अष्टाध्यायीAṣṭādhyāyī

Chapter 4, 1

13 of 32 · 178 verses

Select a line for its word-by-word analysis.

1.0१.०

ङ्याप्प्रातिपदिकात् ॥ (१।०)

ṅyāpprātipadikāt ||

2.0२.०

स्वौजसमौट्छष्टाभ्यांभिस्ङेभ्याम्भ्यस्ङसिभ्यांभ्यस्ङसोसाम्ङ्योस्सुप् ॥ (२।०)

svaujasamauṭchaṣṭābhyāṃbhisṅebhyāmbhyasṅasibhyāṃbhyasṅasosāmṅyossup ||

3.0३.०

स्त्रियाम् ॥ (३।०)

striyām ||

4.0४.०

अजाद्यतष् टाप् ॥ (४।०)

ajādyataṣ ṭāp ||

5.0५.०

ऋन्नेभ्यो ङीप् ॥ (५।०)

ṛnnebhyo ṅīp ||

6.0६.०

उगितश् च ॥ (६।०)

ugitaś ca ||

7.0७.०

वनो र च ॥ (७।०)

vano ra ca ||

8.0८.०

पादो ऽन्यतरस्याम् ॥ (८।०)

pādo 'nyatarasyām ||

9.0९.०

टाब् ऋचि ॥ (९।०)

ṭāb ṛci ||

10.0१०.०

न षट्स्वस्रादिभ्यः ॥ (१०।०)

na ṣaṭsvasrādibhyaḥ ||

11.0११.०

मनः ॥ (११।०)

manaḥ ||

12.0१२.०

अनो बहुव्रीहेः ॥ (१२।०)

ano bahuvrīheḥ ||

13.0१३.०

डाब् उभाभ्याम् अन्यतरस्याम् ॥ (१३।०)

ḍāb ubhābhyām anyatarasyām ||

14.0१४.०

अनुपसर्जनात् ॥ (१४।०)

anupasarjanāt ||

15.0१५.०

टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठञ्कञ्क्वरपः ॥ (१५।०)

ṭiḍḍhāṇañdvayasajdaghnañmātractayapṭhañkañkvarapaḥ ||

16.0१६.०

यञश् च ॥ (१६।०)

yañaś ca ||

17.0१७.०

प्राचां ष्फ तद्धितः ॥ (१७।०)

prācāṃ ṣpha taddhitaḥ ||

18.0१८.०

सर्वत्र लोहितादिकतान्तेभ्यः ॥ (१८।०)

sarvatra lohitādikatāntebhyaḥ ||

19.0१९.०

कौरव्यमाण्डूकाभ्यां च ॥ (१९।०)

kauravyamāṇḍūkābhyāṃ ca ||

20.0२०.०

वयसि प्रथमे ॥ (२०।०)

vayasi prathame ||

21.0२१.०

द्विगोः ॥ (२१।०)

dvigoḥ ||

22.0२२.०

अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि ॥ (२२।०)

aparimāṇabistācitakambalyebhyo na taddhitaluki ||

23.0२३.०

काण्डान्तात् क्षेत्रे ॥ (२३।०)

kāṇḍāntāt kṣetre ||

24.0२४.०

पुरुषात् प्रमाणे ऽन्यतरस्याम् ॥ (२४।०)

puruṣāt pramāṇe 'nyatarasyām ||

25.0२५.०

बहुव्रीहेर् ऊधसो ङीष् ॥ (२५।०)

bahuvrīher ūdhaso ṅīṣ ||

26.0२६.०

सङ्ख्याव्ययादेर् ङीप् ॥ (२६।०)

saṅkhyāvyayāder ṅīp ||

27.0२७.०

दामहायनान्ताच् च ॥ (२७।०)

dāmahāyanāntāc ca ||

28.0२८.०

अन उपधालोपिनो ऽन्यतरस्याम् ॥ (२८।०)

ana upadhālopino 'nyatarasyām ||

29.0२९.०

नित्यं सञ्ज्ञाछन्दसोः ॥ (२९।०)

nityaṃ sañjñāchandasoḥ ||

30.0३०.०

केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजाच् च ॥ (३०।०)

kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāc ca ||

31.0३१.०

रात्रेश् च अजसौ ॥ (३१।०)

rātreś ca ajasau ||

32.0३२.०

अन्तर्वत्पतिवतोर् नुक् ॥ (३२।०)

antarvatpativator nuk ||

33.0३३.०

पत्युर् नो यज्ञसंयोगे ॥ (३३।०)

patyur no yajñasaṃyoge ||

34.0३४.०

विभाषा सपूर्वस्य ॥ (३४।०)

vibhāṣā sapūrvasya ||

35.0३५.०

नित्यं सपत्न्यादिषु ॥ (३५।०)

nityaṃ sapatnyādiṣu ||

36.0३६.०

पूतक्रतोर् ऐ च ॥ (३६।०)

pūtakrator ai ca ||

37.0३७.०

वृषाकप्यग्निकुसितकुसिदानाम् उदात्तः ॥ (३७।०)

vṛṣākapyagnikusitakusidānām udāttaḥ ||

38.0३८.०

मनोर् औ वा ॥ (३८।०)

manor au vā ||

39.0३९.०

वर्णाद् अनुदात्तात् तोपधात् तो नः ॥ (३९।०)

varṇād anudāttāt topadhāt to naḥ ||

40.0४०.०

अन्यतो ङीष् ॥ (४०।०)

anyato ṅīṣ ||

41.0४१.०

षिद्गौरादिभ्यश् च ॥ (४१।०)

ṣidgaurādibhyaś ca ||

42.0४२.०

जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ॥ (४२।०)

jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu ||

43.0४३.०

शोणात् प्राचाम् ॥ (४३।०)

śoṇāt prācām ||

44.0४४.०

वोतो गुणवचनात् ॥ (४४।०)

voto guṇavacanāt ||

45.0४५.०

बह्वादिभ्यश् च ॥ (४५।०)

bahvādibhyaś ca ||

46.0४६.०

नित्यं छन्दसि ॥ (४६।०)

nityaṃ chandasi ||

47.0४७.०

भुवश् च ॥ (४७।०)

bhuvaś ca ||

48.0४८.०

पुंयोगाद् आख्यायाम् ॥ (४८।०)

puṃyogād ākhyāyām ||

49.0४९.०

इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणाम् आनुक् ॥ (४९।०)

indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk ||

50.0५०.०

क्रीतात् करणपूर्वात् ॥ (५०।०)

krītāt karaṇapūrvāt ||

51.0५१.०

क्ताद् अल्पाख्यायाम् ॥ (५१।०)

ktād alpākhyāyām ||

52.0५२.०

बहुव्रीहेश् च अन्तोदात्तात् ॥ (५२।०)

bahuvrīheś ca antodāttāt ||

53.0५३.०

अस्वाङ्गपूर्वपदाद् वा ॥ (५३।०)

asvāṅgapūrvapadād vā ||

54.0५४.०

स्वाङ्गाच् चोपसर्जनाद् असंयोगोपधात् ॥ (५४।०)

svāṅgāc copasarjanād asaṃyogopadhāt ||

55.0५५.०

नासिकोदरओष्ठजङ्घादन्तकर्णशृङ्गाच् च ॥ (५५।०)

nāsikodaraoṣṭhajaṅghādantakarṇaśṛṅgāc ca ||

56.0५६.०

न क्रोडादिबह्वचः ॥ (५६।०)

na kroḍādibahvacaḥ ||

57.0५७.०

सहनञ्विद्यमानपूर्वाच् च ॥ (५७।०)

sahanañvidyamānapūrvāc ca ||

58.0५८.०

नखमुखात् सञ्ज्ञायाम् ॥ (५८।०)

nakhamukhāt sañjñāyām ||

59.0५९.०

दीर्घजिह्वी च छन्दसि ॥ (५९।०)

dīrghajihvī ca chandasi ||

60.0६०.०

दिक्पूर्वपदान् ङीप् ॥ (६०।०)

dikpūrvapadān ṅīp ||

61.0६१.०

वाहः ॥ (६१।०)

vāhaḥ ||

62.0६२.०

सख्य् अशिश्वी इति भाषायाम् ॥ (६२।०)

sakhy aśiśvī iti bhāṣāyām ||

63.0६३.०

जातेर् अस्त्रीविषयाद् अयोपधात् ॥ (६३।०)

jāter astrīviṣayād ayopadhāt ||

64.0६४.०

पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच् च ॥ (६४।०)

pākakarṇaparṇapuṣpaphalamūlavālottarapadāc ca ||

65.0६५.०

इतो मनुष्यजातेः ॥ (६५।०)

ito manuṣyajāteḥ ||

66.0६६.०

ऊङ् उतः ॥ (६६।०)

ūṅ utaḥ ||

67.0६७.०

बाह्वन्तात् सञ्ज्ञायाम् ॥ (६७।०)

bāhvantāt sañjñāyām ||

68.0६८.०

पङ्गोश् च ॥ (६८।०)

paṅgoś ca ||

69.0६९.०

ऊरूत्तरपदाद् औपम्ये ॥ (६९।०)

ūrūttarapadād aupamye ||

70.0७०.०

संहितशफलक्षणवामादेश् च ॥ (७०।०)

saṃhitaśaphalakṣaṇavāmādeś ca ||

71.0७१.०

कद्रुकमण्डल्वोश् छन्दसि ॥ (७१।०)

kadrukamaṇḍalvoś chandasi ||

72.0७२.०

सञ्ज्ञायाम् ॥ (७२।०)

sañjñāyām ||

73.0७३.०

शार्ङ्गरवाद्यञो ङीन् ॥ (७३।०)

śārṅgaravādyaño ṅīn ||

74.0७४.०

यङश् चाप् ॥ (७४।०)

yaṅaś cāp ||

75.0७५.०

आवट्याच् च ॥ (७५।०)

āvaṭyāc ca ||

76.0७६.०

तद्धिताः ॥ (७६।०)

taddhitāḥ ||

77.0७७.०

यूनस् तिः ॥ (७७।०)

yūnas tiḥ ||

78.0७८.०

अणिञोर् अनार्षयोर् गुरूपोत्तमयोः ष्यङ् गोत्रे ॥ (७८।०)

aṇiñor anārṣayor gurūpottamayoḥ ṣyaṅ gotre ||

79.0७९.०

गोत्रावयवात् ॥ (७९।०)

gotrāvayavāt ||

80.0८०.०

क्रौड्यादिभ्यश् च ॥ (८०।०)

krauḍyādibhyaś ca ||

81.0८१.०

दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यो ऽन्यतरस्याम् ॥ (८१।०)

daivayajñiśaucivṛkṣisātyamugrikāṇṭheviddhibhyo 'nyatarasyām ||

82.0८२.०

समर्थानां प्रथमाद् वा ॥ (८२।०)

samarthānāṃ prathamād vā ||

83.0८३.०

प्राग् दीव्यतो ऽण् ॥ (८३।०)

prāg dīvyato 'ṇ ||

84.0८४.०

अश्वपत्यादिभ्यश् च ॥ (८४।०)

aśvapatyādibhyaś ca ||

85.0८५.०

दित्यदित्यादित्यपत्युत्तरपदाण् ण्यः ॥ (८५।०)

dityadityādityapatyuttarapadāṇ ṇyaḥ ||

86.0८६.०

उत्सादिभ्यो ऽञ् ॥ (८६।०)

utsādibhyo 'ñ ||

87.0८७.०

स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् ॥ (८७।०)

strīpuṃsābhyāṃ nañsnañau bhavanāt ||

88.0८८.०

द्विगोर् लुगनपत्ये ॥ (८८।०)

dvigor luganapatye ||

89.0८९.०

गोत्रे ऽलुगचि ॥ (८९।०)

gotre 'lugaci ||

90.0९०.०

यूनि लुक् ॥ (९०।०)

yūni luk ||

91.0९१.०

फक्फिञोर् अन्यतरस्याम् ॥ (९१।०)

phakphiñor anyatarasyām ||

92.0९२.०

तस्य अपत्यम् ॥ (९२।०)

tasya apatyam ||

93.0९३.०

एको गोत्रे ॥ (९३।०)

eko gotre ||

94.0९४.०

गोत्राद् यून्य् अस्त्रियां ॥ (९४।०)

gotrād yūny astriyāṃ ||

95.0९५.०

अत इञ् ॥ (९५।०)

ata iñ ||

96.0९६.०

बाह्वादिभ्यश् च ॥ (९६।०)

bāhvādibhyaś ca ||

97.0९७.०

सुधातुर् अकङ् च ॥ (९७।०)

sudhātur akaṅ ca ||

98.0९८.०

गोत्रे कुञ्जादिभ्यश् च्फञ् ॥ (९८।०)

gotre kuñjādibhyaś cphañ ||

99.0९९.०

नडादिभ्यः फक् ॥ (९९।०)

naḍādibhyaḥ phak ||

100.0१००.०

हरितादिभ्यो ऽञः ॥ (१००।०)

haritādibhyo 'ñaḥ ||

101.0१०१.०

यञिञोश् च ॥ (१०१।०)

yañiñoś ca ||

102.0१०२.०

शरद्वच्छुनकदर्भाद् भृगुवत्साग्रायणेषु ॥ (१०२।०)

śaradvacchunakadarbhād bhṛguvatsāgrāyaṇeṣu ||

103.0१०३.०

द्रोणपर्वतजीवन्ताद् अन्यतरस्याम् ॥ (१०३।०)

droṇaparvatajīvantād anyatarasyām ||

104.0१०४.०

अनृष्यानन्तर्ये बिदादिभ्यो ऽञ् ॥ (१०४।०)

anṛṣyānantarye bidādibhyo 'ñ ||

105.0१०५.०

गर्गादिभ्यो यञ् ॥ (१०५।०)

gargādibhyo yañ ||

106.0१०६.०

मधुबभ्र्वोर् ब्राह्मणकौशिकयोः ॥ (१०६।०)

madhubabhrvor brāhmaṇakauśikayoḥ ||

107.0१०७.०

कपिबोधाद् आङ्गिरसे ॥ (१०७।०)

kapibodhād āṅgirase ||

108.0१०८.०

वतण्डाच् च ॥ (१०८।०)

vataṇḍāc ca ||

109.0१०९.०

लुक् स्त्रियाम् ॥ (१०९।०)

luk striyām ||

110.0११०.०

अश्वादिभ्यः फक् ॥ (११०।०)

aśvādibhyaḥ phak ||

111.0१११.०

भर्गात् त्रैगर्ते ॥ (१११।०)

bhargāt traigarte ||

112.0११२.०

शिवादिभ्यो ऽण् ॥ (११२।०)

śivādibhyo 'ṇ ||

113.0११३.०

अवृद्धाभ्यो नदीमानुषीभ्यस् तन्नामिकाभ्यः ॥ (११३।०)

avṛddhābhyo nadīmānuṣībhyas tannāmikābhyaḥ ||

114.0११४.०

ऋष्यन्धकवृष्णिकुरुभ्यश् च ॥ (११४।०)

ṛṣyandhakavṛṣṇikurubhyaś ca ||

115.0११५.०

मातुर् उत् सङ्ख्यासंभद्रपूर्वायाः ॥ (११५।०)

mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ ||

116.0११६.०

कन्यायाः कनीन च ॥ (११६।०)

kanyāyāḥ kanīna ca ||

117.0११७.०

विकर्णशुङ्गछगलाद् वत्सभरद्वाजात्रिषु ॥ (११७।०)

vikarṇaśuṅgachagalād vatsabharadvājātriṣu ||

118.0११८.०

पीलाया वा ॥ (११८।०)

pīlāyā vā ||

119.0११९.०

ढक् च मण्डूकात् ॥ (११९।०)

ḍhak ca maṇḍūkāt ||

120.0१२०.०

स्त्रीभ्यो ढक् ॥ (१२०।०)

strībhyo ḍhak ||

121.0१२१.०

द्व्यचः ॥ (१२१।०)

dvyacaḥ ||

122.0१२२.०

इतश् चानिञः ॥ (१२२।०)

itaś cāniñaḥ ||

123.0१२३.०

शुभ्रादिभ्यश् च ॥ (१२३।०)

śubhrādibhyaś ca ||

124.0१२४.०

विकर्णकुषीतकात् काश्यपे ॥ (१२४।०)

vikarṇakuṣītakāt kāśyape ||

125.0१२५.०

भ्रुवो वुक् च ॥ (१२५।०)

bhruvo vuk ca ||

126.0१२६.०

कल्याण्यादीनाम् इनङ् ॥ (१२६।०)

kalyāṇyādīnām inaṅ ||

127.0१२७.०

कुलटाया वा ॥ (१२७।०)

kulaṭāyā vā ||

128.0१२८.०

चटकाया ऐरक् ॥ (१२८।०)

caṭakāyā airak ||

129.0१२९.०

गोधाया ढ्रक् ॥ (१२९।०)

godhāyā ḍhrak ||

130.0१३०.०

आरग् उदीचाम् ॥ (१३०।०)

ārag udīcām ||

131.0१३१.०

क्षुद्राभ्यो वा ॥ (१३१।०)

kṣudrābhyo vā ||

132.0१३२.०

पितृष्वसुश् छण् ॥ (१३२।०)

pitṛṣvasuś chaṇ ||

133.0१३३.०

ढकि लोपः ॥ (१३३।०)

ḍhaki lopaḥ ||

134.0१३४.०

मातृष्वसुश् च ॥ (१३४।०)

mātṛṣvasuś ca ||

135.0१३५.०

चतुष्पाद्भ्यो ढञ् ॥ (१३५।०)

catuṣpādbhyo ḍhañ ||

136.0१३६.०

गृष्ट्यादिभ्यश् च ॥ (१३६।०)

gṛṣṭyādibhyaś ca ||

137.0१३७.०

राजश्वशुराद् यत् ॥ (१३७।०)

rājaśvaśurād yat ||

138.0१३८.०

क्षत्राद् घः ॥ (१३८।०)

kṣatrād ghaḥ ||

139.0१३९.०

कुलात् खः ॥ (१३९।०)

kulāt khaḥ ||

140.0१४०.०

अपूर्वपदाद् अन्यतरस्यां यत्ढकञौ ॥ (१४०।०)

apūrvapadād anyatarasyāṃ yatḍhakañau ||

141.0१४१.०

महाकुलाद् अञ्खञौ ॥ (१४१।०)

mahākulād añkhañau ||

142.0१४२.०

दुष्कुलाड् ढक् ॥ (१४२।०)

duṣkulāḍ ḍhak ||

143.0१४३.०

स्वसुश् छः ॥ (१४३।०)

svasuś chaḥ ||

144.0१४४.०

भ्रातुर् व्यच् च ॥ (१४४।०)

bhrātur vyac ca ||

145.0१४५.०

व्यन् सपत्ने ॥ (१४५।०)

vyan sapatne ||

146.0१४६.०

रेवत्यादिभ्यष् ठक् ॥ (१४६।०)

revatyādibhyaṣ ṭhak ||

147.0१४७.०

गोत्रस्त्रियाः कुत्सने ण च ॥ (१४७।०)

gotrastriyāḥ kutsane ṇa ca ||

148.0१४८.०

वृद्धाट् ठक् सौवीरेषु बहुलम् ॥ (१४८।०)

vṛddhāṭ ṭhak sauvīreṣu bahulam ||

149.0१४९.०

फेश् छ च ॥ (१४९।०)

pheś cha ca ||

150.0१५०.०

फाण्टाहृतिमिमताभ्यां णफिञौ ॥ (१५०।०)

phāṇṭāhṛtimimatābhyāṃ ṇaphiñau ||

151.0१५१.०

कुर्वादिभ्यो ण्यः ॥ (१५१।०)

kurvādibhyo ṇyaḥ ||

152.0१५२.०

सेनान्तलक्षणकारिभ्यश् च ॥ (१५२।०)

senāntalakṣaṇakāribhyaś ca ||

153.0१५३.०

उदीचाम् इञ् ॥ (१५३।०)

udīcām iñ ||

154.0१५४.०

तिकादिभ्यः फिञ् ॥ (१५४।०)

tikādibhyaḥ phiñ ||

155.0१५५.०

कौशल्यकार्मार्याभ्यां च ॥ (१५५।०)

kauśalyakārmāryābhyāṃ ca ||

156.0१५६.०

अणो द्व्यचः ॥ (१५६।०)

aṇo dvyacaḥ ||

157.0१५७.०

उदीचां वृद्धाद् अगोत्रात् ॥ (१५७।०)

udīcāṃ vṛddhād agotrāt ||

158.0१५८.०

वाकिनादीनां कुक् च ॥ (१५८।०)

vākinādīnāṃ kuk ca ||

159.0१५९.०

पुत्रान्ताद् अन्यतरस्याम् ॥ (१५९।०)

putrāntād anyatarasyām ||

160.0१६०.०

प्राचाम् अवृद्धात् फिन् बहुलम् ॥ (१६०।०)

prācām avṛddhāt phin bahulam ||

161.0१६१.०

मनोर् जाताव् अञ्यतौ षुक् च ॥ (१६१।०)

manor jātāv añyatau ṣuk ca ||

162.0१६२.०

अपत्यं पौत्रप्रभृति गोत्रम् ॥ (१६२।०)

apatyaṃ pautraprabhṛti gotram ||

163.0१६३.०

जीवति तु वंश्ये युवा ॥ (१६३।०)

jīvati tu vaṃśye yuvā ||

164.0१६४.०

भ्रातरि च ज्यायसि ॥ (१६४।०)

bhrātari ca jyāyasi ||

165.0१६५.०

वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति ॥ (१६५।०)

vā anyasmin sapiṇḍe sthaviratare jīvati ||

166.0१६६.०

वृद्धस्य च पूजायाम् ॥ (१६६।०)

vṛddhasya ca pūjāyām ||

167.0१६७.०

यूनश् च कुत्सायाम् ॥ (१६७।०)

yūnaś ca kutsāyām ||

168.0१६८.०

जनपदशब्दात् क्षत्रियाद् अञ् ॥ (१६८।०)

janapadaśabdāt kṣatriyād añ ||

169.0१६९.०

साल्वेयगान्धारिभ्यां च ॥ (१६९।०)

sālveyagāndhāribhyāṃ ca ||

170.0१७०.०

द्व्यञ्मगधकलिङ्गसूरमसाद् अण् ॥ (१७०।०)

dvyañmagadhakaliṅgasūramasād aṇ ||

171.0१७१.०

वृद्धेत्कोसलाजादाञ् ञ्यङ् ॥ (१७१।०)

vṛddhetkosalājādāñ ñyaṅ ||

172.0१७२.०

कुरुनादिभ्यो ण्यः ॥ (१७२।०)

kurunādibhyo ṇyaḥ ||

173.0१७३.०

साल्वावयवप्रत्यग्रथकलकूटाश्मकाद् इञ् ॥ (१७३।०)

sālvāvayavapratyagrathakalakūṭāśmakād iñ ||

174.0१७४.०

ते तद्राजाः ॥ (१७४।०)

te tadrājāḥ ||

175.0१७५.०

कम्बोजाल् लुक् ॥ (१७५।०)

kambojāl luk ||

176.0१७६.०

स्त्रियाम् अवन्तिकुन्तिकुरुभ्यश् च ॥ (१७६।०)

striyām avantikuntikurubhyaś ca ||

177.0१७७.०

अतश् च ॥ (१७७।०)

ataś ca ||

178.0१७८.०

न प्राच्यभर्गादियौधेयादिभ्यः ॥ (१७८।०)

na prācyabhargādiyaudheyādibhyaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

Aṣṭādhyāyī, 4, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit