आनन्दकन्दĀnandakanda

ĀK, 1, 3

3 of 35 · 250 verses

Select a line for its word-by-word analysis.

1.1१.१

रसदीक्षाक्रमःअथ दीक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीम् । (१।१)

rasadīkṣākramaḥatha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm |

1.2१.२

सा च पञ्चविधा प्रोक्ता समयादिविभेदतः ॥ (१।२)

sā ca pañcavidhā proktā samayādivibhedataḥ ||

2.1२.१

समया प्रथमा दीक्षा साधकाख्या द्वितीयका । (२।१)

samayā prathamā dīkṣā sādhakākhyā dvitīyakā |

2.2२.२

निर्वाणाख्या तृतीया च चतुर्थ्याचार्यसंज्ञका ॥ (२।२)

nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā ||

3.1३.१

पञ्चमी सिद्धसंज्ञा च प्रायशो दुर्लभा नृणाम् । (३।१)

pañcamī siddhasaṃjñā ca prāyaśo durlabhā nṛṇām |

3.2३.२

पूर्वोक्तलक्षणोपेतः शिष्यो भक्तिनतः शुचिः ॥ (३।२)

pūrvoktalakṣaṇopetaḥ śiṣyo bhaktinataḥ śuciḥ ||

4.1४.१

गुरुं प्रणम्य चाष्टाङ्गं स्तुत्वा च बहुधा ततः । (४।१)

guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ |

4.2४.२

अनुगृह्णीष्व मे दीक्षामिति विज्ञापयेद्गुरुम् ॥ (४।२)

anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum ||

5.1५.१

दीक्षां च विधिवत्प्राप्य शिष्यः सर्वार्थदृग्भवेत् । (५।१)

dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet |

5.2५.२

दीक्षायोग्याः शुभतिथ्यादयःअश्विनीमूलरेवत्यो मृगः पुण्यः पुनर्वसुः ॥ (५।२)

dīkṣāyogyāḥ śubhatithyādayaḥaśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ ||

6.1६.१

रोहिणी श्रवणो मैत्रं हस्तः स्यादुत्तरात्रयम् । (६।१)

rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam |

6.2६.२

मघाश्विनी श्रेष्ठतमा दीक्षाकर्मणि तारकाः ॥ (६।२)

maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ ||

7.1७.१

तृतीया पञ्चमी चैव सप्तमी च चतुर्दशी । (७।१)

tṛtīyā pañcamī caiva saptamī ca caturdaśī |

7.2७.२

अष्टमी पौर्णमासी च दशमी च त्रयोदशी ॥ (७।२)

aṣṭamī paurṇamāsī ca daśamī ca trayodaśī ||

8.1८.१

एतास्तु तिथयो मुख्याः सौम्येन्दुगुरुभार्गवाः । (८।१)

etāstu tithayo mukhyāḥ saumyendugurubhārgavāḥ |

8.2८.२

आदित्य इति वारेषु रसदीक्षा सुशोभना ॥ (८।२)

āditya iti vāreṣu rasadīkṣā suśobhanā ||

9.1९.१

समयादीक्षाक्रमःशुक्लपक्षे सुयोगे च करविष्टिविवर्जिते । (९।१)

samayādīkṣākramaḥśuklapakṣe suyoge ca karaviṣṭivivarjite |

9.2९.२

चन्द्रताराबलोपेतविषुवायनसंक्रमे ॥ (९।२)

candratārābalopetaviṣuvāyanasaṃkrame ||

10.1१०.१

ग्रहणे शिवरात्रे च जन्मर्क्षे सुमुहूर्तके । (१०।१)

grahaṇe śivarātre ca janmarkṣe sumuhūrtake |

10.2१०.२

शुभग्रहे सिद्धयोगे दद्याद्दीक्षां गुरूत्तमः ॥ (१०।२)

śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ ||

11.1११.१

रसशालां प्रविश्याथ सर्वोपकरणोज्ज्वलाम् । (११।१)

rasaśālāṃ praviśyātha sarvopakaraṇojjvalām |

11.2११.२

पुष्पमालासमाकीर्णामुत्तोरणपताकिनीम् ॥ (११।२)

puṣpamālāsamākīrṇāmuttoraṇapatākinīm ||

12.1१२.१

नित्यपूजाग्निकार्यं च कृत्वा दीक्षाक्रमं भजेत् । (१२।१)

nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet |

12.2१२.२

देवस्य दक्षिणे पार्श्वे विस्तरे तण्डुलान् श्रितान् ॥ (१२।२)

devasya dakṣiṇe pārśve vistare taṇḍulān śritān ||

13.1१३.१

चतुरश्रं च तन्मध्ये क्षिपेत्प्रस्थं सुतण्डुलम् । (१३।१)

caturaśraṃ ca tanmadhye kṣipetprasthaṃ sutaṇḍulam |

13.2१३.२

तदूर्ध्वं विन्यसेत्कुम्भं सितसूत्रेण वेष्टितम् ॥ (१३।२)

tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam ||

14.1१४.१

वासोभ्यां वेष्टितं सूतपञ्चरत्नसमन्वितम् । (१४।१)

vāsobhyāṃ veṣṭitaṃ sūtapañcaratnasamanvitam |

14.2१४.२

पञ्चमृत्पल्लवत्वग्भिः पावितं जलपूरितम् ॥ (१४।२)

pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam ||

15.1१५.१

दूर्वागन्धोत्तमतिलहेमदर्भाक्षतान्वितम् । (१५।१)

dūrvāgandhottamatilahemadarbhākṣatānvitam |

15.2१५.२

शिवसंज्ञमिदं कुम्भं शिवरूपं विचिन्तयेत् ॥ (१५।२)

śivasaṃjñamidaṃ kumbhaṃ śivarūpaṃ vicintayet ||

16.1१६.१

तद्वामभागे संस्थाप्य वर्धनीसंज्ञकं घटम् । (१६।१)

tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam |

16.2१६.२

शक्तिरूपं च पूर्वोक्तसर्वद्रव्यसमन्वितम् ॥ (१६।२)

śaktirūpaṃ ca pūrvoktasarvadravyasamanvitam ||

17.1१७.१

परितः सर्वतोभद्रं श्रीगौरीतिलकं लिखेत् । (१७।१)

paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet |

17.2१७.२

नन्द्यावर्तं स्वस्तिकं च पञ्चवर्णविराजितम् ॥ (१७।२)

nandyāvartaṃ svastikaṃ ca pañcavarṇavirājitam ||

18.1१८.१

प्रक्षाल्य पादौ पाणी च समाचम्य गुरूत्तमः । (१८।१)

prakṣālya pādau pāṇī ca samācamya gurūttamaḥ |

18.2१८.२

निजासनं समासाद्य प्राणायामत्रयं तथा ॥ (१८।२)

nijāsanaṃ samāsādya prāṇāyāmatrayaṃ tathā ||

19.1१९.१

शिष्यस्यास्यायुरारोग्यसंपत्संतानवृद्धये । (१९।१)

śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye |

19.2१९.२

मुक्तये चाष्टसिद्ध्यै च संकल्प्याभ्यर्चयेच्छिवम् ॥ (१९।२)

muktaye cāṣṭasiddhyai ca saṃkalpyābhyarcayecchivam ||

20.1२०.१

गन्धपुष्पाक्षैर्धूपैर्दीपैर्नैवेद्यदर्शनैः । (२०।१)

gandhapuṣpākṣairdhūpairdīpairnaivedyadarśanaiḥ |

20.2२०.२

शिवकुम्भं वर्धनीं च पूजयेत्सोपचारकम् ॥ (२०।२)

śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam ||

21.1२१.१

रसाङ्कुशीं मूलमन्त्रं प्रजपेच्च सहस्रकम् । (२१।१)

rasāṅkuśīṃ mūlamantraṃ prajapecca sahasrakam |

21.2२१.२

तद्दशांशं हुनेत्कुण्डे त्रिकोणे लक्षणान्विते ॥ (२१।२)

taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite ||

22.1२२.१

फलं त्रिमधुसंयुक्तं ततो गन्धोत्तमान्वितम् । (२२।१)

phalaṃ trimadhusaṃyuktaṃ tato gandhottamānvitam |

22.2२२.२

क्रमादावृतिदेवांश्च चतुर्थ्यां स्वस्वनामकम् ॥ (२२।२)

kramādāvṛtidevāṃśca caturthyāṃ svasvanāmakam ||

23.1२३.१

स्वाहान्तं प्रणवादिं च समुच्चार्य हुनेद्धविः । (२३।१)

svāhāntaṃ praṇavādiṃ ca samuccārya huneddhaviḥ |

23.2२३.२

शिवत्रयं पुरा देवि ततः सिद्धत्रयं यजेत् ॥ (२३।२)

śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet ||

24.1२४.१

ततो गुरुत्रयं देवि कुलवृद्धान् गुरूत्तमः । (२४।१)

tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ |

24.2२४.२

योगिनीं पूजयित्वा तु लब्धानुज्ञो गुरुस्ततः ॥ (२४।२)

yoginīṃ pūjayitvā tu labdhānujño gurustataḥ ||

25.1२५.१

स शक्तिमानन्दशिवमूर्तिमाराधयामि च । (२५।१)

sa śaktimānandaśivamūrtimārādhayāmi ca |

25.2२५.२

तथा परानन्दशिवमूर्तिमाराधयामि च ॥ (२५।२)

tathā parānandaśivamūrtimārādhayāmi ca ||

26.1२६.१

एवं त्रिसिद्धमूर्तिं च श्रीबीजसहितं यजेत् । (२६।१)

evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet |

26.2२६.२

एवं त्रिगुरुमूर्तिं च मारबीजयुतं यजेत् ॥ (२६।२)

evaṃ trigurumūrtiṃ ca mārabījayutaṃ yajet ||

27.1२७.१

तत्त्वत्रयं गृहीत्वा च पुनर्न्यासं समाचरेत् । (२७।१)

tattvatrayaṃ gṛhītvā ca punarnyāsaṃ samācaret |

27.2२७.२

स्वयं शिवतनुर्भूत्वा शिवोऽहमिति भावयेत् ॥ (२७।२)

svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet ||

28.1२८.१

हृष्टं शक्तियुतं शिष्यं शिवद्रष्टा विलोकयेत् । (२८।१)

hṛṣṭaṃ śaktiyutaṃ śiṣyaṃ śivadraṣṭā vilokayet |

28.2२८.२

स्ववामपार्श्वे संस्थाप्य तन्मूर्धनि विनिक्षिपेत् ॥ (२८।२)

svavāmapārśve saṃsthāpya tanmūrdhani vinikṣipet ||

29.1२९.१

मूलाभिमन्त्रितं भस्म तन्नेत्रं वस्त्ररोधितम् । (२९।१)

mūlābhimantritaṃ bhasma tannetraṃ vastrarodhitam |

29.2२९.२

कृत्वा तन्मूर्ध्नि संप्रोक्ष्य शिववर्धनिवारिणा ॥ (२९।२)

kṛtvā tanmūrdhni saṃprokṣya śivavardhanivāriṇā ||

30.1३०.१

त्रिधा स्वदक्षिणे हस्ते शिवं सावरणं यजेत् । (३०।१)

tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet |

30.2३०.२

विज्ञेयः शिवहस्तोऽयं भवपाशनिकृन्तनः ॥ (३०।२)

vijñeyaḥ śivahasto'yaṃ bhavapāśanikṛntanaḥ ||

31.1३१.१

अङ्कुशीमूलमन्त्रं च त्रिवारं च समुच्चरेत् । (३१।१)

aṅkuśīmūlamantraṃ ca trivāraṃ ca samuccaret |

31.2३१.२

शिष्यदक्षिणकर्णे च कुर्यान्मन्त्रोपदेशकम् ॥ (३१।२)

śiṣyadakṣiṇakarṇe ca kuryānmantropadeśakam ||

32.1३२.१

पूर्वं गणपतेर्मन्त्रं क्षेत्रपालमनुं ततः । (३२।१)

pūrvaṃ gaṇapatermantraṃ kṣetrapālamanuṃ tataḥ |

32.2३२.२

ऋषिस्तु गणकश्छन्दो न्यृचिद्गायत्रिका स्मृतम् ॥ (३२।२)

ṛṣistu gaṇakaśchando nyṛcidgāyatrikā smṛtam ||

33.1३३.१

देवो गणपतिर्ज्ञेयो न्यासं बीजाक्षरेण च । (३३।१)

devo gaṇapatirjñeyo nyāsaṃ bījākṣareṇa ca |

33.2३३.२

आदिवर्गतृतीयार्णं सार्धचन्द्रं गणाख्यकम् ॥ (३३।२)

ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam ||

34.1३४.१

पतिं चतुर्थ्या संयुक्तं नमोऽन्तं मनुमुच्चरेत् । (३४।१)

patiṃ caturthyā saṃyuktaṃ namo'ntaṃ manumuccaret |

34.2३४.२

पाशाङ्कुशं मोदकं च बिभ्राणं स्वविपाणकम् ॥ (३४।२)

pāśāṅkuśaṃ modakaṃ ca bibhrāṇaṃ svavipāṇakam ||

35.1३५.१

गजाननं प्रवालाभं मकुटेन्दुकलाधरम् । (३५।१)

gajānanaṃ pravālābhaṃ makuṭendukalādharam |

35.2३५.२

तुन्दिलं गणनाथं च ध्यात्वा लक्षं जपेन्मनुम् ॥ (३५।२)

tundilaṃ gaṇanāthaṃ ca dhyātvā lakṣaṃ japenmanum ||

36.1३६.१

दशांशं तर्पणं होमं सगुडं सतिलं हुनेत् । (३६।१)

daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet |

36.2३६.२

कषबिन्दुयुतं क्षेत्रपालं च सचतुर्थिकम् ॥ (३६।२)

kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam ||

37.1३७.१

नमोऽन्तं मनुमुच्चार्य न्यासं बीजाक्षरेण च । (३७।१)

namo'ntaṃ manumuccārya nyāsaṃ bījākṣareṇa ca |

37.2३७.२

छन्दः पङ्क्तिर्मुनिर्ज्ञेयो भृगुर्देवश्च भैरवः ॥ (३७।२)

chandaḥ paṅktirmunirjñeyo bhṛgurdevaśca bhairavaḥ ||

38.1३८.१

चतुर्भुजं शूलपात्रवरदाभयशोभितम् । (३८।१)

caturbhujaṃ śūlapātravaradābhayaśobhitam |

38.2३८.२

कालाम्बुदनिभं नागभूषणं किङ्किणीस्रजम् ॥ (३८।२)

kālāmbudanibhaṃ nāgabhūṣaṇaṃ kiṅkiṇīsrajam ||

39.1३९.१

त्रिनेत्रं वक्रदंष्ट्रं च ध्यात्वा लक्षं जपेन्मनुम् । (३९।१)

trinetraṃ vakradaṃṣṭraṃ ca dhyātvā lakṣaṃ japenmanum |

39.2३९.२

दशांशं तर्पणं होमं पायसं त्रिमधुप्लुतम् ॥ (३९।२)

daśāṃśaṃ tarpaṇaṃ homaṃ pāyasaṃ trimadhuplutam ||

40.1४०.१

हुनेदिति समादिश्य सामयाचारिकं भजेत् । (४०।१)

hunediti samādiśya sāmayācārikaṃ bhajet |

40.2४०.२

देवतापरिचर्यां च शुश्रूषां च गुरोः कुरु ॥ (४०।२)

devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru ||

41.1४१.१

अतन्द्रितो जपं कुर्यात् शास्त्रश्रवणमादरात् । (४१।१)

atandrito japaṃ kuryāt śāstraśravaṇamādarāt |

41.2४१.२

पूर्वोक्ताचारमार्गेण निरतो भव संततम् ॥ (४१।२)

pūrvoktācāramārgeṇa nirato bhava saṃtatam ||

42.1४२.१

प्रह्वः कृताञ्जलिर्भूत्वा करिष्यामि तथा प्रभो । (४२।१)

prahvaḥ kṛtāñjalirbhūtvā kariṣyāmi tathā prabho |

42.2४२.२

धन्योऽहं कृतकृत्योऽस्मि श्रीनाथ त्वत्प्रसादतः ॥ (४२।२)

dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ ||

43.1४३.१

इति विज्ञापयेच्छिष्यः समयाचारबृंहितः । (४३।१)

iti vijñāpayecchiṣyaḥ samayācārabṛṃhitaḥ |

43.2४३.२

प्रातस्तरां समुत्थाप्य गुरूंश्च शिरसि स्मरेत् ॥ (४३।२)

prātastarāṃ samutthāpya gurūṃśca śirasi smaret ||

44.1४४.१

निवेद्यावश्यकं कर्म स्नातः संध्यां समाचरेत् । (४४।१)

nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret |

44.2४४.२

नद्यास्तीर्थे तटाके वा पुष्करिण्यां शुचौ जले ॥ (४४।२)

nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale ||

45.1४५.१

उपस्पृश्य च संकल्प्य नित्यतर्पणमाचरेत् । (४५।१)

upaspṛśya ca saṃkalpya nityatarpaṇamācaret |

45.2४५.२

आदौ शिवत्रयं विघ्ननाथं क्षेत्राधिपं हरिम् ॥ (४५।२)

ādau śivatrayaṃ vighnanāthaṃ kṣetrādhipaṃ harim ||

46.1४६.१

ब्रह्माणं भास्करादींश्च ग्रहान् दुर्गां च मातृकाः । (४६।१)

brahmāṇaṃ bhāskarādīṃśca grahān durgāṃ ca mātṛkāḥ |

46.2४६.२

भैरवानसिताङ्गादीन् ततः सिद्धत्रयं वदेत् ॥ (४६।२)

bhairavānasitāṅgādīn tataḥ siddhatrayaṃ vadet ||

47.1४७.१

आदिनाथं मीननाथं गोरक्षं कोङ्कणेश्वरम् । (४७।१)

ādināthaṃ mīnanāthaṃ gorakṣaṃ koṅkaṇeśvaram |

47.2४७.२

जालन्ध्रेशं कन्धनीशम् ओड्डीशं चिञ्चिणीश्वरम् ॥ (४७।२)

jālandhreśaṃ kandhanīśam oḍḍīśaṃ ciñciṇīśvaram ||

48.1४८.१

चौरङ्गिम् एतान् नाथाख्यान्नव संतर्पयेत्ततः । (४८।१)

cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ |

48.2४८.२

चौरङ्गिं चर्पटिं घोडाचूलिं रामद्वयं ततः ॥ (४८।२)

cauraṅgiṃ carpaṭiṃ ghoḍācūliṃ rāmadvayaṃ tataḥ ||

49.1४९.१

भोलगोविन्दसिद्धं च व्याडिं नागार्जुनं तथा । (४९।१)

bholagovindasiddhaṃ ca vyāḍiṃ nāgārjunaṃ tathā |

49.2४९.२

कोरण्डं शूर्पकर्णं च मुक्तायीं रेवणं तथा ॥ (४९।२)

koraṇḍaṃ śūrpakarṇaṃ ca muktāyīṃ revaṇaṃ tathā ||

50.1५०.१

सिद्धं कुक्कुरपादं च शूर्पपादं कणैरिकम् । (५०।१)

siddhaṃ kukkurapādaṃ ca śūrpapādaṃ kaṇairikam |

50.2५०.२

सिद्धं किङ्किणिकाख्यं च सिद्धान् षोडश तर्पयेत् ॥ (५०।२)

siddhaṃ kiṅkiṇikākhyaṃ ca siddhān ṣoḍaśa tarpayet ||

51.1५१.१

ततो गुरुत्रयं तर्प्य मातरं पितरं गुरुम् । (५१।१)

tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum |

51.2५१.२

आचार्यं भ्रातरं मित्रं तर्प्य चान्यान्कुलोद्भवान् ॥ (५१।२)

ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān ||

52.1५२.१

तर्पयेद्विधिनाचम्य देवताराधनं ततः । (५२।१)

tarpayedvidhinācamya devatārādhanaṃ tataḥ |

52.2५२.२

नद्यास्तीरे तटाके वा गोष्ठे देवालये तथा ॥ (५२।२)

nadyāstīre taṭāke vā goṣṭhe devālaye tathā ||

53.1५३.१

शुचिस्थले वा संस्तीर्य सैकतं वर्तुलाकृतिम् । (५३।१)

śucisthale vā saṃstīrya saikataṃ vartulākṛtim |

53.2५३.२

आवाहयेद्दिनाधीशं पाटलं शिवरूपिणम् ॥ (५३।२)

āvāhayeddinādhīśaṃ pāṭalaṃ śivarūpiṇam ||

54.1५४.१

द्विनेत्रपद्मयुगलधारिणं द्विभुजं परम् । (५४।१)

dvinetrapadmayugaladhāriṇaṃ dvibhujaṃ param |

54.2५४.२

रक्तस्रगम्बरालेपभूषापद्मासनोज्ज्वलम् ॥ (५४।२)

raktasragambarālepabhūṣāpadmāsanojjvalam ||

55.1५५.१

ध्यात्वार्चयेद्रक्तपुष्पैस्ततो विघ्नेशभैरवौ । (५५।१)

dhyātvārcayedraktapuṣpaistato vighneśabhairavau |

55.2५५.२

ध्यात्वा पूर्वोक्तवत्तौ द्वौ रक्तपुष्पैः समर्चयेत् ॥ (५५।२)

dhyātvā pūrvoktavattau dvau raktapuṣpaiḥ samarcayet ||

56.1५६.१

अष्टाङ्गदण्डप्रणतिं कुर्यात् द्वादशवारकम् । (५६।१)

aṣṭāṅgadaṇḍapraṇatiṃ kuryāt dvādaśavārakam |

56.2५६.२

पुनः संस्थापयेत्स्वान्ते सेवायै स्वगुरोर्व्रजेत् ॥ (५६।२)

punaḥ saṃsthāpayetsvānte sevāyai svagurorvrajet ||

57.1५७.१

इत्युक्ता समया दीक्षा साधका कथ्यतेऽधुना । (५७।१)

ityuktā samayā dīkṣā sādhakā kathyate'dhunā |

57.2५७.२

साधकदीक्षासमयाचारनिरतं सच्छिष्यं पक्वमानसम् ॥ (५७।२)

sādhakadīkṣāsamayācāranirataṃ sacchiṣyaṃ pakvamānasam ||

58.1५८.१

दीक्षयेत्सुदिने लग्ने दीक्षया साधकाख्यया । (५८।१)

dīkṣayetsudine lagne dīkṣayā sādhakākhyayā |

58.2५८.२

कुर्यान्नैमित्तिकीं पूजां शिष्यमावाहयेद्गुरुः ॥ (५८।२)

kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ ||

59.1५९.१

स्वयं शिवतनुः शिष्यं गौरीगर्भगतं स्मरेत् । (५९।१)

svayaṃ śivatanuḥ śiṣyaṃ gaurīgarbhagataṃ smaret |

59.2५९.२

भूमौ विभूतिं संस्तीर्य तस्मिन्कोणत्रयं लिखेत् ॥ (५९।२)

bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet ||

60.1६०.१

तत्रोपवेश्य शिष्यं च बन्धयित्वा विलोचने । (६०।१)

tatropaveśya śiṣyaṃ ca bandhayitvā vilocane |

60.2६०.२

गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥ (६०।२)

garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ ||

61.1६१.१

जातकर्म च दीक्षाङ्गं नामधेयं च कल्पयेत् । (६१।१)

jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet |

61.2६१.२

व्रतकर्मणि सम्प्रोक्ष्य मूलमन्त्रेण भस्मना ॥ (६१।२)

vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā ||

62.1६२.१

गौरीपुत्रं भावयित्वा तस्य दीक्षां प्रकल्पयेत् । (६२।१)

gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet |

62.2६२.२

शिवदृष्ट्या विलोक्यामुं शिवभस्म च मूर्धनि ॥ (६२।२)

śivadṛṣṭyā vilokyāmuṃ śivabhasma ca mūrdhani ||

63.1६३.१

निधाय मूलमन्त्रं च पूजयेद्दशवारकम् । (६३।१)

nidhāya mūlamantraṃ ca pūjayeddaśavārakam |

63.2६३.२

तस्य दक्षिणकर्णे च उपदिश्याद् दशाक्षरम् ॥ (६३।२)

tasya dakṣiṇakarṇe ca upadiśyād daśākṣaram ||

64.1६४.१

रसगायत्रीरसेन्द्रभैरवं मन्त्रं गायत्रीं रससंज्ञिकाम् । (६४।१)

rasagāyatrīrasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām |

64.2६४.२

स बिन्दुहुतभुग्बीजं रसेन्द्रस्य पदं ततः ॥ (६४।२)

sa binduhutabhugbījaṃ rasendrasya padaṃ tataḥ ||

65.1६५.१

भैरवं च चतुर्थ्यन्तं कर्मास्त्रं च दशांशकम् । (६५।१)

bhairavaṃ ca caturthyantaṃ karmāstraṃ ca daśāṃśakam |

65.2६५.२

वह्निबीजं दीर्घयुक्तं करन्यासं समाचरेत् ॥ (६५।२)

vahnibījaṃ dīrghayuktaṃ karanyāsaṃ samācaret ||

66.1६६.१

अघोराख्य ऋषिश्छन्दो विराड्देवो महेश्वरः । (६६।१)

aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ |

66.2६६.२

पूर्वसेवाजपं लक्षं दशांशं होमतर्पणम् ॥ (६६।२)

pūrvasevājapaṃ lakṣaṃ daśāṃśaṃ homatarpaṇam ||

67.1६७.१

तिलाज्यव्रीहिभिः कुर्याद्धोमं निश्चलमानसः । (६७।१)

tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ |

67.2६७.२

पूर्वोक्तां रसगायत्रीं जपेल्लक्षं च तर्पणम् ॥ (६७।२)

pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam ||

68.1६८.१

हुनेद्दशांशमाज्येन सतिलव्रीहिभिः प्रिये । (६८।१)

huneddaśāṃśamājyena satilavrīhibhiḥ priye |

68.2६८.२

दद्याच्छिष्यायाक्षमालां रसलिङ्गं रसागमम् ॥ (६८।२)

dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam ||

69.1६९.१

पूर्वोक्ताचारवान् भूत्वा रसलिङ्गं समर्चयेत् । (६९।१)

pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet |

69.2६९.२

स्वशास्त्रार्थावगमनं कुर्यात्सूतेन्द्रसंस्कृतिम् ॥ (६९।२)

svaśāstrārthāvagamanaṃ kuryātsūtendrasaṃskṛtim ||

70.1७०.१

गुरुसेवारतं नित्यं शिष्यमाज्ञापयेदिति । (७०।१)

gurusevārataṃ nityaṃ śiṣyamājñāpayediti |

70.2७०.२

शिष्यो बद्धाञ्जलिर् नम्रस्तवाज्ञाम् आचराम्यहम् ॥ (७०।२)

śiṣyo baddhāñjalir namrastavājñām ācarāmyaham ||

71.1७१.१

इत्युक्ता साधका दीक्षा निर्वाणाख्या प्रशस्यते । (७१।१)

ityuktā sādhakā dīkṣā nirvāṇākhyā praśasyate |

71.2७१.२

निर्वाणदीक्षाकृतनित्यक्रियः पूर्वं कृतनैमित्तिकार्चनः ॥ (७१।२)

nirvāṇadīkṣākṛtanityakriyaḥ pūrvaṃ kṛtanaimittikārcanaḥ ||

72.1७२.१

पूर्ववच्छिवकुम्भादि वर्धनीं स्थापयेत्क्रमात् । (७२।१)

pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt |

72.2७२.२

स्ववामे भस्म संस्तीर्य षट्कोणं भूगृहं लिखेत् ॥ (७२।२)

svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet ||

73.1७३.१

शिष्यं संवेश्य कुम्भस्थजलैः संप्रोक्षयेद्गुरुः । (७३।१)

śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ |

73.2७३.२

मूलाभिमन्त्रितं भस्म तस्य मूर्ध्नि निक्षिपेत् ॥ (७३।२)

mūlābhimantritaṃ bhasma tasya mūrdhni nikṣipet ||

74.1७४.१

गन्धपुष्पाक्षतं दद्यात् बध्नीयाद्दक्षिणे करे । (७४।१)

gandhapuṣpākṣataṃ dadyāt badhnīyāddakṣiṇe kare |

74.2७४.२

कङ्कणं चरणाङ्गुष्ठब्रह्मरन्ध्रान्तमानकम् ॥ (७४।२)

kaṅkaṇaṃ caraṇāṅguṣṭhabrahmarandhrāntamānakam ||

75.1७५.१

सूत्रं तन्मूलमन्त्रेण मन्त्रितं सुरभीकृतम् । (७५।१)

sūtraṃ tanmūlamantreṇa mantritaṃ surabhīkṛtam |

75.2७५.२

शिवहस्तं च तन्मूर्ध्नि निधाय गुरुसत्तमः ॥ (७५।२)

śivahastaṃ ca tanmūrdhni nidhāya gurusattamaḥ ||

76.1७६.१

रसांकुशां द्वादशार्णाम् उपदिश्यान् मनुं परम् । (७६।१)

rasāṃkuśāṃ dvādaśārṇām upadiśyān manuṃ param |

76.2७६.२

रसभैरवदैवत्यं दद्याच्छिष्याय देशिकः ॥ (७६।२)

rasabhairavadaivatyaṃ dadyācchiṣyāya deśikaḥ ||

77.1७७.१

ऋषिश्छन्दो देवता च न्यासं पूर्वोक्तवत्प्रिये । (७७।१)

ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye |

77.2७७.२

तर्पणं चाथ होमं च ध्यानं कुर्याच्च पूर्ववत् ॥ (७७।२)

tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat ||

78.1७८.१

उत्थाय च गुरुं नत्वा बहुशः स्तोत्रमुच्चरेत् । (७८।१)

utthāya ca guruṃ natvā bahuśaḥ stotramuccaret |

78.2७८.२

गुरुः शिष्याय वै दद्याद्व्याघ्रचर्मासनं च यत्र ॥ (७८।२)

guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra ||

79.1७९.१

भस्त्रिकां वस्त्रसम्पूर्णां दद्याद्भैषज्यभस्त्रिकाम् । (७९।१)

bhastrikāṃ vastrasampūrṇāṃ dadyādbhaiṣajyabhastrikām |

79.2७९.२

रसागमं पाठयित्वा भव शिष्य चिकित्सकः ॥ (७९।२)

rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ ||

80.1८०.१

रुद्ररूपी भवान् जातः सर्वभूतहितो भव । (८०।१)

rudrarūpī bhavān jātaḥ sarvabhūtahito bhava |

80.2८०.२

इत्यादिशेद्गुरुः शिष्यं शिष्यो हृष्टमनास्ततः ॥ (८०।२)

ityādiśedguruḥ śiṣyaṃ śiṣyo hṛṣṭamanāstataḥ ||

81.1८१.१

कृतकृत्योऽस्मि पूतोऽस्मि तीर्णसंसारसागरः । (८१।१)

kṛtakṛtyo'smi pūto'smi tīrṇasaṃsārasāgaraḥ |

81.2८१.२

इति विज्ञापयेच्छिष्यः स्तुत्वा च बहुधा गुरुम् ॥ (८१।२)

iti vijñāpayecchiṣyaḥ stutvā ca bahudhā gurum ||

82.1८२.१

प्रोक्ता निर्वाणदीक्षेयम् अथाचार्याभिषेचनम् । (८२।१)

proktā nirvāṇadīkṣeyam athācāryābhiṣecanam |

82.2८२.२

आचार्यदीक्षानिर्वाणदीक्षितस्यास्य शिष्यस्यापि महात्मनः ॥ (८२।२)

ācāryadīkṣānirvāṇadīkṣitasyāsya śiṣyasyāpi mahātmanaḥ ||

83.1८३.१

आचार्यदीक्षां कुर्वीत यथावद्गुरुसत्तमः । (८३।१)

ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ |

83.2८३.२

यथा निर्वाणदीक्षायास्तथा सर्वं प्रकल्पयेत् ॥ (८३।२)

yathā nirvāṇadīkṣāyāstathā sarvaṃ prakalpayet ||

84.1८४.१

विशेषाच्छिववर्धन्योः पुरतः स्थापयेद्घटम् । (८४।१)

viśeṣācchivavardhanyoḥ purataḥ sthāpayedghaṭam |

84.2८४.२

रूप्यगन्धादिलोहाशादिव्यौषधगणान्वितम् ॥ (८४।२)

rūpyagandhādilohāśādivyauṣadhagaṇānvitam ||

85.1८५.१

शिवकुम्भवदन्यच्च सर्वमस्मिन् विनिक्षिपेत् । (८५।१)

śivakumbhavadanyacca sarvamasmin vinikṣipet |

85.2८५.२

गुरुकुम्भं जपेत्स्पृष्ट्वा मूलमष्टोत्तरं शतम् ॥ (८५।२)

gurukumbhaṃ japetspṛṣṭvā mūlamaṣṭottaraṃ śatam ||

86.1८६.१

गुरुकुम्भमिमं विद्धि गुरुमन्त्रेण पूजयेत् । (८६।१)

gurukumbhamimaṃ viddhi gurumantreṇa pūjayet |

86.2८६.२

आवाहनासनार्घ्याद्यैर् उपचारैश्च षोडशैः ॥ (८६।२)

āvāhanāsanārghyādyair upacāraiśca ṣoḍaśaiḥ ||

87.1८७.१

शिवादिपङ्क्तिं तत्रैव पूजयेद्गुरुणा सह । (८७।१)

śivādipaṅktiṃ tatraiva pūjayedguruṇā saha |

87.2८७.२

यथापूर्वं समासीनं शिष्यं चैकाग्रमानसम् ॥ (८७।२)

yathāpūrvaṃ samāsīnaṃ śiṣyaṃ caikāgramānasam ||

88.1८८.१

पूर्ववच्छिववर्धन्योरम्बुना परिषेचयेत् । (८८।१)

pūrvavacchivavardhanyorambunā pariṣecayet |

88.2८८.२

पूर्ववच्छिवहस्तं च मूलमन्त्रोपदेशकम् ॥ (८८।२)

pūrvavacchivahastaṃ ca mūlamantropadeśakam ||

89.1८९.१

कृत्वा तदुत्तमाङ्गे च गुरुपङ्क्तिं गुरुं तथा । (८९।१)

kṛtvā taduttamāṅge ca gurupaṅktiṃ guruṃ tathā |

89.2८९.२

आवाहनाद्यैः सम्पूज्य गन्धस्रग्दीपकैः ॥ (८९।२)

āvāhanādyaiḥ sampūjya gandhasragdīpakaiḥ ||

90.1९०.१

फलगन्धोत्तमोपेतैर्नैवेद्यैः पूजयेत्क्रमात् । (९०।१)

phalagandhottamopetairnaivedyaiḥ pūjayetkramāt |

90.2९०.२

गुरुः कुम्भजलैः कुर्यात्प्रोक्षणं पञ्चपल्लवैः ॥ (९०।२)

guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ ||

91.1९१.१

मूलमन्त्रेण शतधा शिवपङ्क्त्या त्रिसप्तधा । (९१।१)

mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā |

91.2९१.२

तथैव सिद्धपङ्क्त्या च गुरुपङ्क्त्या तथैव च ॥ (९१।२)

tathaiva siddhapaṅktyā ca gurupaṅktyā tathaiva ca ||

92.1९२.१

शिष्याय गुरुभक्ताय शक्तियुक्ताय धीमते । (९२।१)

śiṣyāya gurubhaktāya śaktiyuktāya dhīmate |

92.2९२.२

हारकेयूरकटकमुद्रिकामकुटानि च ॥ (९२।२)

hārakeyūrakaṭakamudrikāmakuṭāni ca ||

93.1९३.१

वाहनासनसच्छत्रचामरव्यजनानि च । (९३।१)

vāhanāsanasacchatracāmaravyajanāni ca |

93.2९३.२

मणिकुण्डलयुग्मं च भूत्याढ्यं पात्रमक्षयम् ॥ (९३।२)

maṇikuṇḍalayugmaṃ ca bhūtyāḍhyaṃ pātramakṣayam ||

94.1९४.१

सशिरस्त्राणमुष्णीषं पट्टकूर्पासमुत्तमम् । (९४।१)

saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam |

94.2९४.२

योगपट्टं योगदण्डं तथैवोड्याणबन्धनम् ॥ (९४।२)

yogapaṭṭaṃ yogadaṇḍaṃ tathaivoḍyāṇabandhanam ||

95.1९५.१

दद्यात्तस्मै तथैवाज्ञां त्वमाचार्योऽसि संप्रति । (९५।१)

dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati |

95.2९५.२

ईश्वरोऽस्यद्य धन्योऽसि सर्वेषां देशिको भव ॥ (९५।२)

īśvaro'syadya dhanyo'si sarveṣāṃ deśiko bhava ||

96.1९६.१

रसागमानां दिव्यानां व्याख्याता भव तत्त्ववित् । (९६।१)

rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit |

96.2९६.२

इत्यादिशेद्गुरुः शिष्यं प्रणतं गुरुवत्सलम् ॥ (९६।२)

ityādiśedguruḥ śiṣyaṃ praṇataṃ guruvatsalam ||

97.1९७.१

इति चाचार्यदीक्षेयं सिद्धदीक्षाद्य कथ्यते । (९७।१)

iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate |

97.2९७.२

सिद्धदीक्षानवं सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥ (९७।२)

siddhadīkṣānavaṃ saptarātraṃ vā pañcarātraṃ trirātrakam ||

98.1९८.१

वीराः शक्तियुताः पूज्याः एकविंशति चान्वहम् । (९८।१)

vīrāḥ śaktiyutāḥ pūjyāḥ ekaviṃśati cānvaham |

98.2९८.२

तत्संख्या योगिनः पूज्याः कुमाराः कन्यकाः स्त्रियः ॥ (९८।२)

tatsaṃkhyā yoginaḥ pūjyāḥ kumārāḥ kanyakāḥ striyaḥ ||

99.1९९.१

गन्धपुष्पाक्षतैः पुष्पैः फलगन्धोत्तमार्पणैः । (९९।१)

gandhapuṣpākṣataiḥ puṣpaiḥ phalagandhottamārpaṇaiḥ |

99.2९९.२

तोषयित्वा प्रदद्याच्च वस्त्राभरणदक्षिणाः ॥ (९९।२)

toṣayitvā pradadyācca vastrābharaṇadakṣiṇāḥ ||

100.1१००.१

अथासनसमासीनं शिष्यं भक्तियुतं शुचिम् । (१००।१)

athāsanasamāsīnaṃ śiṣyaṃ bhaktiyutaṃ śucim |

100.2१००.२

स्पृष्ट्वा कराभ्यां तच्छीर्षं दक्षिणे श्रवणे मनुम् ॥ (१००।२)

spṛṣṭvā karābhyāṃ tacchīrṣaṃ dakṣiṇe śravaṇe manum ||

101.1१०१.१

वह्निं सबीजं शीतांशुं सविसर्गं च दीक्षयेत् । (१०१।१)

vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet |

101.2१०१.२

मूलाधारात्समुद्भूतं रेफं वह्निशिखोपमम् ॥ (१०१।२)

mūlādhārātsamudbhūtaṃ rephaṃ vahniśikhopamam ||

102.1१०२.१

षडाधाराम्बुजं तीर्त्वा ब्रह्मरन्ध्रान्तगं स्मरेत् । (१०२।१)

ṣaḍādhārāmbujaṃ tīrtvā brahmarandhrāntagaṃ smaret |

102.2१०२.२

ब्रह्मरन्ध्राद्द्रवीभूतं सकारं सोमरूपिणम् ॥ (१०२।२)

brahmarandhrāddravībhūtaṃ sakāraṃ somarūpiṇam ||

103.1१०३.१

आप्लावयन्तं सर्वाङ्गं सिद्धः संचिन्तयेन्मनुम् । (१०३।१)

āplāvayantaṃ sarvāṅgaṃ siddhaḥ saṃcintayenmanum |

103.2१०३.२

उच्छ्वासनिश्वासभवं संहारस्थितिकारणम् ॥ (१०३।२)

ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam ||

104.1१०४.१

ज्ञात्वेत्थं मनसा नित्यं सर्वमन्त्रात्मकं सदा । (१०४।१)

jñātvetthaṃ manasā nityaṃ sarvamantrātmakaṃ sadā |

104.2१०४.२

सर्वदेवमयं पुण्यं सर्वसिद्धिप्रदायकम् ॥ (१०४।२)

sarvadevamayaṃ puṇyaṃ sarvasiddhipradāyakam ||

105.1१०५.१

जीवतो मुक्तिदं शुद्धं शिवशक्त्यात्मकं परम् । (१०५।१)

jīvato muktidaṃ śuddhaṃ śivaśaktyātmakaṃ param |

105.2१०५.२

रसमन्त्रमिमं विद्धि चाग्नीषोमात्मकं भज ॥ (१०५।२)

rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja ||

106.1१०६.१

एकविंशतिसाहस्रषट्शताधिकसंख्यकम् । (१०६।१)

ekaviṃśatisāhasraṣaṭśatādhikasaṃkhyakam |

106.2१०६.२

प्रवर्तितं दिवारात्रं मनस्तत्र निधेहि च ॥ (१०६।२)

pravartitaṃ divārātraṃ manastatra nidhehi ca ||

107.1१०७.१

मन्त्रस्यास्य ऋषिर्जीवश् छन्देत्युक्ताः प्रकीर्तिताः । (१०७।१)

mantrasyāsya ṛṣirjīvaś chandetyuktāḥ prakīrtitāḥ |

107.2१०७.२

रसो देवस्तु रं बीजं सं शक्तिस्तु प्रकीर्तितः ॥ (१०७।२)

raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ ||

108.1१०८.१

रेफदीर्घयुतं कुर्यात्कराङ्गन्यासमाचरेत् । (१०८।१)

rephadīrghayutaṃ kuryātkarāṅganyāsamācaret |

108.2१०८.२

ध्यायेद्धृदम्बुजे देवि कोटिसूर्येन्दुसन्निभम् ॥ (१०८।२)

dhyāyeddhṛdambuje devi koṭisūryendusannibham ||

109.1१०९.१

शुद्धस्फटिकसंकाशं रसं संसारपारदम् । (१०९।१)

śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam |

109.2१०९.२

एवं निष्कलरूपं तं ध्यात्वा तन्मयतां व्रजेत् ॥ (१०९।२)

evaṃ niṣkalarūpaṃ taṃ dhyātvā tanmayatāṃ vrajet ||

110.1११०.१

निष्कलरसस्तोत्रम्त्वं रसस्त्वं शिवस्त्वं हि शक्तिस्त्वं भैरवेश्वरः । (११०।१)

niṣkalarasastotramtvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ |

110.2११०.२

त्वं ब्रह्मा त्वं हि रुद्रश्च सूर्यस्त्वं शीतदीधितिः ॥ (११०।२)

tvaṃ brahmā tvaṃ hi rudraśca sūryastvaṃ śītadīdhitiḥ ||

111.1१११.१

त्वं भूस्त्वं सलिलस्त्वं च वह्निस्त्वं च सदागतिः । (१११।१)

tvaṃ bhūstvaṃ salilastvaṃ ca vahnistvaṃ ca sadāgatiḥ |

111.2१११.२

त्वं व्योम त्वं पराकाशः त्वं जीवस्त्वं परा गतिः ॥ (१११।२)

tvaṃ vyoma tvaṃ parākāśaḥ tvaṃ jīvastvaṃ parā gatiḥ ||

112.1११२.१

त्वं सिद्धस्त्वं प्रबुद्धस्त्वं सुगन्धस्त्वं च मन्मथः । (११२।१)

tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ |

112.2११२.२

त्वं लोकपालस्त्वं तारा मातृकास्त्वं गजाननः ॥ (११२।२)

tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ ||

113.1११३.१

त्वं स्कन्दस्त्वं गुरुस्त्वं च त्वं सर्वजनकः शुचिः । (११३।१)

tvaṃ skandastvaṃ gurustvaṃ ca tvaṃ sarvajanakaḥ śuciḥ |

113.2११३.२

त्वं यज्वा त्वं हरिस्त्वं च त्रेताग्निस्त्वं च ऋत्विजः ॥ (११३।२)

tvaṃ yajvā tvaṃ haristvaṃ ca tretāgnistvaṃ ca ṛtvijaḥ ||

114.1११४.१

येन त्वमर्च्यसे तेन पूजिताः सर्वदेवताः । (११४।१)

yena tvamarcyase tena pūjitāḥ sarvadevatāḥ |

114.2११४.२

त्वयि तुष्टे च संतुष्टा ब्रह्मविष्णुमहेश्वराः ॥ (११४।२)

tvayi tuṣṭe ca saṃtuṣṭā brahmaviṣṇumaheśvarāḥ ||

115.1११५.१

त्वत्पादोदकपानेन सर्वतीर्थफलं लभेत् । (११५।१)

tvatpādodakapānena sarvatīrthaphalaṃ labhet |

115.2११५.२

यस्त्वां पश्यति सद्भक्त्या तम् आलोकयते शिवः ॥ (११५।२)

yastvāṃ paśyati sadbhaktyā tam ālokayate śivaḥ ||

116.1११६.१

यस्त्वां संकीर्तयेत्तस्य सर्वमन्त्रफलं भवेत् । (११६।१)

yastvāṃ saṃkīrtayettasya sarvamantraphalaṃ bhavet |

116.2११६.२

यत्र त्वं क्षणमात्रे च पुण्यक्षेत्रं तदुच्यते ॥ (११६।२)

yatra tvaṃ kṣaṇamātre ca puṇyakṣetraṃ taducyate ||

117.1११७.१

त्वं यं पश्यति सिद्धेन्द्र स ब्रह्मा विष्णुरीश्वरः । (११७।१)

tvaṃ yaṃ paśyati siddhendra sa brahmā viṣṇurīśvaraḥ |

117.2११७.२

यत्र भुङ्क्षे ऽन्नकवलं तत्र त्रैलोक्यमति हि ॥ (११७।२)

yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi ||

118.1११८.१

येन त्वं ध्रियसे नाथ त्वयायं स्त्रियतेक्षणम् । (११८।१)

yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam |

118.2११८.२

स एव चित्सदानन्दः परमात्मा ध्रुवं भवेत् ॥ (११८।२)

sa eva citsadānandaḥ paramātmā dhruvaṃ bhavet ||

119.1११९.१

एवं निश्चितचित्तस्य सिद्धस्य तव योगिनः । (११९।१)

evaṃ niścitacittasya siddhasya tava yoginaḥ |

119.2११९.२

वर्णाश्रमसदाचाराः कृत्याकृत्यविवेकतः ॥ (११९।२)

varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ ||

120.1१२०.१

पापं पुण्यं सुखं दुःखं शीतमुष्णं प्रियाप्रिये । (१२०।१)

pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye |

120.2१२०.२

स्नानास्नानं हानिवृद्धी शुद्धाशुद्धं भयाभयम् ॥ (१२०।२)

snānāsnānaṃ hānivṛddhī śuddhāśuddhaṃ bhayābhayam ||

121.1१२१.१

ग्राह्याग्राह्यं क्षुधा तृष्णा न किंचिद् इह विद्यते । (१२१।१)

grāhyāgrāhyaṃ kṣudhā tṛṣṇā na kiṃcid iha vidyate |

121.2१२१.२

स्वेच्छाहारविहारश्च सुखी संहृष्टमानसः ॥ (१२१।२)

svecchāhāravihāraśca sukhī saṃhṛṣṭamānasaḥ ||

122.1१२२.१

निर्ममः सर्वकार्येषु कलत्रादिषु बन्धुषु । (१२२।१)

nirmamaḥ sarvakāryeṣu kalatrādiṣu bandhuṣu |

122.2१२२.२

एवमाचार्यवचनमङ्गीकृत्य च दीक्षितः ॥ (१२२।२)

evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ ||

123.1१२३.१

अद्य प्रभृति वन्द्यस्त्वं मा कुरु प्रणतिं क्वचित् । (१२३।१)

adya prabhṛti vandyastvaṃ mā kuru praṇatiṃ kvacit |

123.2१२३.२

मत्समानोऽसि सिद्धोऽसि जीवन्मुक्तोऽसि संप्रति ॥ (१२३।२)

matsamāno'si siddho'si jīvanmukto'si saṃprati ||

124.1१२४.१

इत्युक्त्वाचार्यवर्योऽपि सिद्धमालिङ्ग्य च क्षणम् । (१२४।१)

ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam |

124.2१२४.२

सिद्धदीक्षेयमाख्याता शिवसायुज्यदायिनी ॥ (१२४।२)

siddhadīkṣeyamākhyātā śivasāyujyadāyinī ||

125.1१२५.१

दुर्लभा सर्वतन्त्रेषु तव प्रीत्या प्रकाशिता । (१२५।१)

durlabhā sarvatantreṣu tava prītyā prakāśitā |

125.2१२५.२

देवीत्थमेव मन्तव्यं दुर्लभं समयेषु च ॥ (१२५।२)

devītthameva mantavyaṃ durlabhaṃ samayeṣu ca ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 1, 3

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit