बृहदारण्यकोपनिषद्Bṛhadāraṇyakopaniṣad

BĀU, 2, 6

12 of 47 · 61 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ वंशः । (१।१)

atha vaṃśaḥ |

1.2१.२

पौतिमाष्यो गौपवनात् । (१।२)

pautimāṣyo gaupavanāt |

1.3१.३

गौपवनः पशुतिमाष्यात् । (१।३)

gaupavanaḥ paśutimāṣyāt |

1.4१.४

पशुतिमाष्यो गौपवनात् । (१।४)

paśutimāṣyo gaupavanāt |

1.5१.५

गौपवनः कौशिकात् । (१।५)

gaupavanaḥ kauśikāt |

1.6१.६

कौशिकः कौण्डिन्यात् । (१।६)

kauśikaḥ kauṇḍinyāt |

1.7१.७

कौण्डिन्यः शाण्डिल्यात् । (१।७)

kauṇḍinyaḥ śāṇḍilyāt |

1.8१.८

शाण्डिल्यः कौशिकाच्च गौतमाच्च । (१।८)

śāṇḍilyaḥ kauśikācca gautamācca |

1.9१.९

गौतमः ॥ (१।९)

gautamaḥ ||

2.1२.१

आग्निवेश्यात् । (२।१)

āgniveśyāt |

2.2२.२

आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च । (२।२)

āgniveśyaḥ śāṇḍilyāccānabhimlātācca |

2.3२.३

आनभिम्लात आनभिम्लातात् । (२।३)

ānabhimlāta ānabhimlātāt |

2.4२.४

आनभिम्लात आनभिम्लातात् । (२।४)

ānabhimlāta ānabhimlātāt |

2.5२.५

आनभिम्लातो गौतमात् । (२।५)

ānabhimlāto gautamāt |

2.6२.६

गौतमः सैतवप्राचीनयोग्याभ्याम् । (२।६)

gautamaḥ saitavaprācīnayogyābhyām |

2.7२.७

सैतवप्राचीनयोग्यौ पाराशर्यात् । (२।७)

saitavaprācīnayogyau pārāśaryāt |

2.8२.८

पाराशर्यो भारद्वाजात् । (२।८)

pārāśaryo bhāradvājāt |

2.9२.९

भारद्वाजो भारद्वाजाच्च गौतमाच्च । (२।९)

bhāradvājo bhāradvājācca gautamācca |

2.10२.१०

गौतमो भारद्वाजात् । (२।१०)

gautamo bhāradvājāt |

2.11२.११

भारद्वाजः पाराशर्यात् । (२।११)

bhāradvājaḥ pārāśaryāt |

2.12२.१२

पाराशर्यो वैजवापायनात् । (२।१२)

pārāśaryo vaijavāpāyanāt |

2.13२.१३

वैजवापायनः कौशिकायनेः । (२।१३)

vaijavāpāyanaḥ kauśikāyaneḥ |

2.14२.१४

कौशिकायनिः ॥ (२।१४)

kauśikāyaniḥ ||

3.1३.१

घृतकौशिकात् । (३।१)

ghṛtakauśikāt |

3.2३.२

घृतकौशिकः प्राशर्यायणात् । (३।२)

ghṛtakauśikaḥ prāśaryāyaṇāt |

3.3३.३

पारशर्यायणः पाराशर्यात् । (३।३)

pāraśaryāyaṇaḥ pārāśaryāt |

3.4३.४

पाराशर्यो जातूकर्ण्यात् । (३।४)

pārāśaryo jātūkarṇyāt |

3.5३.५

जातूकर्ण्य आसुरायणाच् च यास्काच् च । (३।५)

jātūkarṇya āsurāyaṇāc ca yāskāc ca |

3.6३.६

आसुरायणस् त्रैवणेः । (३।६)

āsurāyaṇas traivaṇeḥ |

3.7३.७

त्रैवणिर् औपजन्धनेः । (३।७)

traivaṇir aupajandhaneḥ |

3.8३.८

औपजन्धनिर् आसुरेः । (३।८)

aupajandhanir āsureḥ |

3.9३.९

आसुरिर् भारद्वाजात् । (३।९)

āsurir bhāradvājāt |

3.10३.१०

भारद्वाज आत्रेयात् । (३।१०)

bhāradvāja ātreyāt |

3.11३.११

आत्रेयो माण्टेः । (३।११)

ātreyo māṇṭeḥ |

3.12३.१२

माण्टिर् गौतमात् । (३।१२)

māṇṭir gautamāt |

3.13३.१३

गौतमो वात्स्यात् । (३।१३)

gautamo vātsyāt |

3.14३.१४

वात्स्यः शाण्डिल्यात् । (३।१४)

vātsyaḥ śāṇḍilyāt |

3.15३.१५

शाण्डिल्यः कैशोर्यात् काप्यात् । (३।१५)

śāṇḍilyaḥ kaiśoryāt kāpyāt |

3.16३.१६

कैशोर्यः काप्यः कुमारहारितात् । (३।१६)

kaiśoryaḥ kāpyaḥ kumārahāritāt |

3.17३.१७

कुमारहारितो गालवात् । (३।१७)

kumārahārito gālavāt |

3.18३.१८

गालवो विदर्भीकौण्डिन्यात् । (३।१८)

gālavo vidarbhīkauṇḍinyāt |

3.19३.१९

विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् । (३।१९)

vidarbhīkauṇḍinyo vatsanapāto bābhravāt |

3.20३.२०

वत्सनपाद् बाभ्रवः पथः सौभरात् । (३।२०)

vatsanapād bābhravaḥ pathaḥ saubharāt |

3.21३.२१

पन्थाः सौभरो ऽयास्याद् आङ्गिरसात् । (३।२१)

panthāḥ saubharo 'yāsyād āṅgirasāt |

3.22३.२२

अयास्य आङ्गिरस आभूतेस् त्वाष्ट्रात् । (३।२२)

ayāsya āṅgirasa ābhūtes tvāṣṭrāt |

3.23३.२३

आभूतिस् त्वाष्ट्रो विश्वरूपात् त्वाष्ट्रात् । (३।२३)

ābhūtis tvāṣṭro viśvarūpāt tvāṣṭrāt |

3.24३.२४

विश्वरूपस् त्वाष्ट्रो ऽश्विभ्याम् । (३।२४)

viśvarūpas tvāṣṭro 'śvibhyām |

3.25३.२५

अश्विनौ दधीच आथर्वणात् । (३।२५)

aśvinau dadhīca ātharvaṇāt |

3.26३.२६

दध्यङ्ङ् आथर्वणो ऽथर्वणो दैवात् । (३।२६)

dadhyaṅṅ ātharvaṇo 'tharvaṇo daivāt |

3.27३.२७

अथर्वा दैवो मृत्योः प्राध्वंसनात् । (३।२७)

atharvā daivo mṛtyoḥ prādhvaṃsanāt |

3.28३.२८

मृत्युः प्राध्वंसनः प्रध्वंसनात् । (३।२८)

mṛtyuḥ prādhvaṃsanaḥ pradhvaṃsanāt |

3.29३.२९

प्रध्वंसन एकर्षेः । (३।२९)

pradhvaṃsana ekarṣeḥ |

3.30३.३०

एकर्षिर् विप्रचित्तेः । (३।३०)

ekarṣir vipracitteḥ |

3.31३.३१

विप्रचित्तिर् व्यष्टेः । (३।३१)

vipracittir vyaṣṭeḥ |

3.32३.३२

व्यष्टिः सनारोः । (३।३२)

vyaṣṭiḥ sanāroḥ |

3.33३.३३

सनारुः सनातनात् । (३।३३)

sanāruḥ sanātanāt |

3.34३.३४

सनातनः सनगात् । (३।३४)

sanātanaḥ sanagāt |

3.35३.३५

सनगः परमेष्ठिनः । (३।३५)

sanagaḥ parameṣṭhinaḥ |

3.36३.३६

परमेष्ठी ब्रह्मणः । (३।३६)

parameṣṭhī brahmaṇaḥ |

3.37३.३७

ब्रह्म स्वयंभु । (३।३७)

brahma svayaṃbhu |

3.38३.३८

ब्रह्मणे नमः ॥ (३।३८)

brahmaṇe namaḥ ||

Data courtesy of The Digital Corpus of Sanskrit.

BĀU, 2, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit