1.1१.१त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यम् ऊषुः । (१।१)
trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ |
1.2१.२देवा मनुष्या असुराः । (१।२)
1.3१.३उषित्वा ब्रह्मचर्यं देवा ऊचुर् ब्रवीतु नो भवान् इति । (१।३)
uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti |
1.4१.४तेभ्यो हैतद् अक्षरम् उवाच द इति । (१।४)
tebhyo haitad akṣaram uvāca da iti |
1.5१.५व्यज्ञासिष्टा३ इति । (१।५)
1.6१.६व्यज्ञासिष्मेति होचुः । (१।६)
1.7१.७दाम्यतेति न आत्थेति । (१।७)
1.8१.८ओम् इति होवाच व्यज्ञासिष्टेति ॥ (१।८)
om iti hovāca vyajñāsiṣṭeti ||
2.1२.१अथ हैनं मनुष्या ऊचुर् ब्रवीतु नो भवान् इति । (२।१)
atha hainaṃ manuṣyā ūcur bravītu no bhavān iti |
2.2२.२तेभ्यो हैतद् एवाक्षरम् उवाच द इति । (२।२)
tebhyo haitad evākṣaram uvāca da iti |
2.3२.३व्यज्ञासिष्टा३ इति । (२।३)
2.4२.४व्यज्ञासिष्मेति होचुः । (२।४)
2.5२.५दत्तेति न आत्थेति । (२।५)
2.6२.६ओम् इति होवाच व्यज्ञासिष्टेति ॥ (२।६)
om iti hovāca vyajñāsiṣṭeti ||
3.1३.१अथ हैनम् असुरा ऊचुर् ब्रवीतु नो भवान् इति । (३।१)
atha hainam asurā ūcur bravītu no bhavān iti |
3.2३.२तेभ्यो हैतद् एवाक्षरम् उवाच द इति । (३।२)
tebhyo haitad evākṣaram uvāca da iti |
3.3३.३व्यज्ञासिष्टा३ इति । (३।३)
3.4३.४व्यज्ञासिष्मेति होचुः । (३।४)
3.5३.५दयध्वम् इति न आत्थेति । (३।५)
dayadhvam iti na āttheti |
3.6३.६ओम् इति होवाच व्यज्ञासिष्टेति । (३।६)
om iti hovāca vyajñāsiṣṭeti |
3.7३.७तद् एतद् एवैषा दैवी वाग् अनुवदति स्तनयित्नुर् द द द इति । (३।७)
tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti |
3.8३.८दम्यत दत्त दयध्वम् इति । (३।८)
damyata datta dayadhvam iti |
3.9३.९तद् एतत् त्रयं शिक्षेद् दमम् दानम् दयाम् इति ॥ (३।९)
tad etat trayaṃ śikṣed damam dānam dayām iti ||
Data courtesy of The Digital Corpus of Sanskrit.