आनन्दकन्दĀnandakanda

ĀK, 2, 6

31 of 35 · 76 verses

Select a line for its word-by-word analysis.

1.1१.१

श्रीभैरवः । (१।१)

śrībhairavaḥ |

1.2१.२

तिन्:: सुब्त्य्पेस्खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते । (१।२)

tin:: subtypeskhurakaṃ miśrakaṃ ceti dvividhaṃ vaṅgamucyate |

1.3१.३

खुरं तत्र गुणैः श्रेष्ठं गुणहीनं तु मिश्रकम् ॥ (१।३)

khuraṃ tatra guṇaiḥ śreṣṭhaṃ guṇahīnaṃ tu miśrakam ||

2.1२.१

खुर:: फ्य्स्। प्रोपेर्तिएस्धवलं मृदुलं स्निग्धं द्रुतद्रावं सगौरवम् । (२।१)

khura:: phys. propertiesdhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam |

2.2२.२

मिश्रक:: फ्य्स्। प्रोपेर्तिएस्निःशब्दं खुरवङ्गं स्यान्मिश्रकं श्यामशुभ्रकम् ॥ (२।२)

miśraka:: phys. propertiesniḥśabdaṃ khuravaṅgaṃ syānmiśrakaṃ śyāmaśubhrakam ||

3.1३.१

तिन्:: स्य्नोन्य्म्स्त्रपु त्रपुसमारूपं वङ्गं च कुटिलं हिमम् । (३।१)

tin:: synonymstrapu trapusamārūpaṃ vaṅgaṃ ca kuṭilaṃ himam |

3.2३.२

कुरूप्यं विच्चटं रङ्गं पूतिगन्धं रसाह्वयम् ॥ (३।२)

kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam ||

4.1४.१

तिन्:: परीक्षा:: गोओद् क़ुअलित्य्स्वच्छम् उष्णासहं शीतं सूक्ष्मपत्रकरं लघु । (४।१)

tin:: parīkṣā:: good qualitysvaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu |

4.2४.२

रुङ्नाशे रूप्यकरणे तद्वङ्गं श्रेष्ठमुच्यते ॥ (४।२)

ruṅnāśe rūpyakaraṇe tadvaṅgaṃ śreṣṭhamucyate ||

5.1५.१

वङ्गशुद्धि (१)द्रावयित्वा निशायुक्ते क्षिप्तं निर्गुण्डिकारसैः । (५।१)

vaṅgaśuddhi (1)drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ |

5.2५.२

विशुध्यति त्रिवारेण खुरवङ्गं न संशयः ॥ (५।२)

viśudhyati trivāreṇa khuravaṅgaṃ na saṃśayaḥ ||

6.1६.१

अम्लतक्रविनिपिष्टवर्षाभूवृषसिन्धुभिः । (६।१)

amlatakravinipiṣṭavarṣābhūvṛṣasindhubhiḥ |

6.2६.२

कट्वलाबुगतं वङ्गं द्वितयं परिशुध्यति ॥ (६।२)

kaṭvalābugataṃ vaṅgaṃ dvitayaṃ pariśudhyati ||

7.1७.१

सतालेनार्कदुग्धेन लिप्त्वा वङ्गदलान्यथ । (७।१)

satālenārkadugdhena liptvā vaṅgadalānyatha |

7.2७.२

बोधिचिञ्चात्वचः क्षारैर् दद्याल्लघुपुटानि च ॥ (७।२)

bodhiciñcātvacaḥ kṣārair dadyāllaghupuṭāni ca ||

8.1८.१

मर्दयित्वा चरेद्भस्म तद्रसादिषु कीर्तितम् । (८।१)

mardayitvā caredbhasma tadrasādiṣu kīrtitam |

8.2८.२

वङ्गशुद्धि (२)नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिञ्चयोः ॥ (८।२)

vaṅgaśuddhi (2)nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ ||

9.1९.१

तद्भस्म हरितालं च तुल्यमम्लेन मर्दयेत् । (९।१)

tadbhasma haritālaṃ ca tulyamamlena mardayet |

9.2९.२

पलाशोत्थद्रवैर् वाथ लोलयित्वान्ध्रयेत्पुटे ॥ (९।२)

palāśotthadravair vātha lolayitvāndhrayetpuṭe ||

10.1१०.१

उद्धृत्य दशमांशेन तालेन सह मर्दयेत् । (१०।१)

uddhṛtya daśamāṃśena tālena saha mardayet |

10.2१०.२

वङ्गशुद्धि (३)पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ॥ (१०।२)

vaṅgaśuddhi (3)pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet ||

11.1११.१

एकविंशत्पुटैर्वङ्गो मृतो भवति रोगहा । (११।१)

ekaviṃśatpuṭairvaṅgo mṛto bhavati rogahā |

11.2११.२

शिरीषरजनीचूर्णैः कुमार्या युतगोलकम् ॥ (११।२)

śirīṣarajanīcūrṇaiḥ kumāryā yutagolakam ||

12.1१२.१

सूतलिप्तं वङ्गपत्रं गोलकं सममर्दितम् । (१२।१)

sūtaliptaṃ vaṅgapatraṃ golakaṃ samamarditam |

12.2१२.२

रुद्ध्वा लघुपुटैः पक्वं मृतं स्यात्पूर्वसंख्यया ॥ (१२।२)

ruddhvā laghupuṭaiḥ pakvaṃ mṛtaṃ syātpūrvasaṃkhyayā ||

13.1१३.१

अक्षभल्लातकीतोयैः पिष्ट्वा पत्राणि लेपयेत् । (१३।१)

akṣabhallātakītoyaiḥ piṣṭvā patrāṇi lepayet |

13.2१३.२

ततस्तिलखरीमध्ये क्षिप्त्वा रुद्ध्वा पुटैः पचेत् ॥ (१३।२)

tatastilakharīmadhye kṣiptvā ruddhvā puṭaiḥ pacet ||

14.1१४.१

चत्वारिंशद्गजपुटैर् वङ्गकं भस्म जायते । (१४।१)

catvāriṃśadgajapuṭair vaṅgakaṃ bhasma jāyate |

14.2१४.२

वङ्गगुणाःवङ्गं तीक्ष्णोष्णकटुकमीषद्वातप्रकोपनम् ॥ (१४।२)

vaṅgaguṇāḥvaṅgaṃ tīkṣṇoṣṇakaṭukamīṣadvātaprakopanam ||

15.1१५.१

मेदःश्लेष्मामयघ्नं च क्रिमिघ्नं मेहनाशनम् । (१५।१)

medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam |

15.2१५.२

हिमं कषायलवणं पाण्डुदाहहरं सरम् ॥ (१५।२)

himaṃ kaṣāyalavaṇaṃ pāṇḍudāhaharaṃ saram ||

16.1१६.१

लेखनं पित्तलं किंचित् त्रपु सीसं च तद्गुणम् । (१६।१)

lekhanaṃ pittalaṃ kiṃcit trapu sīsaṃ ca tadguṇam |

16.2१६.२

सीसकसीसकं तु जडं शीतं यवनेष्टं भुजङ्गमम् ॥ (१६।२)

sīsakasīsakaṃ tu jaḍaṃ śītaṃ yavaneṣṭaṃ bhujaṅgamam ||

17.1१७.१

योगीष्टं नागम् उरगं कुवङ्गं परिपिष्टकम् । (१७।१)

yogīṣṭaṃ nāgam uragaṃ kuvaṅgaṃ paripiṣṭakam |

17.2१७.२

मृदु कृष्णायसं पक्ष्मतारशुद्धिकरं स्मृतम् ॥ (१७।२)

mṛdu kṛṣṇāyasaṃ pakṣmatāraśuddhikaraṃ smṛtam ||

18.1१८.१

सिरावृत्तं च वङ्गं स्याच्चीनपिष्टं च षोडश । (१८।१)

sirāvṛttaṃ ca vaṅgaṃ syāccīnapiṣṭaṃ ca ṣoḍaśa |

18.2१८.२

सीसं तु वङ्गसाम्यं स्याद्रसवीर्यविपाकतः ॥ (१८।२)

sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ ||

19.1१९.१

अशुद्धवङ्गनागसेवने दोषाःपाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ । (१९।१)

aśuddhavaṅganāgasevane doṣāḥpākahīnau nāgavaṅgau kuṣṭhagulmarujākarau |

19.2१९.२

मेहपाण्डुज्वरश्लेष्मवातपित्तप्रदौ स्मृतौ ॥ (१९।२)

mehapāṇḍujvaraśleṣmavātapittapradau smṛtau ||

20.1२०.१

द्रुतद्रावं महाभारं छेदे कृष्णं समुज्ज्वलम् । (२०।१)

drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam |

20.2२०.२

पूतिगन्धं बहिः कृष्णं शुद्धं सीसमतोऽन्यथा ॥ (२०।२)

pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā ||

21.1२१.१

निर्गुण्डीमूलचूर्णेन सार्कदुग्धेन लेपयेत् । (२१।१)

nirguṇḍīmūlacūrṇena sārkadugdhena lepayet |

21.2२१.२

नागपत्रं ततः शुष्कं द्रावयित्वा निषेचयेत् ॥ (२१।२)

nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet ||

22.1२२.१

लिप्त्वा द्राव्यं पुनः सेच्यं सप्तवारं विशुद्धये । (२२।१)

liptvā drāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye |

22.2२२.२

निशातुम्बुरुबीजानि कोकिलाक्षीकुबेरकम् ॥ (२२।२)

niśātumburubījāni kokilākṣīkuberakam ||

23.1२३.१

गौरीफलं मल्लिका च मोक्षो ब्रह्मा मयूरकम् । (२३।१)

gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam |

23.2२३.२

यथालाभं तु भस्मैषां वज्रीक्षीरेण भावयेत् ॥ (२३।२)

yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet ||

24.1२४.१

तन्मध्ये द्रावितं नागं शुद्धं सेच्यं तु सप्तधा । (२४।१)

tanmadhye drāvitaṃ nāgaṃ śuddhaṃ secyaṃ tu saptadhā |

24.2२४.२

महिषस्यास्थिचूर्णेन सुपाकं मूत्रसेचनात् ॥ (२४।२)

mahiṣasyāsthicūrṇena supākaṃ mūtrasecanāt ||

25.1२५.१

वङ्गं शुद्धं भवेत्तद्वन्नागो नागास्थिमूत्रतः । (२५।१)

vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ |

25.2२५.२

नागभस्म (१)अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ॥ (२५।२)

nāgabhasma (1)aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ ||

26.1२६.१

क्षिप्त्वा चुल्ल्यां पचेदग्नौ चालयेल्लोहचट्टुना । (२६।१)

kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā |

26.2२६.२

यावद्भस्म तमुद्धृत्य भस्मतुल्यां मनःशिलाम् ॥ (२६।२)

yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām ||

27.1२७.१

जम्बीरैर् आरनालैर् वा पिष्ट्वा रुद्ध्वा पुटे पचेत् । (२७।१)

jambīrair āranālair vā piṣṭvā ruddhvā puṭe pacet |

27.2२७.२

स्वाङ्गशीतं पुनः पिष्ट्वा विंशत्यंशे शिलाम्लके ॥ (२७।२)

svāṅgaśītaṃ punaḥ piṣṭvā viṃśatyaṃśe śilāmlake ||

28.1२८.१

एवं षष्टिपुटैः पक्त्वा नागः स्यात्तु निरुत्थितः । (२८।१)

evaṃ ṣaṣṭipuṭaiḥ paktvā nāgaḥ syāttu nirutthitaḥ |

28.2२८.२

नागभस्म (२)अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ॥ (२८।२)

nāgabhasma (2)athavā nāgapatrāṇi cūrṇaliptāni kharpare ||

29.1२९.१

अल्पाग्नौ पाचयेद्यामं भस्म तच्चित्रकद्रवैः । (२९।१)

alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ |

29.2२९.२

भर्जयेल्लोहपात्रे तत्पार्थदण्डेन चालयन् ॥ (२९।२)

bharjayellohapātre tatpārthadaṇḍena cālayan ||

30.1३०.१

यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः । (३०।१)

yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ |

30.2३०.२

दण्डेन मर्दयेद्गाढमुद्धृतं चित्रकदवैः ॥ (३०।२)

daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ ||

31.1३१.१

लोलयित्वा निरुध्याथ षट्पुटैर् म्रियते लघु । (३१।१)

lolayitvā nirudhyātha ṣaṭpuṭair mriyate laghu |

31.2३१.२

नागभस्म (३)चिञ्चाक्षमिक्षुभल्लातवाशावज्रलताभवैः ॥ (३१।२)

nāgabhasma (3)ciñcākṣamikṣubhallātavāśāvajralatābhavaiḥ ||

32.1३२.१

अपामार्गार्जुनाश्वत्थसमुद्भूतैश्च भस्मभिः । (३२।१)

apāmārgārjunāśvatthasamudbhūtaiśca bhasmabhiḥ |

32.2३२.२

दृढं पालाशदण्डेन लोहपात्रे तु भर्जयेत् ॥ (३२।२)

dṛḍhaṃ pālāśadaṇḍena lohapātre tu bharjayet ||

33.1३३.१

सप्तभिर्दिवसैरेव म्रियते नात्र संशय । (३३।१)

saptabhirdivasaireva mriyate nātra saṃśaya |

33.2३३.२

नागभस्म (४)पिष्ट्वागस्त्यं च भूनागं लिप्त्वा भाण्डं विशोधयेत् ॥ (३३।२)

nāgabhasma (4)piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet ||

34.1३४.१

तद्भाण्डे द्रावयेन्नागं द्रुते नागे विनिक्षिपेत् । (३४।१)

tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet |

34.2३४.२

वाशाचिञ्चटयोः क्षारं वाशाकाष्ठेन घट्टयेत् ॥ (३४।२)

vāśāciñcaṭayoḥ kṣāraṃ vāśākāṣṭhena ghaṭṭayet ||

35.1३५.१

यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत् । (३५।१)

yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet |

35.2३५.२

संचूर्ण्य च शिलाताप्ये वाशकक्षारसंयुतम् ॥ (३५।२)

saṃcūrṇya ca śilātāpye vāśakakṣārasaṃyutam ||

36.1३६.१

चतुस्तुल्यं पूर्वनागं विंशत्येकपुटैः पचेत् । (३६।१)

catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet |

36.2३६.२

द्विपुटं चिञ्चिकक्षारैर् देयं वाशारसान्वितैः ॥ (३६।२)

dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ ||

37.1३७.१

नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत् । (३७।१)

nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt |

37.2३७.२

अत्युष्णं सीसकं स्निग्धं तिक्तं वातकफापहम् ॥ (३७।२)

atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham ||

38.1३८.१

प्रमेहतोयदोषघ्नं दीपनं चामवातनुत् ॥ (३८।१)

pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 2, 6

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit