1.1१.१आप एवेदम् अग्र आसुः । (१।१)
1.2१.२ता आपः सत्यम् असृजन्त । (१।२)
tā āpaḥ satyam asṛjanta |
1.4१.४ब्रह्म प्रजापतिम् । (१।४)
1.5१.५प्रजापतिर् देवान् । (१।५)
1.6१.६ते देवाः सत्यम् एवोपासते । (१।६)
te devāḥ satyam evopāsate |
1.7१.७तद् एतत् त्र्यक्षरं स ति यम् इति स इत्य् एकम् अक्षरम् । (१।७)
tad etat tryakṣaraṃ sa ti yam iti sa ity ekam akṣaram |
1.8१.८तीत्य् एकम् अक्षरम् । (१।८)
1.9१.९यम् इत्य् एकम् अक्षरम् । (१।९)
1.10१.१०प्रथमोत्तमे अक्षरे सत्यम् मध्यतो ऽनृतम् । (१।१०)
prathamottame akṣare satyam madhyato 'nṛtam |
1.11१.११तद् एतद् अनृतम् उभयतः सत्येन परिगृहीतम् । (१।११)
tad etad anṛtam ubhayataḥ satyena parigṛhītam |
1.12१.१२सत्यभूयम् एव भवति । (१।१२)
satyabhūyam eva bhavati |
1.13१.१३नैवंविद्वांसम् अनृतं हिनस्ति ॥ (१।१३)
naivaṃvidvāṃsam anṛtaṃ hinasti ||
2.1२.१तद् यत् तत् सत्यम् असौ स आदित्यः । (२।१)
tad yat tat satyam asau sa ādityaḥ |
2.2२.२य एष एतस्मिन् मण्डले पुरुषो यश्चायं दक्षिणे ऽक्षन् पुरुषस् तावेतावन्योन्यस्मिन् प्रतिष्ठितौ । (२।२)
ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau |
2.3२.३रश्मिभिर् एषो ऽस्मिन् प्रतिष्ठितः प्राणैर् अयम् अमुष्मिन् । (२।३)
raśmibhir eṣo 'smin pratiṣṭhitaḥ prāṇair ayam amuṣmin |
2.4२.४स यदोत्क्रमिष्यन् भवति शुद्धम् एवैतन् मण्डलं पश्यति । (२।४)
sa yadotkramiṣyan bhavati śuddham evaitan maṇḍalaṃ paśyati |
2.5२.५नैनम् एते रश्मयः प्रत्यायन्ति ॥ (२।५)
nainam ete raśmayaḥ pratyāyanti ||
3.1३.१य एष एतस्मिन् मण्डले पुरुषस् तस्य भूर् इति शिरः । (३।१)
ya eṣa etasmin maṇḍale puruṣas tasya bhūr iti śiraḥ |
3.2३.२एकं शिर एकम् एतद् अक्षरम् । (३।२)
ekaṃ śira ekam etad akṣaram |
3.4३.४द्वौ बाहू द्वे एते अक्षरे । (३।४)
dvau bāhū dve ete akṣare |
3.5३.५स्वर् इति प्रतिष्ठा । (३।५)
3.6३.६द्वे प्रतिष्ठे द्वे एते अक्षरे । (३।६)
dve pratiṣṭhe dve ete akṣare |
3.7३.७तस्योपनिषद् अहर् इति । (३।७)
3.8३.८हन्ति पाप्मानं जहाति च य एवं वेद ॥ (३।८)
hanti pāpmānaṃ jahāti ca ya evaṃ veda ||
4.1४.१यो ऽयं दक्षिणे ऽक्षन् पुरुषस् तस्य भूर् इति शिरः । (४।१)
yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ |
4.2४.२एकं शिर एकम् एतद् अक्षरम् । (४।२)
ekaṃ śira ekam etad akṣaram |
4.4४.४द्वौ बाहू द्वे एते अक्षरे । (४।४)
dvau bāhū dve ete akṣare |
4.5४.५स्वर् इति प्रतिष्ठा । (४।५)
4.6४.६द्वे प्रतिष्ठे द्वे एते अक्षरे । (४।६)
dve pratiṣṭhe dve ete akṣare |
4.7४.७तस्योपनिषद् अहम् इति । (४।७)
4.8४.८हन्ति पाप्मानं जहाति च य एवं वेद ॥ (४।८)
hanti pāpmānaṃ jahāti ca ya evaṃ veda ||
Data courtesy of The Digital Corpus of Sanskrit.