवर्णादि लप्स्यते द्रविणं ततः । (७२।१)
yac ca ratnasuvarṇādi lapsyate draviṇaṃ tataḥ |
एवमादि स तेनोक्तः सोत्साहं स्वार्थतृष्णया । (७३।१)
evamādi sa tenoktaḥ sotsāhaṃ svārthatṛṣṇayā |
अब्रवीत् त्वद्विधेयैः किं मद्विधैः प्रार्थितैर् इति ॥ (७३।२)
abravīt tvadvidheyaiḥ kiṃ madvidhaiḥ prārthitair iti ||
यज्ञगुप्तम् अथाहूय संनिधौ बुद्धवर्मणः । (७४।१)
yajñaguptam athāhūya saṃnidhau buddhavarmaṇaḥ |
पिता श्रावितवान् एतं वृत्तान्तं पूर्वमन्त्रितम् ॥ (७४।२)
pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam ||
तेनोक्तं गुरुवाक्यानि युक्तिमन्तीतराणि वा । (७५।१)
tenoktaṃ guruvākyāni yuktimantītarāṇi vā |
शिशुभिर् न विचार्याणि तस्माद् एवं भवत्व् इति ॥ (७५।२)
śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti ||
ततः कतिचिद् आसित्वा दिवसान् बुद्धवर्मणा । (७६।१)
tataḥ katicid āsitvā divasān buddhavarmaṇā |
यज्ञगुप्तः स्वलंकारः संबन्धिभ्यः प्रदर्शितः ॥ (७६।२)
yajñaguptaḥ svalaṃkāraḥ saṃbandhibhyaḥ pradarśitaḥ ||
अब्रवीच् चायम् आयातस् ताम्रलिप्त्याः स दारकः । (७७।१)
abravīc cāyam āyātas tāmraliptyāḥ sa dārakaḥ |
आकारश् च गुणाश् चास्य दृश्यन्तां यादृशा इति ॥ (७७।२)
ākāraś ca guṇāś cāsya dṛśyantāṃ yādṛśā iti ||
ततस् तैर् विस्मितैर् उक्तम् अनिन्द्या कुन्दमालिका । (७८।१)
tatas tair vismitair uktam anindyā kundamālikā |
गुणानां त्व् एतदीयानाम् अन्वेषणम् अनर्थकम् । (७९।१)
guṇānāṃ tv etadīyānām anveṣaṇam anarthakam |
किं तु नामास्य दुःश्लिष्टम् अयं कुरुभकः किल । (८०।१)
kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila |
क्लेदुर् इत्य् उच्यते चन्द्रो मातरिश्वेति मारुतः ॥ (८१।२)
kledur ity ucyate candro mātariśveti mārutaḥ ||
आश्रयस्य हि दौर्बल्याद् आश्रितः परिभूयते ॥ (८२।२)
āśrayasya hi daurbalyād āśritaḥ paribhūyate ||
सर्वथा सार्थवाहस्य प्रसूताद्य कुटुम्बिनी । (८३।१)
sarvathā sārthavāhasya prasūtādya kuṭumbinī |
युवयोर् अद्य सौहार्दं गतं कूटस्थनित्यताम् ॥ (८३।२)
yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām ||
तस्माद् आशुतरं गत्वा त्यक्तनिद्राशनादिकाम् । (८४।१)
tasmād āśutaraṃ gatvā tyaktanidrāśanādikām |
वर्धयामो वयं दिष्ट्या सार्थवाहकुटुम्बिनीम् ॥ (८४।२)
vardhayāmo vayaṃ diṣṭyā sārthavāhakuṭumbinīm ||
भवद्भिर् अपि पुण्याहे वरयात्रा प्रवर्त्यताम् । (८५।१)
bhavadbhir api puṇyāhe varayātrā pravartyatām |
न हीदानीं विवाहस्य कश्चिद् अस्ति विघातकः ॥ (८५।२)
na hīdānīṃ vivāhasya kaścid asti vighātakaḥ ||
इत्य् उक्त्वा तेषु यातेषु सारवत्प्राभृतेषु सः । (८६।१)
ity uktvā teṣu yāteṣu sāravatprābhṛteṣu saḥ |
यज्ञगुप्तं वरीकृत्य वरयात्रां व्यसर्जयत् ॥ (८६।२)
yajñaguptaṃ varīkṛtya varayātrāṃ vyasarjayat ||
यो ऽसौ कुरुभकस् तं च यज्ञगुप्तं चकार सः । (८७।१)
yo 'sau kurubhakas taṃ ca yajñaguptaṃ cakāra saḥ |
संज्ञया यज्ञगुप्तं तु वरं कुरुभकं वणिक् ॥ (८७।२)
saṃjñayā yajñaguptaṃ tu varaṃ kurubhakaṃ vaṇik ||
श्रेष्ठिपुत्रो ऽपि जामातुर् आसीत् तत्र वयस्यकः ॥ (८८।२)
śreṣṭhiputro 'pi jāmātur āsīt tatra vayasyakaḥ ||
वरयात्रा चिरात् प्रापद् अवन्तिनगरीं ततः । (८९।१)
varayātrā cirāt prāpad avantinagarīṃ tataḥ |
उत्कान्तिकान्तवृत्तान्तां यक्षसेनालकाम् इव ॥ (८९।२)
utkāntikāntavṛttāntāṃ yakṣasenālakām iva ||
स चोज्जयनकैर् धूर्तैर् वङ्कवाचकपण्डितैः । (९२।१)
sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ |
वेणुवीणाप्रवीणैश् च कांचिद् वेलाम् अयापयत् ॥ (९२।२)
veṇuvīṇāpravīṇaiś ca kāṃcid velām ayāpayat ||
सज्जं वः पानम् अन्नं च किम् आध्वे भुज्यताम् इति ॥ (९३।२)
sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti ||
केन केनात्र भोक्तव्यम् इति स्यालकम् उक्तवान् ॥ (९४।२)
kena kenātra bhoktavyam iti syālakam uktavān ||
यूयं मध्यमम् अध्याध्वम् आसनं पटुवासनम् ॥ (९५।२)
yūyaṃ madhyamam adhyādhvam āsanaṃ paṭuvāsanam ||
ये चैते दत्तवेत्राङ्गे युष्मान् उभयतः समे । (९६।१)
ye caite dattavetrāṅge yuṣmān ubhayataḥ same |
एते ज्येष्ठकनिष्ठौ ते स्यालकाव् अधितिष्ठतः ॥ (९६।२)
ete jyeṣṭhakaniṣṭhau te syālakāv adhitiṣṭhataḥ ||
पार्श्वयोर् उभयोर् दीर्घा या चासनपरंपरा । (९७।१)
pārśvayor ubhayor dīrghā yā cāsanaparaṃparā |
वरस् तु क्षणम् अव्यूह स्यालम् एतद् अभाषत । (९८।१)
varas tu kṣaṇam avyūha syālam etad abhāṣata |
अस्माभिः सह युष्माभिर् न कार्यं पानभोजनम् ॥ (९८।२)
asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam ||
गोत्राचारो ऽयम् अस्माकं तावत् पानं न सेव्यते । (९९।१)
gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate |
भुज्यते वापरैः सार्धं यावन् न परिणीयते ॥ (९९।२)
bhujyate vāparaiḥ sārdhaṃ yāvan na pariṇīyate ||
परिणीय निवृत्तेन लब्धाज्ञेन सता पितुः । (१००।१)
pariṇīya nivṛttena labdhājñena satā pituḥ |
कार्यम् एतन् न वा कार्यं विनादेशाद् गुरोर् इति ॥ (१००।२)
kāryam etan na vā kāryaṃ vinādeśād guror iti ||
एवं नामेत्य् अनुज्ञातः श्वशुरेण वरः पृथक् । (१०१।१)
evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak |
याते यामे च यामिन्या गर्जद्वादित्रमण्डलः । (१०२।१)
yāte yāme ca yāminyā garjadvāditramaṇḍalaḥ |
तत्रालम्बितवान् वध्वाः स्फुरच्चामीकरं करम् । (१०३।१)
tatrālambitavān vadhvāḥ sphuraccāmīkaraṃ karam |
स्मरन् गुरुवचो धीर्यान् निर्विकारकरो वरः ॥ (१०३।२)
smaran guruvaco dhīryān nirvikārakaro varaḥ ||
स चात्राग्निं परिक्रम्य चण्डशूलाकुलः किल । (१०४।१)
sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila |
पाणिभ्याम् उदरं धृत्वा मुमोह च पपात च ॥ (१०४।२)
pāṇibhyām udaraṃ dhṛtvā mumoha ca papāta ca ||
प्रशान्तोच्छ्वासनिःश्वासे तस्मिन् संमीलितेक्षणे । (१०५।१)
praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe |
मूकितोद्दामधूर्येण क्रन्दितेन विजृम्भितम् ॥ (१०५।२)
mūkitoddāmadhūryeṇa kranditena vijṛmbhitam ||
श्वश्रूर् जामातरं दृष्ट्वा ताडितोरःशिरास् ततः । (१०६।१)
śvaśrūr jāmātaraṃ dṛṣṭvā tāḍitoraḥśirās tataḥ |
उच्चैर् भर्तृसमावस्थाम् आक्रोशत् कुन्दमालिकाम् ॥ (१०६।२)
uccair bhartṛsamāvasthām ākrośat kundamālikām ||
हा हतासि विनष्टासि धिक् त्वां प्रच्छन्नराक्षसीम् । (१०७।१)
hā hatāsi vinaṣṭāsi dhik tvāṃ pracchannarākṣasīm |
जितप्रद्युम्नरूपो ऽयं पतिर् उत्सादितो यया ॥ (१०७।२)
jitapradyumnarūpo 'yaṃ patir utsādito yayā ||
त्वम् एव न मृता कस्माद् अहं वा दुःखभागिनी । (१०८।१)
tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī |
यया त्वं सकलं जन्म द्रष्टव्यामृतया मृता ॥ (१०८।२)
yayā tvaṃ sakalaṃ janma draṣṭavyāmṛtayā mṛtā ||
कथं जीवति सा या स्त्री बालैव मृतभर्तृका । (१०९।१)
kathaṃ jīvati sā yā strī bālaiva mṛtabhartṛkā |
दूरान्तरगरिष्ठो हि नारीणां जीवितात् पतिः ॥ (१०९।२)
dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ ||
या च माता सुताम् इष्टां चारुताशीलशालिनीम् । (११०।१)
yā ca mātā sutām iṣṭāṃ cārutāśīlaśālinīm |
शक्ता विधविकां द्रष्टुं ज्येष्ठा कालस्य सा स्वसा ॥ (११०।२)
śaktā vidhavikāṃ draṣṭuṃ jyeṣṭhā kālasya sā svasā ||
इत्यादि विलपन्त्य् एव सा च निश्चेष्टनाभवत् । (१११।१)
ityādi vilapanty eva sā ca niśceṣṭanābhavat |
हृदयोदरसंधिश् च जामातुः स्पन्दितः शनैः ॥ (१११।२)
hṛdayodarasaṃdhiś ca jāmātuḥ spanditaḥ śanaiḥ ||
हर्षहासाट्टहासानाम् आसीन् नान्तरम् अम्बरे ॥ (११२।२)
harṣahāsāṭṭahāsānām āsīn nāntaram ambare ||
शनकैश् च स निःश्वस्य जिह्मस्फुरितपक्ष्मणी । (११३।१)
śanakaiś ca sa niḥśvasya jihmasphuritapakṣmaṇī |
ततः सागरदत्तेन कृतस् तादृङ् महोत्सवः । (११४।१)
tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ |
वृद्धतालब्धपुत्रेण यो नृपेणापि दुष्करः ॥ (११४।२)
vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ ||
किम् एतद् इति पृष्टश् च स वैद्यैः प्रत्युवाच तान् । (११५।१)
kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān |
अथ वासगृहस्थस्य वैद्या जामातुर् आदृताः । (११६।१)
atha vāsagṛhasthasya vaidyā jāmātur ādṛtāḥ |
शूलस्यामनिदानस्य कृतवन्तश् चिकित्सितम् ॥ (११६।२)
śūlasyāmanidānasya kṛtavantaś cikitsitam ||
शूलैर् आयास्यमानस्य लब्धनिद्रस्य चान्तरे । (११७।१)
śūlair āyāsyamānasya labdhanidrasya cāntare |
तस्य जाग्रद्वधूकस्य कथमप्य् अगमन् निशा ॥ (११७।२)
tasya jāgradvadhūkasya kathamapy agaman niśā ||
अस्नेहाल्पतराहारः सो ऽभवत् प्रत्यहः कृशः ॥ (११८।२)
asnehālpatarāhāraḥ so 'bhavat pratyahaḥ kṛśaḥ ||
विस्मृतेव वधूलज्जां भर्तृमान्द्यभयातुरा ॥ (११९।२)
vismṛteva vadhūlajjāṃ bhartṛmāndyabhayāturā ||
ततः पतिम् उपासीनां स कुब्जः कुन्दमालिकाम् । (१२०।१)
tataḥ patim upāsīnāṃ sa kubjaḥ kundamālikām |
अङ्गेषु भयसन्नाङ्गीं कुर्वन् केलीं किलास्पृशत् ॥ (१२०।२)
aṅgeṣu bhayasannāṅgīṃ kurvan kelīṃ kilāspṛśat ||
अब्रवीच् च विमुञ्चैनं किराटम् अपटुं विटम् । (१२१।१)
abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam |
देवतागुरुभिर् दत्तं कान्तं तोषय माम् इति ॥ (१२१।२)
devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti ||
अथोत्थाय ततः स्थानाद् भर्तृशय्यातिरस्कृता । (१२२।१)
athotthāya tataḥ sthānād bhartṛśayyātiraskṛtā |
केयं केलिर् अनार्येति वधूर् भर्तारम् अब्रवीत् ॥ (१२२।२)
keyaṃ kelir anāryeti vadhūr bhartāram abravīt ||
स तां सस्मितम् आह स्म मा स्म ग्रामेयिका भव । (१२३।१)
sa tāṃ sasmitam āha sma mā sma grāmeyikā bhava |
का हि नागरिकंमन्या हास्यात् नटबटोस् त्रसेत् ॥ (१२३।२)
kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset ||
धनिनाम् ईदृशाः क्षुद्राः प्रायो वाचालताफलाः । (१२४।१)
dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ |
न हि मूकं शुकं कश्चिच् चिरं धरति पञ्जरे ॥ (१२४।२)
na hi mūkaṃ śukaṃ kaścic ciraṃ dharati pañjare ||
तस्मात् क्रीडनकाद् अस्माद् अबद्धभाषमाणकात् । (१२५।१)
tasmāt krīḍanakād asmād abaddhabhāṣamāṇakāt |
हसतः स्पृशतश् चाङ्गं भीरु मा वित्रसीर् इति ॥ (१२५।२)
hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti ||
तेन सा बोधिताप्य् एवं सदाचारकुलोद्भवा । (१२६।१)
tena sā bodhitāpy evaṃ sadācārakulodbhavā |
चण्डाभिर् घटदासीभिस् तं भुक्तं निरभर्त्सयत् ॥ (१२६।२)
caṇḍābhir ghaṭadāsībhis taṃ bhuktaṃ nirabhartsayat ||
आसीच् च यज्ञगुप्तस्य यावद् एवैष मूढकः । (१२७।१)
āsīc ca yajñaguptasya yāvad evaiṣa mūḍhakaḥ |
रहस्यं न भिनत्त्य् एतत् तावन् न्याय्यम् इतो गतम् ॥ (१२७।२)
rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam ||
तं कदाचिद् अभाषन्त भिषजो निष्फलक्रियाः । (१२८।१)
taṃ kadācid abhāṣanta bhiṣajo niṣphalakriyāḥ |
ततः क्षामतरालापस् तान् अवोचच् चिराद् असौ । (१२९।१)
tataḥ kṣāmatarālāpas tān avocac cirād asau |
पितरौ द्रष्टुम् इच्छामि प्रियपुत्रौ प्रियाव् इति ॥ (१२९।२)
pitarau draṣṭum icchāmi priyaputrau priyāv iti ||
अथ सागरदत्ताय वैद्यैर् एवं निवेदितम् । (१३०।१)
atha sāgaradattāya vaidyair evaṃ niveditam |
एवं वदति जामाता तच् च प्रतिविधीयताम् ॥ (१३०।२)
evaṃ vadati jāmātā tac ca pratividhīyatām ||
यद् यद् वैद्येन कर्तव्यम् आमाशयचिकित्सितम् । (१३१।१)
yad yad vaidyena kartavyam āmāśayacikitsitam |
कृतम् अप्य् अकृतं तत् तद् एतस्मिञ् जातम् आतुरे ॥ (१३१।२)
kṛtam apy akṛtaṃ tat tad etasmiñ jātam āture ||
स्वदेशाय तु यातो ऽयं भवेद् अपि निरामयः । (१३२।१)
svadeśāya tu yāto 'yaṃ bhaved api nirāmayaḥ |
जगत्प्रसिद्धिसिद्धं हि सुहृद्दर्शनम् औषधम् ॥ (१३२।२)
jagatprasiddhisiddhaṃ hi suhṛddarśanam auṣadham ||
धात्रीप्रधानपरिवारचमूसनाथाम् अम्भोधिसारधनहारमहोष्ट्रयूथाम् । (१३३।१)
dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām |
श्यामां निशाम् इव कृशेन तुषारभासा प्रास्थापयत् सह वरेण वणिक्तनूजाम् ॥ (१३३।२)
śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām ||
प्रयाणकैश् च यावद्भिर् अगाद् राजगृहं वरः । (१३४।१)
prayāṇakaiś ca yāvadbhir agād rājagṛhaṃ varaḥ |
श्रेष्ठी च द्विगुणान् प्रीतान् प्राहिणोत् परिचारकान् ॥ (१३४।२)
śreṣṭhī ca dviguṇān prītān prāhiṇot paricārakān ||
अन्यजामातृवार्त्ताभ्यां द्वाभ्यां द्वाभ्यां प्रयाणकात् । (१३५।१)
anyajāmātṛvārttābhyāṃ dvābhyāṃ dvābhyāṃ prayāṇakāt |
निवर्तितव्यं युष्माभिर् इति चासाव् उवाच तान् ॥ (१३५।२)
nivartitavyaṃ yuṣmābhir iti cāsāv uvāca tān ||
प्रथमाद् वासकाद् यौ च निवृत्तौ परिचारकौ । (१३६।१)
prathamād vāsakād yau ca nivṛttau paricārakau |
श्रेष्ठिने कथितं ताभ्यां वरः स्वस्थो मनाग् इति ॥ (१३६।२)
śreṣṭhine kathitaṃ tābhyāṃ varaḥ svastho manāg iti ||
यथा यथा च याति स्म वासकान् उत्तरोत्तरान् । (१३७।१)
yathā yathā ca yāti sma vāsakān uttarottarān |
शनकैः शनकैर् मान्द्यम् अत्यजत् स तथा तथा ॥ (१३७।२)
śanakaiḥ śanakair māndyam atyajat sa tathā tathā ||
अन्यात् तु वासकाद् अन्यौ निवृत्तपरिचारकौ । (१३८।१)
anyāt tu vāsakād anyau nivṛttaparicārakau |
वरं सागरदत्ताय हृष्टपुष्टाङ्गम् आख्यताम् ॥ (१३८।२)
varaṃ sāgaradattāya hṛṣṭapuṣṭāṅgam ākhyatām ||
अथासाव् इति हर्षान्धस् त्यक्तपात्रपरीक्षणः । (१३९।१)
athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ |
कृत्रिमस् तु वरः प्रातस् त्यक्तजामातृडम्बरः । (१४०।१)
kṛtrimas tu varaḥ prātas tyaktajāmātṛḍambaraḥ |
गृहीतब्राह्मणाकल्पः प्रस्थितः पदगः पथि ॥ (१४०।२)
gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi ||
वैषेणागन्तुना मुक्तः स रेजे निजया श्रिया । (१४१।१)
vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā |
तं दृष्ट्वा विकृताकारं जितशंकरकिंकरम् । (१४३।१)
taṃ dṛṣṭvā vikṛtākāraṃ jitaśaṃkarakiṃkaram |
प्रविधूय वधूर् अङ्गं लोचने सममीलयत् ॥ (१४३।२)
pravidhūya vadhūr aṅgaṃ locane samamīlayat ||
निरगात् त्यक्तकर्तव्या जवना जनता पुरात् ॥ (१४४।२)
niragāt tyaktakartavyā javanā janatā purāt ||
तौ च दुर्बद्धसम्बन्धौ मुक्तालोहगुडाव् इव । (१४५।१)
tau ca durbaddhasambandhau muktālohaguḍāv iva |
दृष्ट्वा धुतकरैः पौरैर् अधिक्षिप्तः प्रजापतिः ॥ (१४५।२)
dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ ||
कामचारेण कामो ऽपि तावन् नैव प्रशस्यते । (१४६।१)
kāmacāreṇa kāmo 'pi tāvan naiva praśasyate |
किं पुनर् यः सदाचारः सर्गहेतुर् भवादृशः ॥ (१४६।२)
kiṃ punar yaḥ sadācāraḥ sargahetur bhavādṛśaḥ ||
सर्वथा वामशीलानां त्वम् एव परमेश्वरः । (१४७।१)
sarvathā vāmaśīlānāṃ tvam eva parameśvaraḥ |
येनैताव् अप्सरःप्रेतौ दुर्योज्यौ योजिताव् इति ॥ (१४७।२)
yenaitāv apsaraḥpretau duryojyau yojitāv iti ||
बुद्धवर्मापि निर्याय सर्वश्रेणिपुरःसरः । (१४८।१)
buddhavarmāpi niryāya sarvaśreṇipuraḥsaraḥ |
वधूम् अभ्यनयत् कान्त्या जितराजगृहं गृहम् ॥ (१४८।२)
vadhūm abhyanayat kāntyā jitarājagṛhaṃ gṛham ||
अङ्कस्थवधुकस् तत्र स चावोचत् कुटुम्बिनीम् । (१४९।१)
aṅkasthavadhukas tatra sa cāvocat kuṭumbinīm |
इयम् एवास्तु ते पुत्रस् तनया च वधूर् इति ॥ (१४९।२)
iyam evāstu te putras tanayā ca vadhūr iti ||
नटादिषु च नृत्यत्सु सार्कं तद् अगमद् दिनम् ॥ (१५०।२)
naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam ||
अथ चक्षुर्मनःकान्तम् आवासं कुन्दमालिका । (१५१।१)
atha cakṣurmanaḥkāntam āvāsaṃ kundamālikā |
तत्र शय्यासमीपस्थम् आस्थिता चित्रम् आसनम् । (१५२।१)
tatra śayyāsamīpastham āsthitā citram āsanam |
वधूर् वरवयस्यो ऽपि तदनन्तरम् उन्नतम् ॥ (१५२।२)
vadhūr varavayasyo 'pi tadanantaram unnatam ||
चिन्तयन्तस् ततः तत्र सर्वे मोहान्धमानसाः । (१५३।१)
cintayantas tataḥ tatra sarve mohāndhamānasāḥ |
अमूलाग्राणि पत्त्राणि लिलिखुर् नमिताननाः ॥ (१५३।२)
amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ ||
अस्मिन्न् अचिन्तयत् कष्टे वृत्तान्ते कुन्दमालिका । (१५४।१)
asminn acintayat kaṣṭe vṛttānte kundamālikā |
अपि नामैष मां मुक्त्वा ब्राह्मणो न व्रजेद् इति ॥ (१५४।२)
api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti ||
आसीत् कुरुभकस्यापि विविक्ते रन्तुम् इच्छतः । (१५५।१)
āsīt kurubhakasyāpi vivikte rantum icchataḥ |
अपि नामैष निर्यायाद् बहिर् वासगृहाद् इति ॥ (१५५।२)
api nāmaiṣa niryāyād bahir vāsagṛhād iti ||
यज्ञगुप्तस् तयोर् बुद्ध्वा तत् कालोचितम् इङ्गितम् । (१५६।१)
yajñaguptas tayor buddhvā tat kālocitam iṅgitam |
गमनं चात्मनः श्रेयस् ततो निर्गन्तुम् ऐहत ॥ (१५६।२)
gamanaṃ cātmanaḥ śreyas tato nirgantum aihata ||
सा तम् उच्छलितं दृष्ट्वा सविषादम् अभाषत । (१५७।१)
sā tam ucchalitaṃ dṛṣṭvā saviṣādam abhāṣata |
दारान् आपद्गतान् मुक्त्वा प्रस्थितः क्व भवान् इति ॥ (१५७।२)
dārān āpadgatān muktvā prasthitaḥ kva bhavān iti ||
तेनोक्तं यस्य दारास् त्वं विधात्रा परिकल्पिता । (१५८।१)
tenoktaṃ yasya dārās tvaṃ vidhātrā parikalpitā |
आपन्नास्मीति मा वोचस् तिष्ठन्ती तस्य संनिधौ ॥ (१५८।२)
āpannāsmīti mā vocas tiṣṭhantī tasya saṃnidhau ||
वयं तु खरधर्माणो भारमात्रस्य भागिनः ॥ (१५९।२)
vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ ||
इत्थम् उक्त्वा स चान्याभिः प्रेष्याभिः सह निर्ययौ । (१६०।१)
ittham uktvā sa cānyābhiḥ preṣyābhiḥ saha niryayau |
अनिच्छाम् ऐच्छद् आक्रष्टुं ग्राम्यः कुरुभकश् च ताम् ॥ (१६०।२)
anicchām aicchad ākraṣṭuṃ grāmyaḥ kurubhakaś ca tām ||
व्याहरन्तीव तं विप्रं निर्जगाम जवेन सा ॥ (१६१।२)
vyāharantīva taṃ vipraṃ nirjagāma javena sā ||
मत्तप्रमत्तपौरे च नृत्यद्भृत्यनिरन्तरे । (१६२।१)
mattapramattapaure ca nṛtyadbhṛtyanirantare |
यज्ञगुप्तस् तया नैव दृष्टस् तत्र गृहाङ्गणे ॥ (१६२।२)
yajñaguptas tayā naiva dṛṣṭas tatra gṛhāṅgaṇe ||
एष यात्य् एष यातीति सादृश्यभ्रान्तिवञ्चिता । (१६३।१)
eṣa yāty eṣa yātīti sādṛśyabhrāntivañcitā |
यं कंचिद् अपि सा यान्तम् अन्वयासीत् तदाशया ॥ (१६३।२)
yaṃ kaṃcid api sā yāntam anvayāsīt tadāśayā ||
हिण्डीवादित्रभीता च कुम्भकारकुटीगमात् ॥ (१६४।२)
hiṇḍīvāditrabhītā ca kumbhakārakuṭīgamāt ||
तत्र कापालिकं दृष्ट्वा सुषुप्तं मदमूर्छया । (१६५।१)
tatra kāpālikaṃ dṛṣṭvā suṣuptaṃ madamūrchayā |
सुश्लिष्टा हन्त रक्षेयम् इत्य् अध्यवसितं तया ॥ (१६५।२)
suśliṣṭā hanta rakṣeyam ity adhyavasitaṃ tayā ||
घूर्णमाना मदाद् ग्रामं बाह्यं निरगमत् पुरात् ॥ (१६७।२)
ghūrṇamānā madād grāmaṃ bāhyaṃ niragamat purāt ||
तत्र च ब्राह्मणी काचित् तया श्वेतशिरोरुहा । (१६८।१)
tatra ca brāhmaṇī kācit tayā śvetaśiroruhā |
स्वगृहालिन्दकासीना दृष्टा कर्पासकर्त्रिका ॥ (१६८।२)
svagṛhālindakāsīnā dṛṣṭā karpāsakartrikā ||
एकाकिन्य् एव सा दैवं निन्दित्वा करुणस्वना । (१६९।१)
ekākiny eva sā daivaṃ ninditvā karuṇasvanā |
धिक् क्षुद्रं बुद्धवर्माणम् इति सक्रोधम् अब्रवीत् ॥ (१६९।२)
dhik kṣudraṃ buddhavarmāṇam iti sakrodham abravīt ||
ताम् अपृच्छद् असाव् आर्ये निर्व्याजगुणशालिनः । (१७०।१)
tām apṛcchad asāv ārye nirvyājaguṇaśālinaḥ |
साधोः किं दुष्कृतं तस्य निन्द्यते यद् असाव् इति ॥ (१७०।२)
sādhoḥ kiṃ duṣkṛtaṃ tasya nindyate yad asāv iti ||
तयोक्तम् अतिमुग्धो वा धूर्तो वा भगवन्न् असि । (१७१।१)
tayoktam atimugdho vā dhūrto vā bhagavann asi |
तदीयं दुष्कृतं येन प्रकाशम् अपि न श्रुतम् ॥ (१७१।२)
tadīyaṃ duṣkṛtaṃ yena prakāśam api na śrutam ||
अथवा श्रोष्यति भवान् अन्यतस् तत् सुदुःश्रवम् । (१७२।१)
athavā śroṣyati bhavān anyatas tat suduḥśravam |
मादृशी तु न शक्तैव वक्तुं प्रकृतिकातरा ॥ (१७२।२)
mādṛśī tu na śaktaiva vaktuṃ prakṛtikātarā ||
यावच् चेदम् असाव् आह तावद् उच्चैस्तरां पुरे । (१७३।१)
yāvac cedam asāv āha tāvad uccaistarāṃ pure |
डिण्डिमध्वनिसंभिन्ना परिबभ्राम घोषणा ॥ (१७३।२)
ḍiṇḍimadhvanisaṃbhinnā paribabhrāma ghoṣaṇā ||
नागरः कश्चिद् आचष्टे स दारिद्र्येण मुच्यते ॥ (१७४।२)
nāgaraḥ kaścid ācaṣṭe sa dāridryeṇa mucyate ||
यः पुनः स्वगृहे मोहात् प्रच्छादयति तं नृपः । (१७५।१)
yaḥ punaḥ svagṛhe mohāt pracchādayati taṃ nṛpaḥ |
पाटयत्य् अधनं कृत्वा दारुणैः क्रकचैर् इति ॥ (१७५।२)
pāṭayaty adhanaṃ kṛtvā dāruṇaiḥ krakacair iti ||
अथेदं ब्राह्मणी श्रुत्वा नेत्राम्बुप्लावितानना । (१७६।१)
athedaṃ brāhmaṇī śrutvā netrāmbuplāvitānanā |
अब्रवीच् च किम् आश्चर्यं यद् उज्जयनिको जनः । (१७७।१)
abravīc ca kim āścaryaṃ yad ujjayaniko janaḥ |
नातिसंधीयते धूर्तैर् मूलदेवसमैर् इति ॥ (१७७।२)
nātisaṃdhīyate dhūrtair mūladevasamair iti ||
साधु साधु महाप्राज्ञे सुजाते कुन्दमालिके । (१७८।१)
sādhu sādhu mahāprājñe sujāte kundamālike |
यया सकुब्जकः पापो बुद्धवर्मातिसंधितः ॥ (१७८।२)
yayā sakubjakaḥ pāpo buddhavarmātisaṃdhitaḥ ||
यथा राजगृहं पुत्रि त्वयेदं सुखम् आसितम् । (१७९।१)
yathā rājagṛhaṃ putri tvayedaṃ sukham āsitam |
यज्ञगुप्तेन संगम्य त्वयापि स्थीयतां तथा ॥ (१७९।२)
yajñaguptena saṃgamya tvayāpi sthīyatāṃ tathā ||
इत्यादि ब्रुवतीं श्रुत्वा चिन्तयामास ताम् असौ । (१८०।१)
ityādi bruvatīṃ śrutvā cintayāmāsa tām asau |
निष्कारणजनन्य् एषा गोपायिष्यति माम् इति ॥ (१८०।२)
niṣkāraṇajanany eṣā gopāyiṣyati mām iti ||
शनैश् चाकथयत् तस्यै वृत्तं वृत्तान्तम् आत्मनः । (१८१।१)
śanaiś cākathayat tasyai vṛttaṃ vṛttāntam ātmanaḥ |
गाढम् आलिङ्ग्य सा चैनां प्रीता प्रावेशयद् गृहम् ॥ (१८१।२)
gāḍham āliṅgya sā caināṃ prītā prāveśayad gṛham ||
अवतार्य च तत्रास्यास् तां कापालिकतण्डिकाम् । (१८२।१)
avatārya ca tatrāsyās tāṃ kāpālikataṇḍikām |
तद्भारपरिखिन्नानि गात्राणि पर्यवाहयत् ॥ (१८२।२)
tadbhāraparikhinnāni gātrāṇi paryavāhayat ||
अभ्यज्य स्नपयित्वा च सुखोष्णैः सलिलैर् असौ । (१८३।१)
abhyajya snapayitvā ca sukhoṣṇaiḥ salilair asau |
परिधाय च ताम् एव बीभत्साम् अस्थिशृङ्खलाम् । (१८४।१)
paridhāya ca tām eva bībhatsām asthiśṛṅkhalām |
भ्राम्यत्संभ्रान्तपौरं तत् सा प्रातः प्राविशत् पुरम् ॥ (१८४।२)
bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram ||
किंनिमित्तम् अयं लोकः संचरत्य् आकुलाकुलः । (१८५।१)
kiṃnimittam ayaṃ lokaḥ saṃcaraty ākulākulaḥ |
तेनोक्तम् इह च स्थाने श्रेष्ठिनो बुद्धवर्मणः । (१८६।१)
tenoktam iha ca sthāne śreṣṭhino buddhavarmaṇaḥ |
तस्मै चान्येन षण्ढेन परिणीय द्विजन्मना । (१८७।१)
tasmai cānyena ṣaṇḍhena pariṇīya dvijanmanā |
शैलूषेणेव लुब्धेन स्वभार्या प्रतिपादिता ॥ (१८७।२)
śailūṣeṇeva lubdhena svabhāryā pratipāditā ||
सा तं कुरुभकं त्यक्त्वा मार्गयन्ती च तं द्विजम् । (१८८।१)
sā taṃ kurubhakaṃ tyaktvā mārgayantī ca taṃ dvijam |
प्रदोषे क्वाप्य् अपक्रान्ता लोकस् तेनायम् आकुलः ॥ (१८८।२)
pradoṣe kvāpy apakrāntā lokas tenāyam ākulaḥ ||
ततस् ततस् तया श्रुत्वा सान्तःस्मितमुदाहृतम् । (१८९।१)
tatas tatas tayā śrutvā sāntaḥsmitamudāhṛtam |
भद्र षण्ढस्य तस्याशु गृहं नयत माम् इति ॥ (१८९।२)
bhadra ṣaṇḍhasya tasyāśu gṛhaṃ nayata mām iti ||
यज्ञगुप्तगृहं प्रापद् ब्रह्मनिर्घोषभूषणम् ॥ (१९०।२)
yajñaguptagṛhaṃ prāpad brahmanirghoṣabhūṣaṇam ||
तत्र चाग्निगृहद्वारि व्याख्यानकरणाकुलम् । (१९१।१)
tatra cāgnigṛhadvāri vyākhyānakaraṇākulam |
सान्तेवासिनम् आसीनं यज्ञगुप्तं ददर्श सा ॥ (१९१।२)
sāntevāsinam āsīnaṃ yajñaguptaṃ dadarśa sā ||
ततो निधाय खट्वाङ्गं रचितस्वस्तिकासना । (१९२।१)
tato nidhāya khaṭvāṅgaṃ racitasvastikāsanā |
को ऽयं व्याख्यायते ग्रन्थ इत्य् अपृच्छत् समत्सरा ॥ (१९२।२)
ko 'yaṃ vyākhyāyate grantha ity apṛcchat samatsarā ||
सो ऽब्रवीद् भगवन्न् एषा मानवी धर्मसंहिता । (१९३।१)
so 'bravīd bhagavann eṣā mānavī dharmasaṃhitā |
एतस्यां चातुराश्रम्यं चातुर्वर्ण्यं च वर्ण्यते ॥ (१९३।२)
etasyāṃ cāturāśramyaṃ cāturvarṇyaṃ ca varṇyate ||
तयोक्तं किम् अलीकेन न हीयं धर्मसंहिता । (१९४।१)
tayoktaṃ kim alīkena na hīyaṃ dharmasaṃhitā |
लोकायतम् इदं मन्ये निर्मर्यादजनप्रियम् ॥ (१९४।२)
lokāyatam idaṃ manye nirmaryādajanapriyam ||
क्व धर्मसंहिता क्वेदम् अधर्मचरितं तव । (१९५।१)
kva dharmasaṃhitā kvedam adharmacaritaṃ tava |
न हि वैद्यः स्वशास्त्रज्ञः कुष्ठी मांसं निषेवते ॥ (१९५।२)
na hi vaidyaḥ svaśāstrajñaḥ kuṣṭhī māṃsaṃ niṣevate ||
व्याचख्यानेन विप्रेण मानवीं धर्मसंहिताम् । (१९६।१)
vyācakhyānena vipreṇa mānavīṃ dharmasaṃhitām |
व्यतिक्रान्तसवर्णेन परिणीता वरा त्वया ॥ (१९६।२)
vyatikrāntasavarṇena pariṇītā varā tvayā ||
यूना च काणकुण्ठाय मत्कुणाय किलार्पिता ॥ (१९७।२)
yūnā ca kāṇakuṇṭhāya matkuṇāya kilārpitā ||
तन् माहेश्वर पृच्छामि किम् अर्थम् इदम् ईदृशम् । (१९८।१)
tan māheśvara pṛcchāmi kim artham idam īdṛśam |
त्वया कृतम् अकर्तव्यं युक्तं चेत् कथ्यताम् इति ॥ (१९८।२)
tvayā kṛtam akartavyaṃ yuktaṃ cet kathyatām iti ||
सो ऽब्रवीद् भगवन् युक्तम् अयुक्तं वा भवत्व् इदम् । (१९९।१)
so 'bravīd bhagavan yuktam ayuktaṃ vā bhavatv idam |
विधेयैर् अविकार्यार्थाद् गुरुवाक्याद् अनुष्ठितम् ॥ (१९९।२)
vidheyair avikāryārthād guruvākyād anuṣṭhitam ||
तथा हि जामदग्न्येन दुर्लङ्घ्याद् वचनात् पितुः । (२००।१)
tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ |
मातुः कृत्तं शिरस् तत्र किम् आह भगवान् इति ॥ (२००।२)
mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti ||
तयोक्तं दिव्यवृत्तान्ता नादिव्यस्य निदर्शनम् । (२०१।१)
tayoktaṃ divyavṛttāntā nādivyasya nidarśanam |
न हि रुद्रेण पीतेति पिबन्ति ब्राह्मणाः सुराम् ॥ (२०१।२)
na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām ||
न च प्राज्ञेन कर्तव्यं सर्वम् एव गुरोर् वचः । (२०२।१)
na ca prājñena kartavyaṃ sarvam eva guror vacaḥ |
गुरुः किं नाम न ब्रूयाद् दुःखक्रोधादिबाधितः ॥ (२०२।२)
guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ ||
तीव्रशूलातुरशिराः पुत्रं ब्रूयात् पिता यदि । (२०३।१)
tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi |
शिरो मे छिन्द्धि पुत्रेति किं कार्यं तेन तत् तथा ॥ (२०३।२)
śiro me chinddhi putreti kiṃ kāryaṃ tena tat tathā ||
यच् च मातुः शिरः कृत्तं रामेण वचनात् पितुः । (२०४।१)
yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ |
तत् तस्यैव प्रभावेन सद्यः संघटितं पुनः ॥ (२०४।२)
tat tasyaiva prabhāvena sadyaḥ saṃghaṭitaṃ punaḥ ||
त्वया तु गुरुवाक्येन कृताकर्तव्यकर्मणा । (२०५।१)
tvayā tu guruvākyena kṛtākartavyakarmaṇā |
दिव्यप्रभावहीनेन तत् कथं कार्यम् अन्यथा ॥ (२०५।२)
divyaprabhāvahīnena tat kathaṃ kāryam anyathā ||
इदानीम् अपि ताम् एव भवान् विनेष्यति प्रियाम् । (२०६।१)
idānīm api tām eva bhavān vineṣyati priyām |
गुरुवाक्यं कृतं पूर्वं यद् गतं गतम् एव तत् ॥ (२०६।२)
guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat ||
तस्याम् इत्युक्तवाक्यायाम् असाव् आसीन् निरुत्तरः । (२०७।१)
tasyām ityuktavākyāyām asāv āsīn niruttaraḥ |
वादिवाच्ये हि निर्दोषे किं वाच्यं प्रतिवादिनः ॥ (२०७।२)
vādivācye hi nirdoṣe kiṃ vācyaṃ prativādinaḥ ||
भिक्षावेलापदेशेन तम् आमन्त्र्योच्चचाल सा ॥ (२०८।२)
bhikṣāvelāpadeśena tam āmantryoccacāla sā ||
तेन चोक्ता स्वम् एवेदम् ऋद्धिमच् च गृहं तव । (२०९।१)
tena coktā svam evedam ṛddhimac ca gṛhaṃ tava |
ततस् तया विहस्योक्तं नास्तिकस्य भवादृशः । (२१०।१)
tatas tayā vihasyoktaṃ nāstikasya bhavādṛśaḥ |
असंभोज्यम् अभोज्यत्वाद् अन्नं कापालिकैर् अपि ॥ (२१०।२)
asaṃbhojyam abhojyatvād annaṃ kāpālikair api ||
कृत्वापि तु महत् पापं पश्चात् तापं करोति यः । (२११।१)
kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ |
पुनःसंवरणं चासौ याति भोज्यान्नताम् इति ॥ (२११।२)
punaḥsaṃvaraṇaṃ cāsau yāti bhojyānnatām iti ||
एवमादि तम् उक्त्वासौ गत्वा च ब्राह्मणीगृहम् । (२१२।१)
evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham |
तं च कापालिकं कल्पं सायम् आदाय सा पुनः । (२१३।१)
taṃ ca kāpālikaṃ kalpaṃ sāyam ādāya sā punaḥ |
अन्नकालं च रात्रिं च नयन्ती ब्राह्मणीगृहे । (२१४।१)
annakālaṃ ca rātriṃ ca nayantī brāhmaṇīgṛhe |
शेषं च यज्ञगुप्तस्य सानयद् दिवसान् बहून् ॥ (२१४।२)
śeṣaṃ ca yajñaguptasya sānayad divasān bahūn ||
कदाचिच् चाभवत् तस्यास् तृष्णावशगचेतसा । (२१५।१)
kadācic cābhavat tasyās tṛṣṇāvaśagacetasā |
अकार्यम् इदम् एतेन कृतं कर्म द्विजन्मना ॥ (२१५।२)
akāryam idam etena kṛtaṃ karma dvijanmanā ||
कार्ये हि सुलभोपाये न मुह्यन्ति सुमेधसः ॥ (२१६।२)
kārye hi sulabhopāye na muhyanti sumedhasaḥ ||
अथ मुक्तालताम् एकाम् अरुणां तरलांशुभिः । (२१७।१)
atha muktālatām ekām aruṇāṃ taralāṃśubhiḥ |
हेमरूप्यं च तन्मूल्यम् आहतानाहतं शुचि । (२१८।१)
hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci |
ताम्रकुम्भयुगन्यस्तं सीमान्ते निहितं तया ॥ (२१८।२)
tāmrakumbhayuganyastaṃ sīmānte nihitaṃ tayā ||
आलापैश् चिरम् आसित्वा यज्ञगुप्तम् अभाषत ॥ (२१९।२)
ālāpaiś ciram āsitvā yajñaguptam abhāṣata ||
एकरात्रं वसेद् ग्रामे पञ्चरात्रं मुनिः पुरे । (२२०।१)
ekarātraṃ vased grāme pañcarātraṃ muniḥ pure |
इति प्रव्रजिताचारम् एतं वेद भवान् इति ॥ (२२०।२)
iti pravrajitācāram etaṃ veda bhavān iti ||
एतावन्तम् अहं कालं वत्स राजगृहे स्थितः । (२२१।१)
etāvantam ahaṃ kālaṃ vatsa rājagṛhe sthitaḥ |
त्यक्तप्रव्रजिताचारस् तद् अभवत् प्रीतिवञ्चितः ॥ (२२१।२)
tyaktapravrajitācāras tad abhavat prītivañcitaḥ ||
गृहिणो ऽपि हि सीदन्ति स्नेहशृङ्खलयन्त्रिताः । (२२२।१)
gṛhiṇo 'pi hi sīdanti snehaśṛṅkhalayantritāḥ |
विरक्ताः स्वशरीरे ऽपि निःसङ्गाः किं मुमुक्षवः ॥ (२२२।२)
viraktāḥ svaśarīre 'pi niḥsaṅgāḥ kiṃ mumukṣavaḥ ||
तेन वाराणसीं गन्तुम् अहम् इच्छामि संप्रति । (२२३।१)
tena vārāṇasīṃ gantum aham icchāmi saṃprati |
तीर्थदर्शनतन्त्रा हि सोमसिद्धान्तवादिनः ॥ (२२३।२)
tīrthadarśanatantrā hi somasiddhāntavādinaḥ ||
अन्यच् चाहं विजानामि दारिद्र्यव्याधिवैद्यकम् । (२२४।१)
anyac cāhaṃ vijānāmi dāridryavyādhivaidyakam |
मया च ध्यानखिन्नेन वनान्ते परिसर्पता । (२२५।१)
mayā ca dhyānakhinnena vanānte parisarpatā |
उज्ज्वलैर् लक्षितश् चिह्नैः केनापि निहितो निधिः ॥ (२२५।२)
ujjvalair lakṣitaś cihnaiḥ kenāpi nihito nidhiḥ ||
यदि चास्ति मयि प्रीतिस् ततः स्वीक्रियताम् असौ । (२२६।१)
yadi cāsti mayi prītis tataḥ svīkriyatām asau |
सफलाः खलु संपर्काः साधुभिस् त्वादृशैर् इति ॥ (२२६।२)
saphalāḥ khalu saṃparkāḥ sādhubhis tvādṛśair iti ||
यज्ञगुप्तस् तम् उत्खाय निधिं तत्सहितस् ततः । (२२७।१)
yajñaguptas tam utkhāya nidhiṃ tatsahitas tataḥ |
सधीराप्ततरछात्त्रः प्रच्छन्नं गृहम् आनयत् ॥ (२२७।२)
sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat ||
तत्र पित्रे निधानं तत् प्रीतः कथितवान् असौ । (२२८।१)
tatra pitre nidhānaṃ tat prītaḥ kathitavān asau |
तम् उवाच पिता पुत्रं त्यक्त्वा वेदान् अनर्थकान् । (२२९।१)
tam uvāca pitā putraṃ tyaktvā vedān anarthakān |
दिव्यं चक्षुर् इदं तात महाकालमतं मतम् । (२३०।१)
divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam |
निधिगर्भां नरो येन छिद्रां पश्यति मेदिनीम् ॥ (२३०।२)
nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm ||
महाकालमतस्यार्थे यत्नाद् आराध्यताम् इति ॥ (२३१।२)
mahākālamatasyārthe yatnād ārādhyatām iti ||
यज्ञगुप्तो ब्रवीति स्म प्रस्थितां कुन्दमालिकाम् ॥ (२३२।२)
yajñagupto bravīti sma prasthitāṃ kundamālikām ||
अहम् अप्य् अनुगच्छामि भवन्तं तीर्थम् अस्थिरम् । (२३३।१)
aham apy anugacchāmi bhavantaṃ tīrtham asthiram |
दृष्टादृष्टमहाश्रेयः कारणं मादृशाम् इति ॥ (२३३।२)
dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti ||
तया तु वार्यमाणो ऽपि वाचा मन्दप्रयत्नया । (२३४।१)
tayā tu vāryamāṇo 'pi vācā mandaprayatnayā |
महाकालमतप्रेप्सुर् असौ नैव निवृत्तवान् ॥ (२३४।२)
mahākālamataprepsur asau naiva nivṛttavān ||
अथ वाराणसीं गत्वा यज्ञगुप्ताय सा ददौ । (२३५।१)
atha vārāṇasīṃ gatvā yajñaguptāya sā dadau |
रत्नं नातिमहामूल्यम् इति चैनम् अभाषत ॥ (२३५।२)
ratnaṃ nātimahāmūlyam iti cainam abhāṣata ||
अस्य रत्नस्य मूल्येन यथासुखम् इहास्यताम् । (२३६।१)
asya ratnasya mūlyena yathāsukham ihāsyatām |
न तु तारुण्यमूढेन संभाष्या गणिका त्वया ॥ (२३६।२)
na tu tāruṇyamūḍhena saṃbhāṣyā gaṇikā tvayā ||
त्वादृङ् नवदशप्रायः श्रोत्रियः सकुतूहलः । (२३७।१)
tvādṛṅ navadaśaprāyaḥ śrotriyaḥ sakutūhalaḥ |
वेश्यावश्यः स्वदाराणां यात्य् अवश्यम् अवश्यताम् ॥ (२३७।२)
veśyāvaśyaḥ svadārāṇāṃ yāty avaśyam avaśyatām ||
यज् जीवति तद् आश्चर्यं क्व धर्मः क्व यशःसुखे ॥ (२३८।२)
yaj jīvati tad āścaryaṃ kva dharmaḥ kva yaśaḥsukhe ||
इत्यादिम् आदेशम् असौ तदीयं तथेत्य् अनुज्ञाय तथा चकार । (२३९।१)
ityādim ādeśam asau tadīyaṃ tathety anujñāya tathā cakāra |
आराध्यवाक्यानि हि भूतिकामाः सेवाविधिज्ञा न विकल्पयन्ति ॥ (२३९।२)
ārādhyavākyāni hi bhūtikāmāḥ sevāvidhijñā na vikalpayanti ||
चतुरः पञ्च वा मासान् वाराणस्यां विहृत्य तौ । (२४०।१)
caturaḥ pañca vā māsān vārāṇasyāṃ vihṛtya tau |
नैमिषं जग्मतुस् तस्माद् गङ्गाद्वारं ततः कुरून् ॥ (२४०।२)
naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn ||
कुरुभ्यः पुष्करं तत्र गमयित्वा घनागमम् । (२४१।१)
kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam |
कार्त्तिकान्ते महापुण्यं दृष्टवन्तौ महालयम् ॥ (२४१।२)
kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam ||
बहुद्रविणम् उत्पाद्य ददामि भवते निधिम् ॥ (२४२।२)
bahudraviṇam utpādya dadāmi bhavate nidhim ||
तम् आदाय गृहान् गच्छ दृष्टादृष्टार्थसाधनम् । (२४३।१)
tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam |
त्रिवर्गेण हि युज्यन्ते गृहस्था गृहमेधिनः ॥ (२४३।२)
trivargeṇa hi yujyante gṛhasthā gṛhamedhinaḥ ||
अश्रुतश्रुतयो मूढा रण्डा निर्वसवो ऽपि वा । (२४४।१)
aśrutaśrutayo mūḍhā raṇḍā nirvasavo 'pi vā |
भवन्ति खलु धर्मार्थं तीर्थयात्रापरायणाः ॥ (२४४।२)
bhavanti khalu dharmārthaṃ tīrthayātrāparāyaṇāḥ ||
अहम् अप्य् अधुना गच्छाम्य् अवन्तिनगरीं प्रति । (२४५।१)
aham apy adhunā gacchāmy avantinagarīṃ prati |
यात्रायां किल युध्यन्ते युद्धमात्रप्रयोजनाः ॥ (२४६।२)
yātrāyāṃ kila yudhyante yuddhamātraprayojanāḥ ||
तत्र कापालिकः कश्चिन् निहन्याद् अपि मां बली । (२४७।१)
tatra kāpālikaḥ kaścin nihanyād api māṃ balī |
उज्जयन्यां च यत् पापं दुष्कृतं कृतवान् असि । (२४८।१)
ujjayanyāṃ ca yat pāpaṃ duṣkṛtaṃ kṛtavān asi |
स्वर्गवद् ब्रह्मघातेन तेन सा दुर्गमा त्वया ॥ (२४८।२)
svargavad brahmaghātena tena sā durgamā tvayā ||
प्रावृत्य च ततः पश्य सनिधिः पितराव् इति ॥ (२४९।२)
prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti ||
आसीच् चास्य प्रसन्नौ मे पादाव् अस्य महात्मनः । (२५०।१)
āsīc cāsya prasannau me pādāv asya mahātmanaḥ |
हन्त संप्रति सम्प्राप्तं महाकालमतं मया ॥ (२५०।२)
hanta saṃprati samprāptaṃ mahākālamataṃ mayā ||
सर्वम् अप्य् उझति स्फीतं किमु ग्रन्थम् अनर्थकम् ॥ (२५१।२)
sarvam apy ujhati sphītaṃ kimu grantham anarthakam ||
चिरम् आराधितश् चायं निरपेक्षः स्वजीविते । (२५२।१)
ciram ārādhitaś cāyaṃ nirapekṣaḥ svajīvite |
महाकालमतं तन् मे कथं नाम न दास्यति ॥ (२५२।२)
mahākālamataṃ tan me kathaṃ nāma na dāsyati ||
यं च दोषम् अहं तत्र कृतवान् गुरुशासनात् । (२५३।१)
yaṃ ca doṣam ahaṃ tatra kṛtavān guruśāsanāt |
तस्य प्रच्छादनोपायो यत् किंचिद् इव तुच्छकः ॥ (२५३।२)
tasya pracchādanopāyo yat kiṃcid iva tucchakaḥ ||
परुषाकुलकेशं च न कश्चिल् लक्षयिष्यति ॥ (२५४।२)
paruṣākulakeśaṃ ca na kaścil lakṣayiṣyati ||
युक्तम् इत्यादि निर्धार्य सो ऽब्रवीत् कुन्दमालिकाम् । (२५५।१)
yuktam ityādi nirdhārya so 'bravīt kundamālikām |
किं चान्तेवासिनां युक्तं मोक्तुम् आचार्यम् आपदि ॥ (२५५।२)
kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi ||
न हि गच्छति पूर्णेन्दौ कलङ्को ऽस्य न गच्छति ॥ (२५६।२)
na hi gacchati pūrṇendau kalaṅko 'sya na gacchati ||
अथावन्तिपुरीं गत्वा यज्ञगुप्तम् उवाच सा । (२५८।१)
athāvantipurīṃ gatvā yajñaguptam uvāca sā |
आगच्छामि निधिं दृष्ट्वा निहितं केनचित् क्वचित् । (२५९।१)
āgacchāmi nidhiṃ dṛṣṭvā nihitaṃ kenacit kvacit |
यावत् तावत् त्वयोत्कण्ठा न कार्या माम् अपश्यता ॥ (२५९।२)
yāvat tāvat tvayotkaṇṭhā na kāryā mām apaśyatā ||
उज्जयन्यां निधानानि दुर्लभानि यतस् ततः । (२६०।१)
ujjayanyāṃ nidhānāni durlabhāni yatas tataḥ |
आशङ्के चिरम् आत्मानं परिभ्रान्तम् इतस् ततः ॥ (२६०।२)
āśaṅke ciram ātmānaṃ paribhrāntam itas tataḥ ||
आयुष्मन्तः प्रजावन्तो ऽपितृवन्तो ऽपि वा समाः । (२६१।१)
āyuṣmantaḥ prajāvanto 'pitṛvanto 'pi vā samāḥ |
न ह्य् औज्जयनकाः पौराः स्थिरान् निदधते निधीन् ॥ (२६१।२)
na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn ||
एवमादि तम् उक्त्वासौ गत्वा सिप्रासरित्तटम् । (२६२।१)
evamādi tam uktvāsau gatvā siprāsarittaṭam |
मुक्त्वा कापालिकाकल्पम् अमलाम् अकरोत् तनुम् ॥ (२६२।२)
muktvā kāpālikākalpam amalām akarot tanum ||
शरद्द्यौर् इव साभासीज् ज्योत्स्नाताराकुलाकुला ॥ (२६३।२)
śaraddyaur iva sābhāsīj jyotsnātārākulākulā ||
भिन्नवर्णां च भिन्दन्ती स्तनाभ्यां कण्ठकण्ठिकाम् । (२६४।१)
bhinnavarṇāṃ ca bhindantī stanābhyāṃ kaṇṭhakaṇṭhikām |
जालशिक्यस्थितालाबूः सा प्रतस्थे सपिण्डिका ॥ (२६४।२)
jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā ||
ततः कापालिका मत्ताः पिबन्तो बद्धमण्डलाः । (२६५।१)
tataḥ kāpālikā mattāḥ pibanto baddhamaṇḍalāḥ |
व्याहरन्ति स्म ताम् उच्चैः कुञ्चिताङ्गुलिपाणयः ॥ (२६५।२)
vyāharanti sma tām uccaiḥ kuñcitāṅgulipāṇayaḥ ||
एह्य् एहि तरलापाङ्गि यस् ते कापालिकः प्रियः । (२६६।१)
ehy ehi taralāpāṅgi yas te kāpālikaḥ priyaḥ |
तेन सार्धं यथाश्रद्धं पानम् आसेव्यताम् इति ॥ (२६६।२)
tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti ||
ततस् तत्रापि सा तेभ्यः प्रकृत्या प्रतिभावती । (२६७।१)
tatas tatrāpi sā tebhyaḥ prakṛtyā pratibhāvatī |
पश्यन्तीं च रमणीयां स्पृश्यमानां च भीषणाम् । (२६८।१)
paśyantīṃ ca ramaṇīyāṃ spṛśyamānāṃ ca bhīṣaṇām |
अलं भगवतां दृष्ट्वा मां दृष्टिविषकन्यकाम् ॥ (२६८।२)
alaṃ bhagavatāṃ dṛṣṭvā māṃ dṛṣṭiviṣakanyakām ||
पतिर् मम हि गन्धर्वः क्रूरताजितराक्षसः । (२६९।१)
patir mama hi gandharvaḥ krūratājitarākṣasaḥ |
ईर्ष्यावान् अप्रमत्तश् च सदा रक्षति माम् असौ ॥ (२६९।२)
īrṣyāvān apramattaś ca sadā rakṣati mām asau ||
यमेनेव क्षयं नीता कोटिर् युष्मादृशाम् इति ॥ (२७०।२)
yameneva kṣayaṃ nītā koṭir yuṣmādṛśām iti ||
ततः कापालिकैर् उक्तम् उक्तं यद् अनया श्रिया । (२७१।१)
tataḥ kāpālikair uktam uktaṃ yad anayā śriyā |
तन् न केवलम् एतस्याम् अधिकं चोपपद्यते ॥ (२७१।२)
tan na kevalam etasyām adhikaṃ copapadyate ||
त्रैलोक्ये ऽनिद्रताहेतोर् अस्याः कान्ताकृतेः कृते । (२७२।१)
trailokye 'nidratāhetor asyāḥ kāntākṛteḥ kṛte |
आश्चर्यं यन् न युध्यन्ते ब्रह्मविष्णुमहेश्वराः ॥ (२७२।२)
āścaryaṃ yan na yudhyante brahmaviṣṇumaheśvarāḥ ||
तस्माद् गन्धर्वम् अन्यं वा कंचित् त्रैलोक्यसुन्दरम् । (२७३।१)
tasmād gandharvam anyaṃ vā kaṃcit trailokyasundaram |
अनुगृह्णातु सस्नेहैर् इयम् आलोकितैर् इति ॥ (२७३।२)
anugṛhṇātu sasnehair iyam ālokitair iti ||
ततः सा परिकर्षन्ती सपाषण्डिगणा पुरीम् । (२७४।१)
tataḥ sā parikarṣantī sapāṣaṇḍigaṇā purīm |
आशीःकलकलोन्नीतम् अगच्छद् भवनं पितुः ॥ (२७४।२)
āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ ||
हृष्टार्थे वर्गसंबाधं सप्तकक्षं प्रविश्य तत् । (२७५।१)
hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat |
मातुर् वासगृहद्वारि भिक्षां देहीति चाब्रवीत् ॥ (२७५।२)
mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt ||
गृहाद् गृहीतभिक्षा च निर्याय परिचारिका । (२७६।१)
gṛhād gṛhītabhikṣā ca niryāya paricārikā |
आ शिरश्चरणाङ्गुष्ठम् अपश्यत् कुन्दमालिकाम् ॥ (२७६।२)
ā śiraścaraṇāṅguṣṭham apaśyat kundamālikām ||
चिराच् च प्रत्यभिज्ञाय घ्नती सहृदयं शिरः । (२७७।१)
cirāc ca pratyabhijñāya ghnatī sahṛdayaṃ śiraḥ |
प्रविश्य कथयामास स्वामिन्यै शनकैर् असौ ॥ (२७७।२)
praviśya kathayāmāsa svāminyai śanakair asau ||
उत्सन्नासि विनष्टासि यस्यास् ते धरणीधृता । (२७८।१)
utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā |
इयं तिष्ठति ते द्वारि स्वयं वा दृश्यताम् इति ॥ (२७९।२)
iyaṃ tiṣṭhati te dvāri svayaṃ vā dṛśyatām iti ||
इदम् आकर्ण्य निष्क्रान्ता सा तां दृष्ट्वा तथाविधाम् । (२८०।१)
idam ākarṇya niṣkrāntā sā tāṃ dṛṣṭvā tathāvidhām |
वाच्यताम् अनपेक्ष्यैव स्नेहाद् एतच् चचार सा ॥ (२८०।२)
vācyatām anapekṣyaiva snehād etac cacāra sā ||
चिछेद गुडिकां शश्वत् शङ्खस्फटिकमण्डनम् ॥ (२८१।२)
cicheda guḍikāṃ śaśvat śaṅkhasphaṭikamaṇḍanam ||
पाटयित्वा च तां तस्यास् तन्तुशः कण्ठकण्ठिकाम् । (२८२।१)
pāṭayitvā ca tāṃ tasyās tantuśaḥ kaṇṭhakaṇṭhikām |
मङ्गलस्नानशुद्धां तां शुद्धान्तम् अनयत् ततः ॥ (२८२।२)
maṅgalasnānaśuddhāṃ tāṃ śuddhāntam anayat tataḥ ||
तत्रैनाम् अब्रवीन् माता मातर्विश्रब्धम् उच्यताम् । (२८३।१)
tatrainām abravīn mātā mātarviśrabdham ucyatām |
किम् एतद् एवम् एवेति सा ततस् ताम् अभाषत ॥ (२८३।२)
kim etad evam eveti sā tatas tām abhāṣata ||
अकस्माद् भ्रान्तिर् अम्बायाः कथं तव सुता सती । (२८४।१)
akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī |
असतीभिर् अपि क्षिप्तं चरेत् कापालिकव्रतम् ॥ (२८४।२)
asatībhir api kṣiptaṃ caret kāpālikavratam ||
आस्तां तावत् कथा चेयं तातपादान् इहाह्वय । (२८५।१)
āstāṃ tāvat kathā ceyaṃ tātapādān ihāhvaya |
अस्ति मे गुरु कर्तव्यं साध्यते तच् च तैर् इति ॥ (२८५।२)
asti me guru kartavyaṃ sādhyate tac ca tair iti ||
अथ सागरदत्तस् ताम् आलोक्य व्याहृतागतः । (२८६।१)
atha sāgaradattas tām ālokya vyāhṛtāgataḥ |
किं किम् एतत् कथं चेति शशङ्के विषसाद च ॥ (२८६।२)
kiṃ kim etat kathaṃ ceti śaśaṅke viṣasāda ca ||
तं च दृष्ट्वा तथाभूतम् अत्रस्ता कुन्दमालिका । (२८७।१)
taṃ ca dṛṣṭvā tathābhūtam atrastā kundamālikā |
अब्रवीच् चैनम् आश्वस्तम् आस्ते भद्रवटाश्रमे । (२८८।१)
abravīc cainam āśvastam āste bhadravaṭāśrame |
जामाता तव स स्यालैस् तस्माद् आनाय्यताम् इति ॥ (२८८।२)
jāmātā tava sa syālais tasmād ānāyyatām iti ||
तदादिष्टैश् च संरब्धैर् गृहीतः स्यालकैर् असौ । (२८९।१)
tadādiṣṭaiś ca saṃrabdhair gṛhītaḥ syālakair asau |
लब्धो ऽसि पुत्रचौरेति मृषा परुषभाषिभिः ॥ (२८९।२)
labdho 'si putracaureti mṛṣā paruṣabhāṣibhiḥ ||
किं तिष्ठसि शठोत्तिष्ठ प्रतिष्ठ स्वपुरं प्रति । (२९०।१)
kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati |
त्वाम् आहूयति राजेति सस्मिताश् चैनम् अब्रुवन् ॥ (२९०।२)
tvām āhūyati rājeti sasmitāś cainam abruvan ||
ततस् तान् प्रत्यभिज्ञाय संभाव्य वधबन्धने । (२९१।१)
tatas tān pratyabhijñāya saṃbhāvya vadhabandhane |
मानस्तोकम् ऋचं जप्त्वा शिखाबन्धं चकार सः ॥ (२९१।२)
mānastokam ṛcaṃ japtvā śikhābandhaṃ cakāra saḥ ||
ससान्त्वं चाब्रवीद् अङ्ग क्षणम् एतद् उदीक्ष्यताम् । (२९२।१)
sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām |
मम कापालिको मित्रं यावद् आयात्य् असाव् इति ॥ (२९२।२)
mama kāpāliko mitraṃ yāvad āyāty asāv iti ||
स तैस् तारं विहस्योक्तस् त्वं यन् मित्रम् उदीक्षसे । (२९३।१)
sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase |
स गतः प्रथमं तत्र तेनैव ग्राहितो भवान् ॥ (२९३।२)
sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān ||
सुहृदो ऽपि विरज्यन्ते खलानां त्वादृशाम् इति ॥ (२९४।२)
suhṛdo 'pi virajyante khalānāṃ tvādṛśām iti ||
तं विषण्णं प्रहृष्टास् ते मूकं बहुपटुस्वनाः । (२९५।१)
taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ |
गृहीत्वा गृहम् आजग्मुः प्रीतबन्धुजनावृतम् ॥ (२९५।२)
gṛhītvā gṛham ājagmuḥ prītabandhujanāvṛtam ||
परिष्वक्तस्य जामातुः सप्राणम् अभवद् वपुः ॥ (२९६।२)
pariṣvaktasya jāmātuḥ saprāṇam abhavad vapuḥ ||
अध्यशेत महाशय्यां रम्यमण्डपसंस्तृताम् ॥ (२९७।२)
adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām ||
तत्रास्य श्वशुरौ स्यालाः स्यालभार्याश् च सात्मजाः । (२९८।१)
tatrāsya śvaśurau syālāḥ syālabhāryāś ca sātmajāḥ |
आप्ताश् च श्रेष्ठिनः पौराः परितः समुपाविशन् ॥ (२९८।२)
āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan ||
साथागच्छद् वणिक्कन्या मधुराभरणक्वणा । (२९९।१)
sāthāgacchad vaṇikkanyā madhurābharaṇakvaṇā |
गुरवः सत्कृता मूर्ध्ना वाचा सवयसस् तया । (३००।१)
guravaḥ satkṛtā mūrdhnā vācā savayasas tayā |
यज्ञगुप्तः पुनर् दृष्ट्या सरागाञ्जनगर्भया ॥ (३००।२)
yajñaguptaḥ punar dṛṣṭyā sarāgāñjanagarbhayā ||
अध्यास्य च पुरः पित्रोर् असौ वामनम् आसनम् । (३०१।१)
adhyāsya ca puraḥ pitror asau vāmanam āsanam |
विवाहादियथावृत्तम् आत्मवृत्तं न्यवेदयत् ॥ (३०१।२)
vivāhādiyathāvṛttam ātmavṛttaṃ nyavedayat ||
आसीच् च यज्ञगुप्तस्य धिग् धिङ् मे विफलाः कलाः । (३०२।१)
āsīc ca yajñaguptasya dhig dhiṅ me viphalāḥ kalāḥ |
द्व्यङ्गुलप्रज्ञया यो ऽहं वञ्चितः कुलकन्यया ॥ (३०२।२)
dvyaṅgulaprajñayā yo 'haṃ vañcitaḥ kulakanyayā ||
अथवा द्व्यङ्गुलप्रज्ञाः पुरुषा एव मादृशाः । (३०३।१)
athavā dvyaṅgulaprajñāḥ puruṣā eva mādṛśāḥ |
कुशाग्रीयधियो योषा यासां कर्मेसम् ईदृशम् ॥ (३०३।२)
kuśāgrīyadhiyo yoṣā yāsāṃ karmesam īdṛśam ||
तिष्ठतां गतिसंस्थाने स्वरो ऽपि परिवर्तितः ॥ (३०४।२)
tiṣṭhatāṃ gatisaṃsthāne svaro 'pi parivartitaḥ ||
विराटनगरे पार्थैः कथं मूढात्मभिः स्थितम् । (३०५।१)
virāṭanagare pārthaiḥ kathaṃ mūḍhātmabhiḥ sthitam |
इति ये विचिकित्सेयुस् तेषाम् एषा निदर्शनम् ॥ (३०५।२)
iti ye vicikitseyus teṣām eṣā nidarśanam ||
सर्वथा गुरुवाक्येन यन् मया चरितं महत् । (३०६।१)
sarvathā guruvākyena yan mayā caritaṃ mahat |
तस्माद् अस्म्य् अनयैवाद्य मोचितः पातकाद् इति ॥ (३०६।२)
tasmād asmy anayaivādya mocitaḥ pātakād iti ||
वृत्तान्तं चैतद् आकर्ण्य प्रहृष्टेन महीभृता । (३०७।१)
vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā |
तस्मिन् बहुमहाग्रामं दानं बहुसुवर्णकम् । (३०८।१)
tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam |
स दत्त्वा यज्ञगुप्ताय सस्मितस् ताम् अभाषत ॥ (३०८।२)
sa dattvā yajñaguptāya sasmitas tām abhāṣata ||
यथा द्विजातिकर्मभ्यो न हीयते पतिस् तव । (३०९।१)
yathā dvijātikarmabhyo na hīyate patis tava |
त्वया धीरतया पुत्रि तथा संपाद्यताम् इति ॥ (३०९।२)
tvayā dhīratayā putri tathā saṃpādyatām iti ||
तयातिधैर्याङ्कुशवारितेर्ष्यया द्विजातिकन्यां परिणायितः पतिः । (३१०।१)
tayātidhairyāṅkuśavāriterṣyayā dvijātikanyāṃ pariṇāyitaḥ patiḥ |
न हि क्षितीशान् अविलङ्घ्यशासनान् विलङ्घयन्ति प्रियजीवितश्रियः ॥ (३१०।२)
na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ ||
द्विजातिकन्यां रतिपुत्रकाम्यया सुखाय शुद्धाय च कुन्दमालिकाम् । (३११।१)
dvijātikanyāṃ ratiputrakāmyayā sukhāya śuddhāya ca kundamālikām |
निषेवमानः सुकृतं च संततं निनाय विप्रः सफलं समाशतम् ॥ (३११।२)
niṣevamānaḥ sukṛtaṃ ca saṃtataṃ nināya vipraḥ saphalaṃ samāśatam ||
पौगण्डाय वितीर्णयापि विधिना यस्माद् वणिक्कन्यया चित्रोपायपरंपराचतुरया प्राप्तः पतिर् वाञ्छितः । (३१२।१)
paugaṇḍāya vitīrṇayāpi vidhinā yasmād vaṇikkanyayā citropāyaparaṃparācaturayā prāptaḥ patir vāñchitaḥ |
संतोषक्षतसत्त्वसत्त्वदयितः संसेवितः कातरैस् तस्मात् पौरुषमारुतेन बलिना दैवाद्रिर् उन्मूलितः ॥ (३१२।२)
saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ ||
Data courtesy of The Digital Corpus of Sanskrit.