बृहत्कथाश्लोकसंग्रहBṛhatkathāślokasaṃgraha

Chapter 16

16 of 28 · 186 verses

Select a line for its word-by-word analysis.

1.1१.१

अथासौ माम् अवन्दित्वा निस्त्रिंशकरकङ्कटः । (१।१)

athāsau mām avanditvā nistriṃśakarakaṅkaṭaḥ |

1.2१.२

आरोहद् अम्बरं काले मन्देन्दुग्रहचन्द्रिके ॥ (१।२)

ārohad ambaraṃ kāle mandendugrahacandrike ||

2.1२.१

तं चोत्पतन्तम् आकाशं शरं वालम्बितत्वरम् । (२।१)

taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram |

2.2२.२

न पृच्छामि स्म पन्थानं देशं नगरम् एव वा ॥ (२।२)

na pṛcchāmi sma panthānaṃ deśaṃ nagaram eva vā ||

3.1३.१

गाहमानश् च वल्मीकस्थाणुकण्टकसंकटाम् । (३।१)

gāhamānaś ca valmīkasthāṇukaṇṭakasaṃkaṭām |

3.2३.२

अटवीं सिंहमातङ्गपुण्डरीकाकुलाम् अगाम् ॥ (३।२)

aṭavīṃ siṃhamātaṅgapuṇḍarīkākulām agām ||

4.1४.१

अथामितगतिक्रोधवह्निभासेव भासिताम् । (४।१)

athāmitagatikrodhavahnibhāseva bhāsitām |

4.2४.२

अपश्यं लोहितायन्तीं प्राचीम् अरुणशोचिषा ॥ (४।२)

apaśyaṃ lohitāyantīṃ prācīm aruṇaśociṣā ||

5.1५.१

कंचिच् चाध्वानम् आक्रम्य देशे नातिघनद्रुमे । (५।१)

kaṃcic cādhvānam ākramya deśe nātighanadrume |

5.2५.२

विवादिध्वनिघण्टानाम् अपश्यं मण्डलं गवाम् ॥ (५।२)

vivādidhvanighaṇṭānām apaśyaṃ maṇḍalaṃ gavām ||

6.1६.१

अनुमाय ततस् तेन वसन्तं देशम् अन्तिके । (६।१)

anumāya tatas tena vasantaṃ deśam antike |

6.2६.२

जाताश्वासमतिर् गच्छन् क्षणेनारण्यम् अत्यजम् ॥ (६।२)

jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam ||

7.1७.१

तुषारसमयारम्भभीयेव कमलाकरान् । (७।१)

tuṣārasamayārambhabhīyeva kamalākarān |

7.2७.२

अपश्यं धूसरच्छायान् गच्छन् दिनकरोदये ॥ (७।२)

apaśyaṃ dhūsaracchāyān gacchan dinakarodaye ||

8.1८.१

अथालिकुलनीलाग्रविलसत्कुन्दकाननम् । (८।१)

athālikulanīlāgravilasatkundakānanam |

8.2८.२

आलवालपरिक्षिप्तमूलम् उद्यानम् आसदम् ॥ (८।२)

ālavālaparikṣiptamūlam udyānam āsadam ||

9.1९.१

तत्र संमार्जनव्यग्रम् उद्यानपरिचारकम् । (९।१)

tatra saṃmārjanavyagram udyānaparicārakam |

9.2९.२

पृष्टवान् अस्मि कस्येदम् उद्यानम् इति सो ऽब्रवीत् ॥ (९।२)

pṛṣṭavān asmi kasyedam udyānam iti so 'bravīt ||

10.1१०.१

किं च देवकुमारो ऽपि दिव्यज्ञानामलाशयः । (१०।१)

kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ |

10.2१०.२

अस्मदादीन् अबोधान्धान् संदिहन्न् इव पृच्छति ॥ (१०।२)

asmadādīn abodhāndhān saṃdihann iva pṛcchati ||

11.1११.१

अथवा किं न एतेन महात्मानो हि मादृशैः । (११।१)

athavā kiṃ na etena mahātmāno hi mādṛśaiḥ |

11.2११.२

क्रीडन्ति तेन देवेन स्वयं विज्ञायताम् इति ॥ (११।२)

krīḍanti tena devena svayaṃ vijñāyatām iti ||

12.1१२.१

अथ द्वितीयम् उद्यानं रमणीयतरं ततः । (१२।१)

atha dvitīyam udyānaṃ ramaṇīyataraṃ tataḥ |

12.2१२.२

प्रविश्यापश्यम् उद्यानमन्दिरं तुङ्गतोरणम् ॥ (१२।२)

praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam ||

13.1१३.१

प्रविशामि स्म तत्राहम् एको दौवारिकश् च माम् । (१३।१)

praviśāmi sma tatrāham eko dauvārikaś ca mām |

13.2१३.२

अन्तरे वेत्रम् आधाय तिष्ठेति द्वार्य् अधारयत् ॥ (१३।२)

antare vetram ādhāya tiṣṭheti dvāry adhārayat ||

14.1१४.१

अथावोचद् द्वितीयस् तं धिक् त्वां निर्बुद्धचक्षुषम् । (१४।१)

athāvocad dvitīyas taṃ dhik tvāṃ nirbuddhacakṣuṣam |

14.2१४.२

निवारयसि यो मोहाद् एनम् अम्बरचारिणम् ॥ (१४।२)

nivārayasi yo mohād enam ambaracāriṇam ||

15.1१५.१

किं कदाचित् त्वया दृष्टः श्रुतो वा कश्चिद् ईदृशः । (१५।१)

kiṃ kadācit tvayā dṛṣṭaḥ śruto vā kaścid īdṛśaḥ |

15.2१५.२

एवं वा प्रविशन् धीरं धरणीधीरधीर् इति ॥ (१५।२)

evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti ||

16.1१६.१

तेनोक्तम् अननुज्ञातं भर्त्रा नारदम् अप्य् अहम् । (१६।१)

tenoktam ananujñātaṃ bhartrā nāradam apy aham |

16.2१६.२

विशन्तं नानुजानामि किं पुनः सौम्यम् ईदृशम् ॥ (१६।२)

viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam ||

17.1१७.१

अयं तु ध्रियमाणो ऽपि दिग्दन्तिगतिधीरतः । (१७।१)

ayaṃ tu dhriyamāṇo 'pi digdantigatidhīrataḥ |

17.2१७.२

प्रविशत्य् एव पारुष्यमात्रसारा हि मादृशाः ॥ (१७।२)

praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ ||

18.1१८.१

अथ निष्कारणोत्कण्ठाकरम् उद्यानमन्दिरम् । (१८।१)

atha niṣkāraṇotkaṇṭhākaram udyānamandiram |

18.2१८.२

प्राविशं निस्वनद्वीणं विनीताण्डजवानरम् ॥ (१८।२)

prāviśaṃ nisvanadvīṇaṃ vinītāṇḍajavānaram ||

19.1१९.१

तत्रासीनं शिलापट्टे चित्रपट्टोपधानके । (१९।१)

tatrāsīnaṃ śilāpaṭṭe citrapaṭṭopadhānake |

19.2१९.२

अपश्यम् अमराकारं नरं नागरकेश्वरम् ॥ (१९।२)

apaśyam amarākāraṃ naraṃ nāgarakeśvaram ||

20.1२०.१

उपसृत्य तम् आभाष्य भोः साधो सुखम् आस्यते । (२०।१)

upasṛtya tam ābhāṣya bhoḥ sādho sukham āsyate |

20.2२०.२

कच्चिद् वा प्रत्यवेक्ष्यन्ते बहुकृत्वः कला इति ॥ (२०।२)

kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti ||

21.1२१.१

वीणाव्यासक्तचित्तत्वात् पश्यति स्म न माम् असौ । (२१।१)

vīṇāvyāsaktacittatvāt paśyati sma na mām asau |

21.2२१.२

अवक्षिप्तं हि दृश्यानि मनः पश्यति नेक्षणे ॥ (२१।२)

avakṣiptaṃ hi dṛśyāni manaḥ paśyati nekṣaṇe ||

22.1२२.१

मया तु चलिता वीणा गृहीत्वाग्रे यदा तदा । (२२।१)

mayā tu calitā vīṇā gṛhītvāgre yadā tadā |

22.2२२.२

वीणातश् चक्षुर् आक्षिप्य मयि निक्षिप्तवान् असौ ॥ (२२।२)

vīṇātaś cakṣur ākṣipya mayi nikṣiptavān asau ||

23.1२३.१

ततः संभ्रान्तम् उत्थाय स्रंसमानोत्तराम्बरः । (२३।१)

tataḥ saṃbhrāntam utthāya sraṃsamānottarāmbaraḥ |

23.2२३.२

माम् उपावेशयत् प्रीतस् तस्मिन्न् एव शिलासने ॥ (२३।२)

mām upāveśayat prītas tasminn eva śilāsane ||

24.1२४.१

पादचारपरिश्रान्तम् अङ्गं संवाह्य मामकम् । (२४।१)

pādacārapariśrāntam aṅgaṃ saṃvāhya māmakam |

24.2२४.२

प्रक्षाल्य च स्वयं पादौ दत्तार्घः समुपाविशत् ॥ (२४।२)

prakṣālya ca svayaṃ pādau dattārghaḥ samupāviśat ||

25.1२५.१

अनुयुक्तश् च स मया को ऽयं जनपदस् त्वया । (२५।१)

anuyuktaś ca sa mayā ko 'yaṃ janapadas tvayā |

25.2२५.२

भूषितः कतमच् चेदं पुरं सच्चरितैर् इति ॥ (२५।२)

bhūṣitaḥ katamac cedaṃ puraṃ saccaritair iti ||

26.1२६.१

अथ तेन विहस्योक्तं संभाव्या नभसा गतिः । (२६।१)

atha tena vihasyoktaṃ saṃbhāvyā nabhasā gatiḥ |

26.2२६.२

त्वादृशां देवपुत्राणाम् अज्ञानं तु न युज्यते ॥ (२६।२)

tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate ||

27.1२७.१

यो हि देशान्तरं याति मुग्धो ऽपि धरणीचरः । (२७।१)

yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ |

27.2२७.२

अग्रतो भावितं देशं नाबुद्ध्वा सम्प्रपद्यते ॥ (२७।२)

agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate ||

28.1२८.१

देशश् चन्द्रप्रकाशो ऽयं चन्द्रिकाप्रकटा पुरी । (२८।१)

deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī |

28.2२८.२

न ज्ञाता पथिकेनेति दुःश्लिष्टम् इव दृश्यते ॥ (२८।२)

na jñātā pathikeneti duḥśliṣṭam iva dṛśyate ||

29.1२९.१

तेनामरकुमारस् त्वम् अवतीर्णो विहायसः । (२९।१)

tenāmarakumāras tvam avatīrṇo vihāyasaḥ |

29.2२९.२

अज्ञानच्छद्मना छन्नः क्रीडितुं मद्विधैर् इति ॥ (२९।२)

ajñānacchadmanā channaḥ krīḍituṃ madvidhair iti ||

30.1३०.१

अथाहं चिन्तयित्वेदम् उत्तराभासम् उक्तवान् । (३०।१)

athāhaṃ cintayitvedam uttarābhāsam uktavān |

30.2३०.२

द्विजो ऽहं वत्सविषये वसतः पितरौ मम ॥ (३०।२)

dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama ||

31.1३१.१

सो ऽहं कर्णसुखाचारः कदाचिन् मन्त्रवादिनाम् । (३१।१)

so 'haṃ karṇasukhācāraḥ kadācin mantravādinām |

31.2३१.२

श्रुत्वा दारैर् असंतुष्टो यक्षीं कांचिद् असाधयम् ॥ (३१।२)

śrutvā dārair asaṃtuṣṭo yakṣīṃ kāṃcid asādhayam ||

32.1३२.१

सा चाहं च ततः प्रीतौ शैले शैले वने वने । (३२।१)

sā cāhaṃ ca tataḥ prītau śaile śaile vane vane |

32.2३२.२

यद् वा यद् रुचितं तस्यै तत्र तत्रारमावहि ॥ (३२।२)

yad vā yad rucitaṃ tasyai tatra tatrāramāvahi ||

33.1३३.१

चिन्तितं च मया रात्रौ न मे यक्ष्या प्रयोजनम् । (३३।१)

cintitaṃ ca mayā rātrau na me yakṣyā prayojanam |

33.2३३.२

पातालमन्त्रम् आराध्य रमयाम्य् असुरीम् इति ॥ (३३।२)

pātālamantram ārādhya ramayāmy asurīm iti ||

34.1३४.१

अथेर्ष्यादूषितधिया तयाहं यक्षकन्यया । (३४।१)

atherṣyādūṣitadhiyā tayāhaṃ yakṣakanyayā |

34.2३४.२

आनीय नभसा न्यस्तः पुरे ऽस्मिन् भवताम् इति ॥ (३४।२)

ānīya nabhasā nyastaḥ pure 'smin bhavatām iti ||

35.1३५.१

तेनोक्तं न न संभाव्या यक्षरक्षःसु चण्डता । (३५।१)

tenoktaṃ na na saṃbhāvyā yakṣarakṣaḥsu caṇḍatā |

35.2३५.२

पश्चात् तापगृहीता तु न सा युष्मान् विमोक्ष्यति ॥ (३५।२)

paścāt tāpagṛhītā tu na sā yuṣmān vimokṣyati ||

36.1३६.१

को ऽयं जनपदः स्यात् का पुरीति च यद् उच्यते । (३६।१)

ko 'yaṃ janapadaḥ syāt kā purīti ca yad ucyate |

36.2३६.२

अङ्गा जनपदः स्फीतश् चम्पा चेयं महापुरी ॥ (३६।२)

aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī ||

37.1३७.१

अहं च दत्तको नाम वणिक् पौरपुरस्कृतः । (३७।१)

ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ |

37.2३७.२

प्रसिद्धः प्रियवीणत्वाद् वीणादत्तकनामकः ॥ (३७।२)

prasiddhaḥ priyavīṇatvād vīṇādattakanāmakaḥ ||

38.1३८.१

अथाहूयाब्रवीद् एकं स कर्णे परिचारकम् । (३८।१)

athāhūyābravīd ekaṃ sa karṇe paricārakam |

38.2३८.२

गाढं परिकरं बध्नन् धावमानः स चागमत् ॥ (३८।२)

gāḍhaṃ parikaraṃ badhnan dhāvamānaḥ sa cāgamat ||

39.1३९.१

क्षणेन च परावृत्य श्वसितस्पन्दितोदरः । (३९।१)

kṣaṇena ca parāvṛtya śvasitaspanditodaraḥ |

39.2३९.२

स्वामिप्रवहणं प्राप्तम् इति दत्तकम् अब्रवीत् ॥ (३९।२)

svāmipravahaṇaṃ prāptam iti dattakam abravīt ||

40.1४०.१

अथावतार्य मुदितः स्वाङ्गुलेर् अङ्गुलीयकम् । (४०।१)

athāvatārya muditaḥ svāṅguler aṅgulīyakam |

40.2४०.२

दत्तवान् दत्तकस् तस्मै शीघ्रप्रेषणकारिणे ॥ (४०।२)

dattavān dattakas tasmai śīghrapreṣaṇakāriṇe ||

41.1४१.१

कृताञ्जलिर् अथोवाच यक्षीकामुक धाव्यताम् । (४१।१)

kṛtāñjalir athovāca yakṣīkāmuka dhāvyatām |

41.2४१.२

पावनैर् दासभवनं पादनिक्षेपणैर् इति ॥ (४१।२)

pāvanair dāsabhavanaṃ pādanikṣepaṇair iti ||

42.1४२.१

अथारुह्य प्रवहणं वीणादत्तकवाहकम् । (४२।१)

athāruhya pravahaṇaṃ vīṇādattakavāhakam |

42.2४२.२

गृहीतचारुसंचारं चम्पाम् अभिमुखो ऽगमम् ॥ (४२।२)

gṛhītacārusaṃcāraṃ campām abhimukho 'gamam ||

43.1४३.१

शृणोमि स्म च पौराणां जल्पताम् इतरेतरम् । (४३।१)

śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram |

43.2४३.२

चिरंजीवद्भिर् आश्चर्यं पृथिव्यां किं न दृश्यते ॥ (४३।२)

ciraṃjīvadbhir āścaryaṃ pṛthivyāṃ kiṃ na dṛśyate ||

44.1४४.१

क्व नागरकसेनानीर् दत्तकस् तुङ्गमस्तकः । (४४।१)

kva nāgarakasenānīr dattakas tuṅgamastakaḥ |

44.2४४.२

क्व च कस्यापि पान्थस्य रज्जुभागे व्यवस्थितः ॥ (४४।२)

kva ca kasyāpi pānthasya rajjubhāge vyavasthitaḥ ||

45.1४५.१

अथापरेण तत्रोक्तम् अत एवायुमत्तमः । (४५।१)

athāpareṇa tatroktam ata evāyumattamaḥ |

45.2४५.२

येन लोकोत्तमस्यास्य रज्जुभागे व्यवस्थितः ॥ (४५।२)

yena lokottamasyāsya rajjubhāge vyavasthitaḥ ||

46.1४६.१

आकारानुमितं चैतद् गुणसंभारभारिणः । (४६।१)

ākārānumitaṃ caitad guṇasaṃbhārabhāriṇaḥ |

46.2४६.२

ननु चास्य वसन्तो ऽपि सारथ्येन विकथ्यते ॥ (४६।२)

nanu cāsya vasanto 'pi sārathyena vikathyate ||

47.1४७.१

दृष्टवान् परितश् चाहं क्वचिद् उत्सृष्टलाङ्गलान् । (४७।१)

dṛṣṭavān paritaś cāhaṃ kvacid utsṛṣṭalāṅgalān |

47.2४७.२

हालिकान् हलमूलेषु वीणावादनतत्परान् ॥ (४७।२)

hālikān halamūleṣu vīṇāvādanatatparān ||

48.1४८.१

क्वचिद् उद्दामगोवर्गं वटे गोपालमण्डलम् । (४८।१)

kvacid uddāmagovargaṃ vaṭe gopālamaṇḍalam |

48.2४८.२

वितन्त्रीस् ताडयद्वीणाः कर्णशूलप्रदायिनीः ॥ (४८।२)

vitantrīs tāḍayadvīṇāḥ karṇaśūlapradāyinīḥ ||

49.1४९.१

आसन्नश् च पुरद्वारं विक्रयाय प्रसारिताम् । (४९।१)

āsannaś ca puradvāraṃ vikrayāya prasāritām |

49.2४९.२

वीणावयवसम्पूर्णाम् अपश्यं शकटावलीम् ॥ (४९।२)

vīṇāvayavasampūrṇām apaśyaṃ śakaṭāvalīm ||

50.1५०.१

विजर्जरितकर्णश् च वितन्त्रीध्वनिमुद्गरैः । (५०।१)

vijarjaritakarṇaś ca vitantrīdhvanimudgaraiḥ |

50.2५०.२

व्यस्तपद्मनिधानाभं प्राप्नोमि स्म वणिक्पथम् ॥ (५०।२)

vyastapadmanidhānābhaṃ prāpnomi sma vaṇikpatham ||

51.1५१.१

कुङ्कुमं क्रेतुम् आयातः कश्चिद् वाणिजम् अब्रवीत् । (५१।१)

kuṅkumaṃ kretum āyātaḥ kaścid vāṇijam abravīt |

51.2५१.२

वीणाविक्षिप्तचेतस्को वीणा मे दीयताम् इति ॥ (५१।२)

vīṇāvikṣiptacetasko vīṇā me dīyatām iti ||

52.1५२.१

चिराद् आकर्ण्य तद् वाक्यं कुपितः स तम् अब्रवीत् । (५२।१)

cirād ākarṇya tad vākyaṃ kupitaḥ sa tam abravīt |

52.2५२.२

वणिजो ऽन्ये किम् उत्सन्ना येन खादसि माम् इति ॥ (५२।२)

vaṇijo 'nye kim utsannā yena khādasi mām iti ||

53.1५३.१

एवं वर्धकिकर्मारकुलालवरुडादयः । (५३।१)

evaṃ vardhakikarmārakulālavaruḍādayaḥ |

53.2५३.२

निकृष्टजन्मकर्माणः सक्ता वीणाम् अवादयन् ॥ (५३।२)

nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan ||

54.1५४.१

अथ प्रायं चिरं द्वारं वीणादत्तकवेश्मनः । (५४।१)

atha prāyaṃ ciraṃ dvāraṃ vīṇādattakaveśmanaḥ |

54.2५४.२

शातकुम्भमयैः कुम्भैर् अम्भोगर्भैः समङ्गलम् ॥ (५४।२)

śātakumbhamayaiḥ kumbhair ambhogarbhaiḥ samaṅgalam ||

55.1५५.१

तत्र यानाद् अवप्लुत्य प्राविशं गृहम् ऋद्धिमत् । (५५।१)

tatra yānād avaplutya prāviśaṃ gṛham ṛddhimat |

55.2५५.२

उत्थास्नुर् इव मेधावी विशालं हृदयं श्रियः ॥ (५५।२)

utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ ||

56.1५६.१

दत्तकस् तु पुरो ऽस्माकं दासीदासम् अभाषत । (५६।१)

dattakas tu puro 'smākaṃ dāsīdāsam abhāṣata |

56.2५६.२

अद्यारभ्यास्य युष्माभिर् आज्ञा संपाद्यताम् इति ॥ (५६।२)

adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti ||

57.1५७.१

अथ व्यज्ञापयन् प्रह्वाः सूपकाराः समेत्य माम् । (५७।१)

atha vyajñāpayan prahvāḥ sūpakārāḥ sametya mām |

57.2५७.२

आज्ञापयत युष्माकं कः पाकः साध्यताम् इति ॥ (५७।२)

ājñāpayata yuṣmākaṃ kaḥ pākaḥ sādhyatām iti ||

58.1५८.१

मम त्व् आसीन् मया तावद् ब्राह्मणत्वं प्रकाशितम् । (५८।१)

mama tv āsīn mayā tāvad brāhmaṇatvaṃ prakāśitam |

58.2५८.२

ब्राह्मणाश् च घृतक्षीरगुडादिमधुरप्रियाः ॥ (५८।२)

brāhmaṇāś ca ghṛtakṣīraguḍādimadhurapriyāḥ ||

59.1५९.१

तद् इदं युक्तम् इत्य् एतच् चिन्तयित्वेदम् उक्तवान् । (५९।१)

tad idaṃ yuktam ity etac cintayitvedam uktavān |

59.2५९.२

ननु हस्तपुटग्राह्यं पायसं साध्यताम् इति ॥ (५९।२)

nanu hastapuṭagrāhyaṃ pāyasaṃ sādhyatām iti ||

60.1६०.१

अथ हस्तं विधूयोक्तं सूपकारेण गच्छता । (६०।१)

atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā |

60.2६०.२

अन्नसंस्कारशास्त्रज्ञाः कां दिशं यान्तु संप्रति ॥ (६०।२)

annasaṃskāraśāstrajñāḥ kāṃ diśaṃ yāntu saṃprati ||

61.1६१.१

भीमसेनादिभिर् यानि सूदशास्त्राणि चक्रिरे । (६१।१)

bhīmasenādibhir yāni sūdaśāstrāṇi cakrire |

61.2६१.२

कर्मकर्यो ऽपि तान्य् अस्मिन् गृहे प्रायेण जानते ॥ (६१।२)

karmakaryo 'pi tāny asmin gṛhe prāyeṇa jānate ||

62.1६२.१

यक्षीकामुकम् आसाद्य प्रभुं भोजनकोविदम् । (६२।१)

yakṣīkāmukam āsādya prabhuṃ bhojanakovidam |

62.2६२.२

अनर्थकानि जातानि चरितार्थानि पायसे ॥ (६२।२)

anarthakāni jātāni caritārthāni pāyase ||

63.1६३.१

अहो नागरकः स्वामी स्वयं प्रवहणेन यः । (६३।१)

aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ |

63.2६३.२

आलेख्ययक्षम् आदाय यक्षीकामुकम् आगतः ॥ (६३।२)

ālekhyayakṣam ādāya yakṣīkāmukam āgataḥ ||

64.1६४.१

सर्वथा धिग् अकार्यज्ञम् ऐश्वर्यजनितं मदम् । (६४।१)

sarvathā dhig akāryajñam aiśvaryajanitaṃ madam |

64.2६४.२

गमितः प्रेष्यतां येन मादृशो ऽपीदृशाम् इति ॥ (६४।२)

gamitaḥ preṣyatāṃ yena mādṛśo 'pīdṛśām iti ||

65.1६५.१

अथ मर्दनशास्त्रज्ञस् तरुणः परिचारकः । (६५।१)

atha mardanaśāstrajñas taruṇaḥ paricārakaḥ |

65.2६५.२

ममाङ्गं गन्धतैलेन मृद्नाति स्म यथासुखम् ॥ (६५।२)

mamāṅgaṃ gandhatailena mṛdnāti sma yathāsukham ||

66.1६६.१

पश्चाद् उद्वर्तनं स्नानम् अहताम्बरधारणम् । (६६।१)

paścād udvartanaṃ snānam ahatāmbaradhāraṇam |

66.2६६.२

कृत्वा देवप्रणामं च प्रायं भोजनमण्डपम् ॥ (६६।२)

kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam ||

67.1६७.१

तत्र भोजनभूमिष्ठं मां नमस्कृत्य दत्तकः । (६७।१)

tatra bhojanabhūmiṣṭhaṃ māṃ namaskṛtya dattakaḥ |

67.2६७.२

सभ्रातृभागिनेयादिपङ्क्तिमध्य उपाविशत् ॥ (६७।२)

sabhrātṛbhāgineyādipaṅktimadhya upāviśat ||

68.1६८.१

कुलालचक्रपात्री च पात्री मम हिरण्मयी । (६८।१)

kulālacakrapātrī ca pātrī mama hiraṇmayī |

68.2६८.२

पायसेनेन्दुवर्णेन सूपकारेण पूरिता ॥ (६८।२)

pāyasenenduvarṇena sūpakāreṇa pūritā ||

69.1६९.१

पार्श्वे पायसपात्र्याश् च तेजस्विमणिभाजने । (६९।१)

pārśve pāyasapātryāś ca tejasvimaṇibhājane |

69.2६९.२

महासारमुसारस्थे स्थापिते मधुसर्पिषी ॥ (६९।२)

mahāsāramusārasthe sthāpite madhusarpiṣī ||

70.1७०.१

चिन्तितं च मया जातो महानयम् उपद्रवः । (७०।१)

cintitaṃ ca mayā jāto mahānayam upadravaḥ |

70.2७०.२

मधुमांसोचितः क्वाहं क्व चेदं घृतपायसम् ॥ (७०।२)

madhumāṃsocitaḥ kvāhaṃ kva cedaṃ ghṛtapāyasam ||

71.1७१.१

केन नाम प्रकारेण त्यजेयम् इदम् इत्य् अहम् । (७१।१)

kena nāma prakāreṇa tyajeyam idam ity aham |

71.2७१.२

विचार्य पायसग्रासं दग्धो ऽस्मीति निरस्तवान् ॥ (७१।२)

vicārya pāyasagrāsaṃ dagdho 'smīti nirastavān ||

72.1७२.१

तेषां संप्रत्ययार्थं च हरन् दाहरुजं किल । (७२।१)

teṣāṃ saṃpratyayārthaṃ ca haran dāharujaṃ kila |

72.2७२.२

शीतपानीयगण्डूषैर् मुखं मुहुर् अशीतयम् ॥ (७२।२)

śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam ||

73.1७३.१

बल्लवस् तु पुरः स्थित्वा वीणादत्तकम् उक्तवान् । (७३।१)

ballavas tu puraḥ sthitvā vīṇādattakam uktavān |

73.2७३.२

नायं विप्रः कथं विप्रः प्रद्विष्याद् घृतपायसम् ॥ (७३।२)

nāyaṃ vipraḥ kathaṃ vipraḥ pradviṣyād ghṛtapāyasam ||

74.1७४.१

आचष्ट मर्दकश् चेदम् आसवामोदवासितः । (७४।१)

ācaṣṭa mardakaś cedam āsavāmodavāsitaḥ |

74.2७४.२

निश्वासो ऽस्य मया घ्रातः शनकैर् निश्चरन्न् इति ॥ (७४।२)

niśvāso 'sya mayā ghrātaḥ śanakair niścarann iti ||

75.1७५.१

दत्तको ऽपि कराग्रेण पिधाय मुखम् आत्मनः । (७५।१)

dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ |

75.2७५.२

कम्पयित्वोत्तमाङ्गं च तं ब्रुवन्तं न्यवारयत् ॥ (७५।२)

kampayitvottamāṅgaṃ ca taṃ bruvantaṃ nyavārayat ||

76.1७६.१

अब्रवीच् च पयःपानं यूयं पिबत पानकम् । (७६।१)

abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam |

76.2७६.२

पानकस्यापि पानेन गोष्ठी संमान्यताम् इति ॥ (७६।२)

pānakasyāpi pānena goṣṭhī saṃmānyatām iti ||

77.1७७.१

मया तु जाततर्षेण पाने परिणतिं गते । (७७।१)

mayā tu jātatarṣeṇa pāne pariṇatiṃ gate |

77.2७७.२

तत् पीतं पानसादृश्यात् पानबुद्ध्यैव पानकम् ॥ (७७।२)

tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam ||

78.1७८.१

खण्डमांसप्रकाराद्यं नानाधिष्ठानसंकुलम् । (७८।१)

khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam |

78.2७८.२

सेवित्वाहारम् अग्राम्यम् उदतिष्ठं सदत्तकः ॥ (७८।२)

sevitvāhāram agrāmyam udatiṣṭhaṃ sadattakaḥ ||

79.1७९.१

संमृष्टभोजनस्थाने पुष्पच्छुरितकुट्टिमे । (७९।१)

saṃmṛṣṭabhojanasthāne puṣpacchuritakuṭṭime |

79.2७९.२

कान्तम् अध्यासि पर्यङ्कं न्यस्तं तत्रैव मण्डपे ॥ (७९।२)

kāntam adhyāsi paryaṅkaṃ nyastaṃ tatraiva maṇḍape ||

80.1८०.१

कर्पूरत्रिफलानाभिलवङ्गैलासुगन्धिना । (८०।१)

karpūratriphalānābhilavaṅgailāsugandhinā |

80.2८०.२

मुखस्य गन्धरागौ च ताम्बूलेनोदपादयम् ॥ (८०।२)

mukhasya gandharāgau ca tāmbūlenodapādayam ||

81.1८१.१

एवं च सुखम् आसीनो वीणादत्तकम् अब्रवम् । (८१।१)

evaṃ ca sukham āsīno vīṇādattakam abravam |

81.2८१.२

वीणोन्मत्तिर् इयं कस्माच् चम्पायां कथ्यताम् इति ॥ (८१।२)

vīṇonmattir iyaṃ kasmāc campāyāṃ kathyatām iti ||

82.1८२.१

तेनोक्तम् इह चम्पायां सानुदासो वणिक्पतिः । (८२।१)

tenoktam iha campāyāṃ sānudāso vaṇikpatiḥ |

82.2८२.२

तस्य गन्धर्वदत्तेति सुता त्रैलोक्यसुन्दरी ॥ (८२।२)

tasya gandharvadatteti sutā trailokyasundarī ||

83.1८३.१

स च तां ध्रियमाणो ऽपि वरैर् वरगुणाकरैः । (८३।१)

sa ca tāṃ dhriyamāṇo 'pi varair varaguṇākaraiḥ |

83.2८३.२

अभिप्रायेण केनापि न कस्मैचित् प्रयच्छति ॥ (८३।२)

abhiprāyeṇa kenāpi na kasmaicit prayacchati ||

84.1८४.१

प्रत्याख्यातुम् अशक्तेन याचितेन क्षणे क्षणे । (८४।१)

pratyākhyātum aśaktena yācitena kṣaṇe kṣaṇe |

84.2८४.२

तेन शुल्कम् उपन्यस्तं दुःसंपादं सुरैर् अपि ॥ (८४।२)

tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api ||

85.1८५.१

अपूर्वं किल गायन्त्यास् तस्याः किम् अपि गीतकम् । (८५।१)

apūrvaṃ kila gāyantyās tasyāḥ kim api gītakam |

85.2८५.२

यो ऽनुवादयिता वीणां परिणेता स ताम् इति ॥ (८५।२)

yo 'nuvādayitā vīṇāṃ pariṇetā sa tām iti ||

86.1८६.१

मयेयं परिणेतव्या मयेयम् इति निस्त्रपः । (८६।१)

mayeyaṃ pariṇetavyā mayeyam iti nistrapaḥ |

86.2८६.२

न कश्चिद् यो न चम्पायां वीणयोन्मत्तकः किल ॥ (८६।२)

na kaścid yo na campāyāṃ vīṇayonmattakaḥ kila ||

87.1८७.१

पुरो नागरकाणां च चतुःषष्टेस् तदर्थिनाम् । (८७।१)

puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām |

87.2८७.२

षष्ठे षष्ठे गते मासे सा तद् गायति गीतकम् ॥ (८७।२)

ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam ||

88.1८८.१

अनेन च प्रकारेण यातः कालो महान् अयम् । (८८।१)

anena ca prakāreṇa yātaḥ kālo mahān ayam |

88.2८८.२

न चापि वीणया कश्चिद् अनुगच्छति ताम् इति ॥ (८८।२)

na cāpi vīṇayā kaścid anugacchati tām iti ||

89.1८९.१

एतत्कथावसाने च पुरुषौ श्रोत्रियाकृती । (८९।१)

etatkathāvasāne ca puruṣau śrotriyākṛtī |

89.2८९.२

वीणादत्तकम् अब्रूतां स्थविरौ वेत्रधारिणौ ॥ (८९।२)

vīṇādattakam abrūtāṃ sthavirau vetradhāriṇau ||

90.1९०.१

श्रेष्ठिना प्रेषिताव् आवां संदेशेन त्वदन्तिकम् । (९०।१)

śreṣṭhinā preṣitāv āvāṃ saṃdeśena tvadantikam |

90.2९०.२

यदि सज्जा सुहृद्गोष्ठी समस्या क्रियताम् इति ॥ (९०।२)

yadi sajjā suhṛdgoṣṭhī samasyā kriyatām iti ||

91.1९१.१

तेनोक्तं सुहृदः सज्जा यदि वः सुस्थिता गृहाः । (९१।१)

tenoktaṃ suhṛdaḥ sajjā yadi vaḥ susthitā gṛhāḥ |

91.2९१.२

कल्या गन्धर्वदत्ता वा स्व एव क्रियताम् इति ॥ (९१।२)

kalyā gandharvadattā vā sva eva kriyatām iti ||

92.1९२.१

ततस् तं पृष्टवान् अस्मि महोत्साहेन चेतसा । (९२।१)

tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā |

92.2९२.२

रूपं गन्धर्वदत्तायाः कीदृग् इत्य् अथ सो ऽब्रवीत् ॥ (९२।२)

rūpaṃ gandharvadattāyāḥ kīdṛg ity atha so 'bravīt ||

93.1९३.१

तस्याः स्वकान्तिपरिवेषपटापिधानं नेत्रप्रभाप्रकरसारितहर्म्यगर्भम् । (९३।१)

tasyāḥ svakāntipariveṣapaṭāpidhānaṃ netraprabhāprakarasāritaharmyagarbham |

93.2९३.२

उत्कृष्टविस्मयविमोहितमानसेन रूपं निरूपयितुम् एव मया न शक्यम् ॥ (९३।२)

utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam ||

Data courtesy of The Digital Corpus of Sanskrit.

Bṛhatkathāślokasaṃgraha, 16

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit