बृहदारण्यकोपनिषद्Bṛhadāraṇyakopaniṣad

BĀU, 3, 5

17 of 47 · 14 verses

Select a line for its word-by-word analysis.

1.1१.१

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच । (१।१)

atha hainaṃ kaholaḥ kauṣītakeyaḥ papraccha yājñavalkyeti hovāca |

1.2१.२

यद् एव साक्षाद् अपरोक्षाद् ब्रह्म य आत्मा सर्वान्तरस् तं मे व्याचक्ष्वेति । (१।२)

yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti |

1.3१.३

एष त आत्मा सर्वान्तरः । (१।३)

eṣa ta ātmā sarvāntaraḥ |

1.4१.४

कतमो याज्ञवल्क्य सर्वान्तरः । (१।४)

katamo yājñavalkya sarvāntaraḥ |

1.5१.५

यो ऽशनायापिपासे शोकं मोहं जरां मृत्युम् अत्येति । (१।५)

yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyum atyeti |

1.6१.६

एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति । (१।६)

etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti |

1.7१.७

या ह्य् एव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा । (१।७)

yā hy eva putraiṣaṇā sā vittaiṣaṇā yā vittaiṣaṇā sā lokaiṣaṇā |

1.8१.८

उभे ह्य् एते एषणे एव भवतः । (१।८)

ubhe hy ete eṣaṇe eva bhavataḥ |

1.9१.९

तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । (१।९)

tasmād brāhmaṇaḥ pāṇḍityaṃ nirvidya bālyena tiṣṭhāset |

1.10१.१०

बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । (१।१०)

bālyaṃ ca pāṇḍityaṃ ca nirvidyātha muniḥ |

1.11१.११

अमौनं च मौनं च निर्विद्याथ ब्राह्मणः । (१।११)

amaunaṃ ca maunaṃ ca nirvidyātha brāhmaṇaḥ |

1.12१.१२

स ब्राह्मणः केन स्याद् येन स्यात् तेनेदृश एव । (१।१२)

sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva |

1.13१.१३

अतो ऽन्यद् आर्तम् । (१।१३)

ato 'nyad ārtam |

1.14१.१४

ततो ह कहोलः कौषीतकेय उपरराम ॥ (१।१४)

tato ha kaholaḥ kauṣītakeya upararāma ||

Data courtesy of The Digital Corpus of Sanskrit.

BĀU, 3, 5

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit