आनन्दकन्दĀnandakanda

ĀK, 1, 12

12 of 35 · 446 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीशैले सिद्धिलाभःश्रीभैरवी । (१।१)

śrīśaile siddhilābhaḥśrībhairavī |

1.2१.२

श्रीशैले विविधा सिद्धिः सद्यः प्रत्ययकारिणी । (१।२)

śrīśaile vividhā siddhiḥ sadyaḥ pratyayakāriṇī |

1.3१.३

सुलभा श्रूयते देव तां ब्रूहि विविधां प्रभो ॥ (१।३)

sulabhā śrūyate deva tāṃ brūhi vividhāṃ prabho ||

2.1२.१

श्रीभैरवः । (२।१)

śrībhairavaḥ |

2.2२.२

वक्ष्यामि शृणु तत्सर्वं सद्यः सिद्धिकरं प्रिये । (२।२)

vakṣyāmi śṛṇu tatsarvaṃ sadyaḥ siddhikaraṃ priye |

2.3२.३

कैलासान्मन्दरान्मेरोर्विन्ध्याद्रेश्च हिमालयात् ॥ (२।३)

kailāsānmandarānmerorvindhyādreśca himālayāt ||

3.1३.१

महेन्द्रान्मलयाद्रेश्च सह्यादृश्यगिरेरपि । (३।१)

mahendrānmalayādreśca sahyādṛśyagirerapi |

3.2३.२

श्रेष्ठः श्रीपर्वतो दिव्यः सिद्धियोगीन्द्रसेवितः ॥ (३।२)

śreṣṭhaḥ śrīparvato divyaḥ siddhiyogīndrasevitaḥ ||

4.1४.१

तत्र तीर्थानि सर्वाणि सरांसि सरितः प्रिये । (४।१)

tatra tīrthāni sarvāṇi sarāṃsi saritaḥ priye |

4.2४.२

सिद्धिप्रदानि लिङ्गानि लतापाषाणपादपाः ॥ (४।२)

siddhipradāni liṅgāni latāpāṣāṇapādapāḥ ||

5.1५.१

मृत्तिकाकन्दतोयानि पत्रपुष्पफलानि च । (५।१)

mṛttikākandatoyāni patrapuṣpaphalāni ca |

5.2५.२

एवमादीनि विद्यन्ते सर्वसिद्धिकराणि च ॥ (५।२)

evamādīni vidyante sarvasiddhikarāṇi ca ||

6.1६.१

श्रीपर्वतोऽहमीशानि त्वहं साक्षात्स पर्वतः । (६।१)

śrīparvato'hamīśāni tvahaṃ sākṣātsa parvataḥ |

6.2६.२

स्थावरं मामकं रूपं विद्धि तं सुरसेवितम् ॥ (६।२)

sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam ||

7.1७.१

अस्मिन्यदस्ति नान्यत्र यदन्यत्र स्थितं च तत् । (७।१)

asminyadasti nānyatra yadanyatra sthitaṃ ca tat |

7.2७.२

दिव्यलिङ्गस्पर्शनीयं ज्योतिर्लिङ्गमनामयम् ॥ (७।२)

divyaliṅgasparśanīyaṃ jyotirliṅgamanāmayam ||

8.1८.१

श्रीमल्लिकार्जुनमिति प्रख्यातं परमेश्वरि । (८।१)

śrīmallikārjunamiti prakhyātaṃ parameśvari |

8.2८.२

वामपार्श्वेऽस्य लिङ्गस्य घण्टासिद्धेश्वरः स्थितः ॥ (८।२)

vāmapārśve'sya liṅgasya ghaṇṭāsiddheśvaraḥ sthitaḥ ||

9.1९.१

घण्टा विलम्बते द्वारे तीर्थकुण्डं च विद्यते । (९।१)

ghaṇṭā vilambate dvāre tīrthakuṇḍaṃ ca vidyate |

9.2९.२

उपोषितैस्त्रिभिः कार्यं जागरूकैरतन्द्रितैः ॥ (९।२)

upoṣitaistribhiḥ kāryaṃ jāgarūkairatandritaiḥ ||

10.1१०.१

निशि कृष्णचतुर्दश्यामजस्रं स्नापयेच्छिवम् । (१०।१)

niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam |

10.2१०.२

एकः समानयेत्तोयं कुण्डस्थमपरः प्रिये ॥ (१०।२)

ekaḥ samānayettoyaṃ kuṇḍasthamaparaḥ priye ||

11.1११.१

घण्टां निनादयेदन्यश्चतुर्यामावधि प्रिये । (११।१)

ghaṇṭāṃ ninādayedanyaścaturyāmāvadhi priye |

11.2११.२

घण्टासिद्धेश्वरस्तुष्टो दद्यात्तेभ्योऽपि खे गतिम् ॥ (११।२)

ghaṇṭāsiddheśvarastuṣṭo dadyāttebhyo'pi khe gatim ||

12.1१२.१

घण्टासिद्धेश्वरस्यास्य दक्षिणे निखनेत्प्रिये । (१२।१)

ghaṇṭāsiddheśvarasyāsya dakṣiṇe nikhanetpriye |

12.2१२.२

जानुदघ्नं तु तत्रैव दृश्यते रोचनप्रभा ॥ (१२।२)

jānudaghnaṃ tu tatraiva dṛśyate rocanaprabhā ||

13.1१३.१

मृत्तिका तां समाहृत्य कर्षमात्रं पिबेत्प्रिये । (१३।१)

mṛttikā tāṃ samāhṛtya karṣamātraṃ pibetpriye |

13.2१३.२

क्षीरयुक्तां च सप्ताहं स साक्षादमरो भवेत् ॥ (१३।२)

kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet ||

14.1१४.१

श्रीगिरीशस्य पुरतो गजाकारा महाशिला । (१४।१)

śrīgirīśasya purato gajākārā mahāśilā |

14.2१४.२

स्रवत्येव दिवारात्रं दिव्यगन्धं सुगुग्गुलुम् ॥ (१४।२)

sravatyeva divārātraṃ divyagandhaṃ suguggulum ||

15.1१५.१

तं गृह्णीयात्पलाशस्य दर्व्यालाबुकपात्रके । (१५।१)

taṃ gṛhṇīyātpalāśasya darvyālābukapātrake |

15.2१५.२

प्रक्षिपेद्गन्धकयुतं भक्षयेत्कर्षमात्रकम् ॥ (१५।२)

prakṣipedgandhakayutaṃ bhakṣayetkarṣamātrakam ||

16.1१६.१

प्रत्यहं मासपर्यन्तं ततः सिद्धिमवाप्नुयात् । (१६।१)

pratyahaṃ māsaparyantaṃ tataḥ siddhimavāpnuyāt |

16.2१६.२

सदानन्दो युवा धीरो जीवेदाचन्द्रतारकम् ॥ (१६।२)

sadānando yuvā dhīro jīvedācandratārakam ||

17.1१७.१

विद्रुते म्लेच्छवदने गुग्गुलुं तं विनिक्षिपेत् । (१७।१)

vidrute mlecchavadane gugguluṃ taṃ vinikṣipet |

17.2१७.२

कोटिमंशं ततस्ताम्रं दिव्यं भवति काञ्चनम् ॥ (१७।२)

koṭimaṃśaṃ tatastāmraṃ divyaṃ bhavati kāñcanam ||

18.1१८.१

चन्द्रोदक बेइ मल्लिकार्जुनमल्लिकार्जुनदेवस्य चन्द्रवाप्यस्ति पश्चिमे । (१८।१)

candrodaka bei Mallikārjunamallikārjunadevasya candravāpyasti paścime |

18.2१८.२

वैशाखपूर्णिमायां तु साधयेत्साधकोत्तमः ॥ (१८।२)

vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ ||

19.1१९.१

निर्भयो निर्विकल्पश्च वसंस्तोयसमीपतः । (१९।१)

nirbhayo nirvikalpaśca vasaṃstoyasamīpataḥ |

19.2१९.२

जपेन्मृत्युञ्जयं मन्त्रं रात्रौ वासोविवर्जितः ॥ (१९।२)

japenmṛtyuñjayaṃ mantraṃ rātrau vāsovivarjitaḥ ||

20.1२०.१

निशीथे चन्द्रसलिलं चन्द्रस्पृष्टं भवेद्यदा । (२०।१)

niśīthe candrasalilaṃ candraspṛṣṭaṃ bhavedyadā |

20.2२०.२

तत्तीर्थच्छिद्रदेशे च स्वाञ्जलिं प्रक्षिपेदतः ॥ (२०।२)

tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ ||

21.1२१.१

स्पृष्ट्वा चन्द्रो यदा गच्छेत्तदा तत्तोयमाहरेत् । (२१।१)

spṛṣṭvā candro yadā gacchettadā tattoyamāharet |

21.2२१.२

पिबेच्च सहसा धीरो जीवेदाचन्द्रतारकम् ॥ (२१।२)

pibecca sahasā dhīro jīvedācandratārakam ||

22.1२२.१

वज्रकायः सौम्यरूपः शान्तात्मा स भवेन्नरः । (२२।१)

vajrakāyaḥ saumyarūpaḥ śāntātmā sa bhavennaraḥ |

22.2२२.२

त्रिपुरान्तकपूर्वद्वारे श्रीगिरेस्तु विद्यते त्रिपुरान्तकः ॥ (२२।२)

Tripurāntakapūrvadvāre śrīgirestu vidyate tripurāntakaḥ ||

23.1२३.१

देवस्य निकटे देशे चोत्तरे तिन्त्रिणीतरुः । (२३।१)

devasya nikaṭe deśe cottare tintriṇītaruḥ |

23.2२३.२

दृश्यते तत्र मूले तु स्वयं श्रीभैरवः प्रभुः ॥ (२३।२)

dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ ||

24.1२४.१

नृमात्रां निखनेद्भूमिं तदग्रे दृश्यते तदा । (२४।१)

nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā |

24.2२४.२

तप्तकुण्डं नीलजलं दिव्यसिद्धिप्रदायकम् ॥ (२४।२)

taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam ||

25.1२५.१

तत्तिन्त्रिणीकपत्राणि वस्त्रे बद्ध्वा विनिक्षिपेत् । (२५।१)

tattintriṇīkapatrāṇi vastre baddhvā vinikṣipet |

25.2२५.२

कुण्डे तस्मिंस्तदा तानि स्थूलमीना भवन्ति च ॥ (२५।२)

kuṇḍe tasmiṃstadā tāni sthūlamīnā bhavanti ca ||

26.1२६.१

गृहीत्वा तिन्त्रिणीकाष्ठैः पचेदेवं क्रमात्सुधीः । (२६।१)

gṛhītvā tintriṇīkāṣṭhaiḥ pacedevaṃ kramātsudhīḥ |

26.2२६.२

तेषां शिरःकण्टकानि खानि च विवर्जयेत् ॥ (२६।२)

teṣāṃ śiraḥkaṇṭakāni khāni ca vivarjayet ||

27.1२७.१

भक्षयेच्छेषमखिलं साधकः सिद्धिकाङ्क्षया । (२७।१)

bhakṣayeccheṣamakhilaṃ sādhakaḥ siddhikāṅkṣayā |

27.2२७.२

क्षणमात्रं भवेन्मूर्च्छा तेन पश्चाद्विबुध्यते ॥ (२७।२)

kṣaṇamātraṃ bhavenmūrcchā tena paścādvibudhyate ||

28.1२८.१

वसुधायां बिलं पश्येज्जीवेद्दिव्यायुताब्दकम् । (२८।१)

vasudhāyāṃ bilaṃ paśyejjīveddivyāyutābdakam |

28.2२८.२

मणिपल्लिपश्चिमे त्रिपुरान्तस्य गव्यूतिद्वयमात्रके ॥ (२८।२)

maṇipallipaścime tripurāntasya gavyūtidvayamātrake ||

29.1२९.१

मणिपल्लिरिति ग्रामस्तस्य पश्चिमभागतः । (२९।१)

maṇipalliriti grāmastasya paścimabhāgataḥ |

29.2२९.२

विद्यते कश्चन गिरिस्तत्पश्चादेकवाटकम् ॥ (२९।२)

vidyate kaścana giristatpaścādekavāṭakam ||

30.1३०.१

दृश्यते प्रविशेत्तत्र पूर्वास्यश्च ततो व्रजेत् । (३०।१)

dṛśyate praviśettatra pūrvāsyaśca tato vrajet |

30.2३०.२

दक्षिणाभिमुखः पश्चाद् दशचापान्तमात्रकम् ॥ (३०।२)

dakṣiṇābhimukhaḥ paścād daśacāpāntamātrakam ||

31.1३१.१

तत्र चाम्रफलाकारान् पाषाणाञ्ज्वलनप्रभान् । (३१।१)

tatra cāmraphalākārān pāṣāṇāñjvalanaprabhān |

31.2३१.२

गृहीत्वा बन्धयेद्वस्त्रे तद्वस्त्रं रक्ततां व्रजेत् ॥ (३१।२)

gṛhītvā bandhayedvastre tadvastraṃ raktatāṃ vrajet ||

32.1३२.१

पाषाणयुक्तं तद्वस्त्रं क्षीरमध्ये विनिक्षिपेत् । (३२।१)

pāṣāṇayuktaṃ tadvastraṃ kṣīramadhye vinikṣipet |

32.2३२.२

ततः क्षीरं रक्तवर्णं स्यात् पिबेत् साधकोत्तमः ॥ (३२।२)

tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ ||

33.1३३.१

सप्ताहाज्जायते सिद्धिर्वज्रकायो महाबलः । (३३।१)

saptāhājjāyate siddhirvajrakāyo mahābalaḥ |

33.2३३.२

जीवेद् आचन्द्रतारं च आ कल्पमविल्पकम् ॥ (३३।२)

jīved ācandratāraṃ ca ā kalpamavilpakam ||

34.1३४.१

कोकिलाबिलत्रिपुरान्तस्योदग्भागे कोकिलाबिलम् उत्तमम् । (३४।१)

kokilābilatripurāntasyodagbhāge kokilābilam uttamam |

34.2३४.२

जगत्प्रकाशं तत्रास्ते कृत्वा देहविशोधनम् ॥ (३४।२)

jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam ||

35.1३५.१

साधको वमनाद्यैश्च तद्बिलं प्रविशेत्सुधीः । (३५।१)

sādhako vamanādyaiśca tadbilaṃ praviśetsudhīḥ |

35.2३५.२

दशचापावधिस्तत्र पाषाणाः कोकिलोपमाः ॥ (३५।२)

daśacāpāvadhistatra pāṣāṇāḥ kokilopamāḥ ||

36.1३६.१

सन्ति गृहीत्वा तत्पृष्ठे तिलाः क्षिप्ताः स्फुटन्ति च । (३६।१)

santi gṛhītvā tatpṛṣṭhe tilāḥ kṣiptāḥ sphuṭanti ca |

36.2३६.२

इत्येतत्प्रत्ययं दृष्ट्वा ताश्च घृष्य परस्परम् ॥ (३६।२)

ityetatpratyayaṃ dṛṣṭvā tāśca ghṛṣya parasparam ||

37.1३७.१

दुग्धान्तः प्रक्षिपेत्तांश्च तत्क्षीरं कृष्णतां व्रजेत् । (३७।१)

dugdhāntaḥ prakṣipettāṃśca tatkṣīraṃ kṛṣṇatāṃ vrajet |

37.2३७.२

तत्क्षीरं मासमात्रं च पिबेद्दिव्यतनुर्भवेत् ॥ (३७।२)

tatkṣīraṃ māsamātraṃ ca pibeddivyatanurbhavet ||

38.1३८.१

ब्रह्मणस्त्रिदिनं जीवेद्वलीपलितवर्जितः । (३८।१)

brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ |

38.2३८.२

वेगे समीरसदृशश्छिद्रं पश्यति भूतले ॥ (३८।२)

vege samīrasadṛśaśchidraṃ paśyati bhūtale ||

39.1३९.१

त्रिपुरान्तस्य पूर्वस्यां दिशि योजनमात्रके । (३९।१)

tripurāntasya pūrvasyāṃ diśi yojanamātrake |

39.2३९.२

अस्ति स्वर्गपुरीनाथो देवस्तस्याग्रतः खनेत् ॥ (३९।२)

asti svargapurīnātho devastasyāgrataḥ khanet ||

40.1४०.१

जानुमात्रं च वसुधां तत्र सर्पफणोपमाः । (४०।१)

jānumātraṃ ca vasudhāṃ tatra sarpaphaṇopamāḥ |

40.2४०.२

स्पर्शसंज्ञास्तु पाषाणा निर्गच्छन्ति वरानने ॥ (४०।२)

sparśasaṃjñāstu pāṣāṇā nirgacchanti varānane ||

41.1४१.१

त्रिपुरान्तकदेवस्य पश्चिमेऽर्धार्धयोजने । (४१।१)

tripurāntakadevasya paścime'rdhārdhayojane |

41.2४१.२

अस्ति दिव्यबिलद्वारं तत्र चापत्रयान्तरम् ॥ (४१।२)

asti divyabiladvāraṃ tatra cāpatrayāntaram ||

42.1४२.१

व्रजेत्खर्जूरवृक्षोऽस्ति कृष्णवर्णः फलान्वितः । (४२।१)

vrajetkharjūravṛkṣo'sti kṛṣṇavarṇaḥ phalānvitaḥ |

42.2४२.२

तत्फलानां रसं पीत्वा तेन मूर्च्छा भवेत्क्षणम् ॥ (४२।२)

tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam ||

43.1४३.१

प्रबुद्धोऽसौ भवेत्सिद्धो जीवेद् आ चन्द्रभास्करम् । (४३।१)

prabuddho'sau bhavetsiddho jīved ā candrabhāskaram |

43.2४३.२

श्रीगिरेर् दक्षिणद्वारे वज्रेश्वरसुरेश्वरौ ॥ (४३।२)

śrīgirer dakṣiṇadvāre vajreśvarasureśvarau ||

44.1४४.१

तिष्ठतो निखनेद्भूमिं तत्र श्रीफलसन्निभाः । (४४।१)

tiṣṭhato nikhanedbhūmiṃ tatra śrīphalasannibhāḥ |

44.2४४.२

पाषाणाः स्पर्शभेदाः स्युः संग्राह्यास्ते सुरेश्वरि ॥ (४४।२)

pāṣāṇāḥ sparśabhedāḥ syuḥ saṃgrāhyāste sureśvari ||

45.1४५.१

तत्र रामेश्वराख्योऽस्ति निखनेत्तस्य सन्निधौ । (४५।१)

tatra rāmeśvarākhyo'sti nikhanettasya sannidhau |

45.2४५.२

रुद्राक्षाकारपाषाणाः स्पर्शभेदा भवन्ति ते ॥ (४५।२)

rudrākṣākārapāṣāṇāḥ sparśabhedā bhavanti te ||

46.1४६.१

आवर्तकज्योतिःसिद्धवटस्थाने दक्षिणे चैकपादपः । (४६।१)

āvartakajyotiḥsiddhavaṭasthāne dakṣiṇe caikapādapaḥ |

46.2४६.२

तिष्ठत्यावर्तको नाम तदासन्ने तु पश्चिमे ॥ (४६।२)

tiṣṭhatyāvartako nāma tadāsanne tu paścime ||

47.1४७.१

पर्वतो विद्यते तत्र खनेत्तालफलोपमाः । (४७।१)

parvato vidyate tatra khanettālaphalopamāḥ |

47.2४७.२

पाषाणास्तान्धमेद्गाढं तत् सर्वं काञ्चनं भवेत् ॥ (४७।२)

pāṣāṇāstāndhamedgāḍhaṃ tat sarvaṃ kāñcanaṃ bhavet ||

48.1४८.१

तस्यैव दक्षिणे द्वारे विद्यते कुण्डलेश्वरः । (४८।१)

tasyaiva dakṣiṇe dvāre vidyate kuṇḍaleśvaraḥ |

48.2४८.२

तन्निकृष्टे जानुमात्रं खनेद्भूमिं समुद्धरेत् ॥ (४८।२)

tannikṛṣṭe jānumātraṃ khanedbhūmiṃ samuddharet ||

49.1४९.१

रक्ताभाः श्रीफलाकाराः पाषाणाः स्पर्शवेधकाः । (४९।१)

raktābhāḥ śrīphalākārāḥ pāṣāṇāḥ sparśavedhakāḥ |

49.2४९.२

पुरुषेश्वरदेवस्य समीपे कुण्डमस्ति हि ॥ (४९।२)

puruṣeśvaradevasya samīpe kuṇḍamasti hi ||

50.1५०.१

गुञ्जारिड्ढौ च विद्येते वृक्षौ तत्पत्त्रम् अश्नीयात् । (५०।१)

guñjāriḍḍhau ca vidyete vṛkṣau tatpattram aśnīyāt |

50.2५०.२

सप्ताहाज्जायते सिद्धो जरामरणवर्जितः ॥ (५०।२)

saptāhājjāyate siddho jarāmaraṇavarjitaḥ ||

51.1५१.१

हस्तिशिलातत्र हस्तिशिला दक्षे खनेद्धस्तप्रमाणतः । (५१।१)

hastiśilātatra hastiśilā dakṣe khaneddhastapramāṇataḥ |

51.2५१.२

तत्र जम्बूफलाकारा ग्राह्यास्ते स्पर्शसंज्ञकाः ॥ (५१।२)

tatra jambūphalākārā grāhyāste sparśasaṃjñakāḥ ||

52.1५२.१

ख्याता हस्तिशिरोनाम्ना ख्याता हस्तिशिलेति सा । (५२।१)

khyātā hastiśironāmnā khyātā hastiśileti sā |

52.2५२.२

छायाछत्त्रएकयोजनमात्रे तु तस्या दक्षिणभागतः ॥ (५२।२)

chāyāchattraekayojanamātre tu tasyā dakṣiṇabhāgataḥ ||

53.1५३.१

शिवरूपं शिवप्रोक्तं छायाछत्त्रं तु विद्यते । (५३।१)

śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate |

53.2५३.२

वर्तुलं शतहस्तं तु छिद्रं तस्याप्यधो व्रजेत् ॥ (५३।२)

vartulaṃ śatahastaṃ tu chidraṃ tasyāpyadho vrajet ||

54.1५४.१

न कैश्चिद्दृश्यते सोऽपि सिद्धो भवति तत्क्षणात् । (५४।१)

na kaiściddṛśyate so'pi siddho bhavati tatkṣaṇāt |

54.2५४.२

यदृच्छया रुद्रतुल्यः क्रीडत्येव जगत्त्रये ॥ (५४।२)

yadṛcchayā rudratulyaḥ krīḍatyeva jagattraye ||

55.1५५.१

सिद्ध्यष्टकं साधयेद्वा सर्वसिद्धिप्रदायकः । (५५।१)

siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ |

55.2५५.२

कान्ताभ्रसत्वकनकसूताः क्रमगुणोत्तराः ॥ (५५।२)

kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ ||

56.1५६.१

अम्लेन मर्दयेद्गाढं गोलं कृत्वा तु वेष्टयेत् । (५६।१)

amlena mardayedgāḍhaṃ golaṃ kṛtvā tu veṣṭayet |

56.2५६.२

तद्गोलं दीर्घवंशाग्रे बद्ध्वा श्रीकालिकामनुम् ॥ (५६।२)

tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum ||

57.1५७.१

जपेन्निवेशयेत्तत्र छायाछत्त्रेण तेन च । (५७।१)

japenniveśayettatra chāyāchattreṇa tena ca |

57.2५७.२

वंशाग्रबद्धगोलान्तर्जायते घुटिका शुभा ॥ (५७।२)

vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā ||

58.1५८.१

वक्त्रान्तर्धारयेत्तां तु तत्क्षणात्खेचरो भवेत् । (५८।१)

vaktrāntardhārayettāṃ tu tatkṣaṇātkhecaro bhavet |

58.2५८.२

शिलां तालं वस्त्रबद्धं कृत्वा वंशाग्रवेष्टितम् ॥ (५८।२)

śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam ||

59.1५९.१

छायाछत्त्रे निवस्यैतत्ताभ्यां नेत्रे समञ्जयेत् । (५९।१)

chāyāchattre nivasyaitattābhyāṃ netre samañjayet |

59.2५९.२

निधिं पश्यति भूमिस्थं नात्र कार्या विचारणा ॥ (५९।२)

nidhiṃ paśyati bhūmisthaṃ nātra kāryā vicāraṇā ||

60.1६०.१

वंशाग्रबद्धखड्गं च छायाछत्त्रे विनिक्षिपेत् । (६०।१)

vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet |

60.2६०.२

मन्त्रयेत्कालिकामन्त्रं तं खड्गं धारयेत् करे ॥ (६०।२)

mantrayetkālikāmantraṃ taṃ khaḍgaṃ dhārayet kare ||

61.1६१.१

त्रैलोक्यविजयी धीरो भवेद्वीरो जगत्त्रये । (६१।१)

trailokyavijayī dhīro bhavedvīro jagattraye |

61.2६१.२

वंशाग्रे रोचनं बद्ध्वा छायाछत्त्रे निवेशयेत् ॥ (६१।२)

vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet ||

62.1६२.१

ललाटे तिलकं तेन कृत्वा लोकं वशं नयेत् । (६२।१)

lalāṭe tilakaṃ tena kṛtvā lokaṃ vaśaṃ nayet |

62.2६२.२

स्रोतोञ्जनाञ्जने तद्वच्छायाच्छत्रे निवेशयेत् ॥ (६२।२)

srotoñjanāñjane tadvacchāyācchatre niveśayet ||

63.1६३.१

तेनाञ्जनेनाञ्जितोऽसौ देवैरपि न दृश्यते । (६३।१)

tenāñjanenāñjito'sau devairapi na dṛśyate |

63.2६३.२

पादुके पूर्ववद्बद्ध्वा छायाच्छत्रे निधापयेत् ॥ (६३।२)

pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet ||

64.1६४.१

पादाभ्यां पादुके धृत्वा यत्र यत्राभिवाञ्छति । (६४।१)

pādābhyāṃ pāduke dhṛtvā yatra yatrābhivāñchati |

64.2६४.२

प्रयातुं तत्र तत्रैव नयतस्तं च पादुके ॥ (६४।२)

prayātuṃ tatra tatraiva nayatastaṃ ca pāduke ||

65.1६५.१

पूर्ववद् रक्तवस्त्रं च छायाच्छत्रे निवेशयेत् । (६५।१)

pūrvavad raktavastraṃ ca chāyācchatre niveśayet |

65.2६५.२

आवेष्टयेत्तं च पटमदृश्यो भवति क्षणात् ॥ (६५।२)

āveṣṭayettaṃ ca paṭamadṛśyo bhavati kṣaṇāt ||

66.1६६.१

समुज्झिते पटे पश्चाद्दृश्यतेऽसौ न संशयः । (६६।१)

samujjhite paṭe paścāddṛśyate'sau na saṃśayaḥ |

66.2६६.२

कान्तं व्योम हेम सूतमेकीकृत्य विमर्दयेत् ॥ (६६।२)

kāntaṃ vyoma hema sūtamekīkṛtya vimardayet ||

67.1६७.१

गोलीभूतं तु वस्त्रेण वंशाग्रे बन्धयेत्सुधीः । (६७।१)

golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ |

67.2६७.२

छायाच्छत्रे स्थापयेत्तत्कालीमन्त्रेण मन्त्रयेत् ॥ (६७।२)

chāyācchatre sthāpayettatkālīmantreṇa mantrayet ||

68.1६८.१

स्पर्शवेधी भवेदेतत्सत्यं सत्यं वरानने । (६८।१)

sparśavedhī bhavedetatsatyaṃ satyaṃ varānane |

68.2६८.२

श्रीशैलपश्चिमद्वारे देवो ब्रह्मेश्वरः स्थितः ॥ (६८।२)

śrīśailapaścimadvāre devo brahmeśvaraḥ sthitaḥ ||

69.1६९.१

दुर्गा देवी च तत्रस्था सोपानं नवमं च यत् । (६९।१)

durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat |

69.2६९.२

तुङ्गभद्रायां च नद्यां ततो ब्रह्मेश्वरस्य च ॥ (६९।२)

tuṅgabhadrāyāṃ ca nadyāṃ tato brahmeśvarasya ca ||

70.1७०.१

द्वारदेशे मुद्गवर्णं चत्वारः स्पर्शका अमी । (७०।१)

dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī |

70.2७०.२

चिञ्चावनं च नैरृत्ये स्थितं ब्रह्मेश्वरस्य हि ॥ (७०।२)

ciñcāvanaṃ ca nairṛtye sthitaṃ brahmeśvarasya hi ||

71.1७१.१

कुण्डं च विद्यते तत्र चिञ्चाधश्चण्डिका स्थिता । (७१।१)

kuṇḍaṃ ca vidyate tatra ciñcādhaścaṇḍikā sthitā |

71.2७१.२

एकपादेन सततं तच्चिञ्चाफलम् आहरेत् ॥ (७१।२)

ekapādena satataṃ tacciñcāphalam āharet ||

72.1७२.१

वस्त्रेण बन्धयेत्कुण्डे क्षिप्त्वा स्नानं समाचरेत् । (७२।१)

vastreṇa bandhayetkuṇḍe kṣiptvā snānaṃ samācaret |

72.2७२.२

स्नानान्ते तानि गृह्णीयात्तावन्मत्स्या भवन्ति हि ॥ (७२।२)

snānānte tāni gṛhṇīyāttāvanmatsyā bhavanti hi ||

73.1७३.१

तदिन्धनैः पचेत्ताश्च ह्यस्थिपुच्छशिरस्त्यजेत् । (७३।१)

tadindhanaiḥ pacettāśca hyasthipucchaśirastyajet |

73.2७३.२

दद्याद्देवायैकम् अंशम् अतिथीनां द्वितीयकम् ॥ (७३।२)

dadyāddevāyaikam aṃśam atithīnāṃ dvitīyakam ||

74.1७४.१

तृतीयांशं स्वयं भक्षेन्मूर्छितो भवति क्षणात् । (७४।१)

tṛtīyāṃśaṃ svayaṃ bhakṣenmūrchito bhavati kṣaṇāt |

74.2७४.२

दिव्यो भवति सिद्धोऽयं बिलं पश्यति भूतले ॥ (७४।२)

divyo bhavati siddho'yaṃ bilaṃ paśyati bhūtale ||

75.1७५.१

जरामरणनिर्मुक्तो ह्यबध्यो निर्जरैरपि । (७५।१)

jarāmaraṇanirmukto hyabadhyo nirjarairapi |

75.2७५.२

अलम्पुरोत्तरे ग्रामो विद्यते भीमपादुकः ॥ (७५।२)

alampurottare grāmo vidyate bhīmapādukaḥ ||

76.1७६.१

पार्श्वे तु तस्य ग्रामस्य हस्तमात्रं धरां खनेत् । (७६।१)

pārśve tu tasya grāmasya hastamātraṃ dharāṃ khanet |

76.2७६.२

पाषाणा हि फणाकाराः स्पर्शसंज्ञा भवन्ति ते ॥ (७६।२)

pāṣāṇā hi phaṇākārāḥ sparśasaṃjñā bhavanti te ||

77.1७७.१

योगीश्वरीति देव्यस्ति तत्रालंपुरदेवता । (७७।१)

yogīśvarīti devyasti tatrālaṃpuradevatā |

77.2७७.२

तस्याग्रतो रम्यगुहा तस्या मध्ये खनेद्भुवम् ॥ (७७।२)

tasyāgrato ramyaguhā tasyā madhye khanedbhuvam ||

78.1७८.१

पाषाणा भेदसंकाशा ग्राह्या मार्जालविष्ठया । (७८।१)

pāṣāṇā bhedasaṃkāśā grāhyā mārjālaviṣṭhayā |

78.2७८.२

संमिश्र्य निक्षिपेद्वङ्गे द्रुते तत्तारतां व्रजेत् ॥ (७८।२)

saṃmiśrya nikṣipedvaṅge drute tattāratāṃ vrajet ||

79.1७९.१

मध्वाज्याभ्यां पिबेत्तांश्च पाषाणान्साधकोत्तमः । (७९।१)

madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ |

79.2७९.२

दिव्यो भवति सिद्धोऽयं वलीपलितमृत्युजित् ॥ (७९।२)

divyo bhavati siddho'yaṃ valīpalitamṛtyujit ||

80.1८०.१

श्रीपर्वतोत्तरद्वारे देवो नाम्ना महेश्वरः । (८०।१)

śrīparvatottaradvāre devo nāmnā maheśvaraḥ |

80.2८०.२

तिष्ठति भ्रमराम्रश्च तत्र तत्फलमाहरेत् ॥ (८०।२)

tiṣṭhati bhramarāmraśca tatra tatphalamāharet ||

81.1८१.१

स्फोटयेच्च तदन्तस्था निर्यान्ति भ्रमरास्तथा । (८१।१)

sphoṭayecca tadantasthā niryānti bhramarāstathā |

81.2८१.२

सजीवा अथ तान्सर्वान्भ्रमरांस्तान्विवर्जयेत् ॥ (८१।२)

sajīvā atha tānsarvānbhramarāṃstānvivarjayet ||

82.1८२.१

तत्फलानि पचेत्क्षारे यावच्छक्यं पयः पिबेत् । (८२।१)

tatphalāni pacetkṣāre yāvacchakyaṃ payaḥ pibet |

82.2८२.२

क्षणं मूर्च्छा भवेत्तेन मूर्च्छान्ते च पयः पिबेत् ॥ (८२।२)

kṣaṇaṃ mūrcchā bhavettena mūrcchānte ca payaḥ pibet ||

83.1८३.१

एवं कुर्यात्प्रयत्नेन चैकविंशतिवासरम् । (८३।१)

evaṃ kuryātprayatnena caikaviṃśativāsaram |

83.2८३.२

तेन वज्रशरीरः स्याद्वलीपलितवर्जितः ॥ (८३।२)

tena vajraśarīraḥ syādvalīpalitavarjitaḥ ||

84.1८४.१

वेदवेदाङ्गतत्त्वज्ञो जीवेदादित्यतारकम् । (८४।१)

vedavedāṅgatattvajño jīvedādityatārakam |

84.2८४.२

तरसा वायुना तुल्यस्तत्क्षणाद्भवति प्रिये ॥ (८४।२)

tarasā vāyunā tulyastatkṣaṇādbhavati priye ||

85.1८५.१

तदाम्रस्य फलेनैव त्यक्तभ्रमरकेन च । (८५।१)

tadāmrasya phalenaiva tyaktabhramarakena ca |

85.2८५.२

वङ्गस्य पलसाहस्रं द्रावितं रजतं भवेत् ॥ (८५।२)

vaṅgasya palasāhasraṃ drāvitaṃ rajataṃ bhavet ||

86.1८६.१

रन्ध्रमापादयेदाम्रफले भृङ्गं विवर्जयेत् । (८६।१)

randhramāpādayedāmraphale bhṛṅgaṃ vivarjayet |

86.2८६.२

तन्मध्ये निक्षिपेत्सूतं कर्षं कृष्णाभ्रसत्वकम् ॥ (८६।२)

tanmadhye nikṣipetsūtaṃ karṣaṃ kṛṣṇābhrasatvakam ||

87.1८७.१

निरुध्य वक्त्रं समृदा गोमयेन च लेपयेत् । (८७।१)

nirudhya vaktraṃ samṛdā gomayena ca lepayet |

87.2८७.२

छायायां शोषयेत्काष्ठैस्तदीयैः प्रहरं पचेत् ॥ (८७।२)

chāyāyāṃ śoṣayetkāṣṭhaistadīyaiḥ praharaṃ pacet ||

88.1८८.१

स्वभावशीतलं कृत्वा वक्त्रस्थां कारयेत्सुधीः । (८८।१)

svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ |

88.2८८.२

खेचरत्वमवाप्नोति वलीपलितवर्जितः ॥ (८८।२)

khecaratvamavāpnoti valīpalitavarjitaḥ ||

89.1८९.१

जीवेच्चन्द्रार्कपर्यन्तं वाग्मित्वं ब्रह्मणा समम् । (८९।१)

jīveccandrārkaparyantaṃ vāgmitvaṃ brahmaṇā samam |

89.2८९.२

सूतं कृष्णाभ्रसत्वं चाम्रफले पूर्ववत्क्षिपेत् ॥ (८९।२)

sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet ||

90.1९०.१

प्रलिप्य गोशकृन्मृद्भ्यां पुटेदारण्यकोपलैः । (९०।१)

pralipya gośakṛnmṛdbhyāṃ puṭedāraṇyakopalaiḥ |

90.2९०.२

स्वशीतं पारदं ग्राह्यं मधुसर्पिर्भिर् युतं लिहेत् ॥ (९०।२)

svaśītaṃ pāradaṃ grāhyaṃ madhusarpirbhir yutaṃ lihet ||

91.1९१.१

गुञ्जामात्रं च मासान्तं बालो भवति मानवः । (९१।१)

guñjāmātraṃ ca māsāntaṃ bālo bhavati mānavaḥ |

91.2९१.२

नवनागोपमः सत्वे जीवेद् ब्रह्मैकवासरम् ॥ (९१।२)

navanāgopamaḥ satve jīved brahmaikavāsaram ||

92.1९२.१

उत्तरे श्रीगिरीशस्य विद्यते शुक्लपर्वते । (९२।१)

uttare śrīgirīśasya vidyate śuklaparvate |

92.2९२.२

पञ्चोपचारैः सम्पूज्य त्रिषु लोकेषु विश्रुतः ॥ (९२।२)

pañcopacāraiḥ sampūjya triṣu lokeṣu viśrutaḥ ||

93.1९३.१

ॐ हुं फट्कारमन्त्रेण निर्विकल्पेन साधकः । (९३।१)

oṃ huṃ phaṭkāramantreṇa nirvikalpena sādhakaḥ |

93.2९३.२

पश्येत्पश्चिमदिग्भागम् अन्तरिक्षे विमानकम् ॥ (९३।२)

paśyetpaścimadigbhāgam antarikṣe vimānakam ||

94.1९४.१

दिव्यं ह्यनेकरुचिरं सद्यः प्रत्ययकारकम् । (९४।१)

divyaṃ hyanekaruciraṃ sadyaḥ pratyayakārakam |

94.2९४.२

ततः पश्चिमदिग्भागे व्रजेत्तीर्त्वा महानदीम् ॥ (९४।२)

tataḥ paścimadigbhāge vrajettīrtvā mahānadīm ||

95.1९५.१

दृश्यते च गुहा तत्र प्रविशेत्पश्चिमाननः । (९५।१)

dṛśyate ca guhā tatra praviśetpaścimānanaḥ |

95.2९५.२

त्रियोजनं व्रजेत्तत्र विभीर् एको ऽविकल्पकः ॥ (९५।२)

triyojanaṃ vrajettatra vibhīr eko 'vikalpakaḥ ||

96.1९६.१

कदलीकाननं तत्र दृश्यते पञ्चयोजनम् । (९६।१)

kadalīkānanaṃ tatra dṛśyate pañcayojanam |

96.2९६.२

अच्छोदपूर्णा सरसी तन्मध्ये भद्रपीठकम् ॥ (९६।२)

acchodapūrṇā sarasī tanmadhye bhadrapīṭhakam ||

97.1९७.१

तत्पीठं तु महद्दिव्यं पश्येत्स्फटिकसन्निभम् । (९७।१)

tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham |

97.2९७.२

उच्चारयेन्मन्त्रमिमं दण्डवत्प्रणतिं भजेत् ॥ (९७।२)

uccārayenmantramimaṃ daṇḍavatpraṇatiṃ bhajet ||

98.1९८.१

ॐ ह्रीं विद्यावागीश्वराधिपतये ह्रीं ॐ स्वाहा । (९८।१)

oṃ hrīṃ vidyāvāgīśvarādhipataye hrīṃ oṃ svāhā |

98.2९८.२

तत्र स्नात्वा जपेन्मन्त्रं लक्षमेकं वरानने । (९८।२)

tatra snātvā japenmantraṃ lakṣamekaṃ varānane |

98.3९८.३

कन्दमूलाशनो वा यथेष्टं साधकः प्रिये ॥ (९८।३)

kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye ||

99.1९९.१

सिंहासनान्तरे देवं पश्येत्स्फटिकसन्निभम् । (९९।१)

siṃhāsanāntare devaṃ paśyetsphaṭikasannibham |

99.2९९.२

चतुर्भुजं त्रिणेत्रं च विशदेन्दुकलाधरम् ॥ (९९।२)

caturbhujaṃ triṇetraṃ ca viśadendukalādharam ||

100.1१००.१

नीलग्रीवं नागभूषं परश्वथमृगायुधम् । (१००।१)

nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham |

100.2१००.२

वराभयं वरेण्यं तं विशिष्टविबुधार्चितम् ॥ (१००।२)

varābhayaṃ vareṇyaṃ taṃ viśiṣṭavibudhārcitam ||

101.1१०१.१

नमस्कुर्याच्च साष्टाङ्गं मन्त्रैः स्तोत्रैर् मुहुर्मुहुः । (१०१।१)

namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ |

101.2१०१.२

ततः प्रसन्नः स शिवो वरं दत्ते यथेप्सितम् ॥ (१०१।२)

tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam ||

102.1१०२.१

शतमायतनं तत्र कूपं नवशतं यथा । (१०२।१)

śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā |

102.2१०२.२

आरामाश्चापि तावन्ति नन्दनानि वनानि च ॥ (१०२।२)

ārāmāścāpi tāvanti nandanāni vanāni ca ||

103.1१०३.१

वाप्यो नवशतं सन्ति विवरं चैव तत्समम् । (१०३।१)

vāpyo navaśataṃ santi vivaraṃ caiva tatsamam |

103.2१०३.२

कल्पवृक्षाश्च तावन्ति एते सर्वेऽपि सिद्धिदाः ॥ (१०३।२)

kalpavṛkṣāśca tāvanti ete sarve'pi siddhidāḥ ||

104.1१०४.१

तत्रास्ते मोहली नाम्ना प्रथिता यक्षिणीष्टदा । (१०४।१)

tatrāste mohalī nāmnā prathitā yakṣiṇīṣṭadā |

104.2१०४.२

ब्रूते सा देहि मे भुक्तिं सिद्धिं त्वं यदि वाञ्छसि ॥ (१०४।२)

brūte sā dehi me bhuktiṃ siddhiṃ tvaṃ yadi vāñchasi ||

105.1१०५.१

देवि दास्याम्यहं भुक्तिं वक्तव्यमिह चामुना । (१०५।१)

devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā |

105.2१०५.२

कन्दमूलं फलं तस्यै पायसं वा समर्पयेत् ॥ (१०५।२)

kandamūlaṃ phalaṃ tasyai pāyasaṃ vā samarpayet ||

106.1१०६.१

सा यक्षिणी पुनर्वक्ति यावद्भुञ्जे सुतं मम । (१०६।१)

sā yakṣiṇī punarvakti yāvadbhuñje sutaṃ mama |

106.2१०६.२

धारयेर् वक्षसा तावद्वरं दास्यामि ते महत् ॥ (१०६।२)

dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat ||

107.1१०७.१

विसृजेस्त्वं यदि तदा भवन्तं हन्मि निर्दया । (१०७।१)

visṛjestvaṃ yadi tadā bhavantaṃ hanmi nirdayā |

107.2१०७.२

एवं गतभयश् चीरः कुर्याच्चेत् सिद्धिभाग्भवेत् ॥ (१०७।२)

evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet ||

108.1१०८.१

व्रजेदुदीचीदिग्भागे तत्सरो योजनार्धके । (१०८।१)

vrajedudīcīdigbhāge tatsaro yojanārdhake |

108.2१०८.२

तत्रास्ते चन्दनं दिव्यं पुष्पपूर्णं महेश्वरि ॥ (१०८।२)

tatrāste candanaṃ divyaṃ puṣpapūrṇaṃ maheśvari ||

109.1१०९.१

तत्पुष्पाघ्राणमात्रेण क्षुत्पिपासा न बाधते । (१०९।१)

tatpuṣpāghrāṇamātreṇa kṣutpipāsā na bādhate |

109.2१०९.२

भक्षयेदथवा तस्य फलमेकं यथोचितम् ॥ (१०९।२)

bhakṣayedathavā tasya phalamekaṃ yathocitam ||

110.1११०.१

वज्रकायो भवेत्तस्य भक्षणादेव मानवः । (११०।१)

vajrakāyo bhavettasya bhakṣaṇādeva mānavaḥ |

110.2११०.२

सरोदक्षिणदिग्भागे गच्छेद्योजनपादकम् ॥ (११०।२)

sarodakṣiṇadigbhāge gacchedyojanapādakam ||

111.1१११.१

नन्दनं दृश्यते तत्र दाडिमीवृक्षसंकुलम् । (१११।१)

nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam |

111.2१११.२

तत्फलं भक्षयेद्यस्तु जीवेद्युगसहस्रकम् ॥ (१११।२)

tatphalaṃ bhakṣayedyastu jīvedyugasahasrakam ||

112.1११२.१

तस्यैव सरसः पूर्वभागे क्रोशार्धमात्रकम् । (११२।१)

tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam |

112.2११२.२

गच्छेद्धात्रीफलैर् युक्तं विद्यते नन्दनं वनम् ॥ (११२।२)

gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam ||

113.1११३.१

अश्नीयात्तत्फलं धीरो जीवेत्संवर्तकत्रयम् । (११३।१)

aśnīyāttatphalaṃ dhīro jīvetsaṃvartakatrayam |

113.2११३.२

सरसस्तस्य भागे च पश्चिमे योजनं व्रजेत् ॥ (११३।२)

sarasastasya bhāge ca paścime yojanaṃ vrajet ||

114.1११४.१

तत्र श्रीफलसम्पूर्णं नन्दनं विद्यते वनम् । (११४।१)

tatra śrīphalasampūrṇaṃ nandanaṃ vidyate vanam |

114.2११४.२

अद्यते तत्फलं येन जीवत्य् आचन्द्रतारकम् ॥ (११४।२)

adyate tatphalaṃ yena jīvaty ācandratārakam ||

115.1११५.१

तत्रैव नन्दनवने लिङ्गं स्यान्नीलवर्णकम् । (११५।१)

tatraiva nandanavane liṅgaṃ syānnīlavarṇakam |

115.2११५.२

तस्योदग्द्वारमार्गेण विशेन्नागो महाबलः ॥ (११५।२)

tasyodagdvāramārgeṇa viśennāgo mahābalaḥ ||

116.1११६.१

तत्र सप्तफणोपेतस्तूग्रभीतिकरो महान् । (११६।१)

tatra saptaphaṇopetastūgrabhītikaro mahān |

116.2११६.२

एवंविधं महानागं हुंहुंकारं वदन्मुहुः ॥ (११६।२)

evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ ||

117.1११७.१

नमस्कुर्यात्प्रयत्नेन साधकः सिद्धिकाङ्क्षया । (११७।१)

namaskuryātprayatnena sādhakaḥ siddhikāṅkṣayā |

117.2११७.२

वदत्येवं महानागस् त्वदृश्यत्वं ददामि ते ॥ (११७।२)

vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te ||

118.1११८.१

याहि स्वं पश्चिमद्वारं दिव्या कन्यास्ति तत्र वै । (११८।१)

yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai |

118.2११८.२

समुच्चरन्महामन्त्रं व्रजेत्तत्रैव साधकः ॥ (११८।२)

samuccaranmahāmantraṃ vrajettatraiva sādhakaḥ ||

119.1११९.१

ददाति हारं सा कन्या प्रवेशं न ददाति च । (११९।१)

dadāti hāraṃ sā kanyā praveśaṃ na dadāti ca |

119.2११९.२

हारं गले धारयेत्तं तेन सारस्वतं भवेत् ॥ (११९।२)

hāraṃ gale dhārayettaṃ tena sārasvataṃ bhavet ||

120.1१२०.१

तस्माद्दक्षिणदिग्द्वारे व्रजेद्भीतिकरं परम् । (१२०।१)

tasmāddakṣiṇadigdvāre vrajedbhītikaraṃ param |

120.2१२०.२

तत्र पश्येन्मुक्तकेशं जिह्मनेत्रं दिगम्बरम् ॥ (१२०।२)

tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram ||

121.1१२१.१

गदाहस्तं नीलवर्णं दृष्ट्वा श्रीक्षेत्रपालकम् । (१२१।१)

gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam |

121.2१२१.२

वन्देत मन्त्रमुच्चार्य स्तोत्रैर्विघ्ननिवारणम् ॥ (१२१।२)

vandeta mantramuccārya stotrairvighnanivāraṇam ||

122.1१२२.१

हाहाहेहेहुंहुंकारं फट् हुं स्वाहान्तमेव च । (१२२।१)

hāhāhehehuṃhuṃkāraṃ phaṭ huṃ svāhāntameva ca |

122.2१२२.२

क्षेत्रपालोऽप्यनेनैव मन्त्रेणाशु प्रसीदति ॥ (१२२।२)

kṣetrapālo'pyanenaiva mantreṇāśu prasīdati ||

123.1१२३.१

स्वागत्वं वितरत्येष प्रवेशं न ददाति हि । (१२३।१)

svāgatvaṃ vitaratyeṣa praveśaṃ na dadāti hi |

123.2१२३.२

अथ व्रजेत् पूर्वदिशो द्वारं तत्र गणाधिपम् ॥ (१२३।२)

atha vrajet pūrvadiśo dvāraṃ tatra gaṇādhipam ||

124.1१२४.१

स्थितं प्रपूजयेत्तत्र प्रविशेत्साधकोत्तमः । (१२४।१)

sthitaṃ prapūjayettatra praviśetsādhakottamaḥ |

124.2१२४.२

दृश्यते दिव्यलिङ्गं च चापस्तत्र मनोहरः ॥ (१२४।२)

dṛśyate divyaliṅgaṃ ca cāpastatra manoharaḥ ||

125.1१२५.१

ॐ हुङ्कारेण मन्त्रेण पूजयेच्च तमीश्वरम् । (१२५।१)

oṃ huṅkāreṇa mantreṇa pūjayecca tamīśvaram |

125.2१२५.२

उपवासेन तत्रैव दिवारात्रं जपेत्सुधीः ॥ (१२५।२)

upavāsena tatraiva divārātraṃ japetsudhīḥ ||

126.1१२६.१

प्रत्यक्षो भवतीशानो ददाति हि वरं परम् । (१२६।१)

pratyakṣo bhavatīśāno dadāti hi varaṃ param |

126.2१२६.२

इत्येवमादयः सन्ति सिद्धयः कदलीवने ॥ (१२६।२)

ityevamādayaḥ santi siddhayaḥ kadalīvane ||

127.1१२७.१

तत्रैव सरसः पूर्वभागे योजनमात्रके । (१२७।१)

tatraiva sarasaḥ pūrvabhāge yojanamātrake |

127.2१२७.२

अक्षरैर्लिखितं द्वारि तत्र पद्मावतीबिलम् ॥ (१२७।२)

akṣarairlikhitaṃ dvāri tatra padmāvatībilam ||

128.1१२८.१

वमनाद्यैर्विशुद्धात्मा प्रविशेत्तत्र साधकः । (१२८।१)

vamanādyairviśuddhātmā praviśettatra sādhakaḥ |

128.2१२८.२

तत्र चापान्तरशतं गच्छेत्तत्र मृदङ्गकम् ॥ (१२८।२)

tatra cāpāntaraśataṃ gacchettatra mṛdaṅgakam ||

129.1१२९.१

आलोक्य वादयेत्तं च तद्ध्वनिश्रवणात्तदा । (१२९।१)

ālokya vādayettaṃ ca taddhvaniśravaṇāttadā |

129.2१२९.२

पद्मावती स्वयं याति ह्यमृतं च ददाति च ॥ (१२९।२)

padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca ||

130.1१३०.१

तस्य पानेन सिद्धोऽयममरत्वं लभेत च । (१३०।१)

tasya pānena siddho'yamamaratvaṃ labheta ca |

130.2१३०.२

ततः सैनं समागम्य प्रार्थयेत्त्वं ममान्तिकम् ॥ (१३०।२)

tataḥ sainaṃ samāgamya prārthayettvaṃ mamāntikam ||

131.1१३१.१

समागच्छालये दिव्ये कन्यापञ्चशताकुले । (१३१।१)

samāgacchālaye divye kanyāpañcaśatākule |

131.2१३१.२

स्थित्वा मम पतिर्भूया ब्रह्मायुष्यावधि प्रभो ॥ (१३१।२)

sthitvā mama patirbhūyā brahmāyuṣyāvadhi prabho ||

132.1१३२.१

तदन्ते शाश्वतं स्थानं गमिष्यसि न संशयः । (१३२।१)

tadante śāśvataṃ sthānaṃ gamiṣyasi na saṃśayaḥ |

132.2१३२.२

तस्य पूर्वतटाकस्य चाग्नेय्यां दिशि विद्यते ॥ (१३२।२)

tasya pūrvataṭākasya cāgneyyāṃ diśi vidyate ||

133.1१३३.१

कदम्बेश्वरदेवोऽपि वृक्षः कादम्बकोऽग्रतः । (१३३।१)

kadambeśvaradevo'pi vṛkṣaḥ kādambako'grataḥ |

133.2१३३.२

तत्र पत्राणि चादाय कटुतैलेन लेपयेत् ॥ (१३३।२)

tatra patrāṇi cādāya kaṭutailena lepayet ||

134.1१३४.१

तद्बीजसंभवैस्तैलैर् लिम्पेद् वाथ पचेत्सुधीः । (१३४।१)

tadbījasaṃbhavaistailair limped vātha pacetsudhīḥ |

134.2१३४.२

तत्काष्ठैस्तानि मत्स्याः स्युस्ताम्रपात्रे विनिक्षिपेत् ॥ (१३४।२)

tatkāṣṭhaistāni matsyāḥ syustāmrapātre vinikṣipet ||

135.1१३५.१

वर्ज्यमस्थि शिरः पुच्छं क्षौद्रसर्पिर्युतं भजेत् । (१३५।१)

varjyamasthi śiraḥ pucchaṃ kṣaudrasarpiryutaṃ bhajet |

135.2१३५.२

तत्सेवया भवेत्सिद्धो रुद्रतुल्यो महाबलः ॥ (१३५।२)

tatsevayā bhavetsiddho rudratulyo mahābalaḥ ||

136.1१३६.१

तद्वृक्षश्च नदीतीरे कुण्डलेशस्य सन्निधौ । (१३६।१)

tadvṛkṣaśca nadītīre kuṇḍaleśasya sannidhau |

136.2१३६.२

विद्यते पूर्ववद्युक्त्या सिद्धिर्भवति नान्यथा ॥ (१३६।२)

vidyate pūrvavadyuktyā siddhirbhavati nānyathā ||

137.1१३७.१

अस्त्युत्तरे पुष्पगिरिः कपोतेशश्च विद्यते । (१३७।१)

astyuttare puṣpagiriḥ kapoteśaśca vidyate |

137.2१३७.२

त्रिः प्रदक्षिणमातन्यात्तस्य मूर्धानमाव्रजेत् ॥ (१३७।२)

triḥ pradakṣiṇamātanyāttasya mūrdhānamāvrajet ||

138.1१३८.१

खेचरत्वं भवेत्तस्य साधकस्य न संशयः । (१३८।१)

khecaratvaṃ bhavettasya sādhakasya na saṃśayaḥ |

138.2१३८.२

तस्य पूर्वोत्तरे भागे छेदिकीद्वारकं स्थितम् ॥ (१३८।२)

tasya pūrvottare bhāge chedikīdvārakaṃ sthitam ||

139.1१३९.१

उदङ्मुखं विशेत्तत्र त्रिचापान्तरमादरात् । (१३९।१)

udaṅmukhaṃ viśettatra tricāpāntaramādarāt |

139.2१३९.२

मूषिकाकारपाषाणं तक्रे पिष्ट्वा पिबेन्नरः ॥ (१३९।२)

mūṣikākārapāṣāṇaṃ takre piṣṭvā pibennaraḥ ||

140.1१४०.१

क्षिप्रं मूर्च्छा भवेत्तस्य जीवेद्ब्रह्मदिनत्रयम् । (१४०।१)

kṣipraṃ mūrcchā bhavettasya jīvedbrahmadinatrayam |

140.2१४०.२

वेधयेत् सर्वलोहानि स्पर्शमात्रान्न संशयः ॥ (१४०।२)

vedhayet sarvalohāni sparśamātrānna saṃśayaḥ ||

141.1१४१.१

उपोष्य च दिवा नक्तं देवाग्रे सिद्धिमाप्नुयात् । (१४१।१)

upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt |

141.2१४१.२

विद्यते देवतायुग्मं कपोतेश्वरदक्षिणे ॥ (१४१।२)

vidyate devatāyugmaṃ kapoteśvaradakṣiṇe ||

142.1१४२.१

आ नाभिमात्रं निखनेद्देवताद्वयमध्यतः । (१४२।१)

ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ |

142.2१४२.२

गोरोचनोपमास्तत्र पाषाणाः सन्ति तान्हरेत् ॥ (१४२।२)

gorocanopamāstatra pāṣāṇāḥ santi tānharet ||

143.1१४३.१

पिष्ट्वा क्षौद्रघृताभ्यां च पिबेद्यः सोऽमरो भवेत् । (१४३।१)

piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet |

143.2१४३.२

कपोतेशस्य वायव्ये निखनेद्धस्तमात्रकम् ॥ (१४३।२)

kapoteśasya vāyavye nikhaneddhastamātrakam ||

144.1१४४.१

तत्र पारावताकारपाषाणाः स्पर्शसंज्ञकाः । (१४४।१)

tatra pārāvatākārapāṣāṇāḥ sparśasaṃjñakāḥ |

144.2१४४.२

देवताराधनं कृत्वा तेषामेकं समाहरेत् ॥ (१४४।२)

devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet ||

145.1१४५.१

ऐशान्यां श्रीगिरीशस्य ह्यस्त्येव भृगुपातनम् । (१४५।१)

aiśānyāṃ śrīgirīśasya hyastyeva bhṛgupātanam |

145.2१४५.२

तत्समीपे दिव्यकुण्डं मृदं तस्मात्समाहरेत् ॥ (१४५।२)

tatsamīpe divyakuṇḍaṃ mṛdaṃ tasmātsamāharet ||

146.1१४६.१

गव्यपञ्चकयुक्तां तां धमेत्खदिरवह्निना । (१४६।१)

gavyapañcakayuktāṃ tāṃ dhametkhadiravahninā |

146.2१४६.२

तस्माल्लोहं पतेन्नीलं मध्वाज्याभ्यां प्रतापितम् ॥ (१४६।२)

tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam ||

147.1१४७.१

तत्सेचयेत्सप्तधौते तद्गोलं निक्षिपेन्मुखे । (१४७।१)

tatsecayetsaptadhaute tadgolaṃ nikṣipenmukhe |

147.2१४७.२

विष्णुतुल्यो भवेत्सिद्धः सर्वज्ञः सर्वगः सुखी ॥ (१४७।२)

viṣṇutulyo bhavetsiddhaḥ sarvajñaḥ sarvagaḥ sukhī ||

148.1१४८.१

भृगुपातनशैलाग्रात् क्रोशे दधिकवाटकम् । (१४८।१)

bhṛgupātanaśailāgrāt krośe dadhikavāṭakam |

148.2१४८.२

अच्छतैलगिरिर् नाम्ना तदग्रे विद्यते सदा ॥ (१४८।२)

acchatailagirir nāmnā tadagre vidyate sadā ||

149.1१४९.१

बिलं तत्पश्चिमे ह्यस्ति तन्मध्ये चापपञ्चके । (१४९।१)

bilaṃ tatpaścime hyasti tanmadhye cāpapañcake |

149.2१४९.२

गते पश्येत्तत्र कुण्डं तत्र लाक्षासमं रसम् ॥ (१४९।२)

gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam ||

150.1१५०.१

अलाबुपात्रे गृह्णीयात् स सूतः कोटिवेधकः । (१५०।१)

alābupātre gṛhṇīyāt sa sūtaḥ koṭivedhakaḥ |

150.2१५०.२

प्राकारश्चन्द्रगुप्तस्य श्रीगिरीशस्य पश्चिमे ॥ (१५०।२)

prākāraścandraguptasya śrīgirīśasya paścime ||

151.1१५१.१

तन्मध्ये विद्यते वेश्म चैत्यं तत्पूर्वतः स्थितम् । (१५१।१)

tanmadhye vidyate veśma caityaṃ tatpūrvataḥ sthitam |

151.2१५१.२

चैत्यात्पूर्वे शिला दिव्या मुद्गाभा स्पर्शसंज्ञका ॥ (१५१।२)

caityātpūrve śilā divyā mudgābhā sparśasaṃjñakā ||

152.1१५२.१

तत्रास्ते मोहनो दन्ती तमारुह्य समाहितः । (१५२।१)

tatrāste mohano dantī tamāruhya samāhitaḥ |

152.2१५२.२

पृष्ठात्तस्य तृणं ग्राह्यं तत्सर्वं काञ्चनं भवेत् ॥ (१५२।२)

pṛṣṭhāttasya tṛṇaṃ grāhyaṃ tatsarvaṃ kāñcanaṃ bhavet ||

153.1१५३.१

तद्गजस्योत्तरे पार्श्वे जानुदघ्नां खनेद्धराम् । (१५३।१)

tadgajasyottare pārśve jānudaghnāṃ khaneddharām |

153.2१५३.२

जम्बूफलाभाः पाषाणाः स्पर्शसंज्ञा भवन्ति ते ॥ (१५३।२)

jambūphalābhāḥ pāṣāṇāḥ sparśasaṃjñā bhavanti te ||

154.1१५४.१

क्षितिं खनेद्गजस्याधो जानुमात्रं लभेत्ततः । (१५४।१)

kṣitiṃ khanedgajasyādho jānumātraṃ labhettataḥ |

154.2१५४.२

लक्षवेधकरा सिद्धा त्रिकोणे घुटिका परा ॥ (१५४।२)

lakṣavedhakarā siddhā trikoṇe ghuṭikā parā ||

155.1१५५.१

मल्लिनाथस्य वायव्ये नत्वा देवह्रदः परः । (१५५।१)

mallināthasya vāyavye natvā devahradaḥ paraḥ |

155.2१५५.२

तीर्थं तत्रास्ति पाषाणा मुद्गाभाः स्पर्शसंज्ञः ॥ (१५५।२)

tīrthaṃ tatrāsti pāṣāṇā mudgābhāḥ sparśasaṃjñaḥ ||

156.1१५६.१

लिङ्गं कूर्मोपमं तत्र स्पर्शसंज्ञं शुभं प्रिये । (१५६।१)

liṅgaṃ kūrmopamaṃ tatra sparśasaṃjñaṃ śubhaṃ priye |

156.2१५६.२

पूर्णिमायां कृत्तिकायां पूजयित्वा समाहरेत् ॥ (१५६।२)

pūrṇimāyāṃ kṛttikāyāṃ pūjayitvā samāharet ||

157.1१५७.१

तस्माद्गव्यूतियुगलात्स्मृता नीलवनी परा । (१५७।१)

tasmādgavyūtiyugalātsmṛtā nīlavanī parā |

157.2१५७.२

तस्या लिङ्गं च सलिलं नीलवर्णं प्रशस्यते ॥ (१५७।२)

tasyā liṅgaṃ ca salilaṃ nīlavarṇaṃ praśasyate ||

158.1१५८.१

अश्वाम्रकाकसङ्काशाः पाषाणाः स्पर्शवेधकाः । (१५८।१)

aśvāmrakākasaṅkāśāḥ pāṣāṇāḥ sparśavedhakāḥ |

158.2१५८.२

देवालयान्तर्निखनेज्जानुमात्रान्तराद्धराम् ॥ (१५८।२)

devālayāntarnikhanejjānumātrāntarāddharām ||

159.1१५९.१

मूषिकाकारपाषाणाः स्पर्शसंज्ञा भवन्ति ते । (१५९।१)

mūṣikākārapāṣāṇāḥ sparśasaṃjñā bhavanti te |

159.2१५९.२

श्रीगिरीशस्य नैरृत्यां ख्याता गुण्डीप्रभाख्यया ॥ (१५९।२)

śrīgirīśasya nairṛtyāṃ khyātā guṇḍīprabhākhyayā ||

160.1१६०.१

तस्याग्रगर्ते पीताभां मृत्तिकां च पुटे दहेत् । (१६०।१)

tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet |

160.2१६०.२

तस्यान्निःसरति स्वर्णं शुद्धदेवार्हकं परम् ॥ (१६०।२)

tasyānniḥsarati svarṇaṃ śuddhadevārhakaṃ param ||

161.1१६१.१

तत्रास्ते भृङ्गचूतोऽपि पूर्ववत् सिद्धिदायकः । (१६१।१)

tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ |

161.2१६१.२

तथा तम्बीपुरे चास्ति तीर्थे च विपुले शुभम् ॥ (१६१।२)

tathā tambīpure cāsti tīrthe ca vipule śubham ||

162.1१६२.१

सदाफलं तु विख्यातं तस्याः पूर्वोत्तरे सुधीः । (१६२।१)

sadāphalaṃ tu vikhyātaṃ tasyāḥ pūrvottare sudhīḥ |

162.2१६२.२

श्रीगिरेर् नैरृते भागे महानन्देति विश्रुतः ॥ (१६२।२)

śrīgirer nairṛte bhāge mahānandeti viśrutaḥ ||

163.1१६३.१

व्रजेद् घण्टापथेनैव तस्य पूर्वोत्तरे सुधीः । (१६३।१)

vrajed ghaṇṭāpathenaiva tasya pūrvottare sudhīḥ |

163.2१६३.२

तत्रास्ते कालकण्ठेशो नाम्नाग्रे तस्य कुण्डकम् ॥ (१६३।२)

tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam ||

164.1१६४.१

तत्रेन्द्रगोपसङ्काशं सिद्धिः सूतस्य विद्यते । (१६४।१)

tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate |

164.2१६४.२

भवन्ति सप्त लोहानि स्वर्णं तप्तानि सेकतः ॥ (१६४।२)

bhavanti sapta lohāni svarṇaṃ taptāni sekataḥ ||

165.1१६५.१

ऐशान्ये श्रीगिरीशस्य चास्ति श्रीमालिनीश्वरः । (१६५।१)

aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ |

165.2१६५.२

तस्योत्तरदिशि ख्यातस् तूमापर्वतसंज्ञकः ॥ (१६५।२)

tasyottaradiśi khyātas tūmāparvatasaṃjñakaḥ ||

166.1१६६.१

तस्याग्रे च त्रिशूलाभाः सन्ति दर्भाः शुभङ्कराः । (१६६।१)

tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ |

166.2१६६.२

तदधो निखनेन्नाभिमात्रं नीलां मृदं हरेत् ॥ (१६६।२)

tadadho nikhanennābhimātraṃ nīlāṃ mṛdaṃ haret ||

167.1१६७.१

अक्षकाष्ठैः पचेत्तां च देवातिथ्यग्नये क्रमात् । (१६७।१)

akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt |

167.2१६७.२

एकैकभागं कल्पेत चतुर्थांशं स्वयं भजेत् ॥ (१६७।२)

ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet ||

168.1१६८.१

जीवेत्कल्पायुतं सिद्धो महाबलपराक्रमः । (१६८।१)

jīvetkalpāyutaṃ siddho mahābalaparākramaḥ |

168.2१६८.२

इलेश्वरस्य निकटे तत्र कोटीश्वरः स्थितः ॥ (१६८।२)

ileśvarasya nikaṭe tatra koṭīśvaraḥ sthitaḥ ||

169.1१६९.१

पुष्पं पत्रं तदग्रेऽस्ति स्पर्शवेधकरं भवेत् । (१६९।१)

puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet |

169.2१६९.२

तत्राचलेश्वरो देवः स्पर्शवेधकरः परः ॥ (१६९।२)

tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ ||

170.1१७०.१

तस्य योजनमात्रे च दक्षिणे चामरेश्वरः । (१७०।१)

tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ |

170.2१७०.२

ततः स्वर्णशिला चास्ति तदूर्ध्वं नरमांसकम् ॥ (१७०।२)

tataḥ svarṇaśilā cāsti tadūrdhvaṃ naramāṃsakam ||

171.1१७१.१

गोमांसं वा क्षिपेत्काष्ठैर्बादरैर्ज्वालयेत्सुधीः । (१७१।१)

gomāṃsaṃ vā kṣipetkāṣṭhairbādarairjvālayetsudhīḥ |

171.2१७१.२

प्रातः काञ्चनसङ्काशा दृश्यते सा शिला तदा ॥ (१७१।२)

prātaḥ kāñcanasaṅkāśā dṛśyate sā śilā tadā ||

172.1१७२.१

प्रत्यग्रपुष्पवत्याश्च रजसा भावितांशुकम् । (१७२।१)

pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam |

172.2१७२.२

लोडयेत्तच्छिलायां च क्षिपेदल्पाम्बुपात्रके ॥ (१७२।२)

loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake ||

173.1१७३.१

तस्य संस्पर्शमात्रेण लेहः स्यात्काञ्चनं परम् । (१७३।१)

tasya saṃsparśamātreṇa lehaḥ syātkāñcanaṃ param |

173.2१७३.२

श्रीगुरौ यत्र तत्रापि पिण्डभूमिस्थितोपलाः ॥ (१७३।२)

śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ ||

174.1१७४.१

कर्षमात्रं तु तच्चूर्णं भक्षयेत्त्रिफला समम् । (१७४।१)

karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam |

174.2१७४.२

वलीपलितजिन्मासाज्जीवेदाचन्द्रतारकम् ॥ (१७४।२)

valīpalitajinmāsājjīvedācandratārakam ||

175.1१७५.१

श्रीगिरीन्द्रस्य नैरृत्यां पटाहकर्ण ईश्वरः । (१७५।१)

śrīgirīndrasya nairṛtyāṃ paṭāhakarṇa īśvaraḥ |

175.2१७५.२

तस्य पूर्वोत्तरे भागे पञ्चविंशतिचापके ॥ (१७५।२)

tasya pūrvottare bhāge pañcaviṃśaticāpake ||

176.1१७६.१

द्विहस्तमात्रोर्ध्वशिला खनेत्तत्र द्विहस्तकम् । (१७६।१)

dvihastamātrordhvaśilā khanettatra dvihastakam |

176.2१७६.२

शरावसंपुटाकारान् दृषदस् तान्समाहरेत् ॥ (१७६।२)

śarāvasaṃpuṭākārān dṛṣadas tānsamāharet ||

177.1१७७.१

कुर्वीत तान् अग्निवर्णान् सिञ्च्यात् कूष्माण्डजैर् द्रवैः । (१७७।१)

kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ |

177.2१७७.२

तन्मध्यान्नवनीतं तु दद्याद्देवाय भागकम् ॥ (१७७।२)

tanmadhyānnavanītaṃ tu dadyāddevāya bhāgakam ||

178.1१७८.१

भागैकमतिथेर्देयं भागमेकं स्वयं लिहेत् । (१७८।१)

bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet |

178.2१७८.२

दिवा नक्तं भवेन्मूर्च्छा विनिद्रो भवति स्वयम् ॥ (१७८।२)

divā naktaṃ bhavenmūrcchā vinidro bhavati svayam ||

179.1१७९.१

वलीपलितसंवर्ज्यो जीवेद्वर्षायुतं नरः । (१७९।१)

valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ |

179.2१७९.२

स्पर्शकान्तस्य सोपानं द्वितीयं भवति प्रिये ॥ (१७९।२)

sparśakāntasya sopānaṃ dvitīyaṃ bhavati priye ||

180.1१८०.१

तद्देवपार्श्वयोः सर्वे पाषाणाः श्वेतपीतकाः । (१८०।१)

taddevapārśvayoḥ sarve pāṣāṇāḥ śvetapītakāḥ |

180.2१८०.२

स्पर्शाः सर्वा भवन्त्येते तेषु चैकं समाहरेत् ॥ (१८०।२)

sparśāḥ sarvā bhavantyete teṣu caikaṃ samāharet ||

181.1१८१.१

प्राच्यां हि तस्य देवस्य समीपे कूपमस्ति च । (१८१।१)

prācyāṃ hi tasya devasya samīpe kūpamasti ca |

181.2१८१.२

मण्डूकाभाश्च पाषाणाः सन्ति च स्पर्शसंज्ञकाः ॥ (१८१।२)

maṇḍūkābhāśca pāṣāṇāḥ santi ca sparśasaṃjñakāḥ ||

182.1१८२.१

तस्येश्वरस्य चोदीच्यां लिङ्गाद्रिर् विद्यते महान् । (१८२।१)

tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān |

182.2१८२.२

तदुत्तरस्यां दिश्यस्ति तटिनी पूर्ववाहिनी ॥ (१८२।२)

taduttarasyāṃ diśyasti taṭinī pūrvavāhinī ||

183.1१८३.१

तटिन्याः पश्चिमाशायां पिङ्गाभं लिङ्गमस्ति हि । (१८३।१)

taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi |

183.2१८३.२

पूर्णशैलोदकं कुण्डं तत्र स्यात्क्षणवेधकम् ॥ (१८३।२)

pūrṇaśailodakaṃ kuṇḍaṃ tatra syātkṣaṇavedhakam ||

184.1१८४.१

द्वियोजने महेशस्य दक्षिणे चण्डिका स्थिता । (१८४।१)

dviyojane maheśasya dakṣiṇe caṇḍikā sthitā |

184.2१८४.२

पिण्डिकाख्या सुविख्याता तस्या वायव्यकोणतः ॥ (१८४।२)

piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ ||

185.1१८५.१

अन्धुरस्ति हि तन्मध्ये मुद्गवर्णास्तथोपलाः । (१८५।१)

andhurasti hi tanmadhye mudgavarṇāstathopalāḥ |

185.2१८५.२

केचित्पथ्यानिभाः सन्ति ते सर्वे स्पर्शसंज्ञकाः ॥ (१८५।२)

kecitpathyānibhāḥ santi te sarve sparśasaṃjñakāḥ ||

186.1१८६.१

अत्रत्यानां च सर्वेषां स्पर्शानां विधिरुच्यते । (१८६।१)

atratyānāṃ ca sarveṣāṃ sparśānāṃ vidhirucyate |

186.2१८६.२

यदि स्थूलं पेषयेत्तं श्लक्ष्णं मूषान्तरेण हि ॥ (१८६।२)

yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi ||

187.1१८७.१

कुर्यात्सर्वाणि लोहानि तस्यामावर्तयेत् प्रिये । (१८७।१)

kuryātsarvāṇi lohāni tasyāmāvartayet priye |

187.2१८७.२

तत्सर्वं जायते स्वर्णं कुर्यादेवं यथेष्टकम् ॥ (१८७।२)

tatsarvaṃ jāyate svarṇaṃ kuryādevaṃ yatheṣṭakam ||

188.1१८८.१

सूक्ष्मश्चेत्सर्वलोहानां द्रुतानामन्तरे क्षिपेत् । (१८८।१)

sūkṣmaścetsarvalohānāṃ drutānāmantare kṣipet |

188.2१८८.२

तत्स्पर्शात् सर्वलोहानि काञ्चनत्वं प्रयान्ति हि ॥ (१८८।२)

tatsparśāt sarvalohāni kāñcanatvaṃ prayānti hi ||

189.1१८९.१

वायव्यां मल्लिनाथस्य तीर्थे सर्वेश्वराख्यकम् । (१८९।१)

vāyavyāṃ mallināthasya tīrthe sarveśvarākhyakam |

189.2१८९.२

तस्य दक्षिणदिग्भागे राजमार्गे द्वियोजने ॥ (१८९।२)

tasya dakṣiṇadigbhāge rājamārge dviyojane ||

190.1१९०.१

गते ड्ॐगलिका तत्र दृश्यते तस्य मूर्धनि । (१९०।१)

gate ḍoṃgalikā tatra dṛśyate tasya mūrdhani |

190.2१९०.२

कृष्णधात्रीफलान्येव सन्ति तानि च भक्षयेत् ॥ (१९०।२)

kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet ||

191.1१९१.१

सप्तवासरपर्यन्तम् आ तृप्तिं वज्रविग्रहः । (१९१।१)

saptavāsaraparyantam ā tṛptiṃ vajravigrahaḥ |

191.2१९१.२

जरामरणनिर्मुक्तो जीवेत्कल्पशतत्रयम् ॥ (१९१।२)

jarāmaraṇanirmukto jīvetkalpaśatatrayam ||

192.1१९२.१

तस्माच्च दक्षिणे भागे काकलारीमहावने । (१९२।१)

tasmācca dakṣiṇe bhāge kākalārīmahāvane |

192.2१९२.२

तत्रास्ते स्तम्बकदली प्रविशेत्तत्र साधकः ॥ (१९२।२)

tatrāste stambakadalī praviśettatra sādhakaḥ ||

193.1१९३.१

क्रोशार्धमात्रं गच्छेच्च रसकुण्डं च दृश्यते । (१९३।१)

krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate |

193.2१९३.२

अलाबुपात्रे संस्थाप्य कोटिवेधी भवेत्तु सः ॥ (१९३।२)

alābupātre saṃsthāpya koṭivedhī bhavettu saḥ ||

194.1१९४.१

शिलामयो नीलवर्णः शिखण्डी तत्र दृश्यते । (१९४।१)

śilāmayo nīlavarṇaḥ śikhaṇḍī tatra dṛśyate |

194.2१९४.२

तन्मुखाग्रेऽस्ति कुण्डं वितस्तिमात्रातिनीलकम् ॥ (१९४।२)

tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam ||

195.1१९५.१

शुष्कवंशं च तन्मध्ये क्षणं क्षिप्तं नवं भवेत् । (१९५।१)

śuṣkavaṃśaṃ ca tanmadhye kṣaṇaṃ kṣiptaṃ navaṃ bhavet |

195.2१९५.२

पत्रं पुष्पं दिनैकेन भवत्येव न संशयः ॥ (१९५।२)

patraṃ puṣpaṃ dinaikena bhavatyeva na saṃśayaḥ ||

196.1१९६.१

तत्र प्रस्थं रसं क्षिप्त्वा तावन्मात्रं जलं हरेत् । (१९६।१)

tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret |

196.2१९६.२

मधुतुल्यं पिबेत्तं च मूर्च्छा भवति तत्क्षणात् ॥ (१९६।२)

madhutulyaṃ pibettaṃ ca mūrcchā bhavati tatkṣaṇāt ||

197.1१९७.१

क्षणेन लब्धज्ञानः स्याज्जीवेद्युगसहस्रकम् । (१९७।१)

kṣaṇena labdhajñānaḥ syājjīvedyugasahasrakam |

197.2१९७.२

श्रीगिरेर्वह्निदिग्भागे घटिकासिद्धखेचरः ॥ (१९७।२)

śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ ||

198.1१९८.१

अस्ति तस्य पुरो भूमौ पञ्चहस्तं खनेत्सुधीः । (१९८।१)

asti tasya puro bhūmau pañcahastaṃ khanetsudhīḥ |

198.2१९८.२

बदराकारपाषाणा विद्यन्ते खगतिप्रदाः ॥ (१९८।२)

badarākārapāṣāṇā vidyante khagatipradāḥ ||

199.1१९९.१

एकं वक्त्रे सदा धार्यं सिद्धैः खेगतिलिप्सुभिः । (१९९।१)

ekaṃ vaktre sadā dhāryaṃ siddhaiḥ khegatilipsubhiḥ |

199.2१९९.२

सिद्धिक्रमःश्रीशैले सर्वसिद्धीनामुक्तानां विधिरुच्यते ॥ (१९९।२)

siddhikramaḥśrīśaile sarvasiddhīnāmuktānāṃ vidhirucyate ||

200.1२००.१

मन्त्रन्यासं पुरा कृत्वा पश्चाल्लक्षं जपेन्मनुम् । (२००।१)

mantranyāsaṃ purā kṛtvā paścāllakṣaṃ japenmanum |

200.2२००.२

अघोरान्तेन वै शीघ्रं तत्तत्सिद्धिमवाप्नुयात् ॥ (२००।२)

aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt ||

201.1२०१.१

अथ न्यासःॐ ह्रीं महापर्वतवासिन्यै हृदयाय नमः । (२०१।१)

atha nyāsaḥoṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ |

201.2२०१.२

ॐ ह्रीं ज्येष्ठायै शिरसे स्वाहा । (२०१।२)

oṃ hrīṃ jyeṣṭhāyai śirase svāhā |

201.3२०१.३

ॐ ह्रीं रौद्र्यै शिखायै वषट् । (२०१।३)

oṃ hrīṃ raudryai śikhāyai vaṣaṭ |

201.4२०१.४

ॐ ह्रीं कनककुण्डलिन्यै कवचाय हुं । (२०१।४)

oṃ hrīṃ kanakakuṇḍalinyai kavacāya huṃ |

201.5२०१.५

ॐ ह्रीं संजीविन्यै नेत्रेभ्यो वौषट् । (२०१।५)

oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ |

201.6२०१.६

ॐ ह्रीं मालिन्यै अस्त्राय फट् । (२०१।६)

oṃ hrīṃ mālinyai astrāya phaṭ |

201.7२०१.७

ॐ हुं शिवाय नमः पादयोर्न्यसेत् । (२०१।७)

oṃ huṃ śivāya namaḥ pādayornyaset |

201.8२०१.८

ॐ वं वामदेवाय नमः जङ्घयोः । (२०१।८)

oṃ vaṃ vāmadevāya namaḥ jaṅghayoḥ |

201.9२०१.९

ॐ पं पद्मिन्यै नमः गुह्ये । (२०१।९)

oṃ paṃ padminyai namaḥ guhye |

201.10२०१.१०

ॐ कां कन्याकुमार्यै नमः नाभौ । (२०१।१०)

oṃ kāṃ kanyākumāryai namaḥ nābhau |

201.11२०१.११

ॐ ग्लौं नमः कुक्षौ । (२०१।११)

oṃ glauṃ namaḥ kukṣau |

201.12२०१.१२

ॐ द्रां ह्रीं दुर्गायै नमः उरसि । (२०१।१२)

oṃ drāṃ hrīṃ durgāyai namaḥ urasi |

201.13२०१.१३

ॐ हुं विन्ध्यवासिन्यै नमः कण्ठमूले । (२०१।१३)

oṃ huṃ vindhyavāsinyai namaḥ kaṇṭhamūle |

201.14२०१.१४

ॐ लं नमः ग्रीवायाम् । (२०१।१४)

oṃ laṃ namaḥ grīvāyām |

201.15२०१.१५

ॐ ह्रीं श्रीं अष्टभुजायै नमः भुजयोः । (२०१।१५)

oṃ hrīṃ śrīṃ aṣṭabhujāyai namaḥ bhujayoḥ |

201.16२०१.१६

ॐ हुं सर्वतोमुखिन्यै नमः मुखे । (२०१।१६)

oṃ huṃ sarvatomukhinyai namaḥ mukhe |

201.17२०१.१७

ॐ प्रकाशिकायै नमः नेत्रयोः । (२०१।१७)

oṃ prakāśikāyai namaḥ netrayoḥ |

201.18२०१.१८

ॐ महिषमर्दिन्यै नमः कर्णयोः । (२०१।१८)

oṃ mahiṣamardinyai namaḥ karṇayoḥ |

201.19२०१.१९

ॐ ह्रां सर्वाङ्गसुन्दर्यै नमः मूर्ध्नि न्यसेत् । (२०१।१९)

oṃ hrāṃ sarvāṅgasundaryai namaḥ mūrdhni nyaset |

201.20२०१.२०

एवम् अङ्गरक्षां कृत्वा क्षेत्रं पूजयेत् । (२०१।२०)

evam aṅgarakṣāṃ kṛtvā kṣetraṃ pūjayet |

201.21२०१.२१

ॐ ह्रीं श्रीं नमो भगवति सर्वेश्वरि देवि नमो मण्डलवासिनि क्रां क्रीं क्रूं हन हन पच पच मथ मथ शीघ्रम् आवेशय शीघ्रमावेशय एह्येहि भुवनवन्दिते स्वाहा । (२०१।२१)

oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā |

201.22२०१.२२

अनेन मन्त्रेण देवतामावाहयेत् । (२०१।२२)

anena mantreṇa devatāmāvāhayet |

201.23२०१.२३

ॐ ह्रां ह्रीं ह्रूं त्रिभुवनेश्वर्यै नमः सांनिध्यं कुरु कुरु स्वाहा । (२०१।२३)

oṃ hrāṃ hrīṃ hrūṃ tribhuvaneśvaryai namaḥ sāṃnidhyaṃ kuru kuru svāhā |

201.24२०१.२४

अनेन मन्त्रेण तत्क्षेत्रदेवतां पूजयेत् । (२०१।२४)

anena mantreṇa tatkṣetradevatāṃ pūjayet |

201.25२०१.२५

ॐ कृष्णवर्णिनि अपरामुख्यै नमः पूर्वस्मिन् । (२०१।२५)

oṃ kṛṣṇavarṇini aparāmukhyai namaḥ pūrvasmin |

201.26२०१.२६

ॐ सुधावर्षिण्यै नमः आग्नेये । (२०१।२६)

oṃ sudhāvarṣiṇyai namaḥ āgneye |

201.27२०१.२७

ॐ पर्वताकृष्णवर्णिनीरौद्रमुख्यै नमः दक्षिणे । (२०१।२७)

oṃ parvatākṛṣṇavarṇinīraudramukhyai namaḥ dakṣiṇe |

201.28२०१.२८

ॐ बालार्कवर्णिनीमहालक्ष्म्यै नमः नैरृत्ये । (२०१।२८)

oṃ bālārkavarṇinīmahālakṣmyai namaḥ nairṛtye |

201.29२०१.२९

ॐ खं रक्तपर्वतवर्णिनी । (२०१।२९)

oṃ khaṃ raktaparvatavarṇinī |

201.30२०१.३०

महामहिषासुरमर्दिन्यै नमः पश्चिमे । (२०१।३०)

mahāmahiṣāsuramardinyai namaḥ paścime |

201.31२०१.३१

ॐ मां सर्ववर्णिनीहुङ्कारवाग्देव्यै नमः वायव्ये । (२०१।३१)

oṃ māṃ sarvavarṇinīhuṅkāravāgdevyai namaḥ vāyavye |

201.32२०१.३२

ॐ सिह्मवाहिन्यै नमः उत्तरे । (२०१।३२)

oṃ sihmavāhinyai namaḥ uttare |

201.33२०१.३३

ॐ शिवाशिवाशिवात्रिशूलहस्तायै नमः ऐशान्ये । (२०१।३३)

oṃ śivāśivāśivātriśūlahastāyai namaḥ aiśānye |

201.34२०१.३४

ॐ ह्रां ह्रीं क्लीं मनोन्मन्यै नमः आकाशे । (२०१।३४)

oṃ hrāṃ hrīṃ klīṃ manonmanyai namaḥ ākāśe |

201.35२०१.३५

ॐ ह्रां ह्रीं महामोहिन्यै नमः पाताले । (२०१।३५)

oṃ hrāṃ hrīṃ mahāmohinyai namaḥ pātāle |

201.36२०१.३६

ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्र्ॐ ह्रौं ह्रं महाविद्ये जम्भय जम्भय मोहय मोहय दर्शय दर्शय मूर्छय मूर्छय क्लीं मथ मथ आकर्षयाकर्षय हुं फट् स्वाहा । (२०१।३६)

oṃ hrāṃ hrīṃ hrūṃ hraiṃ hroṃ hrauṃ hraṃ mahāvidye jambhaya jambhaya mohaya mohaya darśaya darśaya mūrchaya mūrchaya klīṃ matha matha ākarṣayākarṣaya huṃ phaṭ svāhā |

201.37२०१.३७

मध्ये च पूजयेत् । (२०१।३७)

madhye ca pūjayet |

201.38२०१.३८

एवं न्यासं रक्षां पूजां कृत्वा तत्कर्मणि लक्षमेकम् अघोरं जपेत् । (२०१।३८)

evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet |

201.39२०१.३९

ततः सिद्धिमवाप्नोति । (२०१।३९)

tataḥ siddhimavāpnoti |

201.40२०१.४०

मन्त्रं यथा । (२०१।४०)

mantraṃ yathā |

201.41२०१.४१

ॐ ह्रां ह्रीं ह्रं अघोरतर प्रस्फुर प्रस्फुर प्रकट प्रकट कह कह शम शम जात जात दह दह पातय पातय ॐ ह्रैं ह्रां ह्रं अधोरास्त्राय फट् । (२०१।४१)

oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ |

201.42२०१.४२

अमुं मन्त्रं लक्षं जपेत् । (२०१।४२)

amuṃ mantraṃ lakṣaṃ japet |

201.43२०१.४३

ततः स्वप्ने प्रत्यक्षीभूय देवता वरं ददाति ॥ (२०१।४३)

tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 1, 12

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit