शुकसप्ततिŚukasaptati

Śusa, 9

9 of 29 · 47 verses

Select a line for its word-by-word analysis.

1.1१.१

अथापरेद्युः सविस्मया प्रभावती शुकं पृच्छति स्म शुक किं विज्ञातं विक्रमार्केण मत्स्यहसनकारणम् शुकः प्राह देवि न किमपि राज्ञा स्वयं ज्ञातम् । (१।१)

athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam |

1.2१.२

ततो राजा प्रातर्द्विजसुताम् आहूय बालपण्डितां प्राह त्वया इत्युक्तं यत्त्वं स्वयमेव ज्ञास्यसि । (१।२)

tato rājā prātardvijasutām āhūya bālapaṇḍitāṃ prāha tvayā ityuktaṃ yattvaṃ svayameva jñāsyasi |

1.3१.३

मया तु किमपि न ज्ञातम् । (१।३)

mayā tu kimapi na jñātam |

1.4१.४

बालपण्डिता प्राह यदि राजन्नेवमपि मया कथ्यमानं न वेत्सि ततः शृणु । (१।४)

bālapaṇḍitā prāha yadi rājannevamapi mayā kathyamānaṃ na vetsi tataḥ śṛṇu |

1.5१.५

पुष्पहासो नाम मन्त्री सर्वमन्त्रिणामग्रणीर् निर्देषो गुप्तः । (१।५)

puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ |

1.6१.६

किमिति नियन्त्रितो ऽस्ति । (१।६)

kimiti niyantrito 'sti |

1.7१.७

राजा प्राहान्वर्थो ऽयं पुष्पहासः । (१।७)

rājā prāhānvartho 'yaṃ puṣpahāsaḥ |

1.8१.८

यतः यदा सो मदीयायां संसदि हसति तदास्यास्यात्पुष्पप्रकरो निपतति । (१।८)

yataḥ yadā so madīyāyāṃ saṃsadi hasati tadāsyāsyātpuṣpaprakaro nipatati |

1.9१.९

इयं च कथापरराज्यमण्डलेषु ख्याताभूत् । (१।९)

iyaṃ ca kathāpararājyamaṇḍaleṣu khyātābhūt |

1.10१.१०

ततस्तैः प्रेषिताः स्वीयपुमांसः कुतूहलान्वेषणाय । (१।१०)

tatastaiḥ preṣitāḥ svīyapumāṃsaḥ kutūhalānveṣaṇāya |

1.11१.११

तेषु समायातेषु तेन न हसितं पुष्पप्रकरो ऽपि नाभूत् । (१।११)

teṣu samāyāteṣu tena na hasitaṃ puṣpaprakaro 'pi nābhūt |

1.12१.१२

इति कारणात्गुप्तिबन्धः । (१।१२)

iti kāraṇātguptibandhaḥ |

1.13१.१३

बालपण्डिता प्राह केनापि कारणेन मन्त्रिणा न हसितम् राजन् तत्कारणं त्वया ज्ञातं न वा राजा प्राह मया किमपि न ज्ञातम् । (१।१३)

bālapaṇḍitā prāha kenāpi kāraṇena mantriṇā na hasitam rājan tatkāraṇaṃ tvayā jñātaṃ na vā rājā prāha mayā kimapi na jñātam |

1.14१.१४

बालपण्डिता प्राह तर्हि कथमिदं दण्डं कुर्वन्पापभाक् न भवसि । (१।१४)

bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi |

1.15१.१५

उक्तं च । (१।१५)

uktaṃ ca |

1.16१.१६

धर्मेण राष्ट्रं विन्देन धर्मेणैवानुपालयेत् । (१।१६)

dharmeṇa rāṣṭraṃ vindena dharmeṇaivānupālayet |

1.17१.१७

धर्माच्छरण्यतां याति राजा सर्वभयापहः ॥ (१।१७)

dharmāccharaṇyatāṃ yāti rājā sarvabhayāpahaḥ ||

2.1२.१

यथा आग्रहान्मां मत्स्यहास्यकारणं पृच्छसि तथा तमपि पृच्छ हास्यकारणम् । (२।१)

yathā āgrahānmāṃ matsyahāsyakāraṇaṃ pṛcchasi tathā tamapi pṛccha hāsyakāraṇam |

2.2२.२

स एवात्मीयहास्यस्य मत्स्यहास्यस्य च कारणं वक्ता । (२।२)

sa evātmīyahāsyasya matsyahāsyasya ca kāraṇaṃ vaktā |

2.3२.३

राजापि तद्वचनात्पुष्पहासं मन्त्रिणं वस्त्रदानपूर्वं मन्त्रिपदे प्रतिष्ठाप्य मत्स्यहास्यकारणं पप्रच्छ । (२।३)

rājāpi tadvacanātpuṣpahāsaṃ mantriṇaṃ vastradānapūrvaṃ mantripade pratiṣṭhāpya matsyahāsyakāraṇaṃ papraccha |

2.4२.४

मन्त्र्याह यद्यपि गृहदुश्चरितमकथ्यम् । (२।४)

mantryāha yadyapi gṛhaduścaritamakathyam |

2.5२.५

यतः । (२।५)

yataḥ |

2.6२.६

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । (२।६)

arthanāśaṃ manastāpaṃ gṛhe duścaritāni ca |

2.7२.७

वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥ (२।७)

vañcanaṃ cāpamānaṃ ca matimānna prakāśayet ||

3.1३.१

तथापि तु राजाज्ञा महती । (३।१)

tathāpi tu rājājñā mahatī |

3.2३.२

यतः । (३।२)

yataḥ |

3.3३.३

प्रभुः प्रीतिस्निग्धां दृशमपि न पापेषु विसृजेत् कुतः श्लाघ्यामाज्ञां प्रणयरससान्द्रेण मनसा । (३।३)

prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā |

3.4३.४

अतीत्यादित्याग्निप्रभृति भुवि धर्मेन्द्रियमयं नृपाख्यं हि ज्योतिः प्रसभमिदमैन्द्रं विजयते ॥ (३।४)

atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate ||

4.1४.१

ततो राजन् मे कलत्रं नरान्तररतं जातं तच्च मया ज्ञातम् तेन च दुःखेन न हसितम् । (४।१)

tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam |

4.2४.२

राजापीदमाकर्ण्य पुष्पहस्तकै राज्ञीमाहृत्य सम्मुखमवलोकयामास । (४।२)

rājāpīdamākarṇya puṣpahastakai rājñīmāhṛtya sammukhamavalokayāmāsa |

4.3४.३

सा च तेन प्रहारेण कपटमूर्च्छां नाटयति स्म । (४।३)

sā ca tena prahāreṇa kapaṭamūrcchāṃ nāṭayati sma |

4.4४.४

पुष्पहासो ऽपि तामवलोक्य सहासो बभूव पुष्पोत्करश्च समजनि । (४।४)

puṣpahāso 'pi tāmavalokya sahāso babhūva puṣpotkaraśca samajani |

4.5४.५

राजापि तामाश्वास्य कृतकोपो द्विजात्मजास्यं विलोक्य मन्त्रिणमवादीत् कथमस्मद्दुःखे सहासो ऽसि मन्त्र्यपि सभयमञ्जलिं बद्ध्वाभाषत राजन् पोटकजनैस्त्वदीया राज्ञी रात्रौ नाडिकाभिराहतापि न मूर्छिता अधुना मूर्छितेति हास्यकारणम् । (४।५)

rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam |

4.6४.६

राजापि सकोपो मन्त्रिन् इदं त्वया दृष्टं श्रुतं वेति पप्रच्छ । (४।६)

rājāpi sakopo mantrin idaṃ tvayā dṛṣṭaṃ śrutaṃ veti papraccha |

4.7४.७

मन्त्र्याह स्वामिन्दृष्टमेवेदम् । (४।७)

mantryāha svāmindṛṣṭamevedam |

4.8४.८

यदि स्वामी न प्रत्येति तदा कञ्चुकमुत्तार्यावलोकयतु । (४।८)

yadi svāmī na pratyeti tadā kañcukamuttāryāvalokayatu |

4.9४.९

एवं कृते राजा सर्वमज्ञासीत् । (४।९)

evaṃ kṛte rājā sarvamajñāsīt |

4.10४.१०

मन्त्रिणो द्विजसुतायाश्च मुखमवलोक्य किमिदमित्यवादीत् । (४।१०)

mantriṇo dvijasutāyāśca mukhamavalokya kimidamityavādīt |

4.11४.११

मन्त्र्याह स्वामिन् यदिदं द्विजपुत्र्या गूढार्थं मत्स्यहास्यकारणं निवेदितं तन्मया प्रकटीकृतम् । (४।११)

mantryāha svāmin yadidaṃ dvijaputryā gūḍhārthaṃ matsyahāsyakāraṇaṃ niveditaṃ tanmayā prakaṭīkṛtam |

4.12४.१२

इत्येवमुक्तो राजा आस्थानं व्यसर्जयत् । (४।१२)

ityevamukto rājā āsthānaṃ vyasarjayat |

4.13४.१३

अथ द्विजसुतापुष्पहासावपि भीतहृष्टौ स्वं स्वं गृहं जग्मतुः । (४।१३)

atha dvijasutāpuṣpahāsāvapi bhītahṛṣṭau svaṃ svaṃ gṛhaṃ jagmatuḥ |

4.14४.१४

तेन च राज्ञा तस्या मञ्जूषास्थितो नरो दृष्टो विनाशितः । (४।१४)

tena ca rājñā tasyā mañjūṣāsthito naro dṛṣṭo vināśitaḥ |

4.15४.१५

सा च निजवासाद्विसर्जिता । (४।१५)

sā ca nijavāsādvisarjitā |

4.16४.१६

शुकः प्रभावतीमाह । (४।१६)

śukaḥ prabhāvatīmāha |

4.17४.१७

तथा त्वमपि कल्याणि मा कुरुष्व वृथाग्रहम् । (४।१७)

tathā tvamapi kalyāṇi mā kuruṣva vṛthāgraham |

4.18४.१८

यदाग्रहपरो लोके विलक्षो विक्रमार्कवत् ॥ (४।१८)

yadāgrahaparo loke vilakṣo vikramārkavat ||

5.1५.१

इति कथां श्रुत्वा प्रभावती सुप्ता ॥ (५।१)

iti kathāṃ śrutvā prabhāvatī suptā ||

Data courtesy of The Digital Corpus of Sanskrit.

Śusa, 9

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit