आनन्दकन्दĀnandakanda

ĀK, 2, 1

26 of 35 · 732 verses

Select a line for its word-by-word analysis.

1.1१.१

उपरसशोधनमारणविधिःश्रीभैरवी । (१।१)

uparasaśodhanamāraṇavidhiḥśrībhairavī |

1.2१.२

देवदेव चिदानन्द सच्चिदानन्ददायक । (१।२)

devadeva cidānanda saccidānandadāyaka |

1.3१.३

त्वयैव प्रतिबुद्धास्मि पूर्वं रसविधानकम् ॥ (१।३)

tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam ||

2.1२.१

इदानीं त्वत्प्रसादेन श्रोतुमिच्छाम्यहं प्रभो । (२।१)

idānīṃ tvatprasādena śrotumicchāmyahaṃ prabho |

2.2२.२

गन्धाद्युपरसानां च लोहानां हेमपूर्विणाम् ॥ (२।२)

gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām ||

3.1३.१

पद्मरागादिरत्नानां लक्षणं जातिमाह्वयम् । (३।१)

padmarāgādiratnānāṃ lakṣaṇaṃ jātimāhvayam |

3.2३.२

संस्कारं च गुणान्ब्रूहि यथा जानाम्यहं प्रभो ॥ (३।२)

saṃskāraṃ ca guṇānbrūhi yathā jānāmyahaṃ prabho ||

4.1४.१

उपरसाःश्रीभैरवः । (४।१)

uparasāḥśrībhairavaḥ |

4.2४.२

गन्धतालशिलाताप्यघनहिङ्गुलगैरिकाः । (४।२)

gandhatālaśilātāpyaghanahiṅgulagairikāḥ |

4.3४.३

चपलाश्मजभूनागहरिद्राश्माग्निजारकाः ॥ (४।३)

capalāśmajabhūnāgaharidrāśmāgnijārakāḥ ||

5.1५.१

खर्परीतुत्थकङ्कुष्ठगिरिसिन्दूरटङ्कणाः । (५।१)

kharparītutthakaṅkuṣṭhagirisindūraṭaṅkaṇāḥ |

5.2५.२

कम्पिल्लविषकासीसगौरीपाषाणभूखगाः ॥ (५।२)

kampillaviṣakāsīsagaurīpāṣāṇabhūkhagāḥ ||

6.1६.१

पोद्दारशृङ्गी सिन्दूरस्तुवरिश्च रसाञ्जनम् । (६।१)

poddāraśṛṅgī sindūrastuvariśca rasāñjanam |

6.2६.२

नीलाञ्जनं च सौवीरं स्रोतोञ्जनम् अफेनकम् ॥ (६।२)

nīlāñjanaṃ ca sauvīraṃ srotoñjanam aphenakam ||

7.1७.१

पुष्पाञ्जनं शङ्खशुक्तिशम्बूकाश्च वराटकाः । (७।१)

puṣpāñjanaṃ śaṅkhaśuktiśambūkāśca varāṭakāḥ |

7.2७.२

साबुणी च नवक्षारचीनक्षाराखुमारकाः ॥ (७।२)

sābuṇī ca navakṣāracīnakṣārākhumārakāḥ ||

8.1८.१

सर्जगुग्गुलुलाक्षाश्च क्षाराश्च लवणानि च । (८।१)

sarjaguggululākṣāśca kṣārāśca lavaṇāni ca |

8.2८.२

गोरोचनोऽम्लवेतश्च काचच्छगणवालुकाः ॥ (८।२)

gorocano'mlavetaśca kācacchagaṇavālukāḥ ||

9.1९.१

एते उपरसाः ख्याता रसराजस्य कर्मणि । (९।१)

ete uparasāḥ khyātā rasarājasya karmaṇi |

9.2९.२

द्वादश लोहाःस्वर्णरूप्यार्ककान्ताभ्रसत्त्वं तीक्ष्णं च मुण्डकम् ॥ (९।२)

dvādaśa lohāḥsvarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam ||

10.1१०.१

भुजङ्गं त्रपुसं चैव रीतिः कांस्यं च वर्तकम् । (१०।१)

bhujaṅgaṃ trapusaṃ caiva rītiḥ kāṃsyaṃ ca vartakam |

10.2१०.२

द्वादशैतानि लोहानि मण्डूरो लोहकिट्टकम् ॥ (१०।२)

dvādaśaitāni lohāni maṇḍūro lohakiṭṭakam ||

11.1११.१

नवरत्नानिमाणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्यं भिदुरं च नीलम् । (११।१)

navaratnānimāṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣyaṃ bhiduraṃ ca nīlam |

11.2११.२

गोमेधकं चाथ विडूरकं च क्रमेण रत्नानि नवग्रहाणाम् ॥ (११।२)

gomedhakaṃ cātha viḍūrakaṃ ca krameṇa ratnāni navagrahāṇām ||

12.1१२.१

नव उपरत्नानिसूर्यकान्तश् चन्द्रकान्तस् तारकान्तस्तु कान्तकः । (१२।१)

nava uparatnānisūryakāntaś candrakāntas tārakāntastu kāntakaḥ |

12.2१२.२

वैक्रान्तश्च नृपावर्तः सस्यको विमला तथा ॥ (१२।२)

vaikrāntaśca nṛpāvartaḥ sasyako vimalā tathā ||

13.1१३.१

पेरोजश्च नवैतानि ह्युपरत्नानि निर्दिशेत् । (१३।१)

perojaśca navaitāni hyuparatnāni nirdiśet |

13.2१३.२

गन्धकः: गन्धकशुद्धिः; प्रथमः प्रकारःउत्पत्तिलक्षणं जातिं गन्धकं शोधयेदतः ॥ (१३।२)

gandhakaḥ: gandhakaśuddhiḥ; prathamaḥ prakāraḥutpattilakṣaṇaṃ jātiṃ gandhakaṃ śodhayedataḥ ||

14.1१४.१

साज्यं भाण्डे पयः क्षिप्त्वा मुखं वस्त्रेण बन्धयेत् । (१४।१)

sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet |

14.2१४.२

तत्पृष्ठे चूर्णितं गन्धं क्षिप्त्वा श्रावेण रोधयेत् ॥ (१४।२)

tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet ||

15.1१५.१

भाण्डं निक्षिप्य भूम्यन्तरूर्ध्वं देयं पुटं लघु । (१५।१)

bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu |

15.2१५.२

ततः क्षीरे द्रुतं गन्धं शुद्धं योगेषु योजयेत् ॥ (१५।२)

tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet ||

16.1१६.१

द्वितीयः प्रकारःकङ्गुणीसर्षपैरण्डतैलं वाथ कुसुम्भजम् । (१६।१)

dvitīyaḥ prakāraḥkaṅguṇīsarṣapairaṇḍatailaṃ vātha kusumbhajam |

16.2१६.२

मेषीक्षीरं घृतं वाथ गोक्षीरं चारनालकम् ॥ (१६।२)

meṣīkṣīraṃ ghṛtaṃ vātha gokṣīraṃ cāranālakam ||

17.1१७.१

एतेष्वेकं तु भाण्डान्तः किंचिदूनं प्रपूरयेत् । (१७।१)

eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet |

17.2१७.२

रुद्ध्वा वस्त्रेण तद्वक्त्रं गन्धचूर्णं तत उपरि ॥ (१७।२)

ruddhvā vastreṇa tadvaktraṃ gandhacūrṇaṃ tata upari ||

18.1१८.१

लोहपात्रेण रुद्ध्वाथ पृष्ठे स्थाप्य च खर्परम् । (१८।१)

lohapātreṇa ruddhvātha pṛṣṭhe sthāpya ca kharparam |

18.2१८.२

साग्निम् उत्पलकैः पूर्णमेव द्राव्य समुद्धरेत् ॥ (१८।२)

sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet ||

19.1१९.१

तद्धुत्तूरद्रवैः पिष्ट्वा शुष्कं द्राव्यं च पूर्ववत् । (१९।१)

taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat |

19.2१९.२

पुनरेवं प्रकर्तव्यं सुशुद्धो गन्धको भवेत् ॥ (१९।२)

punarevaṃ prakartavyaṃ suśuddho gandhako bhavet ||

20.1२०.१

तृतीयः प्रकारःयामैकं गन्धकं मर्द्यं बृहत्या चाजगन्धया । (२०।१)

tṛtīyaḥ prakāraḥyāmaikaṃ gandhakaṃ mardyaṃ bṛhatyā cājagandhayā |

20.2२०.२

भृङ्गीधुत्तूरयोर्वाथ तिलपर्ण्याश्च तद्द्रवैः ॥ (२०।२)

bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ ||

21.1२१.१

तमादाय घृतैस्तुल्यैर् लोहपात्रे क्षणं पचेत् । (२१।१)

tamādāya ghṛtaistulyair lohapātre kṣaṇaṃ pacet |

21.2२१.२

बद्ध्वाग्निना द्रुतं तं वै ह्यजाक्षीरे विनिक्षिपेत् ॥ (२१।२)

baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet ||

22.1२२.१

इत्येवं सप्तधा कुर्याच्छुद्धिमायाति गन्धकः । (२२।१)

ityevaṃ saptadhā kuryācchuddhimāyāti gandhakaḥ |

22.2२२.२

चतुर्थः प्रकारःकरञ्जैरण्डतैलं च छागीदुग्धं च भाण्डके ॥ (२२।२)

caturthaḥ prakāraḥkarañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake ||

23.1२३.१

क्षिप्त्वा तस्य मुखं बद्ध्वा स्वच्छवस्त्रेण बुद्धिमान् । (२३।१)

kṣiptvā tasya mukhaṃ baddhvā svacchavastreṇa buddhimān |

23.2२३.२

गन्धकं धूर्तजैर् द्रावैर्दिनं भाव्यं विशोषयेत् ॥ (२३।२)

gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet ||

24.1२४.१

तच्चूर्णं पूर्वभाण्डस्य वस्त्रोपरि निधापयेत् । (२४।१)

taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet |

24.2२४.२

आच्छाद्य श्रावकेनैव पृष्ठे देयं पुटं लघु ॥ (२४।२)

ācchādya śrāvakenaiva pṛṣṭhe deyaṃ puṭaṃ laghu ||

25.1२५.१

द्रुतं गन्धं समादाय भाव्यं धुत्तूरजैर्द्रवैः । (२५।१)

drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ |

25.2२५.२

तद्वद्द्राव्यं पुनर्भाव्यं द्रावयेच्च पुनस्ततः ॥ (२५।२)

tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ ||

26.1२६.१

आदाय मत्स्यपित्तेन सप्तधा भाव्यमातपे । (२६।१)

ādāya matsyapittena saptadhā bhāvyamātape |

26.2२६.२

ततः कोशातकीबीजचूर्णेन सह पेषयेत् ॥ (२६।२)

tataḥ kośātakībījacūrṇena saha peṣayet ||

27.1२७.१

भावयेद्भृङ्गजैर्द्रावैः सप्ताहमातपे खरे । (२७।१)

bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare |

27.2२७.२

तोयेन क्षालितं शोष्यं ततो मृद्वग्निना क्षणम् ॥ (२७।२)

toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam ||

28.1२८.१

घृताक्ते लोहपात्रे तु द्रावितं ढालयेत्ततः । (२८।१)

ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ |

28.2२८.२

भृङ्गराजद्रवान्तस्थः सम्यक् शुद्धः स जायते ॥ (२८।२)

bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate ||

29.1२९.१

पञ्चमः प्रकारःगन्धकं याममात्रं वा मद्यब्राह्म्यजगन्धयोः । (२९।१)

pañcamaḥ prakāraḥgandhakaṃ yāmamātraṃ vā madyabrāhmyajagandhayoḥ |

29.2२९.२

भृङ्गधुत्तूरयोर्वापि तिलपर्णीरसेन वा ॥ (२९।२)

bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā ||

30.1३०.१

तदादाय घृतोपेतं लोहपात्रे क्षणं पचेत् । (३०।१)

tadādāya ghṛtopetaṃ lohapātre kṣaṇaṃ pacet |

30.2३०.२

लघ्वग्निना द्रुतं तच्च मेषीक्षीरे विनिक्षिपेत् ॥ (३०।२)

laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet ||

31.1३१.१

एवं कृतं सप्तवारं शुद्धं भवति गन्धकम् । (३१।१)

evaṃ kṛtaṃ saptavāraṃ śuddhaṃ bhavati gandhakam |

31.2३१.२

गन्धकतैलम्; प्रथमः प्रकारःदेवदाल्यम्लपर्णी वा नारङ्गं वाथ दाडिमम् ॥ (३१।२)

gandhakatailam; prathamaḥ prakāraḥdevadālyamlaparṇī vā nāraṅgaṃ vātha dāḍimam ||

32.1३२.१

मातुलुङ्गं यथालाभं द्रवमेकस्य चाहरेत् । (३२।१)

mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet |

32.2३२.२

गन्धकस्य तु पादांशं टङ्कणं द्रवसंयुतम् ॥ (३२।२)

gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam ||

33.1३३.१

आतपे त्रिदिनं शुष्कं द्रवं देयं पुनः पुनः । (३३।१)

ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ |

33.2३३.२

धुत्तूरतुलसीकृष्णलशुनं देवदालिका ॥ (३३।२)

dhuttūratulasīkṛṣṇalaśunaṃ devadālikā ||

34.1३४.१

शिग्रुमूलं काकमाची कर्पूरं शंखिनीद्वयम् । (३४।१)

śigrumūlaṃ kākamācī karpūraṃ śaṃkhinīdvayam |

34.2३४.२

कृष्णागरु च कस्तूरी वन्ध्या कर्कोटकी समम् ॥ (३४।२)

kṛṣṇāgaru ca kastūrī vandhyā karkoṭakī samam ||

35.1३५.१

मातुलुङ्गरसैः पिष्ट्वा क्षिपेदेरण्डतैलके । (३५।१)

mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake |

35.2३५.२

अनेन लोहपात्रस्थं भावयेत्पूर्वगन्धकम् ॥ (३५।२)

anena lohapātrasthaṃ bhāvayetpūrvagandhakam ||

36.1३६.१

त्रिवारं क्षौद्रतुल्यं तज्जायते गन्धवर्जितम् । (३६।१)

trivāraṃ kṣaudratulyaṃ tajjāyate gandhavarjitam |

36.2३६.२

इदं गन्धकतैलं स्यात्सर्वयोगेषु योजयेत् ॥ (३६।२)

idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet ||

37.1३७.१

द्वितीयः प्रकारःअथवार्कस्नुहीक्षीरैर्वस्त्रं लेप्यं तु सप्तधा । (३७।१)

dvitīyaḥ prakāraḥathavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā |

37.2३७.२

गन्धकं नवनीतेन पिष्ट्वा वस्त्रं लिपेत्तु ताम् ॥ (३७।२)

gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tām ||

38.2३८.२

तैलं पतेदधो भाण्डे ग्राह्यं योगेषु योजयेत् ॥ (३८।२)

tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet ||

39.1३९.१

गन्धकसत्त्वपातनम्; प्रथमः प्रकारःगन्धकस्तु कुबेराक्षीतैलेन चिरमर्दितः । (३९।१)

gandhakasattvapātanam; prathamaḥ prakāraḥgandhakastu kuberākṣītailena ciramarditaḥ |

39.2३९.२

दृढं प्रकटमूषायां ध्मातः सत्त्वं विमुञ्चति ॥ (३९।२)

dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati ||

40.1४०.१

द्वितीयः प्रकारःयद्वा भाण्डोदरे क्षिप्त्वा गन्धकं पूर्वशोधितम् । (४०।१)

dvitīyaḥ prakāraḥyadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam |

40.2४०.२

पिधाय ताम्रपात्रेण तस्मिञ्शीतोदकं क्षिपेत् ॥ (४०।२)

pidhāya tāmrapātreṇa tasmiñśītodakaṃ kṣipet ||

41.1४१.१

मन्दं प्रज्वाल्य तदधो वह्निमुष्णं जलं हरेत् । (४१।१)

mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret |

41.2४१.२

एवं पुनः पुनः शीतजलमूर्ध्वं विनिक्षिपेत् ॥ (४१।२)

evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet ||

42.1४२.१

गन्धकस्याग्नितः सत्त्वं स्वर्णाभं सर्वकार्यकृत् । (४२।१)

gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt |

42.2४२.२

न चास्य सत्त्वम् आदद्यात् सत्त्वरूपो हि गन्धकः ॥ (४२।२)

na cāsya sattvam ādadyāt sattvarūpo hi gandhakaḥ ||

43.1४३.१

इति गन्धकतत्त्वज्ञाः केचिदन्ये प्रचक्षते । (४३।१)

iti gandhakatattvajñāḥ kecidanye pracakṣate |

43.2४३.२

गन्धकद्रुतिःयद्वा संचूर्णितं गन्धं कटुतैलसमन्वितम् ॥ (४३।२)

gandhakadrutiḥyadvā saṃcūrṇitaṃ gandhaṃ kaṭutailasamanvitam ||

44.1४४.१

वस्त्रे निक्षिप्य तद्वस्त्रं कारयेद्वर्तिकां दृढाम् । (४४।१)

vastre nikṣipya tadvastraṃ kārayedvartikāṃ dṛḍhām |

44.2४४.२

ततः सूत्रेण संवेष्ट्य गोघृतेन परिप्लुताम् ॥ (४४।२)

tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām ||

45.1४५.१

संदंशेनोद्धृतं कृत्वा वर्तिं चाधः प्रदीपयेत् । (४५।१)

saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet |

45.2४५.२

पक्वाम्रफलसम्भूतरसवर्णा भवेद्द्रुतिः ॥ (४५।२)

pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ ||

46.1४६.१

गन्धकस्य गुणाःगन्धकः कटुकः पाके वीर्योष्णो विमलः सरः । (४६।१)

gandhakasya guṇāḥgandhakaḥ kaṭukaḥ pāke vīryoṣṇo vimalaḥ saraḥ |

46.2४६.२

विसर्पकुष्ठकण्डूतिक्रिमिगुल्मक्षयापहः ॥ (४६।२)

visarpakuṣṭhakaṇḍūtikrimigulmakṣayāpahaḥ ||

47.1४७.१

अक्षिरोगप्रशमनो वृष्यो विषगदार्तिजित् । (४७।१)

akṣirogapraśamano vṛṣyo viṣagadārtijit |

47.2४७.२

सर्वसिद्धिप्रदो बल्यस्त्रिदोषघ्नो रसायनः ॥ (४७।२)

sarvasiddhiprado balyastridoṣaghno rasāyanaḥ ||

48.1४८.१

हरितालम्हरितालं च गोदन्ती तालकं नटमण्डनम् । (४८।१)

haritālamharitālaṃ ca godantī tālakaṃ naṭamaṇḍanam |

48.2४८.२

गिरिजाललितं पीतम् अतिगन्धं बिडालकम् ॥ (४८।२)

girijālalitaṃ pītam atigandhaṃ biḍālakam ||

49.1४९.१

हरितालभेदाःहरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम् । (४९।१)

haritālabhedāḥharitālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam |

49.2४९.२

पत्त्रतालक:: फ्य्स्। प्रोपेर्तिएस्स्वर्णवर्णं गुरु स्निग्धं तनुपत्त्रं च भासुरम् ॥ (४९।२)

pattratālaka:: phys. propertiessvarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram ||

50.1५०.१

तत्पत्त्रतालकं प्रोक्तं बहुपत्रं रसायनम् । (५०।१)

tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam |

50.2५०.२

पिण्डतालक:: फ्य्स्। प्रोपेर्तिएस्निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ॥ (५०।२)

piṇḍatālaka:: phys. propertiesniṣpatraṃ piṇḍasadṛśaṃ svalpasattvaṃ tathā guru ||

51.1५१.१

स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम् । (५१।१)

strīpuṣpaharaṇaṃ tattu guṇālpaṃ piṇḍatālakam |

51.2५१.२

अशुद्धहरितालसेवने दोषाःवातश्लेष्मप्रमेहादिकरम् आयुर्निबर्हणम् ॥ (५१।२)

aśuddhaharitālasevane doṣāḥvātaśleṣmapramehādikaram āyurnibarhaṇam ||

52.1५२.१

तापस्फोटाङ्गसंकोचं हरितालमशोधितम् । (५२।१)

tāpasphoṭāṅgasaṃkocaṃ haritālamaśodhitam |

52.2५२.२

हरितालशुद्धिः; प्रथमः प्रकारःतालकं कणशः कृत्वा दशांशेन तु टङ्कणम् ॥ (५२।२)

haritālaśuddhiḥ; prathamaḥ prakāraḥtālakaṃ kaṇaśaḥ kṛtvā daśāṃśena tu ṭaṅkaṇam ||

53.1५३.१

जम्बीरोत्थद्रवैः क्षाल्यं काञ्जिकैः क्षालयेत्पुनः । (५३।१)

jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ |

53.2५३.२

वस्त्रे चतुर्गुणे बद्ध्वा डोलायन्त्रे दिनं पचेत् ॥ (५३।२)

vastre caturguṇe baddhvā ḍolāyantre dinaṃ pacet ||

54.1५४.१

सचूर्णेनारनालेन दिनं कूष्माण्डजै रसैः । (५४।१)

sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ |

54.2५४.२

स्वेद्यं वा शाल्मलीतोयैस्तालकं शुद्धिमाप्नुयात् ॥ (५४।२)

svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt ||

55.1५५.१

द्वितीयः प्रकारःमधुतुल्ये घनीभूते कषाये ब्रह्ममूलजे । (५५।१)

dvitīyaḥ prakāraḥmadhutulye ghanībhūte kaṣāye brahmamūlaje |

55.2५५.२

त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रेऽथ माहिषे ॥ (५५।२)

trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe ||

56.1५६.१

उत्पलैर्दशभिर्देयं पुटं कुर्यात्पुनः पुनः । (५६।१)

utpalairdaśabhirdeyaṃ puṭaṃ kuryātpunaḥ punaḥ |

56.2५६.२

एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत् ॥ (५६।२)

evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet ||

57.1५७.१

तृतीयः प्रकारःतालकं पोट्टलं बद्ध्वा सचूर्णे काञ्जिके पचेत् । (५७।१)

tṛtīyaḥ prakāraḥtālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet |

57.2५७.२

दोलायन्त्रेण यामैकं ततः कूष्माण्डजे रसे ॥ (५७।२)

dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase ||

58.1५८.१

तिलतैले पचेद्यामं यामं च त्रिफलाजले । (५८।१)

tilataile pacedyāmaṃ yāmaṃ ca triphalājale |

58.2५८.२

एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकम् ॥ (५८।२)

evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam ||

59.1५९.१

तालकसत्त्वपातनम्; प्रथमः प्रकारःलाक्षा राजी तिलाः शिग्रु टङ्कणं लवणं गुडम् । (५९।१)

tālakasattvapātanam; prathamaḥ prakāraḥlākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam |

59.2५९.२

तालकार्घ्येण संमर्द्य छिद्रमूषां निरोधयेत् ॥ (५९।२)

tālakārghyeṇa saṃmardya chidramūṣāṃ nirodhayet ||

60.1६०.१

पुटेत्पातालयन्त्रेण सत्त्वं पतति निश्चयम् । (६०।१)

puṭetpātālayantreṇa sattvaṃ patati niścayam |

60.2६०.२

द्वितीयः प्रकारःतालकं मर्दयेद्दुग्धैः सर्पाक्ष्या वा कषायकैः ॥ (६०।२)

dvitīyaḥ prakāraḥtālakaṃ mardayeddugdhaiḥ sarpākṣyā vā kaṣāyakaiḥ ||

61.1६१.१

पूर्ववज्जनयेत्सत्त्वं छिद्रमूषानिरोधितम् । (६१।१)

pūrvavajjanayetsattvaṃ chidramūṣānirodhitam |

61.2६१.२

तृतीयः प्रकारःलाक्षा राजी गुडं शिग्रु टङ्कणं लवणं तिलाः ॥ (६१।२)

tṛtīyaḥ prakāraḥlākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ ||

62.1६२.१

एभिस्तुल्यं सत्त्वतालं मर्दयेद् रविदुग्धकैः । (६२।१)

ebhistulyaṃ sattvatālaṃ mardayed ravidugdhakaiḥ |

62.2६२.२

दिनं वा वज्रिणीदुग्धैः कूश्माण्डस्य द्रवैश्च वा ॥ (६२।२)

dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā ||

63.1६३.१

तेन कल्केन लिप्त्वान्तश्छिद्रमूषां निरोधयेत् । (६३।१)

tena kalkena liptvāntaśchidramūṣāṃ nirodhayet |

63.2६३.२

पुटाद्वा धमनात् सत्त्वं ग्राह्यं पातालयन्त्रके ॥ (६३।२)

puṭādvā dhamanāt sattvaṃ grāhyaṃ pātālayantrake ||

64.1६४.१

चतुर्थः प्रकारःतालकादष्टमांशेन देयं सूतं च टङ्कणम् । (६४।१)

caturthaḥ prakāraḥtālakādaṣṭamāṃśena deyaṃ sūtaṃ ca ṭaṅkaṇam |

64.2६४.२

कूश्माण्डस्य रसैः स्नुह्याः क्षीरैर् मर्द्याद्दिनत्रयम् ॥ (६४।२)

kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam ||

65.1६५.१

तद्गोलं छिद्रमूषायां ग्राह्यं सत्त्वं च पूर्ववत् । (६५।१)

tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat |

65.2६५.२

पञ्चमः प्रकारःभागाः षोडश तालस्य विषपारदटङ्कणाः ॥ (६५।२)

pañcamaḥ prakāraḥbhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ ||

66.1६६.१

श्वेताभ्रवङ्गयोश्चूर्णं प्रतिभागं विमिश्रयेत् । (६६।१)

śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet |

66.2६६.२

समं स्नुह्यर्कपयसा मर्दयेद्दिवसद्वयम् ॥ (६६।२)

samaṃ snuhyarkapayasā mardayeddivasadvayam ||

67.1६७.१

तद्गोलं काचकुप्यन्तः क्षिप्त्वा तां काचकूपिकाम् । (६७।१)

tadgolaṃ kācakupyantaḥ kṣiptvā tāṃ kācakūpikām |

67.2६७.२

सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रे मृदा दृढम् ॥ (६७।२)

sarvato'ṅgulamānena limpedvastre mṛdā dṛḍham ||

68.1६८.१

शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् । (६८।१)

śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet |

68.2६८.२

शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् ॥ (६८।२)

śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham ||

69.1६९.१

चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् । (६९।१)

caṇḍāgninā pacedyāvattāvaddvādaśayāmakam |

69.2६९.२

स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् ॥ (६९।२)

svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet ||

70.1७०.१

ऊर्ध्वलग्नं तालसत्त्वं स्फटिकोपलसन्निभम् । (७०।१)

ūrdhvalagnaṃ tālasattvaṃ sphaṭikopalasannibham |

70.2७०.२

षष्ठः प्रकारःभावितं स्नुक्पयः सिक्तं स्नुहीद्रावैर्द्विसप्तधा ॥ (७०।२)

ṣaṣṭhaḥ prakāraḥbhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā ||

71.1७१.१

तिलसर्षपशिग्रूणि लवणं मित्रपञ्चकम् । (७१।१)

tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam |

71.2७१.२

एभिस्तुल्यं शुद्धतालं दिनमेकं विमर्दयेत् ॥ (७१।२)

ebhistulyaṃ śuddhatālaṃ dinamekaṃ vimardayet ||

72.1७२.१

भूधरे छिद्रमूषान्तर्ध्मातं सत्त्वं विमुञ्चति । (७२।१)

bhūdhare chidramūṣāntardhmātaṃ sattvaṃ vimuñcati |

72.2७२.२

तालकस्य गुणाःतालकं शोधितं श्रेष्ठं कुष्ठमृत्युजरापहम् ॥ (७२।२)

tālakasya guṇāḥtālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham ||

73.1७३.१

सौभाग्यसौगन्ध्यकरं परमायुर्विवर्धनम् । (७३।१)

saubhāgyasaugandhyakaraṃ paramāyurvivardhanam |

73.2७३.२

मनःशिलामनःशिला स्यात्कुनटी नागास्या रक्तगन्धकः ॥ (७३।२)

manaḥśilāmanaḥśilā syātkunaṭī nāgāsyā raktagandhakaḥ ||

74.1७४.१

नेपालिका नागजिह्वा कल्याणी सप्तनामका । (७४।१)

nepālikā nāgajihvā kalyāṇī saptanāmakā |

74.2७४.२

मनःशिलाभेदाःमनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरका ॥ (७४।२)

manaḥśilābhedāḥmanaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā ||

75.1७५.१

खण्डाख्या चैव तद्रूपं विविच्य परिकल्प्यते । (७५।१)

khaṇḍākhyā caiva tadrūpaṃ vivicya parikalpyate |

75.2७५.२

श्यामा रक्ता खराङ्गा च भाराढ्या श्यामिका मता ॥ (७५।२)

śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā ||

76.1७६.१

तेजस्विनी च निर्भारा ताम्राभा कणवीरका । (७६।१)

tejasvinī ca nirbhārā tāmrābhā kaṇavīrakā |

76.2७६.२

चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ॥ (७६।२)

cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā ||

77.1७७.१

उत्तरोक्ता गुणैः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता । (७७।१)

uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā |

77.2७७.२

अशुद्धमनःशिलासेवायां दोषाःअश्मरीं मूत्रकृच्छ्रं च मन्दाग्निं मलबद्धताम् ॥ (७७।२)

aśuddhamanaḥśilāsevāyāṃ doṣāḥaśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām ||

78.1७८.१

करोति कुष्ठं तापं च शुद्धिहीना मनःशिला । (७८।१)

karoti kuṣṭhaṃ tāpaṃ ca śuddhihīnā manaḥśilā |

78.2७८.२

मनःशिलाशुद्धिःअजामूत्रैस्त्र्यहं पच्याद्दोलायन्त्रे मनःशिलाम् ॥ (७८।२)

manaḥśilāśuddhiḥajāmūtraistryahaṃ pacyāddolāyantre manaḥśilām ||

79.1७९.१

सप्तधा दध्यजापित्तैर्घर्मे ताप्यं विशुद्धये । (७९।१)

saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye |

79.2७९.२

जीवन्तीभृङ्गराड्रक्तागस्त्यद्रावैर्मनःशिलाम् ॥ (७९।२)

jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām ||

80.1८०.१

दोलायन्त्रे पचेद्यामं यामं छागोत्थमूत्रकैः । (८०।१)

dolāyantre pacedyāmaṃ yāmaṃ chāgotthamūtrakaiḥ |

80.2८०.२

क्षालयेदारनालेन सर्वयोगेषु योजयेत् ॥ (८०।२)

kṣālayedāranālena sarvayogeṣu yojayet ||

81.1८१.१

अगस्त्यस्य रसे भाव्या सप्ताहाच्छोधिता शिला । (८१।१)

agastyasya rase bhāvyā saptāhācchodhitā śilā |

81.2८१.२

मनःशिलासत्त्वपातनम्; प्रथमः प्रकारःतालवच्च शिलासत्त्वं पातनं शोधनं तथा ॥ (८१।२)

manaḥśilāsattvapātanam; prathamaḥ prakāraḥtālavacca śilāsattvaṃ pātanaṃ śodhanaṃ tathā ||

82.1८२.१

गोमांसैर् मातुलुङ्गाम्लैर् दिनं भाव्या मनःशिला । (८२।१)

gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā |

82.2८२.२

तां रक्तपीतपुष्पाणां रसैः पीतैश्च भावयेत् ॥ (८२।२)

tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet ||

83.1८३.१

दिनान्ते मर्दयेद्यामं मित्रपञ्चकसंयुतम् । (८३।१)

dinānte mardayedyāmaṃ mitrapañcakasaṃyutam |

83.2८३.२

गुलिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ॥ (८३।२)

gulikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām ||

84.1८४.१

सर्वतोऽङ्गुलमानेन लिम्पेद्वस्त्रमृदा दृढम् । (८४।१)

sarvato'ṅgulamānena limpedvastramṛdā dṛḍham |

84.2८४.२

शुष्कां तां वालुकायन्त्रे शनैर्मन्दाग्निना पचेत् ॥ (८४।२)

śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet ||

85.1८५.१

शुष्के द्रवे निरुध्याथ सम्यङ्मृल्लवणैर्मुखम् । (८५।१)

śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham |

85.2८५.२

चण्डाग्निना पचेद्यावत्तावद्द्वादशयामकम् ॥ (८५।२)

caṇḍāgninā pacedyāvattāvaddvādaśayāmakam ||

86.1८६.१

स्वाङ्गशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत् । (८६।१)

svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet |

86.2८६.२

ऊर्ध्वलग्नं शिलासत्त्वं बालार्कसदृशोपमम् ॥ (८६।२)

ūrdhvalagnaṃ śilāsattvaṃ bālārkasadṛśopamam ||

87.1८७.१

द्वितीयः प्रकारःअगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला । (८७।१)

dvitīyaḥ prakāraḥagastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā |

87.2८७.२

तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ॥ (८७।२)

tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet ||

88.1८८.१

मनःशिलाया गुणाःमनःशिला कटूष्णा च सतिक्ता कफवातजित् । (८८।१)

manaḥśilāyā guṇāḥmanaḥśilā kaṭūṣṇā ca satiktā kaphavātajit |

88.2८८.२

कण्डूतिक्षयकासघ्नी विषभूताग्निमान्द्यहृत् ॥ (८८।२)

kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt ||

89.1८९.१

माक्षिकम्माक्षिकं मधुधातु स्यान्माक्षीकं हेममाक्षिकम् । (८९।१)

mākṣikammākṣikaṃ madhudhātu syānmākṣīkaṃ hemamākṣikam |

89.2८९.२

ताप्यं च तापिजं तार्क्ष्यं तापीदेशसमुद्भवम् ॥ (८९।२)

tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam ||

90.1९०.१

माक्षिकभेदाःमाक्षीकं द्विविधं हेममाक्षिकं तारमाक्षिकम् । (९०।१)

mākṣikabhedāḥmākṣīkaṃ dvividhaṃ hemamākṣikaṃ tāramākṣikam |

90.2९०.२

तत्राद्यं माक्षिकं कान्यकुब्जोत्थं स्वर्णसन्निभम् ॥ (९०।२)

tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham ||

91.1९१.१

तपतीतीरसम्भूतं पञ्चवर्णं सुवर्णवत् । (९१।१)

tapatītīrasambhūtaṃ pañcavarṇaṃ suvarṇavat |

91.2९१.२

पाषाणबहलः प्रोक्तस्ताप्याख्योऽसौ गुणात्मकः ॥ (९१।२)

pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ ||

92.1९२.१

सुवर्णाकारभेदाच्च प्रत्येकं तत्पुनस्त्रिधा । (९२।१)

suvarṇākārabhedācca pratyekaṃ tatpunastridhā |

92.2९२.२

कादम्बं कारवेल्लाख्यं तण्डुलीयकसंज्ञकम् ॥ (९२।२)

kādambaṃ kāravellākhyaṃ taṇḍulīyakasaṃjñakam ||

93.1९३.१

अशुद्धमाक्षिकसेवने दोषाःप्राणविष्टम्भदौर्बल्यवह्निसादाक्षिरोगकृत् । (९३।१)

aśuddhamākṣikasevane doṣāḥprāṇaviṣṭambhadaurbalyavahnisādākṣirogakṛt |

93.2९३.२

माक्षिकं मारयत्येव शुद्धिहीनं सुरार्चिते ॥ (९३।२)

mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite ||

94.1९४.१

माक्षिकशुद्धिः; प्रथमः प्रकारःमाक्षिकं नरमूत्रेण क्वाथैः कौलुत्थकोद्भवैः । (९४।१)

mākṣikaśuddhiḥ; prathamaḥ prakāraḥmākṣikaṃ naramūtreṇa kvāthaiḥ kaulutthakodbhavaiḥ |

94.2९४.२

वेतसेनाम्लवर्गेण टङ्कणेन कटुत्रिकैः ॥ (९४।२)

vetasenāmlavargeṇa ṭaṅkaṇena kaṭutrikaiḥ ||

95.1९५.१

डोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् । (९५।१)

ḍolāyantre dinaṃ pācyaṃ sūraṇasyaiva madhyagam |

95.2९५.२

दिनं रम्भाद्रवैः पच्यादुद्धृतं पेषयेद् घृतैः ॥ (९५।२)

dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ ||

96.1९६.१

एरण्डतैलसंयुक्तैः पुटे पच्यन्विशोधयेत् । (९६।१)

eraṇḍatailasaṃyuktaiḥ puṭe pacyanviśodhayet |

96.2९६.२

द्वितीयः प्रकारःमाक्षिकस्य त्रयो भागा भागैकं टङ्कणस्य च ॥ (९६।२)

dvitīyaḥ prakāraḥmākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca ||

97.1९७.१

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् । (९७।१)

mātuluṅgadravairvātha jambīrotthadravaiḥ pacet |

97.2९७.२

लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम् ॥ (९७।२)

lohapātre pacettāvadyāvatpātraṃ sulohitam ||

98.1९८.१

ताम्रवर्णमयो वापि तावच्छुध्यति माक्षिकम् । (९८।१)

tāmravarṇamayo vāpi tāvacchudhyati mākṣikam |

98.2९८.२

तृतीयः प्रकारःअगस्तिपुष्पनिर्यासैः शिग्रुमूलं निघर्षयेत् ॥ (९८।२)

tṛtīyaḥ prakāraḥagastipuṣpaniryāsaiḥ śigrumūlaṃ nigharṣayet ||

99.1९९.१

द्रवैः पाषाणभेद्याश्च पेष्यम् एभिश्च माक्षिकम् । (९९।१)

dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam |

99.2९९.२

तद्वटीं चाथ मूषायां दशभिरुत्पलैः पुटेत् ॥ (९९।२)

tadvaṭīṃ cātha mūṣāyāṃ daśabhirutpalaiḥ puṭet ||

100.1१००.१

पुनः पुनश्च पिष्ट्वाथ पुटैः षड्भिर्विशुध्यति । (१००।१)

punaḥ punaśca piṣṭvātha puṭaiḥ ṣaḍbhirviśudhyati |

100.2१००.२

चतुर्थः प्रकारःक्षौद्रक्षीरारनालाश्च अष्टभागाः पृथक् पृथक् ॥ (१००।२)

caturthaḥ prakāraḥkṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak ||

101.1१०१.१

गव्यं तक्रं चतुर्भागं भागः कौलुत्थजो रसः । (१०१।१)

gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ |

101.2१०१.२

सर्वं सम्पूरयेद् भाण्डे भागैकं माक्षिकं पचेत् ॥ (१०१।२)

sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet ||

102.1१०२.१

डोलायन्त्रेण मृद्वग्नौ याममात्रं पुनः पचेत् । (१०२।१)

ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet |

102.2१०२.२

उद्धृत्य मातुलुङ्गाम्लैः पिष्ट्वा दशभिरुत्पलैः ॥ (१०२।२)

uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ ||

103.1१०३.१

पुटे पुनः पुनः कुर्यादेवं द्वादशवासरम् । (१०३।१)

puṭe punaḥ punaḥ kuryādevaṃ dvādaśavāsaram |

103.2१०३.२

शुद्धं भवति माक्षीकं सर्वयोगेषु योजयेत् ॥ (१०३।२)

śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet ||

104.1१०४.१

पञ्चमः प्रकारःमाक्षिकं कणशः कृत्वा जालिनीमेघनादयोः । (१०४।१)

pañcamaḥ prakāraḥmākṣikaṃ kaṇaśaḥ kṛtvā jālinīmeghanādayoḥ |

104.2१०४.२

पिण्डे निक्षिप्य विपचेद्दोलायन्त्रे कुलुत्थजे ॥ (१०४।२)

piṇḍe nikṣipya vipaceddolāyantre kulutthaje ||

105.1१०५.१

क्वाथे तच्छुद्धतां याति प्रशस्तं लोहमारणे । (१०५।१)

kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe |

105.2१०५.२

षष्ठः प्रकारःतैले तक्रे गवां मूत्रे कौलुत्थे वाम्लकाञ्जिके ॥ (१०५।२)

ṣaṣṭhaḥ prakāraḥtaile takre gavāṃ mūtre kaulutthe vāmlakāñjike ||

106.1१०६.१

माक्षिकं शोधयेत्प्राज्ञो गिरिदोषनिवृत्तये । (१०६।१)

mākṣikaṃ śodhayetprājño giridoṣanivṛttaye |

106.2१०६.२

सप्तमः प्रकारःकुलुत्थकोद्रवक्वाथनरमूत्राम्लवेतसैः ॥ (१०६।२)

saptamaḥ prakāraḥkulutthakodravakvāthanaramūtrāmlavetasaiḥ ||

107.1१०७.१

टङ्कणेनाम्लवर्गेण कटुकत्रितयेन वा । (१०७।१)

ṭaṅkaṇenāmlavargeṇa kaṭukatritayena vā |

107.2१०७.२

डोलायन्त्रे दिनं पाच्यं सूरणकन्दमध्यगम् ॥ (१०७।२)

ḍolāyantre dinaṃ pācyaṃ sūraṇakandamadhyagam ||

108.1१०८.१

दिनं रम्भाद्रवैः पाच्यं ध्मातमुद्धृत्य पेषितम् । (१०८।१)

dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam |

108.2१०८.२

एरण्डतैलसर्पिर्भ्यां पुटैः शुध्यति माक्षिकम् ॥ (१०८।२)

eraṇḍatailasarpirbhyāṃ puṭaiḥ śudhyati mākṣikam ||

109.1१०९.१

अष्टमः प्रकारःसुवर्णवर्णविमलं ताप्यं वा कणशः कृतम् । (१०९।१)

aṣṭamaḥ prakāraḥsuvarṇavarṇavimalaṃ tāpyaṃ vā kaṇaśaḥ kṛtam |

109.2१०९.२

पुनर्नवायाः कल्कस्थं कौलुत्थे स्वेदयेद्रसे ॥ (१०९।२)

punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase ||

110.1११०.१

सैन्धवैर् बीजपूराक्तैर्युक्तं वा पोट्टलीकृतम् । (११०।१)

saindhavair bījapūrāktairyuktaṃ vā poṭṭalīkṛtam |

110.2११०.२

डोलायन्त्रे दिनं स्वेद्यं शुद्धिमायाति निश्चितम् ॥ (११०।२)

ḍolāyantre dinaṃ svedyaṃ śuddhimāyāti niścitam ||

111.1१११.१

माक्षिकसत्त्वपातनविधिः; प्रथमः प्रकारःगोदुग्धैश्च स्नुहीक्षीरैर् भाव्यमेरण्डतैलकैः । (१११।१)

mākṣikasattvapātanavidhiḥ; prathamaḥ prakāraḥgodugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ |

111.2१११.२

माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम् ॥ (१११।२)

mākṣikaṃ dinamekaṃ tu marditaṃ vaṭakīkṛtam ||

112.1११२.१

अभ्रवद्धमने सत्वं सस्यकस्याप्ययं विधिः । (११२।१)

abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ |

112.2११२.२

द्वितीयः प्रकारःदोलायन्त्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ॥ (११२।२)

dvitīyaḥ prakāraḥdolāyantre sāranāle mākṣikaṃ svedayeddinam ||

113.1११३.१

चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे पचेद्दिनम् । (११३।१)

cūrṇitaṃ madhusarpirbhyāṃ lohapātre paceddinam |

113.2११३.२

आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि ॥ (११३।२)

ādāya bhāvayed gharme vajrīkṣīrairdināvadhi ||

114.1११४.१

गृहधूमैर् घृतैः क्षौद्रैः संयुक्तैर् मर्दयेद्दिनम् । (११४।१)

gṛhadhūmair ghṛtaiḥ kṣaudraiḥ saṃyuktair mardayeddinam |

114.2११४.२

अन्धमूषागतं ध्मातं सत्त्वं गुञ्जानिभं भवेत् ॥ (११४।२)

andhamūṣāgataṃ dhmātaṃ sattvaṃ guñjānibhaṃ bhavet ||

115.1११५.१

तृतीयः प्रकारःकदलीकन्दतोयेन माक्षिकं शतधातपे । (११५।१)

tṛtīyaḥ prakāraḥkadalīkandatoyena mākṣikaṃ śatadhātape |

115.2११५.२

भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ॥ (११५।२)

bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ ||

116.1११६.१

पूर्ववद्धमनात् सत्त्वम् इन्द्रगोपसमं भवेत् । (११६।१)

pūrvavaddhamanāt sattvam indragopasamaṃ bhavet |

116.2११६.२

चतुर्थः प्रकारःस्नुह्यर्कपयसा स्तन्यैर् माक्षिकं मर्दयेद्दिनम् ॥ (११६।२)

caturthaḥ prakāraḥsnuhyarkapayasā stanyair mākṣikaṃ mardayeddinam ||

117.1११७.१

कङ्कुष्ठं टङ्कणं चैव प्रतिपादांशमिश्रितम् । (११७।१)

kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam |

117.2११७.२

मूकमूषागतं ध्मातं सत्वं मणिनिभं भवेत् ॥ (११७।२)

mūkamūṣāgataṃ dhmātaṃ satvaṃ maṇinibhaṃ bhavet ||

118.1११८.१

पञ्चमः प्रकारःकदलीकन्दतुलसीजम्बीराणां द्रवैः क्रमात् । (११८।१)

pañcamaḥ prakāraḥkadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt |

118.2११८.२

भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ॥ (११८।२)

bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā ||

119.1११९.१

रुद्ध्वा ध्माते पतेत् सत्त्वं शुकतुण्डनिभं शुभम् । (११९।१)

ruddhvā dhmāte patet sattvaṃ śukatuṇḍanibhaṃ śubham |

119.2११९.२

षष्ठः प्रकारःमूत्रवर्गाम्लवर्गाभ्यां द्विसप्ताहं विभावयेत् ॥ (११९।२)

ṣaṣṭhaḥ prakāraḥmūtravargāmlavargābhyāṃ dvisaptāhaṃ vibhāvayet ||

120.1१२०.१

माक्षीकं तीव्रघर्मेण दिनमम्लैश्च मर्दयेत् । (१२०।१)

mākṣīkaṃ tīvragharmeṇa dinamamlaiśca mardayet |

120.2१२०.२

मित्रपञ्चकसंयुक्तं वटीकृत्य धमेद् दृढम् ॥ (१२०।२)

mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham ||

121.1१२१.१

व्योमवद्वङ्कनालेन सत्त्वं शुल्बनिभं भवेत् । (१२१।१)

vyomavadvaṅkanālena sattvaṃ śulbanibhaṃ bhavet |

121.2१२१.२

सप्तमः प्रकारःस्नुहीक्षीरैर् गवां क्षीरैर् भाव्यम् एरण्डतैलकैः ॥ (१२१।२)

saptamaḥ prakāraḥsnuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ ||

122.1१२२.१

माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् । (१२२।१)

mākṣikaṃ pañcamitrāktaṃ saptāhānte vaṭīkṛtam |

122.2१२२.२

पूर्ववद्विधमेत्तेन सत्त्वं लाक्षानिभं भवेत् ॥ (१२२।२)

pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet ||

123.1१२३.१

अष्टमः प्रकारःस्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः । (१२३।१)

aṣṭamaḥ prakāraḥstanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ |

123.2१२३.२

मित्रपञ्चकसंयुक्तैर्माक्षिकं दिनसप्तकम् ॥ (१२३।२)

mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam ||

124.1१२४.१

भावितं मर्दयेद्यामं दिनं वातारितैलकैः । (१२४।१)

bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ |

124.2१२४.२

मृद्वग्निना पचेत्तावद्यावद्द्रवति गोलकम् ॥ (१२४।२)

mṛdvagninā pacettāvadyāvaddravati golakam ||

125.1१२५.१

सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद्भवेत् । (१२५।१)

sattvaṃ kiṃśukapuṣpābhaṃ vyomavaddhamanādbhavet |

125.2१२५.२

विमलानां च सर्वेषां सस्यकस्याप्ययं विधिः ॥ (१२५।२)

vimalānāṃ ca sarveṣāṃ sasyakasyāpyayaṃ vidhiḥ ||

126.1१२६.१

नवमः प्रकारःसंचूर्ण्य माक्षिकं शुद्धं मर्द्यमम्लेन केनचित् । (१२६।१)

navamaḥ prakāraḥsaṃcūrṇya mākṣikaṃ śuddhaṃ mardyamamlena kenacit |

126.2१२६.२

क्षालयेदारनालेन ह्यधःस्थं स्वर्णचूर्णवत् ॥ (१२६।२)

kṣālayedāranālena hyadhaḥsthaṃ svarṇacūrṇavat ||

127.1१२७.१

जारयेत्तत्समाहृत्य धमेत् सत्त्वं विमुञ्चति । (१२७।१)

jārayettatsamāhṛtya dhamet sattvaṃ vimuñcati |

127.2१२७.२

योजयेद्वापने चेदं बीजानां यत्र यत्र वै ॥ (१२७।२)

yojayedvāpane cedaṃ bījānāṃ yatra yatra vai ||

128.1१२८.१

दशमः प्रकारःकदलीपत्रजैर्नीरैर्माक्षिकं भावयेद्द्रुतम् । (१२८।१)

daśamaḥ prakāraḥkadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam |

128.2१२८.२

गन्धर्वतैलमध्वाज्यैः पक्वमेकदिनं ततः ॥ (१२८।२)

gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ ||

129.1१२९.१

तत्ताप्यं वज्रमूषायां पक्वायां निक्षिपेत्ततः । (१२९।१)

tattāpyaṃ vajramūṣāyāṃ pakvāyāṃ nikṣipettataḥ |

129.2१२९.२

लोहसंधानकरणं तत्समं तत्र निक्षिपेत् ॥ (१२९।२)

lohasaṃdhānakaraṇaṃ tatsamaṃ tatra nikṣipet ||

130.1१३०.१

दृढं प्रमूकमूषायां कोष्ठिकायां निवेशयेत् । (१३०।१)

dṛḍhaṃ pramūkamūṣāyāṃ koṣṭhikāyāṃ niveśayet |

130.2१३०.२

अङ्गारैः खदिरोद्भूतैर् धमेद्भस्त्राद्वयेन वै ॥ (१३०।२)

aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai ||

131.1१३१.१

वङ्कनालयुजा सत्त्वं ताप्यस्य पतति ध्रुवम् । (१३१।१)

vaṅkanālayujā sattvaṃ tāpyasya patati dhruvam |

131.2१३१.२

माणिवन्ध्यं वैष्णवं च गृह्णीयात्समभागतः ॥ (१३१।२)

māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ ||

132.1१३२.१

फलपूररसैः पिष्ट्वा सम्पुटे सुदृढं क्षिपेत् । (१३२।१)

phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet |

132.2१३२.२

सम्यग्लिप्त्वा वनोद्भूतैश्छाणकैः पुटयेत्ततः ॥ (१३२।२)

samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ ||

133.1१३३.१

कुकुप्तोत्थं तदाकृष्यं स्वांगशीतं प्रमर्दयेत् । (१३३।१)

kukuptotthaṃ tadākṛṣyaṃ svāṃgaśītaṃ pramardayet |

133.2१३३.२

फलपूररसैः पक्वैर्मर्दयित्वाथ पूर्ववत् ॥ (१३३।२)

phalapūrarasaiḥ pakvairmardayitvātha pūrvavat ||

134.1१३४.१

पुटनं छगणेनैव तावत्कुर्याद्विचक्षणः । (१३४।१)

puṭanaṃ chagaṇenaiva tāvatkuryādvicakṣaṇaḥ |

134.2१३४.२

यावत्तत्पुटितं कल्कं फलपूराम्लमर्दितम् ॥ (१३४।२)

yāvattatpuṭitaṃ kalkaṃ phalapūrāmlamarditam ||

135.1१३५.१

शाणोत्तेजितनिस्त्रिंशलिप्तं तत्ताम्रताम् इयात् । (१३५।१)

śāṇottejitanistriṃśaliptaṃ tattāmratām iyāt |

135.2१३५.२

इत्थं शुद्धं च गरुडं टङ्कणं नीरजं रसम् ॥ (१३५।२)

itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam ||

136.1१३६.१

घृतेन मधुना युक्तं सगुडं गुञ्जया समम् । (१३६।१)

ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam |

136.2१३६.२

प्राग्वन्मूषागतं कृत्वा धमेत्तत् खदिराग्निना ॥ (१३६।२)

prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā ||

137.1१३७.१

मृदुसत्त्वं नागसमम् इन्द्रगोपकसन्निभम् । (१३७।१)

mṛdusattvaṃ nāgasamam indragopakasannibham |

137.2१३७.२

पतत्येव न संदेहः सर्वज्ञवचनं तथा ॥ (१३७।२)

patatyeva na saṃdehaḥ sarvajñavacanaṃ tathā ||

138.1१३८.१

शुक्लदीप्तिरशब्दश्च यदा वैश्वानरो भवेत् । (१३८।१)

śukladīptiraśabdaśca yadā vaiśvānaro bhavet |

138.2१३८.२

तदा तु सत्त्वं पतितं जानीयान्नान्यथा क्वचित् ॥ (१३८।२)

tadā tu sattvaṃ patitaṃ jānīyānnānyathā kvacit ||

139.1१३९.१

माक्षिकस्य गुणाःकषायतिक्तमधुरं कटुकं माक्षिकद्वयम् । (१३९।१)

mākṣikasya guṇāḥkaṣāyatiktamadhuraṃ kaṭukaṃ mākṣikadvayam |

139.2१३९.२

उष्णं रसायनं कुष्ठशोषहिध्मावमिप्रणुत् ॥ (१३९।२)

uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut ||

140.1१४०.१

माक्षीकधातुः सकलामयघ्नः प्राणो रसेन्द्रस्य परं हि वृष्यः । (१४०।१)

mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ |

140.2१४०.२

दुर्मेललोहद्वयमेलकश्च गुणोत्तरः पूर्वरसायनाग्र्यः ॥ (१४०।२)

durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ ||

141.1१४१.१

अभ्रकमुत्पत्त्यादि घनस्यादौ कथितं तद्रसायने । (१४१।१)

abhrakamutpattyādi ghanasyādau kathitaṃ tadrasāyane |

141.2१४१.२

अधुना सम्प्रवक्ष्यामि तत्क्रियास् तद्गुणानपि ॥ (१४१।२)

adhunā sampravakṣyāmi tatkriyās tadguṇānapi ||

142.1१४२.१

अभ्रकभस्मविधिः; प्रथमः प्रकारःधान्याभ्रकं मेघनादद्रवैः संमर्दयेद् दिनम् । (१४२।१)

abhrakabhasmavidhiḥ; prathamaḥ prakāraḥdhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam |

142.2१४२.२

शतांशं टङ्कणं दत्त्वा ततो गजपुटे पचेत् ॥ (१४२।२)

śatāṃśaṃ ṭaṅkaṇaṃ dattvā tato gajapuṭe pacet ||

143.1१४३.१

मुस्तासूरणवर्षाभूरसैर् व्यस्तैः पुटं त्रिधा । (१४३।१)

mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā |

143.2१४३.२

कासमर्दरसैः पञ्च वरागोमूत्रकैरपि ॥ (१४३।२)

kāsamardarasaiḥ pañca varāgomūtrakairapi ||

144.1१४४.१

न्यग्रोधस्य जटाक्वाथैर् मर्द्यं दशपुटं पुनः । (१४४।१)

nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ |

144.2१४४.२

षट् च जम्बीरनीरेण गोक्षीरेण पुटत्रयम् ॥ (१४४।२)

ṣaṭ ca jambīranīreṇa gokṣīreṇa puṭatrayam ||

145.1१४५.१

पेषणं घर्मपाकं च स्थालीपाकं पुटं क्रमात् । (१४५।१)

peṣaṇaṃ gharmapākaṃ ca sthālīpākaṃ puṭaṃ kramāt |

145.2१४५.२

कुर्याच्चत्वारि कर्माणि टङ्कणं च पुटे पुटे ॥ (१४५।२)

kuryāccatvāri karmāṇi ṭaṅkaṇaṃ ca puṭe puṭe ||

146.1१४६.१

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् । (१४६।१)

niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet |

146.2१४६.२

अयं सामान्यसंस्कारो विशेषस्तु निगद्यते ॥ (१४६।२)

ayaṃ sāmānyasaṃskāro viśeṣastu nigadyate ||

147.1१४७.१

भस्मीकरणे विशिष्टसंस्कारःनिश्चन्द्रकं मृतव्योम सामान्यसंस्कृतम् । (१४७।१)

bhasmīkaraṇe viśiṣṭasaṃskāraḥniścandrakaṃ mṛtavyoma sāmānyasaṃskṛtam |

147.2१४७.२

तत्तद्रोगहरद्रव्यक्वाथैः पिष्ट्वा पुटे पचेत् ॥ (१४७।२)

tattadrogaharadravyakvāthaiḥ piṣṭvā puṭe pacet ||

148.1१४८.१

यन्त्रैस्त्रिः सप्तधा कुर्यात्तत्तद्रोगहरं भवेत् । (१४८।१)

yantraistriḥ saptadhā kuryāttattadrogaharaṃ bhavet |

148.2१४८.२

अयं विशेषसंस्कारस्तत्तद्रोगहरो भवेत् ॥ (१४८।२)

ayaṃ viśeṣasaṃskārastattadrogaharo bhavet ||

149.1१४९.१

पूर्वाह्ने पेषणं कार्यं मध्याह्ने घर्मपाचनम् । (१४९।१)

pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam |

149.2१४९.२

सायाह्ने स्थालिकापाकं कुर्याद् रात्रौ पुटं क्रमात् ॥ (१४९।२)

sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt ||

150.1१५०.१

संस्कारः पञ्चधा प्रोक्तो घनस्य परमेश्वरि । (१५०।१)

saṃskāraḥ pañcadhā prokto ghanasya parameśvari |

150.2१५०.२

धान्याभ्रकरणं सत्त्वपातनं निर्मलक्रिया ॥ (१५०।२)

dhānyābhrakaraṇaṃ sattvapātanaṃ nirmalakriyā ||

151.1१५१.१

सुमृतीकरणं चैव त्वमृतीकरणं तथा । (१५१।१)

sumṛtīkaraṇaṃ caiva tvamṛtīkaraṇaṃ tathā |

151.2१५१.२

मारणे घनसत्त्वस्य घनपत्रस्य मारणे ॥ (१५१।२)

māraṇe ghanasattvasya ghanapatrasya māraṇe ||

152.1१५२.१

क्रमाच्छ्रेष्ठतमौ प्रोक्तौ शस्तौ दरदटङ्कणौ । (१५२।१)

kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau |

152.2१५२.२

द्वितीयः प्रकारःमुस्ताक्वाथेन धान्याभ्रं पञ्चविंशत्पुटे पचेत् ॥ (१५२।२)

dvitīyaḥ prakāraḥmustākvāthena dhānyābhraṃ pañcaviṃśatpuṭe pacet ||

153.1१५३.१

गोमूत्रैश्च तथा क्वाथैस्त्रिफलायाः सुरेश्वरि । (१५३।१)

gomūtraiśca tathā kvāthaistriphalāyāḥ sureśvari |

153.2१५३.२

कासमर्दद्रवैरेकं गोक्षीरेण पुटं त्रिधा ॥ (१५३।२)

kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā ||

154.1१५४.१

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् । (१५४।१)

niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet |

154.2१५४.२

विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ (१५४।२)

viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet ||

155.1१५५.१

तृतीयः प्रकारःधान्याभ्रकस्य भागैकं भागौ द्वौ टङ्कणस्य च । (१५५।१)

tṛtīyaḥ prakāraḥdhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca |

155.2१५५.२

पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥ (१५५।२)

piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet ||

156.1१५६.१

स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत् । (१५६।१)

svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet |

156.2१५६.२

विशेषसंस्कारयुतं तत्तद्रोगहरं भवेत् ॥ (१५६।२)

viśeṣasaṃskārayutaṃ tattadrogaharaṃ bhavet ||

157.1१५७.१

चतुर्थः प्रकारःधान्याभ्रं मर्दयेदम्लैर्घर्मे संस्थापयेत्ततः । (१५७।१)

caturthaḥ prakāraḥdhānyābhraṃ mardayedamlairgharme saṃsthāpayettataḥ |

157.2१५७.२

पुटं कुर्यात्ततोऽम्लेन सेचनं मर्दनं पुनः ॥ (१५७।२)

puṭaṃ kuryāttato'mlena secanaṃ mardanaṃ punaḥ ||

158.1१५८.१

विंशद्वारं ततो दुग्धे पुटनिस्तब्धम् अभ्रकम् । (१५८।१)

viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam |

158.2१५८.२

क्षिपेत्तं मर्दयेद्दुग्धैर् दुग्धे क्षिप्त्वातपे न्यसेत् ॥ (१५८।२)

kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset ||

159.1१५९.१

पुटं त्रिः सप्तवाराणि कुर्यादेवं पुनः पुनः । (१५९।१)

puṭaṃ triḥ saptavārāṇi kuryādevaṃ punaḥ punaḥ |

159.2१५९.२

तण्डुलं वज्रवल्ली च तालमूली पुनर्नवा ॥ (१५९।२)

taṇḍulaṃ vajravallī ca tālamūlī punarnavā ||

160.1१६०.१

शार्ङ्गेरी मरिचं चैव बला च पयसा सह । (१६०।१)

śārṅgerī maricaṃ caiva balā ca payasā saha |

160.2१६०.२

पूर्वाभ्रं पेषयेदेतैः प्रत्येकैश्च त्र्यहं त्र्यहम् ॥ (१६०।२)

pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham ||

161.1१६१.१

क्षिप्त्वातपे पुटे पच्यात्प्रत्येकेन पुनः पुनः । (१६१।१)

kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ |

161.2१६१.२

एवं निश्चन्द्रकं व्योम कज्जलाभं मृतं भवेत् ॥ (१६१।२)

evaṃ niścandrakaṃ vyoma kajjalābhaṃ mṛtaṃ bhavet ||

162.1१६२.१

पञ्चमः प्रकारःधान्याभ्रकस्य शुष्कस्य दशांशं मरिचं क्षिपेत् । (१६२।१)

pañcamaḥ prakāraḥdhānyābhrakasya śuṣkasya daśāṃśaṃ maricaṃ kṣipet |

162.2१६२.२

पेषयेदम्लवर्गेण अम्लैर्भाव्यं दिनत्रयम् ॥ (१६२।२)

peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam ||

163.1१६३.१

तच्छुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर्दृढम् । (१६३।१)

tacchuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakairdṛḍham |

163.2१६३.२

ऊर्ध्वपात्रे निवार्याथ सिञ्चेदम्लेन केन तम् ॥ (१६३।२)

ūrdhvapātre nivāryātha siñcedamlena kena tam ||

164.1१६४.१

धान्यं तत्रैव षड्वारमम्लैः सिञ्च्यात्पुनः पुनः । (१६४।१)

dhānyaṃ tatraiva ṣaḍvāramamlaiḥ siñcyātpunaḥ punaḥ |

164.2१६४.२

अगस्त्यशिग्रुवर्षाभूमूलपत्रभवै रसैः ॥ (१६४।२)

agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ ||

165.1१६५.१

पिष्ट्वाभ्रं सेचयेत्तेन षड्धा धाम्यं च सेचयेत् । (१६५।१)

piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet |

165.2१६५.२

सितामध्वाज्यगोक्षीरैस् तद्धौतं पेष्यमभ्रकम् ॥ (१६५।२)

sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam ||

166.1१६६.१

रुद्ध्वा षड्भिः पुटैः पाच्यं पिष्ट्वा चैव पुनः पुनः । (१६६।१)

ruddhvā ṣaḍbhiḥ puṭaiḥ pācyaṃ piṣṭvā caiva punaḥ punaḥ |

166.2१६६.२

मत्स्याक्ष्याश्चैकवीराया द्रवैः पिष्ट्वा त्रिधा पचेत् ॥ (१६६।२)

matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet ||

167.1१६७.१

एवं गजपुटैः पाच्यं निश्चन्द्रमयते ऽभ्रकम् । (१६७।१)

evaṃ gajapuṭaiḥ pācyaṃ niścandramayate 'bhrakam |

167.2१६७.२

पत्त्राभ्रकस्य सिन्दूरं सर्वयोगेषु योजयेत् ॥ (१६७।२)

pattrābhrakasya sindūraṃ sarvayogeṣu yojayet ||

168.1१६८.१

षष्ठः प्रकारःधान्याभ्रं मर्दयेद्यामं मत्स्याक्षीस्वरसैस्ततः । (१६८।१)

ṣaṣṭhaḥ prakāraḥdhānyābhraṃ mardayedyāmaṃ matsyākṣīsvarasaistataḥ |

168.2१६८.२

पचेद्गजपुटैरेवं सप्तधा तुलसीरसैः ॥ (१६८।२)

pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ ||

169.1१६९.१

कोकिलाक्षरसैः सप्त कुमारीस्वरसैस्तथा । (१६९।१)

kokilākṣarasaiḥ sapta kumārīsvarasaistathā |

169.2१६९.२

श्वेतदूर्वारसैस्तद्वद्व्याघ्रीकन्दरसैस्तथा ॥ (१६९।२)

śvetadūrvārasaistadvadvyāghrīkandarasaistathā ||

170.1१७०.१

पुनर्नवारसैः सप्त तद्वत् पञ्चामृतैस् ततः । (१७०।१)

punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ |

170.2१७०.२

निश्चन्द्रं जायते ह्यभ्रं सर्वयोगेषु योजयेत् ॥ (१७०।२)

niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet ||

171.1१७१.१

सप्तमः प्रकारःधान्याभ्रं टङ्कणं तुल्यं गोमूत्रैस्तुलसीद्रवैः । (१७१।१)

saptamaḥ prakāraḥdhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ |

171.2१७१.२

वाकुच्या सूरणैर्नाल्या दिनं पिष्ट्वा पुटे पचेत् ॥ (१७१।२)

vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet ||

172.1१७२.१

द्रवैः पुनः पुनः पिष्ट्वा दिनान्तेषु पुटे पचेत् ॥ (१७२।१)

dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet ||

173.1१७३.१

रुद्ध्वा रुद्ध्वा पुटैस्त्वेवं निश्चन्द्रं चाभ्रकं भवेत् । (१७३।१)

ruddhvā ruddhvā puṭaistvevaṃ niścandraṃ cābhrakaṃ bhavet |

173.2१७३.२

अष्टमः प्रकारःपिष्ट्वा साम्लारनालेन पेटालीमूलजत्वचम् ॥ (१७३।२)

aṣṭamaḥ prakāraḥpiṣṭvā sāmlāranālena peṭālīmūlajatvacam ||

174.1१७४.१

तद्द्रवैर्मर्दयेदभ्रं दिनं गजपुटे पचेत् । (१७४।१)

taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet |

174.2१७४.२

एवं सप्तपुटं कार्यं दध्ना च पुटसप्तकम् ॥ (१७४।२)

evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam ||

175.1१७५.१

यवचिञ्चाद्रवैस्तद्वन्निश्चन्द्रं जायतेऽभ्रकम् । (१७५।१)

yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam |

175.2१७५.२

नवमः प्रकारःधान्याभ्रकं रविक्षीरै रविमूलद्रवैश्च वा ॥ (१७५।२)

navamaḥ prakāraḥdhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā ||

176.1१७६.१

मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम् । (१७६।१)

mardyaṃ mardyaṃ puṭe pacyātsaptadhā mriyate dhruvam |

176.2१७६.२

दशमः प्रकारःधान्याभ्रकं तुषाम्लान्तरातपे स्थापयेद्दिनम् ॥ (१७६।२)

daśamaḥ prakāraḥdhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam ||

177.1१७७.१

यामं मर्द्यं तु तद्गोलं रुद्ध्वा गजपुटे पचेत् । (१७७।१)

yāmaṃ mardyaṃ tu tadgolaṃ ruddhvā gajapuṭe pacet |

177.2१७७.२

एवं कार्पासतोयान्तः स्थाप्यं पाच्यं पुटे पचेत् ॥ (१७७।२)

evaṃ kārpāsatoyāntaḥ sthāpyaṃ pācyaṃ puṭe pacet ||

178.1१७८.१

एवं गोक्षीरमध्यस्थं स्थाप्यं पेष्यं पुटे पचेत् । (१७८।१)

evaṃ gokṣīramadhyasthaṃ sthāpyaṃ peṣyaṃ puṭe pacet |

178.2१७८.२

पश्चादम्लैश्च गोक्षीरैः कार्पासैश्च पुनः पुनः ॥ (१७८।२)

paścādamlaiśca gokṣīraiḥ kārpāsaiśca punaḥ punaḥ ||

179.1१७९.१

घर्मपाकं मर्दनं च स्थालीपाकं पुटं क्रमात् । (१७९।१)

gharmapākaṃ mardanaṃ ca sthālīpākaṃ puṭaṃ kramāt |

179.2१७९.२

एकविंशत्पुटे प्राप्ते निश्चन्द्रं जायतेऽभ्रकम् ॥ (१७९।२)

ekaviṃśatpuṭe prāpte niścandraṃ jāyate'bhrakam ||

180.1१८०.१

सर्वेषां घातिताभ्राणाम् अमृतीकरणे विधिः । (१८०।१)

sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ |

180.2१८०.२

अभ्रकस्य गुणाःअभ्रकं गगनं भृङ्गं बहुपुत्रम् उमाभवम् ॥ (१८०।२)

abhrakasya guṇāḥabhrakaṃ gaganaṃ bhṛṅgaṃ bahuputram umābhavam ||

181.1१८१.१

पत्राभ्रकस्य सिन्दूरममृतं परमं हितम् । (१८१।१)

patrābhrakasya sindūramamṛtaṃ paramaṃ hitam |

181.2१८१.२

त्रिदोषघ्नं बलकरं वृष्यमारोग्यदं शुचि ॥ (१८१।२)

tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci ||

182.1१८२.१

सर्वरोगहरं सौम्यं विषघ्नं च रसायनम् । (१८२।१)

sarvarogaharaṃ saumyaṃ viṣaghnaṃ ca rasāyanam |

182.2१८२.२

चिन्नबर्:: स्य्नोन्य्म्स्हिङ्गुलो दरदं चूर्णपारदश्च रसोद्भवः ॥ (१८२।२)

cinnabar:: synonymshiṅgulo daradaṃ cūrṇapāradaśca rasodbhavaḥ ||

183.1१८३.१

रसगर्भः सुरङ्गश्च लोहघ्नः सिद्धिपारदः । (१८३।१)

rasagarbhaḥ suraṅgaśca lohaghnaḥ siddhipāradaḥ |

183.2१८३.२

चिन्नबर्:: सुब्त्य्पेस्हिङ्गुलस्त्रिविधो ज्ञेयश्चर्मारः शुकतुण्डकः ॥ (१८३।२)

cinnabar:: subtypeshiṅgulastrividho jñeyaścarmāraḥ śukatuṇḍakaḥ ||

184.1१८४.१

हंसपादश्च तत्राद्यं तारकर्मणि योजयेत् । (१८४।१)

haṃsapādaśca tatrādyaṃ tārakarmaṇi yojayet |

184.2१८४.२

अधमं तं विजानीयाच्छुकतुण्डं च मध्यमम् ॥ (१८४।२)

adhamaṃ taṃ vijānīyācchukatuṇḍaṃ ca madhyamam ||

185.1१८५.१

हेमतारक्रियामार्गे योजयेत्परमेश्वरि । (१८५।१)

hematārakriyāmārge yojayetparameśvari |

185.2१८५.२

हंसपादो महाश्रेष्ठः सर्वकर्मकरो हि सः ॥ (१८५।२)

haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ ||

186.1१८६.१

तस्य सत्त्वं सूत एव दरदस्य त्रिभेदतः । (१८६।१)

tasya sattvaṃ sūta eva daradasya tribhedataḥ |

186.2१८६.२

शुकतुण्ड:: फ्य्स्। प्रोपेर्तिएस्हेमकिट्टस्य सदृशस्तद्रूपस् तीक्ष्णमारकः ॥ (१८६।२)

śukatuṇḍa:: phys. propertieshemakiṭṭasya sadṛśastadrūpas tīkṣṇamārakaḥ ||

187.1१८७.१

चर्मारस्तीक्ष्णरूपः स्यात्सुप्रीतः शुकतुण्डकः । (१८७।१)

carmārastīkṣṇarūpaḥ syātsuprītaḥ śukatuṇḍakaḥ |

187.2१८७.२

हंसपाद:: प्रोपेर्तिएस्जपाकुसुमसङ्काशो हंसपादो महोत्तमः ॥ (१८७।२)

haṃsapāda:: propertiesjapākusumasaṅkāśo haṃsapādo mahottamaḥ ||

188.1१८८.१

रसायने सर्वसूतहरणे सर्वरञ्जने । (१८८।१)

rasāyane sarvasūtaharaṇe sarvarañjane |

188.2१८८.२

लोहानां मारणे श्रेष्ठो वर्णोत्कर्षणकर्मणि ॥ (१८८।२)

lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi ||

189.1१८९.१

रसकस्य तथा रागबन्धे धौरेयकः स्मृतः । (१८९।१)

rasakasya tathā rāgabandhe dhaureyakaḥ smṛtaḥ |

189.2१८९.२

मलदोषादिकं नास्ति सर्वकार्येषु पूज्यते ॥ (१८९।२)

maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate ||

190.1१९०.१

हिङ्गुलशुद्धिःमेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । (१९०।१)

hiṅgulaśuddhiḥmeṣīkṣīreṇa daradamamlavargaiśca bhāvitam |

190.2१९०.२

सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ॥ (१९०।२)

saptavāraṃ prayatnena śuddhimāyāti niścitam ||

191.1१९१.१

चिन्नबर्:: सत्त्वपातनम्दरदं पातनायन्त्रे पातितं च जलाशये । (१९१।१)

cinnabar:: sattvapātanamdaradaṃ pātanāyantre pātitaṃ ca jalāśaye |

191.2१९१.२

सत्त्वं सूतकसङ्काशं विमुञ्चति न संशयः ॥ (१९१।२)

sattvaṃ sūtakasaṅkāśaṃ vimuñcati na saṃśayaḥ ||

192.1१९२.१

हिङ्गुलस्य गुणाःये गुणाः पारदे प्रोक्तास्ते गुणाः सन्ति हिङ्गुले । (१९२।१)

hiṅgulasya guṇāḥye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule |

192.2१९२.२

नवज्वरहरः प्रोक्तः सम्पातज्वरनाशनः ॥ (१९२।२)

navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ ||

193.1१९३.१

गैरिकम्गैरिकं गिरिधातुः स्याद्रक्तधातुर्गवेधुकम् । (१९३।१)

gairikamgairikaṃ giridhātuḥ syādraktadhāturgavedhukam |

193.2१९३.२

गैरिक:: सुब्त्य्पेस्गैरिकं द्विविधं प्रोक्तं तत्राद्यं स्वर्णगैरिकम् ॥ (१९३।२)

gairika:: subtypesgairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam ||

194.1१९४.१

पाषाणगैरिकं चान्यत्पूर्वं श्रेष्ठतमं गुणैः । (१९४।१)

pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ |

194.2१९४.२

गैरिकस्य गुणाःशोणितं मसृणं स्निग्धं स्वादु वृष्यं हिमं लघु ॥ (१९४।२)

gairikasya guṇāḥśoṇitaṃ masṛṇaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu ||

195.1१९५.१

चक्षुष्यं रक्तपित्तघ्नं विषहिध्मावमिप्रणुत् । (१९५।१)

cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut |

195.2१९५.२

तापज्वरहरं श्रेष्ठं हेमघ्नं रक्तगैरिकम् ॥ (१९५।२)

tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam ||

196.1१९६.१

पाषाणगैरिक:: फ्य्स्। प्रोपेर्तिएस्पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् । (१९६।१)

pāṣāṇagairika:: phys. propertiespāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam |

196.2१९६.२

चपलःदेहवेधी लोहवेधी चपला रसबन्धिनी ॥ (१९६।२)

capalaḥdehavedhī lohavedhī capalā rasabandhinī ||

197.1१९७.१

चपला बहुभेदा च सर्वलोहस्वरूपतः । (१९७।१)

capalā bahubhedā ca sarvalohasvarūpataḥ |

197.2१९७.२

हेमस्तारो रविमयः सीसात्मा वङ्गरूपधृक् ॥ (१९७।२)

hemastāro ravimayaḥ sīsātmā vaṅgarūpadhṛk ||

198.1१९८.१

तीक्ष्णरूपः कांस्यरूपो रक्तो विषमयस्तथा । (१९८।१)

tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā |

198.2१९८.२

चपलस्वरूपम्सत्त्वलोहस्वरूपास्ते विषो हरितलोहभाक् ॥ (१९८।२)

capalasvarūpamsattvalohasvarūpāste viṣo haritalohabhāk ||

199.1१९९.१

विषाख्यं चपलं प्राप्य निर्जीवे तस्य दापयेत् । (१९९।१)

viṣākhyaṃ capalaṃ prāpya nirjīve tasya dāpayet |

199.2१९९.२

पुटेनारण्यजैश् छाणैः सधूमं सर्वथा त्यजेत् ॥ (१९९।२)

puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet ||

200.1२००.१

नश्येत तस्य धूमं वै स्पर्शनं दूरतस्त्यजेत् । (२००।१)

naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet |

200.2२००.२

अशनात्तस्य संस्पर्शान्म्रियते सद्य एव हि ॥ (२००।२)

aśanāttasya saṃsparśānmriyate sadya eva hi ||

201.1२०१.१

धूमावलोकनाच्छीर्षपीडा संजायते ज्वरः । (२०१।१)

dhūmāvalokanācchīrṣapīḍā saṃjāyate jvaraḥ |

201.2२०१.२

एवं दत्तपुटे शान्ते गृह्णीयाच्चपलं ततः ॥ (२०१।२)

evaṃ dattapuṭe śānte gṛhṇīyāccapalaṃ tataḥ ||

202.1२०२.१

चपलस्य गुणाःतस्य संस्पर्शमात्रेण हीरको म्रियते क्षणात् । (२०२।१)

capalasya guṇāḥtasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt |

202.2२०२.२

सर्वेषां चपलानां वै स्वभावः समुदाहृतः ॥ (२०२।२)

sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ ||

203.1२०३.१

वङ्गस्तम्भे नागराजे क्रमे वातीव शस्यते । (२०३।१)

vaṅgastambhe nāgarāje krame vātīva śasyate |

203.2२०३.२

सर्वलोहानि कुर्वन्ति सुवर्णं तारमेव च ॥ (२०३।२)

sarvalohāni kurvanti suvarṇaṃ tārameva ca ||

204.1२०४.१

युक्त्याथ शोधितः सूते विना बीजं च वा तथा । (२०४।१)

yuktyātha śodhitaḥ sūte vinā bījaṃ ca vā tathā |

204.2२०४.२

शतं वापि सहस्रं वा लक्षं कोटिं च वेधयेत् ॥ (२०४।२)

śataṃ vāpi sahasraṃ vā lakṣaṃ koṭiṃ ca vedhayet ||

205.1२०५.१

वज्रेण रसराजेन बीजेन च समाश्रिता । (२०५।१)

vajreṇa rasarājena bījena ca samāśritā |

205.2२०५.२

धूमतो वेधयेल्लोहान् रसजीर्णः स्वयं गलेत् ॥ (२०५।२)

dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet ||

206.1२०६.१

निष्पत्य तेन देहस्य चपलेन महात्मना । (२०६।१)

niṣpatya tena dehasya capalena mahātmanā |

206.2२०६.२

शिलाजतुअश्मजं गिरिजं शैलमश्मलाक्षा शिलाजतु ॥ (२०६।२)

śilājatuaśmajaṃ girijaṃ śailamaśmalākṣā śilājatu ||

207.1२०७.१

शिलाजतु:: सुब्त्य्पेस्शिलाधातुर्द्विधा प्रोक्तो गोमूत्राद्यो रसायनम् । (२०७।१)

śilājatu:: subtypesśilādhāturdvidhā prokto gomūtrādyo rasāyanam |

207.2२०७.२

कर्पूरपूर्वकश्चान्यस्तत्राद्यो द्विविधः स्मृतः ॥ (२०७।२)

karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ ||

208.1२०८.१

ससत्त्वश्चैव निःसत्त्वस्तयोः पूर्वो गुणाधिकः । (२०८।१)

sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ |

208.2२०८.२

ग्रीष्मे तीव्रार्कतप्तेभ्यः पादेभ्यो हिमभूभृतः ॥ (२०८।२)

grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ ||

209.1२०९.१

स्वर्णरूप्यार्कगर्भेभ्यः शिलाधातुर् विनिःसरेत् । (२०९।१)

svarṇarūpyārkagarbhebhyaḥ śilādhātur viniḥsaret |

209.2२०९.२

शिलाजतोर्गुणाःस्वर्णगर्भगिरेर् जातं जपापुष्पनिभं गुरु ॥ (२०९।२)

śilājatorguṇāḥsvarṇagarbhagirer jātaṃ japāpuṣpanibhaṃ guru ||

210.1२१०.१

ससत्त्वं स्वादु परमं परमं तद्रसायनम् । (२१०।१)

sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam |

210.2२१०.२

रूप्यगर्भगिरेर्जातं मधुरं पाण्डुरं गुरु ॥ (२१०।२)

rūpyagarbhagirerjātaṃ madhuraṃ pāṇḍuraṃ guru ||

211.1२११.१

शिलाजं पाण्डुरोगघ्नं विशेषात्पित्तरोगजित् । (२११।१)

śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit |

211.2२११.२

ताम्रगर्भगिरेर्जातं नीलवर्णं घनं गुरु ॥ (२११।२)

tāmragarbhagirerjātaṃ nīlavarṇaṃ ghanaṃ guru ||

212.1२१२.१

शिलाजं कफवातघ्नं तीक्ष्णोष्णं दीपनं परम् । (२१२।१)

śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param |

212.2२१२.२

वह्नौ क्षिप्तं भवेद्यत्तल्लिङ्गाकारं ह्यधूमकम् ॥ (२१२।२)

vahnau kṣiptaṃ bhavedyattalliṅgākāraṃ hyadhūmakam ||

213.1२१३.१

सलिलेऽप्यवलीनं च तत्सिद्धं हि शिलाजतु । (२१३।१)

salile'pyavalīnaṃ ca tatsiddhaṃ hi śilājatu |

213.2२१३.२

गोमूत्रगन्धि कृष्णं गुग्गुलुकाभं सशर्करं मृत्स्नम् । (२१३।२)

gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam |

213.3२१३.३

स्निग्धमनम्लकषायं मृदु गुरु च शिलाजतु श्रेष्ठम् ॥ (२१३।३)

snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham ||

214.1२१४.१

सर्वं च तिक्तकटुकं स्वादु नात्युष्णशीतलम् ॥ (२१४।१)

sarvaṃ ca tiktakaṭukaṃ svādu nātyuṣṇaśītalam ||

215.1२१५.१

वृष्यं त्रिदोषजिद्भेदि चक्षुष्यं च रसायनम् । (२१५।१)

vṛṣyaṃ tridoṣajidbhedi cakṣuṣyaṃ ca rasāyanam |

215.2२१५.२

क्षयशोफोदरार्शोघ्नं मेहमूत्रग्रहापहम् ॥ (२१५।२)

kṣayaśophodarārśoghnaṃ mehamūtragrahāpaham ||

216.1२१६.१

नूनं सज्वरपाण्डुशोफशमनं मेहाग्निमान्द्यापहं मेदश्छेदकरं च यक्ष्मशमनं मूलामयोन्मूलनम् । (२१६।१)

nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam |

216.2२१६.२

प्लीहविनाशनं जठरहृच्छूलघ्नम् आमापहं सर्वत्वग्गदनाशनं किमपरं देहे च लोहे हितम् ॥ (२१६।२)

plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam ||

217.1२१७.१

रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । (२१७।१)

rasoparasasūtendraratnaloheṣu ye guṇāḥ |

217.2२१७.२

वसन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ (२१७।२)

vasanti te śilādhātau jarāmṛtyujigīṣayā ||

218.1२१८.१

भूनागःभूनागः क्षितिनागश्च भूलता रक्तजन्तुकः । (२१८।१)

bhūnāgaḥbhūnāgaḥ kṣitināgaśca bhūlatā raktajantukaḥ |

218.2२१८.२

क्षितिजः क्षितिजन्तुश्च विषघ्नो रक्ततुण्डकः ॥ (२१८।२)

kṣitijaḥ kṣitijantuśca viṣaghno raktatuṇḍakaḥ ||

219.1२१९.१

यासां छेदे न रक्तं प्रभवति सततं प्रायशो रक्तभूमौ । (२१९।१)

yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau |

219.2२१९.२

संग्राह्या भूलतास्ता विषहरधनदं पातयेत्तासु सत्त्वम् । (२१९।२)

saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam |

219.3२१९.३

तद्युक्त्या पारदेन्द्रश्चरति यदि समं सारणायन्त्रयोगैः । (२१९।३)

tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ |

219.4२१९.४

बद्धोऽयं कोटिवेधी समरविरजते योजयेद्भास्करे वा ॥ (२१९।४)

baddho'yaṃ koṭivedhī samaravirajate yojayedbhāskare vā ||

220.1२२०.१

भूनागसत्त्वस्य गुणाःसत्त्वं भूनागजं क्ष्वेलयक्षराक्षसमृत्युजित् । (२२०।१)

bhūnāgasattvasya guṇāḥsattvaṃ bhūnāgajaṃ kṣvelayakṣarākṣasamṛtyujit |

220.2२२०.२

सर्ववश्यकरं सर्वरोगघ्नं च रसायनम् ॥ (२२०।२)

sarvavaśyakaraṃ sarvarogaghnaṃ ca rasāyanam ||

221.1२२१.१

रसेन्द्रे जारणाकर्मजारितं कोटिवेधकृत् । (२२१।१)

rasendre jāraṇākarmajāritaṃ koṭivedhakṛt |

221.2२२१.२

सुवर्णादीनि लोहानि रक्तानि ग्रसति क्षणात् ॥ (२२१।२)

suvarṇādīni lohāni raktāni grasati kṣaṇāt ||

222.1२२२.१

भूनागसत्त्वपातनम्; प्रथमः प्रकारःरक्तभूजातभूनागमृत्तिकां क्षालयेज्जलैः । (२२२।१)

bhūnāgasattvapātanam; prathamaḥ prakāraḥraktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ |

222.2२२२.२

यावत् सत्त्वावशेषं स्याद् धौतसत्त्वं तदेव हि ॥ (२२२।२)

yāvat sattvāvaśeṣaṃ syād dhautasattvaṃ tadeva hi ||

223.1२२३.१

मित्रपञ्चकयुक्तं तन्मूषायां धमयेद् दृढम् । (२२३।१)

mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham |

223.2२२३.२

निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ (२२३।२)

nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ ||

224.1२२४.१

एवं त्रिवारं धमनात्सत्त्वशेषं समाहरेत् । (२२४।१)

evaṃ trivāraṃ dhamanātsattvaśeṣaṃ samāharet |

224.2२२४.२

द्वितीयः प्रकारःभूनागमृत्तिकां भाण्डे भूनागैः सह निक्षिपेत् ॥ (२२४।२)

dvitīyaḥ prakāraḥbhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet ||

225.1२२५.१

षण्मासान्तं समान्तं वा जलैः सिञ्चेन्मुहुर्मुहुः । (२२५।१)

ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ |

225.2२२५.२

अस्य सत्त्वं विधानेन गृह्णीयाद् अभ्रसत्त्ववत् ॥ (२२५।२)

asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat ||

226.1२२६.१

तृतीयः प्रकारःरक्तभूमिजभूनागान् पञ्जरस्थेन बर्हिणा । (२२६।१)

tṛtīyaḥ prakāraḥraktabhūmijabhūnāgān pañjarasthena barhiṇā |

226.2२२६.२

भक्षयेत्तु शरत्काले नित्यं तन्मलमाहरेत् ॥ (२२६।२)

bhakṣayettu śaratkāle nityaṃ tanmalamāharet ||

227.1२२७.१

लाक्षासर्जरसः सर्जी गुग्गुलुर्मित्रपञ्चकम् । (२२७।१)

lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam |

227.2२२७.२

ऊर्णा क्षाराश्च पटवो नीलसर्पेन्द्रगोपकौ ॥ (२२७।२)

ūrṇā kṣārāśca paṭavo nīlasarpendragopakau ||

228.1२२८.१

मत्स्यश्च नीलसरटः कूर्मपृष्ठं शशास्थि च । (२२८।१)

matsyaśca nīlasaraṭaḥ kūrmapṛṣṭhaṃ śaśāsthi ca |

228.2२२८.२

माक्षीकं शिखिशंखतुत्थं च सर्वांशं बर्हिणो मलम् ॥ (२२८।२)

mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam ||

229.1२२९.१

सर्वं निक्षिप्य मूषायां धमेत् तीव्राग्निना दृढम् । (२२९।१)

sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham |

229.2२२९.२

निर्भिद्य मूषां तत्सत्त्वं गृहीत्वा किट्टकं पुनः ॥ (२२९।२)

nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ ||

230.1२३०.१

एवं त्रिवारधमनात् सत्त्वशेषं समाहरेत् । (२३०।१)

evaṃ trivāradhamanāt sattvaśeṣaṃ samāharet |

230.2२३०.२

हरिद्राश्माहरिद्राश्मा निशाग्रावः पीताङ्गः पीतकर्षणः ॥ (२३०।२)

haridrāśmāharidrāśmā niśāgrāvaḥ pītāṅgaḥ pītakarṣaṇaḥ ||

231.1२३१.१

तत्सत्त्वकं सितं स्वर्णं श्रेष्ठं रसरसायने । (२३१।१)

tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane |

231.2२३१.२

अग्निजारःअग्निजारोऽग्निनिर्यासोऽप्यग्निगर्भो ऽग्निजः स्मृतः ॥ (२३१।२)

agnijāraḥagnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ ||

232.1२३२.१

वडबाग्निमलो ज्ञेयो जरायुश्चार्णवोद्भवः । (२३२।१)

vaḍabāgnimalo jñeyo jarāyuścārṇavodbhavaḥ |

232.2२३२.२

अग्निज्वालोऽग्निजारश्च प्रोक्तः सिन्धुप्लवो दश ॥ (२३२।२)

agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa ||

233.1२३३.१

सामुद्रस्याग्निनक्रस्य जरायुर्बहिरुज्झितः । (२३३।१)

sāmudrasyāgninakrasya jarāyurbahirujjhitaḥ |

233.2२३३.२

संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः ॥ (२३३।२)

saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ ||

234.1२३४.१

जाराभं दहति स्पर्शात्पिच्छिलं सागरोत्प्लवम् । (२३४।१)

jārābhaṃ dahati sparśātpicchilaṃ sāgarotplavam |

234.2२३४.२

जरायुस्तच्चतुर्वर्णं श्रेष्ठं तेषु सलोहितम् ॥ (२३४।२)

jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam ||

235.1२३५.१

अग्निजारस्य गुणाःस्यादग्निजारः कटुकोष्णवीर्यः तुन्दामयघ्नः कफवातहारी । (२३५।१)

agnijārasya guṇāḥsyādagnijāraḥ kaṭukoṣṇavīryaḥ tundāmayaghnaḥ kaphavātahārī |

235.2२३५.२

पित्तप्रदः शोणितसन्निपातशूलादिवातामयनाशकश्च ॥ (२३५।२)

pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca ||

236.1२३६.१

अग्निजारस् त्रिदोषघ्नो धनुर्वातादिवातनुत् । (२३६।१)

agnijāras tridoṣaghno dhanurvātādivātanut |

236.2२३६.२

मर्दनो रसवीर्यस्य दीपनो जारणस्तथा ॥ (२३६।२)

mardano rasavīryasya dīpano jāraṇastathā ||

237.1२३७.१

खर्परी (रसकम्)खर्परी रसकं तुत्थखर्पर्यमृतसम्भवा । (२३७।१)

kharparī (rasakam)kharparī rasakaṃ tutthakharparyamṛtasambhavā |

237.2२३७.२

रसको द्विविधः प्रोक्तो दर्दुरः कारवेल्लकः ॥ (२३७।२)

rasako dvividhaḥ prokto darduraḥ kāravellakaḥ ||

238.1२३८.१

सदंशो दर्दुरः प्रोक्तो निर्दंशः कारवेल्लकः । (२३८।१)

sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ |

238.2२३८.२

सत्त्वपाते शुभः पूर्वो द्वितीयश्चौषधादिषु ॥ (२३८।२)

sattvapāte śubhaḥ pūrvo dvitīyaścauṣadhādiṣu ||

239.1२३९.१

घनसत्त्वनिभं बाह्ये शुभं हारिद्रवत्ततः । (२३९।१)

ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ |

239.2२३९.२

अच्छं खर्परवत् तुत्थम् उत्तमं सतोदरम् ॥ (२३९।२)

acchaṃ kharparavat tuttham uttamaṃ satodaram ||

240.1२४०.१

खर्पर्या गुणाःरसकः सर्वदोषघ्नः कफपित्तविनाशनः । (२४०।१)

kharparyā guṇāḥrasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ |

240.2२४०.२

चक्षूरोगक्षयघ्नश्च लोहपारदरञ्जनः ॥ (२४०।२)

cakṣūrogakṣayaghnaśca lohapāradarañjanaḥ ||

241.1२४१.१

नागार्जुनेन निर्दिष्टौ रसस्य रसकावुभौ । (२४१।१)

nāgārjunena nirdiṣṭau rasasya rasakāvubhau |

241.2२४१.२

श्रेष्ठौ सिद्धरसौ ख्यातौ देहलोहकरौ परौ ॥ (२४१।२)

śreṣṭhau siddharasau khyātau dehalohakarau parau ||

242.1२४२.१

रसश्च रसकश् चोभौ येनाग्निसहनौ कृतौ । (२४२।१)

rasaśca rasakaś cobhau yenāgnisahanau kṛtau |

242.2२४२.२

देहलोहमयीं सिद्धिं दास्यतस्तु न संशयः ॥ (२४२।२)

dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ ||

243.1२४३.१

खर्परीसत्त्वपातनम्जयन्तीत्रिफलाचूर्णं हरिद्रागुडटङ्कणम् । (२४३।१)

kharparīsattvapātanamjayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam |

243.2२४३.२

पादांशं रसकस्येदं पिष्ट्वा मूषाः प्रलेपयेत् ॥ (२४३।२)

pādāṃśaṃ rasakasyedaṃ piṣṭvā mūṣāḥ pralepayet ||

244.1२४४.१

नलिकासम्पुटं बद्ध्वा शोषयेद् आतपे खरे । (२४४।१)

nalikāsampuṭaṃ baddhvā śoṣayed ātape khare |

244.2२४४.२

ग्राह्यं पातालयन्त्रेण सत्त्वं ध्माते पुटेऽथ वा ॥ (२४४।२)

grāhyaṃ pātālayantreṇa sattvaṃ dhmāte puṭe'tha vā ||

245.1२४५.१

खर्परीशुद्धिःरजस्वलारजोमूत्रै रसकं भावयेद्दिनम् । (२४५।१)

kharparīśuddhiḥrajasvalārajomūtrai rasakaṃ bhāvayeddinam |

245.2२४५.२

तैरेव दिनमेकं तु मर्दयेच्छुद्धिमाप्नुयात् ॥ (२४५।२)

taireva dinamekaṃ tu mardayecchuddhimāpnuyāt ||

246.1२४६.१

मयूरतुत्थम्मयूरतुत्थं तुत्थं च नीलाश्मा ताम्रभस्म च । (२४६।१)

mayūratutthammayūratutthaṃ tutthaṃ ca nīlāśmā tāmrabhasma ca |

246.2२४६.२

मयूरग्रीवकं क्ष्वेडनाशनं सस्यकं प्रिये ॥ (२४६।२)

mayūragrīvakaṃ kṣveḍanāśanaṃ sasyakaṃ priye ||

247.1२४७.१

मयूरग्रीवसङ्काशं घृष्टे गोक्षीरसन्निभम् । (२४७।१)

mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham |

247.2२४७.२

अप्सु च प्लवते क्षिप्तमेतन्मायूरतुत्थकम् ॥ (२४७।२)

apsu ca plavate kṣiptametanmāyūratutthakam ||

248.1२४८.१

अथवा शुकपिच्छाभमन्तः काञ्चनबिन्दुभिः । (२४८।१)

athavā śukapicchābhamantaḥ kāñcanabindubhiḥ |

248.2२४८.२

अङ्कितं घर्षयेत्तुत्थम् आयसे चाम्लसंयुते ॥ (२४८।२)

aṅkitaṃ gharṣayettuttham āyase cāmlasaṃyute ||

249.1२४९.१

भवेद् अयस्ताम्रनिभम् एतन्मायूरतुत्थकम् । (२४९।१)

bhaved ayastāmranibham etanmāyūratutthakam |

249.2२४९.२

मयूरतुत्थशुद्धिःविष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः ॥ (२४९।२)

mayūratutthaśuddhiḥviṣṭhayā mardayettutthaṃ mārjārakakapotayoḥ ||

250.1२५०.१

दशांशं टङ्कणं दत्त्वा पाच्यं मृदुपुटे ततः । (२५०।१)

daśāṃśaṃ ṭaṅkaṇaṃ dattvā pācyaṃ mṛdupuṭe tataḥ |

250.2२५०.२

पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ (२५०।२)

puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye ||

251.1२५१.१

मयूरतुत्थसत्त्वपातनम्तुत्थं च टङ्कणं चैव तुल्यं श्लक्ष्णं विमर्दयेत् । (२५१।१)

mayūratutthasattvapātanamtutthaṃ ca ṭaṅkaṇaṃ caiva tulyaṃ ślakṣṇaṃ vimardayet |

251.2२५१.२

मूषायां तं विनिक्षिप्य रुद्ध्वा तीव्राग्निना धमेत् ॥ (२५१।२)

mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet ||

252.1२५२.१

इन्द्रगोपनिभं सत्त्वं पतत्येव न संशयः । (२५२।१)

indragopanibhaṃ sattvaṃ patatyeva na saṃśayaḥ |

252.2२५२.२

मयूरतुत्थस्य गुणाःतुत्थं कटुकषायोष्णं श्वित्रनेत्रामयापहम् ॥ (२५२।२)

mayūratutthasya guṇāḥtutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham ||

253.1२५३.१

विषदोषेषु सर्वेषु प्रशस्तं कान्तिकारकम् । (२५३।१)

viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam |

253.2२५३.२

कङ्कुष्ठ:: स्य्नोन्य्म्स्कङ्कुष्ठं काककुष्ठं च रेचकं रागदायकम् ॥ (२५३।२)

kaṅkuṣṭha:: synonymskaṅkuṣṭhaṃ kākakuṣṭhaṃ ca recakaṃ rāgadāyakam ||

254.1२५४.१

कङ्कुष्ठ:: सुब्त्य्पेस्कंकुष्ठं च द्विधा प्रोक्तं हेमतारात्मकं तथा । (२५४।१)

kaṅkuṣṭha:: subtypeskaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā |

254.2२५४.२

कङ्कुष्ठ:: मेदिच्। प्रोपेर्तिएस्व्रणजन्तुज्वरघ्नं च शूलोदावर्तगुल्महृत् ॥ (२५४।२)

kaṅkuṣṭha:: medic. propertiesvraṇajantujvaraghnaṃ ca śūlodāvartagulmahṛt ||

255.1२५५.१

गिरिसिन्दूरम्महागिरिषु चाल्लोव पाषाणान्तस्थितो रसः । (२५५।१)

girisindūrammahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ |

255.2२५५.२

शुष्कः शोणः स निर्दिष्टो गिरिसिन्दूरसंज्ञया ॥ (२५५।२)

śuṣkaḥ śoṇaḥ sa nirdiṣṭo girisindūrasaṃjñayā ||

256.1२५६.१

त्रिदोषशमनं भेदि रसबन्धनकारकम् । (२५६।१)

tridoṣaśamanaṃ bhedi rasabandhanakārakam |

256.2२५६.२

देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम् ॥ (२५६।२)

dehalohakaraṃ netryaṃ girisindūramīritam ||

257.1२५७.१

टङ्कणम्टङ्कणं टङ्कणक्षारो रसक्षारो रसाधिकः । (२५७।१)

ṭaṅkaṇamṭaṅkaṇaṃ ṭaṅkaṇakṣāro rasakṣāro rasādhikaḥ |

257.2२५७.२

लोहद्रावी रसघ्नश्च सुभगो रङ्गदश्च सः ॥ (२५७।२)

lohadrāvī rasaghnaśca subhago raṅgadaśca saḥ ||

258.1२५८.१

मालतीतीरसम्भूतः क्षारश्रेष्ठो नवाह्वयः । (२५८।१)

mālatītīrasambhūtaḥ kṣāraśreṣṭho navāhvayaḥ |

258.2२५८.२

अश्मरीमतिसारं च निहन्यात्स्थावरं विषम् ॥ (२५८।२)

aśmarīmatisāraṃ ca nihanyātsthāvaraṃ viṣam ||

259.1२५९.१

रससिद्धिकरः प्रोक्तो नागार्जुनपुरःसरैः । (२५९।१)

rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ |

259.2२५९.२

कम्पिल्लकःइष्टचूर्णस्य सङ्काशश्चन्द्रिकाढ्योऽतिरेकः ॥ (२५९।२)

kampillakaḥiṣṭacūrṇasya saṅkāśaścandrikāḍhyo'tirekaḥ ||

260.1२६०.१

सौराष्ट्रदेशखनिजः स हि कम्पिल्लको मतः । (२६०।१)

saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ |

260.2२६०.२

पित्तव्रणाध्मानविबन्धनघ्नः श्लेष्मोदरार्तिक्रिमिगुल्महारी । (२६०।२)

pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī |

260.3२६०.३

मूलामशूलज्वरशोफहारी कंपिल्लको रिच्य मलापहारी ॥ (२६०।३)

mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī ||

261.1२६१.१

उत्पत्यादि विषस्यादौ कथितं हि रसायनम् ॥ (२६१।१)

utpatyādi viṣasyādau kathitaṃ hi rasāyanam ||

262.1२६२.१

अमृतं स्याद्वत्सनाभो विषम् उग्रं महौषधम् । (२६२।१)

amṛtaṃ syādvatsanābho viṣam ugraṃ mahauṣadham |

262.2२६२.२

गरलं मरणं नागः स्तोककं प्राणहारकम् ॥ (२६२।२)

garalaṃ maraṇaṃ nāgaḥ stokakaṃ prāṇahārakam ||

263.1२६३.१

सर्वकुष्ठहरं प्रोक्तं सर्वव्याधिविनाशनम् । (२६३।१)

sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam |

263.2२६३.२

सन्निपातादिरोगाणां विनिवृत्तिकरं प्रिये ॥ (२६३।२)

sannipātādirogāṇāṃ vinivṛttikaraṃ priye ||

264.1२६४.१

कासीस:: स्य्नोन्य्म्स्कासीसं धातुकासीसं केसरं हंसलोमशम् । (२६४।१)

kāsīsa:: synonymskāsīsaṃ dhātukāsīsaṃ kesaraṃ haṃsalomaśam |

264.2२६४.२

शोधनं पांशुकासीसं शुभ्रं सत्त्वाह्वयं मतम् ॥ (२६४।२)

śodhanaṃ pāṃśukāsīsaṃ śubhraṃ sattvāhvayaṃ matam ||

265.1२६५.१

कासीस:: सुब्त्य्पेस्कासीसं त्रिविधं शुभ्रं कृष्णं पीतमिति स्मृतम् । (२६५।१)

kāsīsa:: subtypeskāsīsaṃ trividhaṃ śubhraṃ kṛṣṇaṃ pītamiti smṛtam |

265.2२६५.२

कासीसं पुष्पकासीसं हीरकासीसमित्यथ ॥ (२६५।२)

kāsīsaṃ puṣpakāsīsaṃ hīrakāsīsamityatha ||

266.1२६६.१

पीतं कृष्णं सितं रक्तं चतुर्धेति परे जगुः । (२६६।१)

pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ |

266.2२६६.२

कासीस:: मेदिच्। प्रोपेर्तिएस्कासीसमुष्णं सक्षारकषायाम्लं सतिक्तकम् ॥ (२६६।२)

kāsīsa:: medic. propertieskāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam ||

267.1२६७.१

वातश्लेष्मप्रशमनं चक्षुष्यं रञ्जकं परम् । (२६७।१)

vātaśleṣmapraśamanaṃ cakṣuṣyaṃ rañjakaṃ param |

267.2२६७.२

मूत्रकृच्छ्राश्मरीकुष्ठकण्डूव्रणविषापहम् ॥ (२६७।२)

mūtrakṛcchrāśmarīkuṣṭhakaṇḍūvraṇaviṣāpaham ||

268.1२६८.१

गौरीपाषाणकःगौरीपाषाणकः पीतो व्यक्तदेहश्च चूर्णकः । (२६८।१)

gaurīpāṣāṇakaḥgaurīpāṣāṇakaḥ pīto vyaktadehaśca cūrṇakaḥ |

268.2२६८.२

रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत् ॥ (२६८।२)

rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt ||

269.1२६९.१

तुवरी फटकी चभूमिस्तुवरिका फुल्लतुवरी रञ्जिका क्षितिः । (२६९।१)

tuvarī phaṭakī cabhūmistuvarikā phullatuvarī rañjikā kṣitiḥ |

269.2२६९.२

चित्रभूश् चीनकारश्च मञ्जिष्ठारागदायिनी ॥ (२६९।२)

citrabhūś cīnakāraśca mañjiṣṭhārāgadāyinī ||

270.1२७०.१

खगस्तु फटकी दुग्धपाषाणो नेत्ररोगहा । (२७०।१)

khagastu phaṭakī dugdhapāṣāṇo netrarogahā |

270.2२७०.२

कर्पूराख्यशिलाधातुर् मञ्जिष्ठारागरञ्जकः ॥ (२७०।२)

karpūrākhyaśilādhātur mañjiṣṭhārāgarañjakaḥ ||

271.1२७१.१

पोदारशृङ्गीसदलं पीतवर्णं च भवेद्गुर्जरमण्डले । (२७१।१)

podāraśṛṅgīsadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale |

271.2२७१.२

अर्जुनस्य गिरेः पार्श्वे जातं पोदारशृङ्गिकम् ॥ (२७१।२)

arjunasya gireḥ pārśve jātaṃ podāraśṛṅgikam ||

272.1२७२.१

सीससत्त्वं मरुच्छ्लेष्मशमनं पुङ्गदापहम् । (२७२।१)

sīsasattvaṃ marucchleṣmaśamanaṃ puṅgadāpaham |

272.2२७२.२

रसबन्धनम् उत्कृष्टं केशरञ्जनमुत्तमम् ॥ (२७२।२)

rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam ||

273.1२७३.१

सिन्दूर:: स्य्नोन्य्म्स्सिन्दूरनागगर्भे सैमन्तिकवीरपांसु नागभवम् । (२७३।१)

sindūra:: synonymssindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam |

273.2२७३.२

रक्तं च नागरेणुः गणपतिभूषा सुरङ्ग इत्याख्या ॥ (२७३।२)

raktaṃ ca nāgareṇuḥ gaṇapatibhūṣā suraṅga ityākhyā ||

274.1२७४.१

सौभाग्यं चैव शृङ्गारं मङ्गल्यम् अरुणं रजः । (२७४।१)

saubhāgyaṃ caiva śṛṅgāraṃ maṅgalyam aruṇaṃ rajaḥ |

274.2२७४.२

सिन्दूर:: मेदिच्। प्रोपेर्तिएस्सिन्दूरं कटुकं तिक्तमुष्णं व्रणविरोपणम् ॥ (२७४।२)

sindūra:: medic. propertiessindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam ||

275.1२७५.१

किलासविषकण्डूतिविसर्पशमनं परम् । (२७५।१)

kilāsaviṣakaṇḍūtivisarpaśamanaṃ param |

275.2२७५.२

हिङ्गुले ये गुणाः सन्ति ते गुणास्तिमुरौ प्रिये ॥ (२७५।२)

hiṅgule ye guṇāḥ santi te guṇāstimurau priye ||

276.1२७६.१

रसाञ्जनम्रसाञ्जनं रसोद्भूतं रसगर्भं रसाग्रजम् । (२७६।१)

rasāñjanamrasāñjanaṃ rasodbhūtaṃ rasagarbhaṃ rasāgrajam |

276.2२७६.२

रीत्यां तु धाम्यमानायां तत्किट्टं तु रसाञ्जनम् ॥ (२७६।२)

rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam ||

277.1२७७.१

तदभावे तु कर्तव्यं दार्वीक्वाथसमुद्भवम् । (२७७।१)

tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam |

277.2२७७.२

कृतकं बालभैषज्यं दार्वीक्वाथोद्भवं तथा ॥ (२७७।२)

kṛtakaṃ bālabhaiṣajyaṃ dārvīkvāthodbhavaṃ tathā ||

278.1२७८.१

दार्वीक्वाथभवं कण्ठविकासि क्षिप्तम् अक्ष्णि यत् । (२७८।१)

dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat |

278.2२७८.२

तद् रसाञ्जनमुद्दिष्टं कषायं कटु तिक्तकम् ॥ (२७८।२)

tad rasāñjanamuddiṣṭaṃ kaṣāyaṃ kaṭu tiktakam ||

279.1२७९.१

किंचिद् उष्णं कफहरं छेदनं लेखनं लघु । (२७९।१)

kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu |

279.2२७९.२

रक्तपित्तप्रशमनं नेत्ररोगविनाशनम् ॥ (२७९।२)

raktapittapraśamanaṃ netrarogavināśanam ||

280.1२८०.१

रसाञ्जनं तार्क्ष्यशैलं ज्ञेयं वर्यञ्जनं तथा । (२८०।१)

rasāñjanaṃ tārkṣyaśailaṃ jñeyaṃ varyañjanaṃ tathā |

280.2२८०.२

रसनाभं चाग्निसारं द्वादशाह्वयकीर्तितम् ॥ (२८०।२)

rasanābhaṃ cāgnisāraṃ dvādaśāhvayakīrtitam ||

281.1२८१.१

नीलाञ्जनम्नीलं नीलाञ्जनं चैव चक्षुष्यं वारिसम्भवम् । (२८१।१)

nīlāñjanamnīlaṃ nīlāñjanaṃ caiva cakṣuṣyaṃ vārisambhavam |

281.2२८१.२

कपोतकं च कापोतं सम्प्रोक्तं शक्रभूमिजम् ॥ (२८१।२)

kapotakaṃ ca kāpotaṃ samproktaṃ śakrabhūmijam ||

282.1२८२.१

शीतं नीलाञ्जनं प्रोक्तं कटुतिक्तकषायकम् । (२८२।१)

śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam |

282.2२८२.२

चक्षुष्यं कफवातघ्नं विषघ्नं च रसायनम् ॥ (२८२।२)

cakṣuṣyaṃ kaphavātaghnaṃ viṣaghnaṃ ca rasāyanam ||

283.1२८३.१

सौवीराञ्जनम्सौवीरमञ्जनं स्निग्धमवघृष्टं शिलातले । (२८३।१)

sauvīrāñjanamsauvīramañjanaṃ snigdhamavaghṛṣṭaṃ śilātale |

283.2२८३.२

अञ्जनाभं शिलारूपमेतच्छ्रेष्ठम् अकृत्रिमम् ॥ (२८३।२)

añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam ||

284.1२८४.१

सौवीरमञ्जनं चैव रक्तपित्तहरं हितम् । (२८४।१)

sauvīramañjanaṃ caiva raktapittaharaṃ hitam |

284.2२८४.२

विषहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम् ॥ (२८४।२)

viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam ||

285.1२८५.१

स्रोतोञ्जन:: स्य्नोन्य्म्स्स्रोतोद्भवं स्रोतनदीभवं च स्रोतोञ्जनं वारिभवं तथान्यम् । (२८५।१)

srotoñjana:: synonymssrotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam |

285.2२८५.२

सौवीरसारं च कपोतसारं वल्मीकशीर्षं मुनिसंमिताह्वम् ॥ (२८५।२)

sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam ||

286.1२८६.१

वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युतिः । (२८६।१)

valmīkaśikharākāraṃ bhaṅge nīlotpaladyutiḥ |

286.2२८६.२

घर्षणे गैरिकच्छायं स्रोतोञ्जनमिदं भवेत् ॥ (२८६।२)

gharṣaṇe gairikacchāyaṃ srotoñjanamidaṃ bhavet ||

287.1२८७.१

स्रोतोञ्जन:: मेदिच्। प्रोपेर्तिएस्स्रोतोऽञ्जनं शीतकटुकषायं क्रिमिनाशनम् । (२८७।१)

srotoñjana:: medic. propertiessroto'ñjanaṃ śītakaṭukaṣāyaṃ krimināśanam |

287.2२८७.२

रसायनं रसे योज्यं स्तन्यवृद्धिकरं परम् ॥ (२८७।२)

rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param ||

288.1२८८.१

स्रोतोऽञ्जनं हिमं स्निग्धं तृष्णाहृत्स्वादु लेखनम् । (२८८।१)

sroto'ñjanaṃ himaṃ snigdhaṃ tṛṣṇāhṛtsvādu lekhanam |

288.2२८८.२

नेत्र्यं हिध्मावमिच्छर्दिकफपित्तास्रकोपनुत् ॥ (२८८।२)

netryaṃ hidhmāvamicchardikaphapittāsrakopanut ||

289.1२८९.१

अहिफेनम्श्रान्तस्य मथनाक्षोभाद् वासुकेर् वदनोत्थिताः । (२८९।१)

ahiphenamśrāntasya mathanākṣobhād vāsuker vadanotthitāḥ |

289.2२८९.२

द्वीपान्तरे पतन्ति स्म सविषाः स्वेदबिन्दवः ॥ (२८९।२)

dvīpāntare patanti sma saviṣāḥ svedabindavaḥ ||

290.1२९०.१

यत्र यत्र पतन्ति स्म प्ररूढा गुल्मरूपतः । (२९०।१)

yatra yatra patanti sma prarūḍhā gulmarūpataḥ |

290.2२९०.२

तेषु जातं तु निर्यासमफेनं ब्रुवते जनाः ॥ (२९०।२)

teṣu jātaṃ tu niryāsamaphenaṃ bruvate janāḥ ||

291.1२९१.१

चतुर्विधमफेनं स्याज्जारणं मारणं तथा । (२९१।१)

caturvidhamaphenaṃ syājjāraṇaṃ māraṇaṃ tathā |

291.2२९१.२

धारणं सारणं चैव क्रमाद्वक्ष्यामि लक्षणम् ॥ (२९१।२)

dhāraṇaṃ sāraṇaṃ caiva kramādvakṣyāmi lakṣaṇam ||

292.1२९२.१

श्वेतं तु जारणं प्रोक्तं कृष्णवर्णं तु मारणम् । (२९२।१)

śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam |

292.2२९२.२

धारणं पीतवर्णं च कर्बुरं सारणं तथा ॥ (२९२।२)

dhāraṇaṃ pītavarṇaṃ ca karburaṃ sāraṇaṃ tathā ||

293.1२९३.१

जारणं जरयेदन्नं मारणं मृत्युदायकम् । (२९३।१)

jāraṇaṃ jarayedannaṃ māraṇaṃ mṛtyudāyakam |

293.2२९३.२

धारणं च वयःस्तम्भं सारणं मलसारकम् ॥ (२९३।२)

dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam ||

294.1२९४.१

अफेनं सन्निपातघ्नं वृष्यं बल्यं च मोहदम् । (२९४।१)

aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam |

294.2२९४.२

ग्रहणीमतिसारं च नाशयेत्षण्डतामपि ॥ (२९४।२)

grahaṇīmatisāraṃ ca nāśayetṣaṇḍatāmapi ||

295.1२९५.१

पुष्पाञ्जन:: स्य्नोन्य्म्स्पुष्पाञ्जनं पुष्पकेतुः कौस्तुभः कुसुमाञ्जनम् । (२९५।१)

puṣpāñjana:: synonymspuṣpāñjanaṃ puṣpaketuḥ kaustubhaḥ kusumāñjanam |

295.2२९५.२

रीतिकं रीतिकुसुमं रीतिपुष्पं च पुष्पकम् ॥ (२९५।२)

rītikaṃ rītikusumaṃ rītipuṣpaṃ ca puṣpakam ||

296.1२९६.१

पुष्पाञ्जन:: मेदिच्। प्रोपेर्तिएस्पुष्पाञ्जनं हितं प्रोक्तं पित्तहिक्काप्रदाहनुत् । (२९६।१)

puṣpāñjana:: medic. propertiespuṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut |

296.2२९६.२

नाशयेद् विषकासार्तिसर्वनेत्रामयापहम् ॥ (२९६।२)

nāśayed viṣakāsārtisarvanetrāmayāpaham ||

297.1२९७.१

शङ्खशङ्खोऽर्णवभवः कम्बुर् जलजः पावनध्वनिः । (२९७।१)

śaṅkhaśaṅkho'rṇavabhavaḥ kambur jalajaḥ pāvanadhvaniḥ |

297.2२९७.२

कुटिलोऽन्तर्महानादः श्वेतपीतः सुनादकः ॥ (२९७।२)

kuṭilo'ntarmahānādaḥ śvetapītaḥ sunādakaḥ ||

298.1२९८.१

सस्वनो दीर्घनादश्च बहुनादो हरप्रियः । (२९८।१)

sasvano dīrghanādaśca bahunādo harapriyaḥ |

298.2२९८.२

क्षुल्लकः क्षुद्रशङ्खः स्याच्छंबूको नखशङ्खकः ॥ (२९८।२)

kṣullakaḥ kṣudraśaṅkhaḥ syācchaṃbūko nakhaśaṅkhakaḥ ||

299.1२९९.१

शङ्खः कटुरसः शीतः पुष्टिवीर्यबलप्रदः । (२९९।१)

śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ |

299.2२९९.२

गुल्मशूलकफश्वासनाशनो विषदोषहा ॥ (२९९।२)

gulmaśūlakaphaśvāsanāśano viṣadoṣahā ||

300.1३००.१

क्षुल्लकः कटुकः स्निग्धः शूलहारी च दीपनः । (३००।१)

kṣullakaḥ kaṭukaḥ snigdhaḥ śūlahārī ca dīpanaḥ |

300.2३००.२

शुक्तिर् मुक्ताप्रसूश्चैव महाशुक्तिश्च शुक्तिका ॥ (३००।२)

śuktir muktāprasūścaiva mahāśuktiśca śuktikā ||

301.1३०१.१

मुक्तास्फोटस्तौतिकस्तु मौक्तिकप्रसवा च सा । (३०१।१)

muktāsphoṭastautikastu mauktikaprasavā ca sā |

301.2३०१.२

ज्ञेया मौक्तिकसूश्चैव मुक्तामाता तथा स्मृता ॥ (३०१।२)

jñeyā mauktikasūścaiva muktāmātā tathā smṛtā ||

302.1३०२.१

मुक्ताशुक्तिः कटुः स्निग्धा श्वासहृद्रोगहारिणी । (३०२।१)

muktāśuktiḥ kaṭuḥ snigdhā śvāsahṛdrogahāriṇī |

302.2३०२.२

शूलप्रशमनी रुच्या मधुरा दीपनी परा ॥ (३०२।२)

śūlapraśamanī rucyā madhurā dīpanī parā ||

303.1३०३.१

जलशुक्तिः क्षुद्रशुक्तिः क्रिमिसुस्फुटिका च सा । (३०३।१)

jalaśuktiḥ kṣudraśuktiḥ krimisusphuṭikā ca sā |

303.2३०३.२

जलशुक्तिः कटुः स्निग्धा दीपनी गुल्मशूलनुत् ॥ (३०३।२)

jalaśuktiḥ kaṭuḥ snigdhā dīpanī gulmaśūlanut ||

304.1३०४.१

तथा विषहरा रुच्या पाचनी बलदायिनी । (३०४।१)

tathā viṣaharā rucyā pācanī baladāyinī |

304.2३०४.२

कपर्दकपर्दको वराटश्च कपर्दश्च वराटिका ॥ (३०४।२)

kapardakapardako varāṭaśca kapardaśca varāṭikā ||

305.1३०५.१

चराचरश्चरो वर्यो बालक्रीडनकश्च स । (३०५।१)

carācaraścaro varyo bālakrīḍanakaśca sa |

305.2३०५.२

पीताभा ग्रन्थिला पृष्ठे दीर्घवृत्ता वराटिका ॥ (३०५।२)

pītābhā granthilā pṛṣṭhe dīrghavṛttā varāṭikā ||

306.1३०६.१

रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञका । (३०६।१)

rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā |

306.2३०६.२

सार्धनिष्कभरा श्रेष्ठा निष्कभारा च मध्यमा ॥ (३०६।२)

sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā ||

307.1३०७.१

पादोननिष्कभारा च कनिष्ठा परिकीर्तिता । (३०७।१)

pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā |

307.2३०७.२

परिणामादिशूलघ्नी ग्रहणीक्षयनाशनी ॥ (३०७।२)

pariṇāmādiśūlaghnī grahaṇīkṣayanāśanī ||

308.1३०८.१

कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा । (३०८।१)

kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā |

308.2३०८.२

रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ॥ (३०८।२)

rasendrajāraṇe proktā biḍadravyeṣu śasyate ||

309.1३०९.१

तदन्ये पुंवराटाः स्युर् गुरवः श्लेष्मपित्तलाः । (३०९।१)

tadanye puṃvarāṭāḥ syur guravaḥ śleṣmapittalāḥ |

309.2३०९.२

कपर्दः कटुतिक्तोष्णः कर्णशूलव्रणापहः ॥ (३०९।२)

kapardaḥ kaṭutiktoṣṇaḥ karṇaśūlavraṇāpahaḥ ||

310.1३१०.१

गुल्मशूलामयघ्नश्च नेत्रदोषनिकृन्तनः । (३१०।१)

gulmaśūlāmayaghnaśca netradoṣanikṛntanaḥ |

310.2३१०.२

साबुणिसर्वक्षारो बहुक्षारः समूहक्षारसाबुणिः ॥ (३१०।२)

sābuṇisarvakṣāro bahukṣāraḥ samūhakṣārasābuṇiḥ ||

311.1३११.१

स्तोमक्षारो महाक्षारो मलारिः क्षारमेलकः । (३११।१)

stomakṣāro mahākṣāro malāriḥ kṣāramelakaḥ |

311.2३११.२

सर्वक्षारम् अतिक्षारं चक्षुष्यं बस्तिशोधनम् ॥ (३११।२)

sarvakṣāram atikṣāraṃ cakṣuṣyaṃ bastiśodhanam ||

312.1३१२.१

उदावर्तक्रिमिघ्नं च बिडवद्वस्त्रशोधनम् । (३१२।१)

udāvartakrimighnaṃ ca biḍavadvastraśodhanam |

312.2३१२.२

नवसारकरीरपीलुकाष्ठेषु पच्यमानेष्टकोद्भवः ॥ (३१२।२)

navasārakarīrapīlukāṣṭheṣu pacyamāneṣṭakodbhavaḥ ||

313.1३१३.१

क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः । (३१३।१)

kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ |

313.2३१३.२

रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ॥ (३१३।२)

rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt ||

314.1३१४.१

गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् । (३१४।१)

gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam |

314.2३१४.२

सौराष्ट्रीगोपित्तेन शतं वारान्सौराष्ट्रीं भावयेत्ततः ॥ (३१४।२)

saurāṣṭrīgopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ ||

315.1३१५.१

धमित्वा पातयेत्सत्वं क्रामणं चातिगुह्यकम् । (३१५।१)

dhamitvā pātayetsatvaṃ krāmaṇaṃ cātiguhyakam |

315.2३१५.२

आखुपाषाणमूषकस्याभिधा पूर्वं पाषाणस्याभिधा ततः ॥ (३१५।२)

ākhupāṣāṇamūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ ||

316.1३१६.१

आखुपाषाणनामायं लोहसङ्करकारकः । (३१६।१)

ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ |

316.2३१६.२

आखुग्रावा सरो रूक्षो वमिशीतज्वरापहः ॥ (३१६।२)

ākhugrāvā saro rūkṣo vamiśītajvarāpahaḥ ||

317.1३१७.१

तारकर्मणि संपूज्यो मेदोदुर्मांसकृन्तनः । (३१७।१)

tārakarmaṇi saṃpūjyo medodurmāṃsakṛntanaḥ |

317.2३१७.२

सर्जरसरालः सर्जरसश्चैव यक्षधूपो ऽग्निवल्लभः ॥ (३१७।२)

sarjarasarālaḥ sarjarasaścaiva yakṣadhūpo 'gnivallabhaḥ ||

318.1३१८.१

देवेष्टः शालनिर्यासः सुरभिर् धूपवल्लभः । (३१८।१)

deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ |

318.2३१८.२

रालस्तु पञ्चधा प्रोक्तो रक्तः पीतः सितोऽसितः ॥ (३१८।२)

rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ ||

319.1३१९.१

नानावर्णश्च विज्ञेयः कृष्णस्तेषु गुणोत्तरः । (३१९।१)

nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ |

319.2३१९.२

रालस्तु शिशिरः स्निग्धः कषायस्तिक्तको रसे ॥ (३१९।२)

rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase ||

320.1३२०.१

वातपित्तहरः स्फोटकण्डूतिव्रणनाशनः । (३२०।१)

vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ |

320.2३२०.२

गुग्गुलुदानवेन्द्रविजितान्पुरा सुरान् भ्रष्टकान्तिधृतिधैर्यतेजसः । (३२०।२)

gugguludānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ |

320.3३२०.३

वीक्ष्य विष्णुरमृतं किलासृजत् गुग्गुलुं बलवपुर्जयप्रदम् ॥ (३२०।३)

vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam ||

321.0३२१.०

मरुभूमिषु जायन्ते प्रायशः पुरपादपाः ॥ (३२१।०)

marubhūmiṣu jāyante prāyaśaḥ purapādapāḥ ||

322.1३२२.१

भानोर् मयूखैः संतप्ता ग्रीष्मे मुञ्चन्ति गुग्गुलुम् । (३२२।१)

bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum |

322.2३२२.२

गुग्गुलुः पञ्चधा प्रोक्तो महिषाक्षश्च नीलकः ॥ (३२२।२)

gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ ||

323.1३२३.१

पद्मस्तु कुमुदश्चैव सुवर्णः पञ्चमः प्रिये । (३२३।१)

padmastu kumudaścaiva suvarṇaḥ pañcamaḥ priye |

323.2३२३.२

महिषाक्षश्च नीलश्च दन्तिनां गुणदायकौ ॥ (३२३।२)

mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau ||

324.1३२४.१

वाजिनां कुमुदः पद्मो नराणां स्वर्णवर्णकः । (३२४।१)

vājināṃ kumudaḥ padmo narāṇāṃ svarṇavarṇakaḥ |

324.2३२४.२

एरण्डबीजतैले वा तिलतैलेऽथवा घृते ॥ (३२४।२)

eraṇḍabījataile vā tilataile'thavā ghṛte ||

325.1३२५.१

पञ्चतिक्तशृतैः क्वाथैः शुद्धिं कुर्यात्सुगुग्गुलुम् । (३२५।१)

pañcatiktaśṛtaiḥ kvāthaiḥ śuddhiṃ kuryātsuguggulum |

325.2३२५.२

दोलायन्त्रे पचेत्तावद्यावन्निर्मलता भवेत् ॥ (३२५।२)

dolāyantre pacettāvadyāvannirmalatā bhavet ||

326.1३२६.१

एवं विशुद्धं संग्राह्यं तत्तद्योगेषु योजयेत् । (३२६।१)

evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet |

326.2३२६.२

पिटकागण्डमालाद्या नश्यन्ति च मरुद्गदाः ॥ (३२६।२)

piṭakāgaṇḍamālādyā naśyanti ca marudgadāḥ ||

327.1३२७.१

यवक्षारयवक्षारोऽमृतः पाक्यो यवजो यवशूकजः । (३२७।१)

yavakṣārayavakṣāro'mṛtaḥ pākyo yavajo yavaśūkajaḥ |

327.2३२७.२

यवशूको यवाह्वश्च यवपाक्यो यवारुजः ॥ (३२७।२)

yavaśūko yavāhvaśca yavapākyo yavārujaḥ ||

328.1३२८.१

यवक्षारः कटूष्णश्च कफवातोदरार्तिनुत् । (३२८।१)

yavakṣāraḥ kaṭūṣṇaśca kaphavātodarārtinut |

328.2३२८.२

आमशूलाश्मरीकृच्छ्रविषदोषहरः परः ॥ (३२८।२)

āmaśūlāśmarīkṛcchraviṣadoṣaharaḥ paraḥ ||

329.1३२९.१

सर्जक्षारसद्यःक्षारः सर्जिकश्च क्षारः सज्जी सुवर्जिकः । (३२९।१)

sarjakṣārasadyaḥkṣāraḥ sarjikaśca kṣāraḥ sajjī suvarjikaḥ |

329.2३२९.२

सर्जीकः कटुरूक्षश्च तीक्ष्णो वातकफार्तिनुत् ॥ (३२९।२)

sarjīkaḥ kaṭurūkṣaśca tīkṣṇo vātakaphārtinut ||

330.1३३०.१

गुल्मानाहवमिघ्नश्च मेहजाठररोगहृत् । (३३०।१)

gulmānāhavamighnaśca mehajāṭhararogahṛt |

330.2३३०.२

लवणक्षारलोणारं लवणोत्थं लवणासुरं च लवणमेदश्च ॥ (३३०।२)

lavaṇakṣāraloṇāraṃ lavaṇotthaṃ lavaṇāsuraṃ ca lavaṇamedaśca ||

331.1३३१.१

जतुजं लवणक्षारं लवणं च क्षारलवणं च । (३३१।१)

jatujaṃ lavaṇakṣāraṃ lavaṇaṃ ca kṣāralavaṇaṃ ca |

331.2३३१.२

लोणकक्षारम् अत्युष्णं तीक्ष्णं पित्तप्रवृद्धिदम् ॥ (३३१।२)

loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam ||

332.1३३२.१

क्षारं लवणम् ईषच्च वातगुल्मादिशूलनुत् । (३३२।१)

kṣāraṃ lavaṇam īṣacca vātagulmādiśūlanut |

332.2३३२.२

वज्रकक्षारवज्रकं वज्रकक्षारं क्षारश्रेष्ठं विदारकम् ॥ (३३२।२)

vajrakakṣāravajrakaṃ vajrakakṣāraṃ kṣāraśreṣṭhaṃ vidārakam ||

333.1३३३.१

सारं चन्दनसारं च धूमोत्थं धूमजं गजाः । (३३३।१)

sāraṃ candanasāraṃ ca dhūmotthaṃ dhūmajaṃ gajāḥ |

333.2३३३.२

वज्रकक्षारम् अत्युष्णं तीक्ष्णं क्षारं च रोधनम् ॥ (३३३।२)

vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam ||

334.1३३४.१

गुल्मोदरार्तिविष्टम्भशूलप्रशमनं परम् । (३३४।१)

gulmodarārtiviṣṭambhaśūlapraśamanaṃ param |

334.2३३४.२

सामुद्रलवणसामुद्रकं तु सामुद्रं सामुद्रलवणं शिवम् ॥ (३३४।२)

sāmudralavaṇasāmudrakaṃ tu sāmudraṃ sāmudralavaṇaṃ śivam ||

335.1३३५.१

सेअ सल्त्:: मेदिच्। प्रोपेर्तिएस्सामुद्रं लघु हृद्यं च वारितासृजपित्तलम् । (३३५।१)

sea salt:: medic. propertiessāmudraṃ laghu hṛdyaṃ ca vāritāsṛjapittalam |

335.2३३५.२

विदाहि कफवातघ्नं दीपनं रुचिकृत् प्रियम् ॥ (३३५।२)

vidāhi kaphavātaghnaṃ dīpanaṃ rucikṛt priyam ||

336.1३३६.१

सैन्धवसैन्धवं स्याच्छीतशिवं नादेयं सिन्धुजं शिवम् । (३३६।१)

saindhavasaindhavaṃ syācchītaśivaṃ nādeyaṃ sindhujaṃ śivam |

336.2३३६.२

शुद्धं शिवात्मकं पथ्यं माणिमन्थं नवाभिधम् ॥ (३३६।२)

śuddhaṃ śivātmakaṃ pathyaṃ māṇimanthaṃ navābhidham ||

337.1३३७.१

सैन्धवं लवणं वृष्यं चक्षुष्यं दीपनं रुचि । (३३७।१)

saindhavaṃ lavaṇaṃ vṛṣyaṃ cakṣuṣyaṃ dīpanaṃ ruci |

337.2३३७.२

पूतं नस्यात्त्रिदोषघ्नं व्रणदोषविबन्धजित् ॥ (३३७।२)

pūtaṃ nasyāttridoṣaghnaṃ vraṇadoṣavibandhajit ||

338.1३३८.१

सैन्धवं द्विविधं ज्ञेयं सितं रक्तमिति क्रमात् । (३३८।१)

saindhavaṃ dvividhaṃ jñeyaṃ sitaṃ raktamiti kramāt |

338.2३३८.२

रसवीर्यविपाकेषु गुणाढ्यं पूतनं सितम् ॥ (३३८।२)

rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam ||

339.1३३९.१

काचलवणनीलकाचोद्भवं काचतिलकं चैव काचसम्भवम् । (३३९।१)

kācalavaṇanīlakācodbhavaṃ kācatilakaṃ caiva kācasambhavam |

339.2३३९.२

काकसौवर्चलं काचलवणं पाक्यजं स्मृतम् ॥ (३३९।२)

kākasauvarcalaṃ kācalavaṇaṃ pākyajaṃ smṛtam ||

340.1३४०.१

काचोत्थं हृद्यगन्धं च तत्काललवणं तथा । (३४०।१)

kācotthaṃ hṛdyagandhaṃ ca tatkālalavaṇaṃ tathā |

340.2३४०.२

कुरुविन्दं काचमलं कतिमं च चतुर्दश ॥ (३४०।२)

kuruvindaṃ kācamalaṃ katimaṃ ca caturdaśa ||

341.1३४१.१

काचाख्यं लवणं रुच्यमीषत्क्षारं सपित्तलम् । (३४१।१)

kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam |

341.2३४१.२

दाहदं कफवातघ्नं दीपनं गुल्मशूलहृत् ॥ (३४१।२)

dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt ||

342.1३४२.१

बिडलवणबिडं च बिडकं खण्डं कृतक्षारं च आसुरम् । (३४२।१)

biḍalavaṇabiḍaṃ ca biḍakaṃ khaṇḍaṃ kṛtakṣāraṃ ca āsuram |

342.2३४२.२

सुपाक्यं लवणं खण्डं धूर्तं कृत्रिमकं दश ॥ (३४२।२)

supākyaṃ lavaṇaṃ khaṇḍaṃ dhūrtaṃ kṛtrimakaṃ daśa ||

343.1३४३.१

बिडम् उष्णं सलवणं दीपनं वातनाशनम् । (३४३।१)

biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam |

343.2३४३.२

रुच्यं चाजीर्णशूलघ्नं गुल्ममेहविनाशनम् ॥ (३४३।२)

rucyaṃ cājīrṇaśūlaghnaṃ gulmamehavināśanam ||

344.1३४४.१

सौवर्चलसौवर्चलं च रुचकं तिलकं हृद्यगन्धकम् । (३४४।१)

sauvarcalasauvarcalaṃ ca rucakaṃ tilakaṃ hṛdyagandhakam |

344.2३४४.२

अक्षं च कृष्णलवणं रुच्यं कोद्रविकं तथा ॥ (३४४।२)

akṣaṃ ca kṛṣṇalavaṇaṃ rucyaṃ kodravikaṃ tathā ||

345.1३४५.१

सौवर्चल:: मेदिच्। प्रोपेर्तिएस्सौवर्चलं लघु क्षारं कटूष्णं गुल्मशूलनुत् । (३४५।१)

sauvarcala:: medic. propertiessauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut |

345.2३४५.२

ऊर्ध्ववातामशूलार्तिविबन्धारोचकं जयेत् ॥ (३४५।२)

ūrdhvavātāmaśūlārtivibandhārocakaṃ jayet ||

346.1३४६.१

अम्लवेतसअम्लोऽम्लवेतसो वेधी रसाम्लो वीतवेतसः । (३४६।१)

amlavetasaamlo'mlavetaso vedhī rasāmlo vītavetasaḥ |

346.2३४६.२

वेतसारश् चाम्लसारः शरवेधी च वेधकः ॥ (३४६।२)

vetasāraś cāmlasāraḥ śaravedhī ca vedhakaḥ ||

347.1३४७.१

नीलश्च भेदनो भेदी राजाम्लश्चाम्लभेदनः । (३४७।१)

nīlaśca bhedano bhedī rājāmlaścāmlabhedanaḥ |

347.2३४७.२

अम्लाङ्कुशो रक्तसारः फलाम्लश्चाम्लनायकः ॥ (३४७।२)

amlāṅkuśo raktasāraḥ phalāmlaścāmlanāyakaḥ ||

348.1३४८.१

सहस्रवेधी वीराम्लो गुल्मकेतुर् धराक्षिधा । (३४८।१)

sahasravedhī vīrāmlo gulmaketur dharākṣidhā |

348.2३४८.२

शङ्खमांसादिद्रावी स्यद् द्विधा चैवाम्लवेतसः ॥ (३४८।२)

śaṅkhamāṃsādidrāvī syad dvidhā caivāmlavetasaḥ ||

349.1३४९.१

अम्लवेतसमत्यम्लं कषायोष्णामवातजित् । (३४९।१)

amlavetasamatyamlaṃ kaṣāyoṣṇāmavātajit |

349.2३४९.२

कफार्शःसमगुल्मामम् अरोचकहरं परम् ॥ (३४९।२)

kaphārśaḥsamagulmāmam arocakaharaṃ param ||

350.1३५०.१

काचकाचस् तुषारसारश्च रसखोटमलापहः । (३५०।१)

kācakācas tuṣārasāraśca rasakhoṭamalāpahaḥ |

350.2३५०.२

शृङ्गारी चाभ्रधारी च सर्वनेत्रामयापहा ॥ (३५०।२)

śṛṅgārī cābhradhārī ca sarvanetrāmayāpahā ||

351.1३५१.१

छगणपिष्टकं छगणश्छाणमुत्पलं च वनोत्पलम् । (३५१।१)

chagaṇapiṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam |

351.2३५१.२

करिण्डोपलशाठी च वरटी छगणाभिधा ॥ (३५१।२)

kariṇḍopalaśāṭhī ca varaṭī chagaṇābhidhā ||

352.1३५२.१

रसलोहदोषहारि ख्यातं तद्भस्म दुरितसंहृतये । (३५२।१)

rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye |

352.2३५२.२

अङ्गारशिखित्राः पावकोच्छिष्टा अङ्गाराः कोलिशा मताः ॥ (३५२।२)

aṅgāraśikhitrāḥ pāvakocchiṣṭā aṅgārāḥ koliśā matāḥ ||

353.1३५३.१

कोकिलाश्चेति चाङ्गारा निर्वाणाः पयसा विना । (३५३।१)

kokilāśceti cāṅgārā nirvāṇāḥ payasā vinā |

353.2३५३.२

सिकतासिकता प्रवाहजनिता सिक्ता पानीयचूर्णका सूक्ष्मा ॥ (३५३।२)

sikatāsikatā pravāhajanitā siktā pānīyacūrṇakā sūkṣmā ||

354.1३५४.१

सा वालुका श्रमघ्नी संसेकात्सन्निपातघ्नी । (३५४।१)

sā vālukā śramaghnī saṃsekātsannipātaghnī |

354.2३५४.२

उपरसशोधनकासीसं भावयेद् घर्मे दिनं जम्बीरजैर्द्रवैः ॥ (३५४।२)

uparasaśodhanakāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ ||

355.1३५५.१

शुध्यते टङ्कणं गैरी कङ्कुष्ठं च वराटिका । (३५५।१)

śudhyate ṭaṅkaṇaṃ gairī kaṅkuṣṭhaṃ ca varāṭikā |

355.2३५५.२

शङ्खं नीलाञ्जनं चैव पृथक् शोध्यं दिने दिने ॥ (३५५।२)

śaṅkhaṃ nīlāñjanaṃ caiva pṛthak śodhyaṃ dine dine ||

356.1३५६.१

गोदुग्धैस्त्रिफलाक्वाथैर् भृङ्गद्रावैः शिलाजतु । (३५६।१)

godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu |

356.2३५६.२

मर्दयेदायसे पात्रे दिनैकं तच्च शुध्यति ॥ (३५६।२)

mardayedāyase pātre dinaikaṃ tacca śudhyati ||

357.1३५७.१

मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम् । (३५७।१)

meṣīkṣīreṇa daradamamlavargaiśca bhāvitam |

357.2३५७.२

सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चयम् ॥ (३५७।२)

saptavāraṃ prayatnena śuddhimāyāti niścayam ||

358.1३५८.१

सूर्यावर्तं वज्रकन्दं कदली देवदालिका । (३५८।१)

sūryāvartaṃ vajrakandaṃ kadalī devadālikā |

358.2३५८.२

शिग्रुः कोशातकी वन्ध्या काकमाची च वालुका ॥ (३५८।२)

śigruḥ kośātakī vandhyā kākamācī ca vālukā ||

359.1३५९.१

आसामेकरसेनैव त्रिक्षारैर् लवणैः सह । (३५९।१)

āsāmekarasenaiva trikṣārair lavaṇaiḥ saha |

359.2३५९.२

भावयेदम्लवर्गैश्च दिनमेकं प्रयत्नतः ॥ (३५९।२)

bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ ||

360.1३६०.१

सौवीरं कान्तपाषाणः शुद्धा भूनागमृत्तिका । (३६०।१)

sauvīraṃ kāntapāṣāṇaḥ śuddhā bhūnāgamṛttikā |

360.2३६०.२

सर्वे उपरसाश्चाथ पृथग्भाव्यं दिनं दिनम् ॥ (३६०।२)

sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam ||

361.1३६१.१

ततः पाच्यं च तद्द्रावैर्डोलायन्त्रे दिनं सुधीः । (३६१।१)

tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ |

361.2३६१.२

शुध्यन्ते नात्र सन्देहः सर्वे उपरसाः पृथक् ॥ (३६१।२)

śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak ||

362.1३६२.१

पुनर्नवामेघनादकपिजम्बीरतिन्दुकैः । (३६२।१)

punarnavāmeghanādakapijambīratindukaiḥ |

362.2३६२.२

अगस्तिपुष्पकुमुदयवचिञ्चाम्लवेतसैः ॥ (३६२।२)

agastipuṣpakumudayavaciñcāmlavetasaiḥ ||

363.1३६३.१

वनसूरणभूधात्रीमण्डूकीकरवीरकैः । (३६३।१)

vanasūraṇabhūdhātrīmaṇḍūkīkaravīrakaiḥ |

363.2३६३.२

कारवल्लीक्षीरकन्दरक्तोत्पलशमीघनैः ॥ (३६३।२)

kāravallīkṣīrakandaraktotpalaśamīghanaiḥ ||

364.1३६४.१

मेषशृङ्गीशशवसाशक्रवारुणिटङ्कणैः । (३६४।१)

meṣaśṛṅgīśaśavasāśakravāruṇiṭaṅkaṇaiḥ |

364.2३६४.२

तैलमत्स्यवसाव्योषद्रवैर् एतैः सकाञ्जिकैः ॥ (३६४।२)

tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ ||

365.1३६५.१

एतैः समस्तैर् व्यस्तैर्वा डोलायन्त्रे दिनत्रयम् । (३६५।१)

etaiḥ samastair vyastairvā ḍolāyantre dinatrayam |

365.2३६५.२

अभ्रपत्राद्युपरसान् शुद्धिहेतोः प्रपाचयेत् ॥ (३६५।२)

abhrapatrādyuparasān śuddhihetoḥ prapācayet ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 2, 1

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit