1.1१.१यदा वै पुरुषो ऽस्माल्लोकात् प्रैति स वायुम् आगच्छति । (१।१)
yadā vai puruṣo 'smāllokāt praiti sa vāyum āgacchati |
1.2१.२तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् । (१।२)
tasmai sa tatra vijihīte yathā rathacakrasya kham |
1.3१.३तेन स ऊर्ध्व आक्रमते । (१।३)
tena sa ūrdhva ākramate |
1.4१.४स आदित्यम् आगच्छति । (१।४)
1.5१.५तस्मै स तत्र विजिहीते । (१।५)
tasmai sa tatra vijihīte |
1.7१.७तेन स ऊर्ध्व आक्रमते । (१।७)
tena sa ūrdhva ākramate |
1.8१.८स चन्द्रमसम् आगच्छति । (१।८)
sa candramasam āgacchati |
1.9१.९तस्मै स तत्र विजिहीते । (१।९)
tasmai sa tatra vijihīte |
1.11१.११तेन स ऊर्ध्व आक्रमते । (१।११)
tena sa ūrdhva ākramate |
1.12१.१२स लोकम् आगच्छत्य् अशोकम् अहिमम् । (१।१२)
sa lokam āgacchaty aśokam ahimam |
1.13१.१३तस्मिन् वसति शाश्वतीः समाः ॥ (१।१३)
tasmin vasati śāśvatīḥ samāḥ ||
Data courtesy of The Digital Corpus of Sanskrit.