1.1१.१जनको ह वैदेह आसांचक्रे । (१।१)
janako ha vaideha āsāṃcakre |
1.2१.२अथ ह याज्ञवल्क्य आवव्राज । (१।२)
atha ha yājñavalkya āvavrāja |
1.3१.३तं होवाच याज्ञवल्क्य किमर्थम् अचारीः पशून् इच्छन् अण्वन्तानीति । (१।३)
taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantānīti |
1.4१.४उभयम् एव संराड् इति होवाच ॥ (१।४)
ubhayam eva saṃrāḍ iti hovāca ||
2.1२.१यत् ते कश्चिद् अब्रवीत् तच्छृणवामेति । (२।१)
yat te kaścid abravīt tacchṛṇavāmeti |
2.2२.२अब्रवीन् मे जित्वा शैलिनिः वाग् वै ब्रह्मेति । (२।२)
abravīn me jitvā śailiniḥ vāg vai brahmeti |
2.3२.३यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छैलिनिर् अब्रवीद् वाग् वै ब्रह्मेति । (२।३)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti |
2.4२.४अवदतो हि किं स्याद् इति । (२।४)
avadato hi kiṃ syād iti |
2.5२.५अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (२।५)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
2.6२.६न मे ऽब्रवीद् इति । (२।६)
2.7२.७एकपाद् वा एतत् सम्राड् इति । (२।७)
ekapād vā etat samrāḍ iti |
2.8२.८स वै नो ब्रूहि याज्ञवल्क्य । (२।८)
sa vai no brūhi yājñavalkya |
2.9२.९वाग् एवायतनम् आकाशः प्रतिष्ठा प्रज्ञेत्य् एनद् उपासीत । (२।९)
vāg evāyatanam ākāśaḥ pratiṣṭhā prajñety enad upāsīta |
2.10२.१०का प्रज्ञता याज्ञवल्क्य । (२।१०)
kā prajñatā yājñavalkya |
2.11२.११वाग् एव सम्राड् इति होवाच । (२।११)
vāg eva samrāḍ iti hovāca |
2.12२.१२वाचा वै सम्राड् बन्धुः प्रज्ञायते । (२।१२)
vācā vai samrāḍ bandhuḥ prajñāyate |
2.13२.१३ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य् अनुव्याख्यानानि व्याख्यानानीष्टं हुतम् आशितं पायितम् अयं च लोकः परश् च लोकः सर्वाणि च भूतानि वाचैव संराट् प्रज्ञायन्ते । (२।१३)
ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni vācaiva saṃrāṭ prajñāyante |
2.14२.१४वाग् वै सम्राट् परमं ब्रह्म । (२।१४)
vāg vai samrāṭ paramaṃ brahma |
2.16२.१६सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (२।१६)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
2.17२.१७देवो भूत्वा देवान् अप्येति । (२।१७)
devo bhūtvā devān apyeti |
2.18२.१८य एवं विद्वान् एतद् उपास्ते । (२।१८)
ya evaṃ vidvān etad upāste |
2.19२.१९हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (२।१९)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
2.20२.२०स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (२।२०)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
3.1३.१यद् एव ते कश्चिद् अब्रवीत् तच्छृणवामेति । (३।१)
yad eva te kaścid abravīt tacchṛṇavāmeti |
3.2३.२अब्रवीन् म उदङ्कः शौल्बायनः । (३।२)
abravīn ma udaṅkaḥ śaulbāyanaḥ |
3.3३.३प्राणो वै ब्रह्मेति । (३।३)
3.4३.४यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छौल्बायनो ऽब्रवीत् प्राणो वै ब्रह्मेति । (३।४)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti |
3.5३.५अप्राणतो हि किं स्याद् इति । (३।५)
aprāṇato hi kiṃ syād iti |
3.6३.६अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (३।६)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
3.7३.७न मे ऽब्रवीद् इति । (३।७)
3.8३.८एकपाद् वा एतत् सम्राड् इति । (३।८)
ekapād vā etat samrāḍ iti |
3.9३.९स वै नो ब्रूहि याज्ञवल्क्य । (३।९)
sa vai no brūhi yājñavalkya |
3.10३.१०प्राण एवायतनम् आकाशः प्रतिष्ठा । (३।१०)
prāṇa evāyatanam ākāśaḥ pratiṣṭhā |
3.11३.११प्रियम् इत्य् एनद् उपासीत । (३।११)
priyam ity enad upāsīta |
3.13३.१३प्राण एव सम्राड् इति होवाच । (३।१३)
prāṇa eva samrāḍ iti hovāca |
3.14३.१४प्राणस्य वै सम्राट् कामायायाज्यं याजयति । (३।१४)
prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati |
3.15३.१५अप्रतिगृह्यस्य प्रतिगृह्णाति । (३।१५)
apratigṛhyasya pratigṛhṇāti |
3.16३.१६अपि तत्र वधाशङ्का भवति यां दिशम् एति प्राणस्यैव सम्राट् कामाय । (३।१६)
api tatra vadhāśaṅkā bhavati yāṃ diśam eti prāṇasyaiva samrāṭ kāmāya |
3.17३.१७प्राणो वै सम्राट् परमं ब्रह्म । (३।१७)
prāṇo vai samrāṭ paramaṃ brahma |
3.19३.१९सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (३।१९)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
3.20३.२०देवो भूत्वा देवान् अप्येति । (३।२०)
devo bhūtvā devān apyeti |
3.21३.२१य एवं विद्वान् एतद् उपास्ते । (३।२१)
ya evaṃ vidvān etad upāste |
3.22३.२२हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (३।२२)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
3.23३.२३स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (३।२३)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
4.1४.१यद् एव ते कश्चिद् अब्रवीत् तच्छृणवामेति । (४।१)
yad eva te kaścid abravīt tacchṛṇavāmeti |
4.2४.२अब्रवीन् मे बर्कुर् वार्ष्णः । (४।२)
abravīn me barkur vārṣṇaḥ |
4.3४.३चक्षुर् वै ब्रह्मेति । (४।३)
4.4४.४यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् वार्ष्णो ऽब्रवीच् चक्षुर् वै ब्रह्मेति । (४।४)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti |
4.5४.५अपश्यतो हि किं स्याद् इति । (४।५)
apaśyato hi kiṃ syād iti |
4.6४.६अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (४।६)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
4.7४.७न मे ऽब्रवीद् इति । (४।७)
4.8४.८एकपाद् वा एतत् सम्राड् इति । (४।८)
ekapād vā etat samrāḍ iti |
4.9४.९स वै नो ब्रूहि याज्ञवल्क्य । (४।९)
sa vai no brūhi yājñavalkya |
4.10४.१०चक्षुर् एवायतनम् आकाशः प्रतिष्ठा । (४।१०)
cakṣur evāyatanam ākāśaḥ pratiṣṭhā |
4.11४.११सत्यम् इत्य् एतद् उपासीत । (४।११)
satyam ity etad upāsīta |
4.13४.१३चक्षुर् एव सम्राड् इति होवाच । (४।१३)
cakṣur eva samrāḍ iti hovāca |
4.14४.१४चक्षुषा वै सम्राट् पश्यन्तम् आहुर् अद्राक्षीर् इति । (४।१४)
cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti |
4.15४.१५स आहाद्राक्षम् इति तत् सत्यं भवति । (४।१५)
sa āhādrākṣam iti tat satyaṃ bhavati |
4.16४.१६चक्षुर् वै सम्राट् परमं ब्रह्म । (४।१६)
cakṣur vai samrāṭ paramaṃ brahma |
4.18४.१८सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (४।१८)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
4.19४.१९देवो भूत्वा देवान् अप्येति । (४।१९)
devo bhūtvā devān apyeti |
4.20४.२०य एवं विद्वान् एतद् उपास्ते । (४।२०)
ya evaṃ vidvān etad upāste |
4.21४.२१हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (४।२१)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
4.22४.२२स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (४।२२)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
5.1५.१यद् एव ते कश्चिद् अब्रवीत् तच्छृणवामेति । (५।१)
yad eva te kaścid abravīt tacchṛṇavāmeti |
5.2५.२अब्रवीन् मे गर्दभीविपीतो भारद्वाजः । (५।२)
abravīn me gardabhīvipīto bhāradvājaḥ |
5.3५.३श्रोत्रं वै ब्रह्मेति । (५।३)
5.4५.४यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तद् भारद्वाजो ऽब्रवीच्छ्रोत्रं वै ब्रह्मेति । (५।४)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti |
5.5५.५अशृण्वतो हि किं स्याद् इति । (५।५)
aśṛṇvato hi kiṃ syād iti |
5.6५.६अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (५।६)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
5.7५.७न मे ऽब्रवीद् इति । (५।७)
5.8५.८एकपाद् वा एतत् सम्राड् इति । (५।८)
ekapād vā etat samrāḍ iti |
5.9५.९स वै नो ब्रूहि याज्ञवल्क्य । (५।९)
sa vai no brūhi yājñavalkya |
5.10५.१०श्रोत्रम् एवायतनम् आकाशः प्रतिष्ठानन्तम् इत्य् एनद् उपासीत । (५।१०)
śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta |
5.12५.१२दिश एव सम्राड् इति होवाच । (५।१२)
diśa eva samrāḍ iti hovāca |
5.13५.१३तस्माद् वै सम्राड् अपि यां कां च दिशं गच्छति नैवास्या अन्तं गच्छति । (५।१३)
tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati |
5.15५.१५दिशो वै सम्राट् श्रोत्रम् । (५।१५)
diśo vai samrāṭ śrotram |
5.16५.१६श्रोत्रं वै सम्राट् परमं ब्रह्म । (५।१६)
śrotraṃ vai samrāṭ paramaṃ brahma |
5.18५.१८सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (५।१८)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
5.19५.१९देवो भूत्वा देवान् अप्येति । (५।१९)
devo bhūtvā devān apyeti |
5.20५.२०य एवं विद्वान् एतद् उपास्ते । (५।२०)
ya evaṃ vidvān etad upāste |
5.21५.२१हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (५।२१)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
5.22५.२२स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (५।२२)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
6.1६.१यद् एव ते कश्चिद् अब्रवीत् तच्छृणवामेति । (६।१)
yad eva te kaścid abravīt tacchṛṇavāmeti |
6.2६.२अब्रवीन् मे सत्यकामो जाबालः मनो वै ब्रह्मेति । (६।२)
abravīn me satyakāmo jābālaḥ mano vai brahmeti |
6.3६.३यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तज् जाबालो ऽब्रवीन् मनो वै ब्रह्मेति । (६।३)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti |
6.4६.४अमनसो हि किं स्याद् इति । (६।४)
amanaso hi kiṃ syād iti |
6.5६.५अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (६।५)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
6.6६.६न मे ऽब्रवीद् इति । (६।६)
6.7६.७एकपाद् वा एतत् सम्राड् इति । (६।७)
ekapād vā etat samrāḍ iti |
6.8६.८स वै नो ब्रूहि याज्ञवल्क्य । (६।८)
sa vai no brūhi yājñavalkya |
6.9६.९मन एवायतनम् आकाशः प्रतिष्ठानन्द इत्य् एनद् उपासीत । (६।९)
mana evāyatanam ākāśaḥ pratiṣṭhānanda ity enad upāsīta |
6.11६.११मन एव सम्राड् इति होवाच मनसा वै सम्राट् स्त्रियम् अभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते । (६।११)
mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhi hāryati tasyāṃ pratirūpaḥ putro jāyate |
6.13६.१३मनो वै सम्राट् परमं ब्रह्म । (६।१३)
mano vai samrāṭ paramaṃ brahma |
6.15६.१५सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (६।१५)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
6.16६.१६देवो भूत्वा देवान् अप्येति । (६।१६)
devo bhūtvā devān apyeti |
6.17६.१७य एवं विद्वान् एतद् उपास्ते । (६।१७)
ya evaṃ vidvān etad upāste |
6.18६.१८हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (६।१८)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
6.19६.१९स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (६।१९)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
7.1७.१यद् एव ते कश्चिद् अब्रवीत् तच्छृणवामेति । (७।१)
yad eva te kaścid abravīt tacchṛṇavāmeti |
7.2७.२अब्रवीन् मे विदग्धः शाकल्यः । (७।२)
abravīn me vidagdhaḥ śākalyaḥ |
7.3७.३हृदयं वै ब्रह्मेति । (७।३)
7.4७.४यथा मातृमान् पितृमान् आचार्यवान् ब्रूयात् तथा तच्छाकल्यो ऽब्रवीद्धृदयं वै ब्रह्मेति । (७।४)
yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti |
7.5७.५अहृदयस्य हि किं स्याद् इति । (७।५)
ahṛdayasya hi kiṃ syād iti |
7.6७.६अब्रवीत् तु ते तस्यायतनं प्रतिष्ठाम् । (७।६)
abravīt tu te tasyāyatanaṃ pratiṣṭhām |
7.7७.७न मे ऽब्रवीद् इति । (७।७)
7.8७.८एकपाद् वा एतत् सम्राड् इति । (७।८)
ekapād vā etat samrāḍ iti |
7.9७.९स वै नो ब्रूहि याज्ञवल्क्य । (७।९)
sa vai no brūhi yājñavalkya |
7.10७.१०हृदयम् एवायतनम् आकाशः प्रतिष्ठा । (७।१०)
hṛdayam evāyatanam ākāśaḥ pratiṣṭhā |
7.11७.११स्थितिर् इत्य् एनद् उपासीत । (७।११)
sthitir ity enad upāsīta |
7.12७.१२का स्थितिता याज्ञवल्क्य । (७।१२)
kā sthititā yājñavalkya |
7.13७.१३हृदयम् एव सम्राड् इति होवाच । (७।१३)
hṛdayam eva samrāḍ iti hovāca |
7.14७.१४हृदयं वै सम्राट् सर्वेषां भूतानाम् आयतनम् । (७।१४)
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam |
7.15७.१५हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा । (७।१५)
hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā |
7.16७.१६हृदये ह्य् एव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति । (७।१६)
hṛdaye hy eva samrāṭ sarvāṇi bhūtāni pratiṣṭhitāni bhavanti |
7.17७.१७हृदयं वै सम्राट् परमं ब्रह्म । (७।१७)
hṛdayaṃ vai samrāṭ paramaṃ brahma |
7.19७.१९सर्वाण्य् एनं भूतान्य् अभिक्षरन्ति । (७।१९)
sarvāṇy enaṃ bhūtāny abhikṣaranti |
7.20७.२०देवो भूत्वा देवान् अप्येति । (७।२०)
devo bhūtvā devān apyeti |
7.21७.२१य एवं विद्वान् एतद् उपास्ते । (७।२१)
ya evaṃ vidvān etad upāste |
7.22७.२२हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः । (७।२२)
hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ |
7.23७.२३स होवाच याज्ञवल्क्यः पिता मे ऽमन्यत नाननुशिष्य हरेतेति ॥ (७।२३)
sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti ||
Data courtesy of The Digital Corpus of Sanskrit.