1.1१.१नैवेह किंचनाग्र आसीत् । (१।१)
naiveha kiṃcanāgra āsīt |
1.2१.२मृत्युनैवेदम् आवृतम् आसीद् अशनायया । (१।२)
mṛtyunaivedam āvṛtam āsīd aśanāyayā |
1.3१.३अशनाया हि मृत्युः । (१।३)
1.4१.४तन् मनो ऽकुरुतात्मन्वी स्याम् इति । (१।४)
tan mano 'kurutātmanvī syām iti |
1.5१.५सो ऽर्चन्न् अचरत् । (१।५)
1.6१.६तस्यार्चत आपो ऽजायन्त । (१।६)
tasyārcata āpo 'jāyanta |
1.7१.७अर्चते वै मे कम् अभूद् इति । (१।७)
arcate vai me kam abhūd iti |
1.8१.८तद् एवार्क्यस्यार्कत्वम् । (१।८)
1.9१.९कं ह वा अस्मै भवति य एवम् एतद् अर्क्यस्यार्कत्वं वेद ॥ (१।९)
kaṃ ha vā asmai bhavati ya evam etad arkyasyārkatvaṃ veda ||
2.2२.२तद् यद् अपां शर आसीत् तत् समहन्यत । (२।२)
tad yad apāṃ śara āsīt tat samahanyata |
2.3२.३सा पृथिव्य् अभवत् । (२।३)
2.4२.४तस्याम् अश्राम्यत् । (२।४)
2.5२.५तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ (२।५)
tasya śrāntasya taptasya tejoraso niravartatāgniḥ ||
3.1३.१स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् । (३।१)
sa tredhātmānaṃ vyakurutādityaṃ tṛtīyaṃ vāyuṃ tṛtīyam |
3.2३.२स एष प्राणस् त्रेधाविहितः । (३।२)
sa eṣa prāṇas tredhāvihitaḥ |
3.3३.३तस्य प्राची दिक् शिरो ऽसौ चासौ चेर्मौ । (३।३)
tasya prācī dik śiro 'sau cāsau cermau |
3.4३.४अथास्य प्रतीची दिक् पुच्छम् असौ चासौ च सक्थ्यौ । (३।४)
athāsya pratīcī dik puccham asau cāsau ca sakthyau |
3.5३.५दक्षिणा चोदीची च पार्श्वे । (३।५)
dakṣiṇā codīcī ca pārśve |
3.6३.६द्यौः पृष्ठम् अन्तरिक्षम् उदरम् इयम् उरः । (३।६)
dyauḥ pṛṣṭham antarikṣam udaram iyam uraḥ |
3.7३.७स एषो ऽप्सु प्रतिष्ठितः । (३।७)
sa eṣo 'psu pratiṣṭhitaḥ |
3.8३.८यत्र क्वचैति तद् एव प्रतितिष्ठत्य् एवं विद्वान् ॥ (३।८)
yatra kvacaiti tad eva pratitiṣṭhaty evaṃ vidvān ||
4.1४.१सो ऽकामयत द्वितीयो म आत्मा जायेतेति । (४।१)
so 'kāmayata dvitīyo ma ātmā jāyeteti |
4.2४.२स मनसा वाचं मिथुनं समभवद् अशनाया मृत्युः । (४।२)
sa manasā vācaṃ mithunaṃ samabhavad aśanāyā mṛtyuḥ |
4.3४.३तद् यद् रेत आसीत् स संवत्सरो ऽभवत् । (४।३)
tad yad reta āsīt sa saṃvatsaro 'bhavat |
4.4४.४न ह पुरा ततः संवत्सर आस । (४।४)
na ha purā tataḥ saṃvatsara āsa |
4.5४.५तम् एतावन्तं कालम् अबिभर् यावान् संवत्सरः । (४।५)
tam etāvantaṃ kālam abibhar yāvān saṃvatsaraḥ |
4.6४.६तम् एतावतः कालस्य परस्ताद् असृजत । (४।६)
tam etāvataḥ kālasya parastād asṛjata |
4.7४.७तं जातम् अभिव्याददात् । (४।७)
5.1५.१स ऐक्षत यदि वा इमम् अभिमंस्ये कनीयो ऽन्नं करिष्य इति । (५।१)
sa aikṣata yadi vā imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti |
5.2५.२स तया वाचा तेनात्मनेदं सर्वम् असृजत यद् इदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् । (५।२)
sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn |
5.3५.३स यद्यद् एवासृजत तत्तद् अत्तुम् अध्रियत । (५।३)
sa yadyad evāsṛjata tattad attum adhriyata |
5.4५.४सर्वं वा अत्तीति तद् अदितेर् अदितित्वम् । (५।४)
sarvaṃ vā attīti tad aditer adititvam |
5.5५.५सर्वस्यात्ता भवति सर्वम् अस्यान्नं भवति य एवम् एतद् अदितेर् अदितित्वं वेद ॥ (५।५)
sarvasyāttā bhavati sarvam asyānnaṃ bhavati ya evam etad aditer adititvaṃ veda ||
6.1६.१सो ऽकामयत भूयसा यज्ञेन भूयो यजेयेति । (६।१)
so 'kāmayata bhūyasā yajñena bhūyo yajeyeti |
6.4६.४तस्य श्रान्तस्य तप्तस्य यशो वीर्यम् उदक्रामत् । (६।४)
tasya śrāntasya taptasya yaśo vīryam udakrāmat |
6.5६.५प्राणा वै यशो वीर्यम् । (६।५)
6.6६.६तत् प्राणेषूत्क्रान्तेषु शरीरं श्वयितुम् अध्रियत । (६।६)
tat prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata |
6.7६.७तस्य शरीर एव मन आसीत् ॥ (६।७)
tasya śarīra eva mana āsīt ||
7.1७.१सो ऽकामयत मेध्यं म इदं स्याद् आत्मन्व्य् अनेन स्याम् इति । (७।१)
so 'kāmayata medhyaṃ ma idaṃ syād ātmanvy anena syām iti |
7.3७.३यद् अश्वत् तन् मेध्यम् अभूद् इति तद् एवाश्वमेधस्याश्वमेधत्वम् । (७।३)
yad aśvat tan medhyam abhūd iti tad evāśvamedhasyāśvamedhatvam |
7.4७.४एष ह वा अश्वमेधं वेद य एनम् एवं वेद । (७।४)
eṣa ha vā aśvamedhaṃ veda ya enam evaṃ veda |
7.5७.५तम् अनवरुध्यैवामन्यत । (७।५)
tam anavarudhyaivāmanyata |
7.6७.६तं संवत्सरस्य परस्ताद् आत्मन आलभत । (७।६)
taṃ saṃvatsarasya parastād ātmana ālabhata |
7.7७.७पशून् देवताभ्यः प्रत्यौहत् । (७।७)
paśūn devatābhyaḥ pratyauhat |
7.8७.८तस्मात् सर्वदेवत्यं प्रोक्षितं प्राजापत्यम् आलभन्ते । (७।८)
tasmāt sarvadevatyaṃ prokṣitaṃ prājāpatyam ālabhante |
7.9७.९एष वा अश्वमेधो य एष तपति । (७।९)
eṣa vā aśvamedho ya eṣa tapati |
7.13७.१३ताव् एताव् अर्काश्वमेधौ । (७।१३)
7.14७.१४सो पुनर् एकैव देवता भवति मृत्युर् एव । (७।१४)
so punar ekaiva devatā bhavati mṛtyur eva |
7.17७.१७मृत्युर् अस्यात्मा भवति । (७।१७)
7.19७.१९एतासां देवतानाम् एको भवति ॥ (७।१९)
etāsāṃ devatānām eko bhavati ||
Data courtesy of The Digital Corpus of Sanskrit.