बृहदारण्यकोपनिषद्Bṛhadāraṇyakopaniṣad

BĀU, 6, 2

44 of 47 · 127 verses

Select a line for its word-by-word analysis.

1.1१.१

श्वेतकेतुर् वा आरुणेयः पञ्चालानां परिषदम् आजगाम । (१।१)

śvetaketur vā āruṇeyaḥ pañcālānāṃ pariṣadam ājagāma |

1.2१.२

स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् । (१।२)

sa ājagāma jaivaliṃ pravāhaṇaṃ paricārayamāṇam |

1.3१.३

तम् उदीक्ष्याभ्युवाद कुमारा३ इति । (१।३)

tam udīkṣyābhyuvāda kumārā3 iti |

1.4१.४

स भो३ इति प्रतिशुश्राव । (१।४)

sa bho3 iti pratiśuśrāva |

1.5१.५

अनुशिष्टो न्व् असि पित्रेति । (१।५)

anuśiṣṭo nv asi pitreti |

1.6१.६

ओम् इति होवाच ॥ (१।६)

om iti hovāca ||

2.1२.१

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति । (२।१)

vettha yathemāḥ prajāḥ prayatyo vipratipadyantā3 iti |

2.2२.२

नेति होवाच । (२।२)

neti hovāca |

2.3२.३

वेत्थो यथेमं लोकं पुनर् आपद्यन्ता३ इति । (२।३)

vettho yathemaṃ lokaṃ punar āpadyantā3 iti |

2.4२.४

नेति हैवोवाच । (२।४)

neti haivovāca |

2.5२.५

वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर् न संपूर्यता३ इति । (२।५)

vettho yathāsau loka evaṃ bahubhiḥ punaḥ punaḥ prayadbhir na saṃpūryatā3 iti |

2.6२.६

नेति हैवोवाच । (२।६)

neti haivovāca |

2.7२.७

वेत्थो यतिथ्याम् आहुत्यां हुतायाम् आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति । (२।७)

vettho yatithyām āhutyāṃ hutāyām āpaḥ puruṣavāco bhūtvā samutthāya vadantī3 iti |

2.8२.८

नेति हैवोवाच । (२।८)

neti haivovāca |

2.9२.९

वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा । (२।९)

vettho devayānasya vā pathaḥ pratipadaṃ pitṛyāṇasya vā |

2.10२.१०

यत् कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा । (२।१०)

yat kṛtvā devayānaṃ vā panthānaṃ pratipadyante pitṛyāṇaṃ vā |

2.11२.११

अपि हि न ऋषेर् वचः श्रुतं द्वे सृती अशृणवं पितॄणाम् अहं देवानाम् उत मर्त्यानाम् । (२।११)

api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām |

2.12२.१२

ताभ्याम् इदं विश्वम् एजत् समेति यद् अन्तरा पितरं मातरं चेति । (२।१२)

tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti |

2.13२.१३

नाहम् अत एकं चन वेदेति होवाच ॥ (२।१३)

nāham ata ekaṃ cana vedeti hovāca ||

3.1३.१

अथैनं वसत्योपमन्त्रयांचक्रे । (३।१)

athainaṃ vasatyopamantrayāṃcakre |

3.2३.२

अनादृत्य वसतिं कुमारः प्रदुद्राव । (३।२)

anādṛtya vasatiṃ kumāraḥ pradudrāva |

3.3३.३

स आजगाम पितरम् । (३।३)

sa ājagāma pitaram |

3.4३.४

तं होवाच इति वाव किल नो भवान् पुरानुशिष्टान् अवोच इति । (३।४)

taṃ hovāca iti vāva kila no bhavān purānuśiṣṭān avoca iti |

3.5३.५

कथम् सुमेध इति । (३।५)

katham sumedha iti |

3.6३.६

पञ्च मा प्रश्नान् राजन्यबन्धुर् अप्राक्षीत् । (३।६)

pañca mā praśnān rājanyabandhur aprākṣīt |

3.7३.७

ततो नैकं चन वेदेति । (३।७)

tato naikaṃ cana vedeti |

3.8३.८

कतमे त इति । (३।८)

katame ta iti |

3.9३.९

इम इति ह प्रतीकान्य् उदाजहार ॥ (३।९)

ima iti ha pratīkāny udājahāra ||

4.1४.१

स होवाच तथा नस् त्वं तत जानीथा यथा यद् अहं किंच वेद सर्वम् अहं तत् तुभम् अवोचम् । (४।१)

sa hovāca tathā nas tvaṃ tata jānīthā yathā yad ahaṃ kiṃca veda sarvam ahaṃ tat tubham avocam |

4.2४.२

प्रेहि तु तत्र । (४।२)

prehi tu tatra |

4.3४.३

प्रतीत्य ब्रह्मचर्यं वत्स्याव इति । (४।३)

pratītya brahmacaryaṃ vatsyāva iti |

4.4४.४

भवान् एव गच्छत्व् इति । (४।४)

bhavān eva gacchatv iti |

4.5४.५

स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेर् आस । (४।५)

sa ājagāma gautamo yatra pravāhaṇasya jaivaler āsa |

4.6४.६

तस्मा आसनम् आहृत्योदकम् आहारयांचकार । (४।६)

tasmā āsanam āhṛtyodakam āhārayāṃcakāra |

4.7४.७

अथ हास्मा अर्घ्यं चकार । (४।७)

atha hāsmā arghyaṃ cakāra |

4.8४.८

तं होवाच वरं भगवते गौतमाय दद्म इति ॥ (४।८)

taṃ hovāca varaṃ bhagavate gautamāya dadma iti ||

5.1५.१

स होवाच प्रतिज्ञतो म एष वरः । (५।१)

sa hovāca pratijñato ma eṣa varaḥ |

5.2५.२

यां तु कुमारस्यान्ते वाचम् अभाषथास् तां मे ब्रूहीति ॥ (५।२)

yāṃ tu kumārasyānte vācam abhāṣathās tāṃ me brūhīti ||

6.1६.१

स होवाच दैवेषु वै गौतम तद् वरेषु । (६।१)

sa hovāca daiveṣu vai gautama tad vareṣu |

6.2६.२

मानुषाणां ब्रूहीति ॥ (६।२)

mānuṣāṇāṃ brūhīti ||

7.1७.१

स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य । (७।१)

sa hovāca vijñāyate hāstihiraṇyasyāpāttaṃ goaśvānāṃ dāsīnāṃ pravārāṇāṃ paridhānasya |

7.2७.२

मा नो भवान् बहोर् अनन्तस्यापर्यन्तस्याभ्यवदान्यो भूद् इति । (७।२)

mā no bhavān bahor anantasyāparyantasyābhyavadānyo bhūd iti |

7.3७.३

स वै गौतम तीर्थेनेच्छसा इति । (७।३)

sa vai gautama tīrthenecchasā iti |

7.4७.४

उपैम्य् अहं भवन्तम् इति । (७।४)

upaimy ahaṃ bhavantam iti |

7.5७.५

वाचा ह स्मैव पूर्व उपयन्ति । (७।५)

vācā ha smaiva pūrva upayanti |

7.6७.६

स होपायनकीर्त्योवास ॥ (७।६)

sa hopāyanakīrtyovāsa ||

8.1८.१

स होवाच तथा नस् त्वम् गौतम मापराधास् तव च पितामहाः । (८।१)

sa hovāca tathā nas tvam gautama māparādhās tava ca pitāmahāḥ |

8.2८.२

यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास । (८।२)

yatheyaṃ vidyetaḥ pūrvaṃ na kasmiṃścana brāhmaṇa uvāsa |

8.3८.३

तां त्व् अहं तुभ्यं वक्ष्यामि । (८।३)

tāṃ tv ahaṃ tubhyaṃ vakṣyāmi |

8.4८.४

को हि त्वैवं ब्रुवन्तम् अर्हति प्रत्याख्यातुम् इति ॥ (८।४)

ko hi tvaivaṃ bruvantam arhati pratyākhyātum iti ||

9.1९.१

असौ वै लोको ऽग्निर् गौतम । (९।१)

asau vai loko 'gnir gautama |

9.2९.२

तस्यादित्य एव समित् । (९।२)

tasyāditya eva samit |

9.3९.३

रश्मयो धूमः । (९।३)

raśmayo dhūmaḥ |

9.4९.४

अहर् अर्चिः । (९।४)

ahar arciḥ |

9.5९.५

दिशो ऽङ्गाराः । (९।५)

diśo 'ṅgārāḥ |

9.6९.६

अवान्तरदिशो विष्फुलिङ्गाः । (९।६)

avāntaradiśo viṣphuliṅgāḥ |

9.7९.७

तस्मिन्न् एतस्मिन्न् अग्नौ देवाः श्रद्धां जुह्वति । (९।७)

tasminn etasminn agnau devāḥ śraddhāṃ juhvati |

9.8९.८

तस्या आहुत्यै सोमो राजा सम्भवति ॥ (९।८)

tasyā āhutyai somo rājā sambhavati ||

10.1१०.१

पर्जन्यो वा अग्निर् गौतम । (१०।१)

parjanyo vā agnir gautama |

10.2१०.२

तस्य संवत्सर एव समित् । (१०।२)

tasya saṃvatsara eva samit |

10.3१०.३

अभ्राणि धूमः । (१०।३)

abhrāṇi dhūmaḥ |

10.4१०.४

विद्युद् अर्चिः । (१०।४)

vidyud arciḥ |

10.5१०.५

अशनिर् अङ्गाराः । (१०।५)

aśanir aṅgārāḥ |

10.6१०.६

ह्रादुनयो विष्फुलिङ्गाः । (१०।६)

hrādunayo viṣphuliṅgāḥ |

10.7१०.७

तस्मिन्न् एतस्मिन्न् अग्नौ देवाः सोमं राजानं जुह्वति । (१०।७)

tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati |

10.8१०.८

तस्या आहुत्यै वृष्टिः सम्भवति ॥ (१०।८)

tasyā āhutyai vṛṣṭiḥ sambhavati ||

11.1११.१

अयं वै लोको ऽग्निर् गौतम । (११।१)

ayaṃ vai loko 'gnir gautama |

11.2११.२

तस्य पृथिव्य् एव समित् । (११।२)

tasya pṛthivy eva samit |

11.3११.३

अग्निर् धूमः । (११।३)

agnir dhūmaḥ |

11.4११.४

रात्रिर् अर्चिः । (११।४)

rātrir arciḥ |

11.5११.५

चन्द्रमा अङ्गाराः । (११।५)

candramā aṅgārāḥ |

11.6११.६

नक्षत्राणि विष्फुलिङ्गाः । (११।६)

nakṣatrāṇi viṣphuliṅgāḥ |

11.7११.७

तस्मिन्न् एतस्मिन्न् अग्नौ देवा वृष्टिं जुह्वति । (११।७)

tasminn etasminn agnau devā vṛṣṭiṃ juhvati |

11.8११.८

तस्या आहुत्या अन्नं सम्भवति ॥ (११।८)

tasyā āhutyā annaṃ sambhavati ||

12.1१२.१

पुरुषो वा अग्निर् गौतम । (१२।१)

puruṣo vā agnir gautama |

12.2१२.२

तस्य व्यात्तम् एव समित् । (१२।२)

tasya vyāttam eva samit |

12.3१२.३

प्राणो धूमः । (१२।३)

prāṇo dhūmaḥ |

12.4१२.४

वाग् अर्चिः । (१२।४)

vāg arciḥ |

12.5१२.५

चक्षुर् अङ्गाराः । (१२।५)

cakṣur aṅgārāḥ |

12.6१२.६

श्रोत्रं विष्फुलिङ्गाः । (१२।६)

śrotraṃ viṣphuliṅgāḥ |

12.7१२.७

तस्मिन्न् एतस्मिन्न् अग्नौ देवा अन्नं जुह्वति । (१२।७)

tasminn etasminn agnau devā annaṃ juhvati |

12.8१२.८

तस्या आहुत्यै रेतः सम्भवति ॥ (१२।८)

tasyā āhutyai retaḥ sambhavati ||

13.1१३.१

योषा वा अग्निर् गौतम । (१३।१)

yoṣā vā agnir gautama |

13.2१३.२

तस्या उपस्थ एव समित् । (१३।२)

tasyā upastha eva samit |

13.3१३.३

लोमानि धूमः । (१३।३)

lomāni dhūmaḥ |

13.4१३.४

योनिर् अर्चिः । (१३।४)

yonir arciḥ |

13.5१३.५

यद् अन्तः करोति ते ऽङ्गाराः । (१३।५)

yad antaḥ karoti te 'ṅgārāḥ |

13.6१३.६

अभिनन्दा विष्फुलिङ्गाः । (१३।६)

abhinandā viṣphuliṅgāḥ |

13.7१३.७

तस्मिन्न् एतस्मिन्न् अग्नौ देवा रेतो जुह्वति । (१३।७)

tasminn etasminn agnau devā reto juhvati |

13.8१३.८

तस्या आहुत्यै पुरुषः सम्भवति । (१३।८)

tasyā āhutyai puruṣaḥ sambhavati |

13.9१३.९

स जीवति यावज् जीवति । (१३।९)

sa jīvati yāvaj jīvati |

13.10१३.१०

अथ यदा म्रियते ॥ (१३।१०)

atha yadā mriyate ||

14.1१४.१

अथैनम् अग्नये हरन्ति । (१४।१)

athainam agnaye haranti |

14.2१४.२

तस्याग्निर् एवाग्निर् भवति । (१४।२)

tasyāgnir evāgnir bhavati |

14.3१४.३

समित् समित् । (१४।३)

samit samit |

14.4१४.४

धूमो धूमः । (१४।४)

dhūmo dhūmaḥ |

14.5१४.५

अर्चिर् अर्चिः । (१४।५)

arcir arciḥ |

14.6१४.६

अङ्गारा अङ्गाराः । (१४।६)

aṅgārā aṅgārāḥ |

14.7१४.७

विष्फुलिङ्गा विष्फुलिङ्गाः । (१४।७)

viṣphuliṅgā viṣphuliṅgāḥ |

14.8१४.८

तस्मिन्न् एतस्मिन्न् अग्नौ देवाः पुरुषं जुह्वति । (१४।८)

tasminn etasminn agnau devāḥ puruṣaṃ juhvati |

14.9१४.९

तस्या आहुत्यै पुरुषो भास्वरवर्णः सम्भवति ॥ (१४।९)

tasyā āhutyai puruṣo bhāsvaravarṇaḥ sambhavati ||

15.1१५.१

ते य एवम् एतद् विदुर् ये चामी अरण्ये श्रद्धां सत्यम् उपासते ते ऽर्चिर् अभिसंभवन्ति । (१५।१)

te ya evam etad vidur ye cāmī araṇye śraddhāṃ satyam upāsate te 'rcir abhisaṃbhavanti |

15.2१५.२

अर्चिषो ऽहः । (१५।२)

arciṣo 'haḥ |

15.3१५.३

अह्न आपूर्यमाणपक्षम् । (१५।३)

ahna āpūryamāṇapakṣam |

15.4१५.४

आपूर्यमाणपक्षाद् यान् षण् मासान् उदङ्ङ् आदित्य एति । (१५।४)

āpūryamāṇapakṣād yān ṣaṇ māsān udaṅṅ āditya eti |

15.5१५.५

मासेभ्यो देवलोकम् । (१५।५)

māsebhyo devalokam |

15.6१५.६

देवलोकाद् आदित्यम् । (१५।६)

devalokād ādityam |

15.7१५.७

आदित्याद् वैद्युतम् । (१५।७)

ādityād vaidyutam |

15.8१५.८

तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति । (१५।८)

tān vaidyutān puruṣo mānasa etya brahmalokān gamayati |

15.9१५.९

ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति । (१५।९)

te teṣu brahmalokeṣu parāḥ parāvato vasanti |

15.10१५.१०

तेषां न पुनर् आवृत्तिः ॥ (१५।१०)

teṣāṃ na punar āvṛttiḥ ||

16.1१६.१

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूमम् अभिसंभवन्ति । (१६।१)

atha ye yajñena dānena tapasā lokāñjayanti te dhūmam abhisaṃbhavanti |

16.2१६.२

धूमाद् रात्रिम् । (१६।२)

dhūmād rātrim |

16.3१६.३

रात्रेर् अपक्षीयमाणपक्षम् । (१६।३)

rātrer apakṣīyamāṇapakṣam |

16.4१६.४

अपक्षीयमाणपक्षाद् यान् षण् मासान् दक्षिणादित्य एति । (१६।४)

apakṣīyamāṇapakṣād yān ṣaṇ māsān dakṣiṇāditya eti |

16.5१६.५

मासेभ्यः पितृलोकम् । (१६।५)

māsebhyaḥ pitṛlokam |

16.6१६.६

पितृलोकाच्चन्द्रम् । (१६।६)

pitṛlokāccandram |

16.7१६.७

ते चन्द्रं प्राप्यान्नं भवन्ति । (१६।७)

te candraṃ prāpyānnaṃ bhavanti |

16.8१६.८

तांस् तत्र देवा यथा सोमं राजानम् आप्यायस्वापक्षीयस्वेत्य् एवम् एनांस्तत्र भक्षयन्ति । (१६।८)

tāṃs tatra devā yathā somaṃ rājānam āpyāyasvāpakṣīyasvety evam enāṃstatra bhakṣayanti |

16.9१६.९

तेषां यदा तत् पर्यवैत्य् अथेमम् एवाकाशम् अभिनिष्पद्यन्ते । (१६।९)

teṣāṃ yadā tat paryavaity athemam evākāśam abhiniṣpadyante |

16.10१६.१०

आकाशाद् वायुम् । (१६।१०)

ākāśād vāyum |

16.11१६.११

वायोर् वृष्टिम् । (१६।११)

vāyor vṛṣṭim |

16.12१६.१२

वृष्टेः पृथिवीम् । (१६।१२)

vṛṣṭeḥ pṛthivīm |

16.13१६.१३

ते पृथिवीं प्राप्यान्नं भवन्ति । (१६।१३)

te pṛthivīṃ prāpyānnaṃ bhavanti |

16.14१६.१४

ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते । (१६।१४)

te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante |

16.15१६.१५

लोकान् प्रत्युत्थायिनस् त एवम् एवानुपरिवर्तन्ते । (१६।१५)

lokān pratyutthāyinas ta evam evānuparivartante |

16.16१६.१६

अथ य एतौ पन्थानौ न विदुस् ते कीटाः पतङ्गा यद् इदं दन्दशूकम् ॥ (१६।१६)

atha ya etau panthānau na vidus te kīṭāḥ pataṅgā yad idaṃ dandaśūkam ||

Data courtesy of The Digital Corpus of Sanskrit.

BĀU, 6, 2

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit