ĀK, 2, 5
Select a line for its word-by-word analysis.
लोहोत्पत्तिःकान्तायस्तीक्ष्णमुण्डाख्यलोहोत्पत्तिर् अथोच्यते । (१।२)
lohotpattiḥkāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate |
पीयमानात्सुरैस्तस्मान्निपेतुः क्षुद्रबिन्दवः ॥ (२।२)
pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ ||
ज्ञात्वा तान् भूगतान् यन्ता गोपयामास धूर्जटिः । (३।१)
jñātvā tān bhūgatān yantā gopayāmāsa dhūrjaṭiḥ |
इरोन्:: सुब्त्य्पेस्कान्तायस्तीक्ष्णमुण्डाख्यं लोहमेवमपि त्रिधा । (६।१)
iron:: subtypeskāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā |
रसायनेभ्यः सर्वेभ्यो विद्याच्छतगुणाधिकम् ॥ (६।२)
rasāyanebhyaḥ sarvebhyo vidyācchataguṇādhikam ||
कान्तलोह:: स्य्नोन्य्म्सयस्कान्तं कान्तलोहं कान्तं स्यात् कृष्णलोहकम् । (७।१)
kāntaloha:: synonymsayaskāntaṃ kāntalohaṃ kāntaṃ syāt kṛṣṇalohakam |
अशुद्धकान्तलोहसेवनजा दोषाःहृत्पीडां वह्निदौर्बल्यं महारोगान्मृतिं तथा । (८।१)
aśuddhakāntalohasevanajā doṣāḥhṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā |
कान्तग्रहणविधिःतस्मात्कान्तस्य संशुद्धिर् मारणं च विधीयते । (९।१)
kāntagrahaṇavidhiḥtasmātkāntasya saṃśuddhir māraṇaṃ ca vidhīyate |
क्षेत्रं ज्ञात्वा गृहीतव्यं तत्प्रयत्नेन भूयसा । (१०।१)
kṣetraṃ jñātvā gṛhītavyaṃ tatprayatnena bhūyasā |
भूमिस्थितं च यत्कान्तं छागरक्तेन भावयेत् । (११।१)
bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet |
छागरक्तप्रलिप्तेन चर्मणा तत्प्रवेष्टयेत् ॥ (११।२)
chāgaraktapraliptena carmaṇā tatpraveṣṭayet ||
छागचर्म परीवेष्ट्य विन्यसेत्पूर्ववत्क्षितौ । (१२।१)
chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau |
उद्धृतं सप्तभिर्मासैस्तोयकुम्भे विनिक्षिपेत् ॥ (१२।२)
uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet ||
रक्तपुष्पैः सदा पूज्यं रक्तगन्धानुलेपनैः । (१३।१)
raktapuṣpaiḥ sadā pūjyaṃ raktagandhānulepanaiḥ |
संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत् । (१४।१)
saṃskṛtaṃ chāgaraktena bhrāmakaṃ cumbakaṃ bhavet |
कान्तलोहं विना सूतो देहे न क्रामति क्वचित् । (१५।१)
kāntalohaṃ vinā sūto dehe na krāmati kvacit |
न कान्तेन विना सूतः कान्तः सूतविवर्जितः ॥ (१५।२)
na kāntena vinā sūtaḥ kāntaḥ sūtavivarjitaḥ ||
पुरा प्रोक्तं मया सर्वं कान्तसत्वं यथाविधि ॥ (१६।२)
purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi ||
अधुना सम्प्रवक्ष्यामि कान्तसंस्कारतद्गुणान् । (१७।१)
adhunā sampravakṣyāmi kāntasaṃskāratadguṇān |
कान्तलोह:: शोधन:: नैसर्गिकशशरक्तेन संलिप्तं कान्तपत्रं सुधामितम् ॥ (१७।२)
kāntaloha:: śodhana:: naisargikaśaśaraktena saṃliptaṃ kāntapatraṃ sudhāmitam ||
त्रिवारं चाग्निना देवि दोषं नैसर्गिकं त्यजेत् । (१८।१)
trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet |
कान्तलोह:: शोधन:: अद्रित्रिफलाष्टगुणे तोये त्रिफला षोडशं पलम् ॥ (१८।२)
kāntaloha:: śodhana:: adritriphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam ||
कृत्वा पत्राणि तप्तानि सप्तवारं निषेचयेत् ॥ (१९।२)
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet ||
कान्तलोह:: शोधनकान्तलोहमयं चूर्णं गोमूत्रेऽष्टगुणे पचेत् ॥ (२०।२)
kāntaloha:: śodhanakāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet ||
धान्याम्लैः क्षालितं भूयः शोषितं शुद्धिमाप्नुयात् । (२१।१)
dhānyāmlaiḥ kṣālitaṃ bhūyaḥ śoṣitaṃ śuddhimāpnuyāt |
कान्तलोह:: शोधनरत्नमाला हंसपादी गोजिह्वा त्रिफलामृता ॥ (२१।२)
kāntaloha:: śodhanaratnamālā haṃsapādī gojihvā triphalāmṛtā ||
गोपाली तुम्बुरुर्दन्ती गोमूत्रे पेषयेदिमाः । (२२।१)
gopālī tumbururdantī gomūtre peṣayedimāḥ |
तत्कल्के कान्तपत्रं तु तप्तं तप्तं द्विसप्तधा ॥ (२२।२)
tatkalke kāntapatraṃ tu taptaṃ taptaṃ dvisaptadhā ||
कान्तसिद्धिक्रमःक्रमः कान्तस्य सिद्ध्यर्थं कर्तव्यो मन्त्रपूर्वकम् ॥ (२३।२)
kāntasiddhikramaḥkramaḥ kāntasya siddhyarthaṃ kartavyo mantrapūrvakam ||
उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तो ऽमृतात्परम् । (२४।१)
udbhavodbhavaśabdaḥ syāccaturthyanto 'mṛtātparam |
स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥ (२४।२)
svāhāntaḥ praṇavaścādau mantro'yaṃ mardane sthitaḥ ||
विना स्वाहेति तस्यान्ते फडन्तं योजयेत्प्रिये ॥ (२५।२)
vinā svāheti tasyānte phaḍantaṃ yojayetpriye ||
प्रणवोर्ध्वं नमश्चण्डं वज्रपाषाण इत्यपि । (२६।१)
praṇavordhvaṃ namaścaṇḍaṃ vajrapāṣāṇa ityapi |
द्विरुक्तसरुशब्दः स्यान् महाविद्याबलाय च । (२७।१)
dviruktasaruśabdaḥ syān mahāvidyābalāya ca |
ततस्त्वाहेति मन्त्रोऽयं बलिकर्मणि पूजितः ॥ (२७।२)
tatastvāheti mantro'yaṃ balikarmaṇi pūjitaḥ ||
अनेनैव बलिं कृत्वा यथोक्तामाचरेत्क्रियाम् । (२८।१)
anenaiva baliṃ kṛtvā yathoktāmācaretkriyām |
लोहभस्मविधिः (१)स्तन्येन हिङ्गुलस्याथ पेषयेत्पलपञ्चकम् ॥ (२८।२)
lohabhasmavidhiḥ (1)stanyena hiṅgulasyātha peṣayetpalapañcakam ||
तेनैव पत्रं कान्तस्य लिम्पेत्पञ्चपलोन्मितम् । (२९।१)
tenaiva patraṃ kāntasya limpetpañcapalonmitam |
रुद्ध्वा गजपुटे पाच्यं कषायैस्त्रैफलैः पुनः ॥ (२९।२)
ruddhvā gajapuṭe pācyaṃ kaṣāyaistraiphalaiḥ punaḥ ||
जम्बीरैर् आरनलैर्वा विंशत्यंशेन हिङ्गुलम् । (३०।१)
jambīrair āranalairvā viṃśatyaṃśena hiṅgulam |
पिष्ट्वालिप्य पुटे रुद्ध्वा तल्लोहे पाचयेत्पुनः ॥ (३०।२)
piṣṭvālipya puṭe ruddhvā tallohe pācayetpunaḥ ||
रुद्धं पुटेत्पचेद्रात्रौ प्रातर् द्रावैश्च भावयेत् । (३१।१)
ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet |
एवमष्टदिनं कुर्यात्त्रिविधं म्रियते ह्ययः ॥ (३१।२)
evamaṣṭadinaṃ kuryāttrividhaṃ mriyate hyayaḥ ||
लोहभस्मविधिः (२)चिञ्चापत्रनिभं कुर्यात्कान्तं तीक्ष्णं च मुण्डकम् । (३२।१)
lohabhasmavidhiḥ (2)ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam |
मृत्पात्रस्थं क्षिपेद् घर्मे दन्तीद्रावैः प्रपूरयेत् ॥ (३२।२)
mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet ||
पत्रं पुनः पुनस्तावद्यावत्तरति तत्स्वयम् । (३३।१)
patraṃ punaḥ punastāvadyāvattarati tatsvayam |
म्रियते तीव्रघर्मेण तच्चूर्णीकृत्य योजयेत् ॥ (३३।२)
mriyate tīvragharmeṇa taccūrṇīkṛtya yojayet ||
लोहभस्मविधिः (३)कान्तायस्तीक्ष्णमुण्डानां चूर्णं मत्स्याक्षिजैर्द्रवैः । (३४।१)
lohabhasmavidhiḥ (3)kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ |
आतपे त्रिदिनं भाव्यं त्रिदिनं चित्रकद्रवैः ॥ (३४।२)
ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ ||
त्र्यहं त्रिकण्टकरसैः सहदेवीद्रवैर् दिनम् । (३५।१)
tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam |
गोमूत्रैस्त्रिफलाक्वाथैर्भावयेच्च त्र्यहं त्र्यहम् ॥ (३५।२)
gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham ||
उक्तद्रावैस्ततो मर्द्यं क्रमाद्देयं पुटं पुटम् । (३६।१)
uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam |
रुद्ध्वा गजपुटैरेवं मृतं योगेषु योजयेत् ॥ (३६।२)
ruddhvā gajapuṭairevaṃ mṛtaṃ yogeṣu yojayet ||
लोहभस्मविधिः (४)स्थाल्यां वा लोहपात्रे वा लोहदर्व्या विचालयन् । (३७।१)
lohabhasmavidhiḥ (4)sthālyāṃ vā lohapātre vā lohadarvyā vicālayan |
पाचयेत्त्रिफलाक्वाथैर् दिनं लोहचूर्णकम् ॥ (३७।२)
pācayettriphalākvāthair dinaṃ lohacūrṇakam ||
तत्पिण्डं त्रिफलातोयैः पिष्ट्वा रुद्ध्वा पुटे पचेत् । (३८।१)
tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet |
षोडशाङ्गुलगर्तान्तर् निर्वाते ऽहर्निशं पचेत् ॥ (३८।२)
ṣoḍaśāṅgulagartāntar nirvāte 'harniśaṃ pacet ||
एवं त्रिधा प्रकर्तव्यं स्थालीपाकं पुटान्तकम् । (३९।१)
evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam |
भृङ्गार्द्रकं तालमूलं हस्तिकर्ण्याश्च मूलकम् ॥ (३९।२)
bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam ||
संपेष्य पूर्ववत्स्थाल्यां पाच्यं पेष्यं त्रिधा पुटैः ॥ (४०।२)
saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ ||
पाच्यं ततः पुनर्नव्याः क्वाथैश्च दशमूलतः । (४१।१)
pācyaṃ tataḥ punarnavyāḥ kvāthaiśca daśamūlataḥ |
ब्रह्मबीजरसैः शिग्रुक्वाथैर् गोपयसापि च । (४२।१)
brahmabījarasaiḥ śigrukvāthair gopayasāpi ca |
प्रत्येकं संप्रपेष्यादौ पूर्वगर्ते पुटे पचेत् ॥ (४२।२)
pratyekaṃ saṃprapeṣyādau pūrvagarte puṭe pacet ||
भावयेत्तद्द्रवेणैव पुटान्ते याममात्रकम् । (४३।१)
bhāvayettaddraveṇaiva puṭānte yāmamātrakam |
प्रत्येकमेवं संपेष्य पुटयेद् भावयेत्क्रमात् ॥ (४३।२)
pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt ||
म्रियते नात्र सन्देहः कान्तं तीक्ष्णं च मुण्डकम् । (४४।१)
mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam |
लोहभस्मविधिः (५)शुद्धसूतं द्विधा गन्धं खल्वे कृत्वा तु कज्जलीम् ॥ (४४।२)
lohabhasmavidhiḥ (5)śuddhasūtaṃ dvidhā gandhaṃ khalve kṛtvā tu kajjalīm ||
द्वयोः समं कान्तचूर्णं मर्दयेत्कन्यकाद्रवैः । (४५।१)
dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ |
यामद्वयात्समुद्धृत्य तद्गोलं ताम्रपात्रके ॥ (४५।२)
yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake ||
आच्छाद्यैरण्डपत्रैश्च यामार्धे ऽत्युष्णतां गतम् । (४६।१)
ācchādyairaṇḍapatraiśca yāmārdhe 'tyuṣṇatāṃ gatam |
धान्यराशौ न्यसेत्पश्चात्त्रिदिनान्ते समुद्धरेत् ॥ (४६।२)
dhānyarāśau nyasetpaścāttridinānte samuddharet ||
संपेष्य गालयेद्वस्त्रे सत्यं वारितरं भवेत् । (४७।१)
saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet |
कान्तं तीक्ष्णं च मुण्डं च निरुत्थं जायते मृतम् ॥ (४७।२)
kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam ||
स्वर्णादीन्मारयेदेवं चूर्णीकुर्याच्च लोहवत् । (४८।१)
svarṇādīnmārayedevaṃ cūrṇīkuryācca lohavat |
सिद्धयोगम् अथाख्यातं सिद्धानां संमुखागतम् ॥ (४८।२)
siddhayogam athākhyātaṃ siddhānāṃ saṃmukhāgatam ||
नायः पचेत्पञ्चपलप्रमाणाद् अधो न चोर्ध्वं त्रिदशप्रमाणात् ॥ (४९।२)
nāyaḥ pacetpañcapalapramāṇād adho na cordhvaṃ tridaśapramāṇāt ||
लोहभस्मविधिः (६)अर्जुनस्य त्वचः पेष्याः काञ्जिकेनातिलोलिताः । (५०।१)
lohabhasmavidhiḥ (6)arjunasya tvacaḥ peṣyāḥ kāñjikenātilolitāḥ |
तन्मध्ये कान्तचूर्णं च कांस्यपात्रे विनिक्षिपेत् ॥ (५०।२)
tanmadhye kāntacūrṇaṃ ca kāṃsyapātre vinikṣipet ||
दिनैकं धारयेद्घर्मे द्रवैः पूर्यं पुनः पुनः । (५१।१)
dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ |
अर्जुनैः सारनालैर्वा त्रिविधं मारयेदयः ॥ (५१।२)
arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ ||
द्रवैः कुक्कुटपत्रोत्थैः कान्तचूर्णं विमर्दयेत् । (५२।१)
dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet |
दिनं च ह्यातपे तीव्रे द्रवैर्मर्द्यं त्रिकण्टजैः ॥ (५२।२)
dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ ||
वन्ध्याभृङ्गपुनर्नव्याः सगोमूत्रैर् दिनं पुनः । (५३।१)
vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ |
गोमूत्रैस् त्रिफला क्वाथ्या तत्कषायेण भावयेत् ॥ (५३।२)
gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet ||
त्रिसप्ताहं प्रयत्नेन दिनैकं मर्दयेत्ततः । (५४।१)
trisaptāhaṃ prayatnena dinaikaṃ mardayettataḥ |
रुद्ध्वा गजपुटे पच्याद्दिनं क्वाथेन मर्दयेत् ॥ (५४।२)
ruddhvā gajapuṭe pacyāddinaṃ kvāthena mardayet ||
दिवा मर्द्यं पुटेद् रात्रावेकविंशद्दिनावधि । (५५।१)
divā mardyaṃ puṭed rātrāvekaviṃśaddināvadhi |
एकविंशत्पुटैरेवं म्रियते त्रिविधं ह्ययः ॥ (५५।२)
ekaviṃśatpuṭairevaṃ mriyate trividhaṃ hyayaḥ ||
लोहभस्मविधिः (८)माक्षिकं च शिला ह्यम्लैर्हरिद्रा मरिचाङ्घ्रि च । (५६।१)
lohabhasmavidhiḥ (8)mākṣikaṃ ca śilā hyamlairharidrā maricāṅghri ca |
पिष्ट्वा लेप्यं कान्तपत्रं तप्तं तप्तं निषेचयेत् ॥ (५६।२)
piṣṭvā lepyaṃ kāntapatraṃ taptaṃ taptaṃ niṣecayet ||
सप्तधा त्रैफले क्वाथे जलेन क्षालयेत्पुनः । (५७।१)
saptadhā traiphale kvāthe jalena kṣālayetpunaḥ |
अम्लेन मर्दितं रुद्ध्वा गजाख्यैकपुटे पचेत् ॥ (५८।२)
amlena marditaṃ ruddhvā gajākhyaikapuṭe pacet ||
निरुत्थं जायते भस्म कान्तं तीक्ष्णं च मुण्डकम् । (५९।१)
nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam |
लोहभस्मविधिः (९)तिन्दूफलस्य मज्जायां खड्गं लिप्त्वातपे खरे ॥ (५९।२)
lohabhasmavidhiḥ (9)tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare ||
धारयेत्कांस्यपात्रान्तर्दिनैकेन स्फुटत्यलम् । (६०।१)
dhārayetkāṃsyapātrāntardinaikena sphuṭatyalam |
लेपं पुनः पुनः कुर्याद्दिनान्ते तं प्रपेषयेत् ॥ (६०।२)
lepaṃ punaḥ punaḥ kuryāddinānte taṃ prapeṣayet ||
त्रिफलाक्वाथसंयुक्तं दिनैकेन मृतो भवेत् । (६१।१)
triphalākvāthasaṃyuktaṃ dinaikena mṛto bhavet |
घृतं क्वाथस्य तुल्यं स्याद्घृततुल्यं मृतायसम् । (६२।१)
ghṛtaṃ kvāthasya tulyaṃ syādghṛtatulyaṃ mṛtāyasam |
पाचयेत्ताम्रपात्रे तु लोहदर्व्या विचालयन् ॥ (६२।२)
pācayettāmrapātre tu lohadarvyā vicālayan ||
मृद्वग्निना पचेद्यावत्तावज्जीर्यति तद्द्रवम् । (६३।१)
mṛdvagninā pacedyāvattāvajjīryati taddravam |
इत्थं कान्तस्य तीक्ष्णस्य मुण्डस्यापि ह्ययं विधिः ॥ (६४।२)
itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ ||
घृततुल्यं मृतं लोहं लोहपात्रगतं पचेत् । (६५।१)
ghṛtatulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet |
पात्रे यस्मिन्प्रविशति जले तैलबिन्दुर्न सर्पेत् हिङ्गुर्गन्धं विसृजति निजां तिक्ततां निम्बकल्कः । (६६।२)
pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ |
पाके दुग्धं भवति शिखराकारता नैव भूमौ कान्तं लोहं तदिदमुदितं लक्षणोक्तं न चान्यत् ॥ (६६।३)
pāke dugdhaṃ bhavati śikharākāratā naiva bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat ||
लोहपाकस्वरूपम्लोहपाकस्त्रिधा प्रोक्तो मृदुमध्यखरात्मकः । (६७।१)
lohapākasvarūpamlohapākastridhā prokto mṛdumadhyakharātmakaḥ |
पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः ॥ (६७।२)
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ ||
तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये । (६८।१)
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye |
निरुत्थभस्मपरीक्षापाकं वर्णं तथा गन्धं ज्ञात्वा लोहस्य वह्नितः ॥ (६८।२)
nirutthabhasmaparīkṣāpākaṃ varṇaṃ tathā gandhaṃ jñātvā lohasya vahnitaḥ ||
उत्तार्याथ ततः शुद्धं लोहपात्रान्तरे न्यसेत् । (६९।१)
uttāryātha tataḥ śuddhaṃ lohapātrāntare nyaset |
लोहमातङ्गपञ्चास्या गन्धमाक्षीकहिङ्गुलाः ॥ (६९।२)
lohamātaṅgapañcāsyā gandhamākṣīkahiṅgulāḥ ||
लोह:: छेच्किन्ग् थे वारितर स्ततेसर्वमेतन्मृतं लोहं ध्मातव्यं मित्रपञ्चकैः । (७०।१)
loha:: checking the vāritara statesarvametanmṛtaṃ lohaṃ dhmātavyaṃ mitrapañcakaiḥ |
यद्येवं स्यान्निरुत्थानं सेव्यं वारितरं हितम् ॥ (७०।२)
yadyevaṃ syānnirutthānaṃ sevyaṃ vāritaraṃ hitam ||
मध्वाज्येन समायुक्तं लोहं तारेण संयुतम् । (७१।१)
madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam |
अन्धमूषागतं ध्मातं गृह्णीयात् स्वाङ्गशीतलम् ॥ (७१।२)
andhamūṣāgataṃ dhmātaṃ gṛhṇīyāt svāṅgaśītalam ||
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः ॥ (७२।२)
tadā lohaṃ nirutthaṃ syādanyathā sādhayetpunaḥ ||
गन्धकं चोत्थितं लोहं तुल्यं खल्वे विमर्दयेत् । (७३।१)
gandhakaṃ cotthitaṃ lohaṃ tulyaṃ khalve vimardayet |
दिनैकं कन्यकाद्रावै रुद्ध्वा गजपुटे पचेत् ॥ (७३।२)
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet ||
इत्येवं सर्वलोहानां कर्तव्येत्थं निरुत्थितिः । (७४।१)
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ |
कान्तादिभस्मगुणाःकान्तसिन्दूरमायुष्यमारोग्यं बलवीर्यदम् ॥ (७४।२)
kāntādibhasmaguṇāḥkāntasindūramāyuṣyamārogyaṃ balavīryadam ||
देहदार्ढ्यकरं श्रेष्ठं कुर्यादिन्द्रियपाटवम् । (७५।१)
dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam |
ज्वरासृक्पित्तपाण्ड्वादीन् हन्याद् अष्टमहागदान् । (७६।१)
jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān |
यद्यद्रोगहरैर् योगैस् तत्तद्रोगहरं भवेत् ॥ (७६।२)
yadyadrogaharair yogais tattadrogaharaṃ bhavet ||
तीक्ष्णलोह:: स्य्नोन्य्म्स्तीक्ष्णं शस्त्रायसं शस्त्रं पिण्डं पिण्डायसं शठम् । (७७।१)
tīkṣṇaloha:: synonymstīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham |
आयसं निशितं तीव्रं लोहखड्गं च मुण्डजम् ॥ (७७।२)
āyasaṃ niśitaṃ tīvraṃ lohakhaḍgaṃ ca muṇḍajam ||
अयश्चित्रायसं प्रोक्तं चीनजं च त्रिपञ्चधा । (७८।१)
ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā |
मुण्डलोह:: स्य्नोन्य्म्स्मुण्डं मुण्डायसं लोहं कृष्णलौहं शिलोद्भवम् ॥ (७८।२)
muṇḍaloha:: synonymsmuṇḍaṃ muṇḍāyasaṃ lohaṃ kṛṣṇalauhaṃ śilodbhavam ||
तीक्ष्ण-, मुण्डलोह:: मारणकान्तलोहप्रकारेण मारणं तीक्ष्णमुण्डयोः । (७९।१)
tīkṣṇa-, muṇḍaloha:: māraṇakāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ |
तीक्ष्णलोह:: मेदिच्। प्रोपेर्तिएस्तीक्ष्णलोहं कषायाम्लं तिक्तकं कटुकं लघु ॥ (७९।२)
tīkṣṇaloha:: medic. propertiestīkṣṇalohaṃ kaṣāyāmlaṃ tiktakaṃ kaṭukaṃ laghu ||
शीतलं लेखनं रूक्षं कफपित्तास्रपाण्डुजित् । (८०।१)
śītalaṃ lekhanaṃ rūkṣaṃ kaphapittāsrapāṇḍujit |
प्रमेहसर्वशूलघ्नं तीक्ष्णं मुण्डाधिकं गुणैः ॥ (८०।२)
pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ ||
मुण्ड:: मेदिच्। प्रोपेर्तिएस्चक्षुष्यं मुण्डलोहं तु कषायं स्वादु तिक्तकम् । (८१।१)
muṇḍa:: medic. propertiescakṣuṣyaṃ muṇḍalohaṃ tu kaṣāyaṃ svādu tiktakam |
Data courtesy of The Digital Corpus of Sanskrit.