शुकसप्ततिŚukasaptati

Śusa, 5

5 of 29 · 99 verses

Select a line for its word-by-word analysis.

1.1१.१

पुनरन्यदिने सा गमनाय शुकं पृच्छति । (१।१)

punaranyadine sā gamanāya śukaṃ pṛcchati |

1.2१.२

शुकः । (१।२)

śukaḥ |

1.3१.३

गच्छ देवि विजानासि यदि कर्तुं त्वमुत्तरम् । (१।३)

gaccha devi vijānāsi yadi kartuṃ tvamuttaram |

1.4१.४

सभायां नृपतेर्यद्वद्विषमे बालपण्डिता ॥ (१।४)

sabhāyāṃ nṛpateryadvadviṣame bālapaṇḍitā ||

2.1२.१

प्रभावतीपृष्टः शुकः कथां प्राह अस्ति उज्जयिनी नाम नगरी । (२।१)

prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī |

2.2२.२

तत्र विक्रमादित्यो राजा । (२।२)

tatra vikramādityo rājā |

2.3२.३

तस्य राज्ञः कामलीला नाम उत्तमकुले जाता । (२।३)

tasya rājñaḥ kāmalīlā nāma uttamakule jātā |

2.4२.४

सा च राज्ञो ऽतीव वल्लभा । (२।४)

sā ca rājño 'tīva vallabhā |

2.5२.५

एकदा नृपस्तया सार्धं भोजनं कुर्वन्भृष्टमत्स्यांस्तस्यै दापयामास । (२।५)

ekadā nṛpastayā sārdhaṃ bhojanaṃ kurvanbhṛṣṭamatsyāṃstasyai dāpayāmāsa |

2.6२.६

सा आह स्वामिन् नाहमेतान्पुरुषानवलोकयितुमपि समर्था किं पुनः स्पर्शनम् । (२।६)

sā āha svāmin nāhametānpuruṣānavalokayitumapi samarthā kiṃ punaḥ sparśanam |

2.7२.७

इति श्रुत्वा मत्स्या अट्टहासेन तथा जहसुर्यथा नागरिकलोके श्रुतम् । (२।७)

iti śrutvā matsyā aṭṭahāsena tathā jahasuryathā nāgarikaloke śrutam |

2.8२.८

राजा च तन्मत्स्यहास्यकारणं मन्त्रिज्योतिर्विच्छाकुनिककोविदान् पृच्छति । (२।८)

rājā ca tanmatsyahāsyakāraṇaṃ mantrijyotirvicchākunikakovidān pṛcchati |

2.9२.९

यदा न को ऽपि जानाति तदा सर्वद्विजाग्रेसरं पुरोहितं प्राह यथा त्वयैव मत्स्यहास्यकारणं कथनीयमन्यथा त्वं देशान्निर्वासं प्राप्नोषि । (२।९)

yadā na ko 'pi jānāti tadā sarvadvijāgresaraṃ purohitaṃ prāha yathā tvayaiva matsyahāsyakāraṇaṃ kathanīyamanyathā tvaṃ deśānnirvāsaṃ prāpnoṣi |

2.10२.१०

पुरोधा अप्येतद्वचः श्रुत्वा दिनपञ्चकं व्यवधाने याचयित्वा सविषादो गृहमगमत् । (२।१०)

purodhā apyetadvacaḥ śrutvā dinapañcakaṃ vyavadhāne yācayitvā saviṣādo gṛhamagamat |

2.11२.११

स पुरोहितः तदुत्तरमजानन्पुरस्ताद्राज्ञा निर्वास्यते । (२।११)

sa purohitaḥ taduttaramajānanpurastādrājñā nirvāsyate |

2.12२.१२

स कथं भवत्विति प्रश्नः । (२।१२)

sa kathaṃ bhavatviti praśnaḥ |

2.13२.१३

उत्तरमप्याह शुकः स ब्राह्मणो विषादापन्नः पुत्र्या बालपण्डितया बभाषे तात कथमुद्विग्नचित्त इव लक्ष्यसे । (२।१३)

uttaramapyāha śukaḥ sa brāhmaṇo viṣādāpannaḥ putryā bālapaṇḍitayā babhāṣe tāta kathamudvignacitta iva lakṣyase |

2.14२.१४

कथय विषादस्य कारणम् । (२।१४)

kathaya viṣādasya kāraṇam |

2.15२.१५

विद्वद्भिर्विपद्यप्युच्चैः स्थातव्यम् । (२।१५)

vidvadbhirvipadyapyuccaiḥ sthātavyam |

2.16२.१६

उक्तं च । (२।१६)

uktaṃ ca |

2.17२.१७

सम्पदि यस्य न हर्षो विपदि विषादो रणे च भीरुत्वम् । (२।१७)

sampadi yasya na harṣo vipadi viṣādo raṇe ca bhīrutvam |

2.18२.१८

तं भुवनत्रयतिलकं जननी जनयति सुतं विरलम् ॥ (२।१८)

taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam ||

3.1३.१

ततो ब्राह्मणो ऽविरलं वृत्तान्तमाचष्टे अनेन कारणेन राजा मां नागरान्निर्वासयति । (३।१)

tato brāhmaṇo 'viralaṃ vṛttāntamācaṣṭe anena kāraṇena rājā māṃ nāgarānnirvāsayati |

3.2३.२

यतः । (३।२)

yataḥ |

3.3३.३

न सौहृदं न विश्वासो न स्नेहो न च बन्धुता । (३।३)

na sauhṛdaṃ na viśvāso na sneho na ca bandhutā |

3.4३.४

केनापि सह संसारे कुतो राज्ञा छलार्थिना ॥ (३।४)

kenāpi saha saṃsāre kuto rājñā chalārthinā ||

4.1४.१

उक्तं च । (४।१)

uktaṃ ca |

4.2४.२

काके शौचं द्यूतकारे च सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । (४।२)

kāke śaucaṃ dyūtakāre ca satyaṃ sarpe kṣāntiḥ strīṣu kāmopaśāntiḥ |

4.3४.३

क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥ (४।३)

klībe dhairyaṃ madyape tattvacintā rājā mitraṃ kena dṛṣṭaṃ śrutaṃ vā ||

5.1५.१

किञ्च । (५।१)

kiñca |

5.2५.२

नदीनां नखिनां चैव शृङ्गिणां शस्त्रपाणिनाम् । (५।२)

nadīnāṃ nakhināṃ caiva śṛṅgiṇāṃ śastrapāṇinām |

5.3५.३

विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ (५।३)

viśvāso naiva kartavyaḥ strīṣu rājakuleṣu ca ||

6.1६.१

भोगिनः कञ्चुकासक्ताः क्रूराः कुटिलगमिनः । (६।१)

bhoginaḥ kañcukāsaktāḥ krūrāḥ kuṭilagaminaḥ |

6.2६.२

दुःखोपसर्पणीयाश्च राजानो भुजगा इव ॥ (६।२)

duḥkhopasarpaṇīyāśca rājāno bhujagā iva ||

7.1७.१

हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । (७।१)

hasannapi nṛpo hanti mānayannapi durjanaḥ |

7.2७.२

स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥ (७।२)

spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ ||

8.1८.१

एष राजा आ बाल्यात्सेवितो ऽपि मयि विपरीतो बभूव । (८।१)

eṣa rājā ā bālyātsevito 'pi mayi viparīto babhūva |

8.2८.२

तस्मान्मया जीवितुमिच्छता द्विजैः सह परदेशं गन्तव्यम् । (८।२)

tasmānmayā jīvitumicchatā dvijaiḥ saha paradeśaṃ gantavyam |

8.3८.३

उक्तं च । (८।३)

uktaṃ ca |

8.4८.४

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । (८।४)

tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet |

8.5८.५

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥ (८।५)

grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ||

9.1९.१

ततः सा बालिका तातवचनं श्रुत्वा प्राह तात त्वया युक्तमुक्तम् । (९।१)

tataḥ sā bālikā tātavacanaṃ śrutvā prāha tāta tvayā yuktamuktam |

9.2९.२

परं स्वामिरहितानां न क्वापि पूजा । (९।२)

paraṃ svāmirahitānāṃ na kvāpi pūjā |

9.3९.३

यत उक्तम् । (९।३)

yata uktam |

9.4९.४

अप्रधानः प्रधानः स्याद्यदि सेवेत पार्थिवम् । (९।४)

apradhānaḥ pradhānaḥ syādyadi seveta pārthivam |

9.5९.५

प्रधानो ऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥ (९।५)

pradhāno 'pyapradhānaḥ syādyadi sevāvivarjitaḥ ||

10.1१०.१

आसन्नमेव नृपतिर्भजते मनुष्यं विद्याविहीनमकुलीनमसंस्तुतं वा । (१०।१)

āsannameva nṛpatirbhajate manuṣyaṃ vidyāvihīnamakulīnamasaṃstutaṃ vā |

10.2१०.२

प्रायेण भूमिपतयः प्रमदा लताश्च यः पार्श्वतो भवति तं परिवेष्टयन्ति ॥ (१०।२)

prāyeṇa bhūmipatayaḥ pramadā latāśca yaḥ pārśvato bhavati taṃ pariveṣṭayanti ||

11.1११.१

आरोहन्ति शनैर्मृत्या धुन्वन्तमपि पार्थिवम् । (११।१)

ārohanti śanairmṛtyā dhunvantamapi pārthivam |

11.2११.२

कोपप्रसादवस्तूनां विचिन्वन्ति समीपगाः ॥ (११।२)

kopaprasādavastūnāṃ vicinvanti samīpagāḥ ||

12.1१२.१

तथा च । (१२।१)

tathā ca |

12.2१२.२

विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् । (१२।२)

vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām |

12.3१२.३

सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥ (१२।३)

sevāvṛttividāṃ caiva nāśrayaḥ pārthivaṃ vinā ||

13.1१३.१

ये जात्यादिमहोत्साहा नोपगच्छन्ति पार्थिवम् । (१३।१)

ye jātyādimahotsāhā nopagacchanti pārthivam |

13.2१३.२

तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥ (१३।२)

teṣāmāmaraṇaṃ bhikṣā prāyaścittaṃ vinirmitam ||

14.1१४.१

रोगैर्ग्रहैर् नृपैर्ग्रस्तो यो न वेत्ति जडक्रियः । (१४।१)

rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ |

14.2१४.२

मध्यमन्त्रमुपायं च सो ऽवश्यं तात न स्थिरः ॥ (१४।२)

madhyamantramupāyaṃ ca so 'vaśyaṃ tāta na sthiraḥ ||

15.1१५.१

उक्तं च । (१५।१)

uktaṃ ca |

15.2१५.२

सर्पान्व्याघ्रान् गजान्सिंहान्दृष्ट्वोपायैर्वशीकृतान् । (१५।२)

sarpānvyāghrān gajānsiṃhāndṛṣṭvopāyairvaśīkṛtān |

15.3१५.३

राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥ (१५।३)

rājeti kiyatī mātrā dhīmatāmapramādinām ||

16.1१६.१

तथा च । (१६।१)

tathā ca |

16.2१६.२

राजानमेव संश्रित्य विद्वान्याति परोन्नतिम् । (१६।२)

rājānameva saṃśritya vidvānyāti paronnatim |

16.3१६.३

विना मलयमन्यत्र चन्दनं न विवर्धते ॥ (१६।३)

vinā malayamanyatra candanaṃ na vivardhate ||

17.1१७.१

धवलान्यातपत्राणि वाजिनश्च मनोरमाः । (१७।१)

dhavalānyātapatrāṇi vājinaśca manoramāḥ |

17.2१७.२

सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥ (१७।२)

sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau ||

18.1१८.१

तस्मात्तात्त्वं राज्ञा मान्यः प्रसादपात्रं च । (१८।१)

tasmāttāttvaṃ rājñā mānyaḥ prasādapātraṃ ca |

18.2१८.२

ततः सन्देहे ऽस्मिन्मा विषादीभव । (१८।२)

tataḥ sandehe 'sminmā viṣādībhava |

18.3१८.३

यतः । (१८।३)

yataḥ |

18.4१८.४

राजग्रहे समायाते विषमे कार्यसंशये । (१८।४)

rājagrahe samāyāte viṣame kāryasaṃśaye |

18.5१८.५

संदिग्धमनसां राज्ञां प्रधानाः संशयच्छिदः ॥ (१८।५)

saṃdigdhamanasāṃ rājñāṃ pradhānāḥ saṃśayacchidaḥ ||

19.1१९.१

ततो हे तात स्थिरीभव । (१९।१)

tato he tāta sthirībhava |

19.2१९.२

मत्स्यहसनोत्तरं राज्ञः पुरतो मयाभिधेयमिति । (१९।२)

matsyahasanottaraṃ rājñaḥ purato mayābhidheyamiti |

19.3१९.३

स्नाहि भुङ्क्ष्व । (१९।३)

snāhi bhuṅkṣva |

19.4१९.४

ततः स एवं कृत्वा राज्ञो ऽग्रतो गत्वा सर्वं निवेदयामास । (१९।४)

tataḥ sa evaṃ kṛtvā rājño 'grato gatvā sarvaṃ nivedayāmāsa |

19.5१९.५

नृपो ऽपि तुष्टस्तामाजुहाव । (१९।५)

nṛpo 'pi tuṣṭastāmājuhāva |

19.6१९.६

सा आशीर्वादं दत्त्वा राजानमब्रवीत् राजन्मा मुधा विप्रान्विडम्बय । (१९।६)

sā āśīrvādaṃ dattvā rājānamabravīt rājanmā mudhā viprānviḍambaya |

19.7१९.७

किं त्वया एवंविधं मत्स्यानां हास्यं दृष्टं श्रुतं वा । (१९।७)

kiṃ tvayā evaṃvidhaṃ matsyānāṃ hāsyaṃ dṛṣṭaṃ śrutaṃ vā |

19.8१९.८

कथं मामबलाजनं पृच्छन्न विलज्जसे । (१९।८)

kathaṃ māmabalājanaṃ pṛcchanna vilajjase |

19.9१९.९

यतः इतरो ऽपि न सामान्यो नृपतिर्दिव्यरूपभृत् । (१९।९)

yataḥ itaro 'pi na sāmānyo nṛpatirdivyarūpabhṛt |

19.10१९.१०

त्वं पुनर्विक्रमादित्यो यथार्थो ऽसि परन्तप ॥ (१९।१०)

tvaṃ punarvikramādityo yathārtho 'si parantapa ||

20.1२०.१

उक्तं च । (२०।१)

uktaṃ ca |

20.2२०.२

इन्द्रात्प्रभुत्वं ज्वलनात्प्रतापं क्रोधं यमाद्वैश्रवणाच्च वित्तम् । (२०।२)

indrātprabhutvaṃ jvalanātpratāpaṃ krodhaṃ yamādvaiśravaṇācca vittam |

20.3२०.३

सत्त्वस्थिते रामजनार्दनाभ्याम् आदाय राज्ञः क्रियते शरीरम् ॥ (२०।३)

sattvasthite rāmajanārdanābhyām ādāya rājñaḥ kriyate śarīram ||

21.1२१.१

तथा च भारते । (२१।१)

tathā ca bhārate |

21.2२१.२

मा वृकोदर पादेन एकादशचमूपतिम् । (२१।२)

mā vṛkodara pādena ekādaśacamūpatim |

21.3२१.३

पञ्चनामपि यो भर्त्ता नासाप्रकृतिमानवी ॥ (२१।३)

pañcanāmapi yo bharttā nāsāprakṛtimānavī ||

22.1२२.१

स्वामिन्कथं न त्वं स्वयमेव विचारयसि । (२२।१)

svāminkathaṃ na tvaṃ svayameva vicārayasi |

22.2२२.२

यतस्त्वमेव सर्वसंशयच्छेत्ता । (२२।२)

yatastvameva sarvasaṃśayacchettā |

22.3२२.३

अथान्येभ्यश्चेत् श्रोतुं कौतुकं तर्हि शृणु । (२२।३)

athānyebhyaścet śrotuṃ kautukaṃ tarhi śṛṇu |

22.4२२.४

इयं राज्ञी न स्पृशति ह्यस्मान्मत्स्यान्महासती । (२२।४)

iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī |

22.5२२.५

पुरुषाख्यानतो राजन् हसिताः शफरा ध्रुवम् ॥ (२२।५)

puruṣākhyānato rājan hasitāḥ śapharā dhruvam ||

23.1२३.१

परिभाव्यस्त्वया राजन् श्लोकार्थो ऽयं सदा हृदि । (२३।१)

paribhāvyastvayā rājan ślokārtho 'yaṃ sadā hṛdi |

23.2२३.२

मूढधीरन्यथा देव यदि पृच्छसि मां पुनः ॥ (२३।२)

mūḍhadhīranyathā deva yadi pṛcchasi māṃ punaḥ ||

24.1२४.१

राजन्राजपत्न्याः सूर्यमपश्यन्त्यास्तत्कथमसतीत्वशङ्का स्यात् । (२४।१)

rājanrājapatnyāḥ sūryamapaśyantyāstatkathamasatītvaśaṅkā syāt |

24.2२४.२

श्लोकार्थे प्रस्तुतार्थे च मत्स्यानां हसनं बुधाः । (२४।२)

ślokārthe prastutārthe ca matsyānāṃ hasanaṃ budhāḥ |

24.3२४.३

सनृपा न विजानन्ति अपि सर्वार्थकोविदाः ॥ (२४।३)

sanṛpā na vijānanti api sarvārthakovidāḥ ||

25.1२५.१

ततः सदो मूढं दृष्ट्वा बालपण्डिता उत्थाय ययौ । (२५।१)

tataḥ sado mūḍhaṃ dṛṣṭvā bālapaṇḍitā utthāya yayau |

25.2२५.२

शुको ऽप्याह अहं प्रातः कथयिष्ये । (२५।२)

śuko 'pyāha ahaṃ prātaḥ kathayiṣye |

25.3२५.३

इति कीरोक्तिं श्रुत्वा प्रभावती सुप्ता ॥ (२५।३)

iti kīroktiṃ śrutvā prabhāvatī suptā ||

Data courtesy of The Digital Corpus of Sanskrit.

Śusa, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit