ĀK, 2, 3
Select a line for its word-by-word analysis.
सिल्वेर्:: स्य्नोन्य्म्स्रौप्यं शुभ्रं वसुश्रेष्ठं रुचिरं चन्द्रलोहकम् । (१।२)
silver:: synonymsraupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam |
रजतं तप्तरूप्यं च चन्द्रभूतिस्तु रौप्यकम् ॥ (१।३)
rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam ||
रजतभेदाःसहजं खनिसंजातं कृत्रिमं च त्रिधा मतम् ॥ (२।२)
rajatabhedāḥsahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam ||
रजतं पूर्वपूर्वं हि स्वगुणैरुत्तरोत्तरम् । (३।१)
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram |
तत्स्पृष्टं हि महाव्याधिनाशनं देहिनां भवेत् । (४।१)
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet |
खनिजं कथ्यते तज्ज्ञैः परमं हि रसायनम् । (५।१)
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam |
श्रीरामपादुकान्यस्तं वङ्गं यद्रूप्यतां गतम् ॥ (५।२)
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam ||
तत्पादरूप्यमित्युक्तं कृत्रिमं सर्वरोगनुत् । (६।१)
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut |
ग्राह्याग्राह्यरजतस्वरूपम्घनं स्निग्धं गुरु स्निग्धं दाहे छेदे सितं मृदु ॥ (६।२)
grāhyāgrāhyarajatasvarūpamghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu ||
वर्णाढ्यं चन्द्रवत्स्वच्छं दाहे छेदे समप्रभम् । (७।१)
varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham |
दाहे रक्तं च पीतं च कृष्णं रूक्षं स्फुटं लघु । (८।१)
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu |
स्थूलाङ्गं कर्कशाङ्गं च रजतं त्याज्यमष्टधा ॥ (८।२)
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā ||
कठिनं कृत्रिमं रूक्षं विवर्णं समलं दलम् । (९।१)
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam |
दाहे छेदे घने नष्टं मध्यमं रजतं मतम् ॥ (९।२)
dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam ||
करोति तापं विड्भेदं क्षयं शुक्लबलायुषाम् । (१०।१)
karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām |
न शुद्धं न मृतं तारं तस्माच्छुद्धं च मारयेत् ॥ (१०।२)
na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet ||
रजतशुद्धिनागेन टङ्कणेनैव द्रावितं शुद्धिमृच्छति । (११।१)
rajataśuddhināgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati |
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मतीभवे ॥ (११।२)
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave ||
तप्तं तप्तं तारपत्रं सेचयेच्छुद्धिम् आप्नुयात् । (१२।१)
taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt |
पिशाचसंभवे यद्वा प्रक्षिप्तं शुद्धिमाप्नुयात् ॥ (१२।२)
piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt ||
रजतं दोषनिर्मुक्तं नागोत्तीर्णं समाहरेत् । (१३।१)
rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet |
श्वेतकुम्भोद्भवे नीरे ढालयेत्सप्तवारकान् ॥ (१३।२)
śvetakumbhodbhave nīre ḍhālayetsaptavārakān ||
रजतभस्म (१, २, ३)कुरण्डमुनिपुष्पोत्थसलिलैः संप्रमर्दयेत् । (१४।१)
rajatabhasma (1, 2, 3)kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet |
म्रियते नात्र सन्देहः लिप्तं वा रसभस्मना । (१५।१)
mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā |
तारपत्राणि संलिप्य पुटित्वा भस्मतां नयेत् ॥ (१६।२)
tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet ||
म्रियते गन्धयोगाद्यैर् वैष्णवेन विपद्यते । (१७।१)
mriyate gandhayogādyair vaiṣṇavena vipadyate |
रजतभस्म (४)स्नुहीक्षीरैः पचेत्ताप्यं तारपत्राणि लेपयेत् ॥ (१७।२)
rajatabhasma (4)snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet ||
रुद्ध्वा गजपुटे पक्त्वा पूर्वोक्तैः पाचयेत्पुनः । (१८।१)
ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ |
चत्वारिंशत्पुटैरेवं पचेत्तारं मृतं भवेत् ॥ (१८।२)
catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet ||
रजतभस्म (५)भूधात्रीं माक्षिकं तुल्यं पिप्पलीं सैन्धवाम्लकैः । (१९।१)
rajatabhasma (5)bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ |
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटैः पचेत् ॥ (१९।२)
liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet ||
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः । (२०।१)
dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ |
रजतभस्म (६)लिकुचद्रवसूताभ्यां तारपिष्टीं प्रकल्पयेत् ॥ (२०।२)
rajatabhasma (6)likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet ||
रुद्ध्वाधो गन्धकं दत्त्वा मूषागर्भे निरुध्य च । (२१।१)
ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca |
स्वेदयेद् वालुकायन्त्रे दिनमेकं दृढाग्निना ॥ (२१।२)
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā ||
स्वाङ्गशीतलतां पिष्टिं साम्लतालेन मर्दितम् । (२२।१)
svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam |
रजतभस्म (७)माक्षिकं चूर्णलुङ्गाम्लमर्दितं पुटितं शनैः । (२३।१)
rajatabhasma (7)mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ |
त्रिंशद्वारेण तत्तारं निरुत्थं भस्म जायते ॥ (२३।२)
triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate ||
रागः स्यात् सर्वलोहानां पुटाधिक्ये न संशयः । (२४।१)
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ |
रजतभस्म (८)तारपत्त्रं चतुर्भागा भागैकं शुद्धतालकम् ॥ (२४।२)
rajatabhasma (8)tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam ||
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् । (२५।१)
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet |
शोषयेदन्धयेत्तं च त्रिंशद्वनोत्पलैः पुटेत् ॥ (२५।२)
śoṣayedandhayettaṃ ca triṃśadvanotpalaiḥ puṭet ||
चतुर्दशपुटैरेवं निरुत्थं म्रियते ध्रुवम् । (२६।१)
caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam |
रजतभस्म (९)रौप्यपत्रं चतुर्भागा भागैकं मृतवङ्गकम् ॥ (२६।२)
rajatabhasma (9)raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam ||
अथवा गन्धभागैकं लेप्यं जम्बीरपेषितैः । (२७।१)
athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ |
रुद्ध्वा त्रिभिः पुटैः पाच्यं पञ्चविंशद्वनोत्पलैः ॥ (२७।२)
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ ||
म्रियते नात्र सन्देहो गन्धो देयः पुनः पुनः । (२८।१)
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ |
रजतभस्म (१०)रसगन्धौ समं कृत्वा काकतुण्डस्य मूलकम् ॥ (२८।२)
rajatabhasma (10)rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam ||
मर्दयेन्महिषीक्षीरैः पिष्टिं तां क्षालयेज्जलैः । (२९।१)
mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ |
क्षिप्त्वा दिनैकविंशच्च तद्गर्भाद् उद्धरेत्पुनः । (३०।१)
kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ |
तत्पिष्ट्वा तारपत्राणि लेप्यमम्लेन केनचित् ॥ (३०।२)
tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit ||
पुटैर् विंशतिभिर् भस्म जायते नात्र संशयः । (३१।१)
puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ |
भस्मना ह्यम्लपिष्टेन लिम्पेत्ताम्रमयं क्षुरम् ॥ (३१।२)
bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram ||
रजतस्य गुणाःरौप्यं स्निग्धं कषायाम्लं विपाके मधुरं रसम् ॥ (३२।२)
rajatasya guṇāḥraupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam ||
वयसः स्थापनं शीतं लेखनं वातपित्तजित् । (३३।१)
vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit |
वृष्यं रुचिकरं बल्यं जठराग्निप्रदीपनम् ॥ (३३।२)
vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam ||
Data courtesy of The Digital Corpus of Sanskrit.