ĀK, 2, 7
Select a line for its word-by-word analysis.
ब्रस्स्:: स्य्नोन्य्म्स्रीतिः क्षुद्रसुवर्णं सितकनकं पिङ्गलं च पित्तलकम् । (१।२)
brass:: synonymsrītiḥ kṣudrasuvarṇaṃ sitakanakaṃ piṅgalaṃ ca pittalakam |
लोहितकमारकूटं पिङ्गललोहं च पीतकं नवधा ॥ (१।३)
lohitakamārakūṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā ||
ब्रस्स्:: सुब्त्य्पेस्रीतिका काकतुण्डीति द्विविधं पित्तलं भवेत् । (२।१)
brass:: subtypesrītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet |
ब्रस्स्:: परीक्षासंतप्ता काञ्जिके क्षिप्ता ताम्राभा रीतिका मता ॥ (२।२)
brass:: parīkṣāsaṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā ||
ब्रस्स्:: परीक्षा:: गोओद् क़ुअलित्य्गुर्वी मृद्वी च पीताकपोताभा साराङ्गी ताडनक्षमा ॥ (३।२)
brass:: parīkṣā:: good qualitygurvī mṛdvī ca pītākapotābhā sārāṅgī tāḍanakṣamā ||
शुद्धा स्निग्धा मृदुः शीता सुरङ्गा सूत्रपत्त्रिणी ॥ (४।२)
śuddhā snigdhā mṛduḥ śītā suraṅgā sūtrapattriṇī ||
हेमोपमा शुभाश्वत्था जात्या रीतिः प्रकीर्तिता । (५।१)
hemopamā śubhāśvatthā jātyā rītiḥ prakīrtitā |
ब्रस्स्:: परीक्षा:: बद् क़ुअलित्य्पाण्डुः पीता खरा रूक्षा बर्बरा घट्टनाक्षमा ॥ (५।२)
brass:: parīkṣā:: bad qualitypāṇḍuḥ pītā kharā rūkṣā barbarā ghaṭṭanākṣamā ||
रीतिगुणाःरीतिस्तिक्तरसा रूक्षा जन्तुघ्नी सास्रपित्तनुत् ॥ (६।२)
rītiguṇāḥrītistiktarasā rūkṣā jantughnī sāsrapittanut ||
राजरीति:: प्रोपेर्तिएस्काकतुण्डी कृतस्नेहा राजरीतिगुणानुगा ॥ (७।२)
rājarīti:: propertieskākatuṇḍī kṛtasnehā rājarītiguṇānugā ||
ब्रस्स्:: मेदिच्। प्रोपेर्तिएस्रीतिकायुगलं रूक्षं सतिक्तं लवणं सरम् ॥ (८।२)
brass:: medic. propertiesrītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram ||
शोभनं पाण्डुवातघ्नं बलवीर्यायुर्वर्धनम् । (९।१)
śobhanaṃ pāṇḍuvātaghnaṃ balavīryāyurvardhanam |
रूक्षा कफास्रपित्तं च हन्यात्स्वादु प्रयोजिता । (१०।१)
rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā |
राजरीति:: स्य्नोन्य्म्स्राजरीतिः काकतुण्डी राजपुत्री महेश्वरी ॥ (१०।२)
rājarīti:: synonymsrājarītiḥ kākatuṇḍī rājaputrī maheśvarī ||
ब्राह्मणी ब्रह्मरीतिश्च कपिला पिङ्गलापि च । (११।१)
brāhmaṇī brahmarītiśca kapilā piṅgalāpi ca |
कांस्यकांस्यं सौराष्ट्रिकं घोषं कंसीयं वह्निलोहकम् ॥ (११।२)
kāṃsyakāṃsyaṃ saurāṣṭrikaṃ ghoṣaṃ kaṃsīyaṃ vahnilohakam ||
दीप्तलोहं घोषयुष्यं दीप्तकं च नवाह्वयम् । (१२।१)
dīptalohaṃ ghoṣayuṣyaṃ dīptakaṃ ca navāhvayam |
ब्रोन्ज़े:: प्रोदुच्तिओनष्टभागेन ताम्रेण द्विभागकुटिलेन च ॥ (१२।२)
bronze:: productionaṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca ||
विद्रुतेन भवेत्कांस्यं तत्सौराष्ट्रभवं शुभम् । (१३।१)
vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham |
ब्रोन्ज़े:: परीक्षा:: गोओद् क़ुअलित्य्तीक्ष्णशब्दं मृदु स्निग्धम् ईषच्छ्यामलशुभ्रकम् ॥ (१३।२)
bronze:: parīkṣā:: good qualitytīkṣṇaśabdaṃ mṛdu snigdham īṣacchyāmalaśubhrakam ||
निर्मलं दाहरक्तं च षोढा कांस्यं प्रशस्यते । (१४।१)
nirmalaṃ dāharaktaṃ ca ṣoḍhā kāṃsyaṃ praśasyate |
श्वेतदीप्तं मृदुज्योति शब्दाढ्यं स्निग्धनिर्मलम् ॥ (१४।२)
śvetadīptaṃ mṛdujyoti śabdāḍhyaṃ snigdhanirmalam ||
घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् । (१५।१)
ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam |
ब्रोन्ज़े:: परीक्षा:: बद् क़ुअलित्य्तत्पीतं दहने ताम्रं घनं रूक्षं घनासहम् ॥ (१५।२)
bronze:: parīkṣā:: bad qualitytatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham ||
मन्दनादं गतज्योति सप्तधा कांस्यम् उत्सृजेत् । (१६।१)
mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet |
ब्रोन्ज़े:: मेदिच्। प्रोपेर्तिएस्घृतमेकं विना चान्यत्सर्वं कांस्यगतं नृणाम् ॥ (१६।२)
bronze:: medic. propertiesghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām ||
भुक्तमारोग्यसुखदं हितं सात्म्यकरं तथा । (१७।१)
bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā |
कांस्यं तु लघुतिक्तोष्णं लेखनं दृक्प्रसादनम् ॥ (१७।२)
kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam ||
कृमिकोष्ठहरं वातपित्तघ्नं भोजने हितम् । (१८।१)
kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam |
वर्तलोहवर्तलोहं वर्ततीक्ष्णं वर्तकं लोहसंकरः ॥ (१८।२)
vartalohavartalohaṃ vartatīkṣṇaṃ vartakaṃ lohasaṃkaraḥ ||
तद्भाण्डसाधितं सर्वमन्यव्यञ्जनपूर्वकम् ॥ (२०।२)
tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam ||
वर्तलोहशुद्धिमारणम्द्रुतमश्वजले क्षिप्तं वर्तलोहं विशुध्यति ॥ (२१।२)
vartalohaśuddhimāraṇamdrutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati ||
म्रियते गन्धतालाभ्यां पुटितं वर्तलोहकम् । (२२।१)
mriyate gandhatālābhyāṃ puṭitaṃ vartalohakam |
वर्तलोहं कटूष्णं च तिक्तं च शिशिरं तथा । (२३।१)
vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā |
रूक्षं रुच्यं कृमिघ्नं च नेत्र्यं मलविशोधनम् । (२४।१)
rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam |
पित्तलादीनां शोधनभस्मविधिःत्रिक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् ॥ (२४।२)
pittalādīnāṃ śodhanabhasmavidhiḥtrikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet ||
रुद्ध्वा पुटेद्गजपुटे शुद्धिमायाति नान्यथा ॥ (२५।२)
ruddhvā puṭedgajapuṭe śuddhimāyāti nānyathā ||
ताम्रवन्मारणं तेषां कृत्वा सर्वत्र योजयेत् । (२६।१)
tāmravanmāraṇaṃ teṣāṃ kṛtvā sarvatra yojayet |
मृतानि लोहान्यमृतीभवन्ति निघ्नन्ति युक्तानि महामयांश्च । (२६।२)
mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca |
अभ्यासयोगाद्दृढदेहसिद्धिं कुर्वन्ति रुग्जन्मजराविनाशम् ॥ (२६।३)
abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam ||
नागेन स्वर्णं रजतं च ताप्यैः गन्धेन ताम्रं शिलया च नागम् । (२७।१)
nāgena svarṇaṃ rajataṃ ca tāpyaiḥ gandhena tāmraṃ śilayā ca nāgam |
तालेन वङ्गं त्रिविधं तु लोहं नारीपयो घ्नन्ति च हिङ्गुलेन ॥ (२७।२)
tālena vaṅgaṃ trividhaṃ tu lohaṃ nārīpayo ghnanti ca hiṅgulena ||
तथाभ्रसत्वं बलिनोपलोहं वज्रेण सूतं विनिहन्ति सद्यः ॥ (२८।०)
tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ ||
अभ्रकसत्त्ववज्राभ्रकस्य सत्सत्वं वक्ष्यामि शृणु भैरवि । (२९।१)
abhrakasattvavajrābhrakasya satsatvaṃ vakṣyāmi śṛṇu bhairavi |
चतुर्धाभ्रकसत्वं स्यात्कठिनं मृदुलं द्रुतिः ॥ (२९।२)
caturdhābhrakasatvaṃ syātkaṭhinaṃ mṛdulaṃ drutiḥ ||
बीजं च गुणवज्ज्ञेयं तत्क्रमाद् उत्तरोत्तरम् । (३०।१)
bījaṃ ca guṇavajjñeyaṃ tatkramād uttarottaram |
सत्त्वपातनायाभ्रकसिद्धिःधान्याभ्रकं रविक्षीरे घर्मे स्थाप्यं दिनावधि ॥ (३०।२)
sattvapātanāyābhrakasiddhiḥdhānyābhrakaṃ ravikṣīre gharme sthāpyaṃ dināvadhi ||
तच्छ्लक्ष्णं पेषयेत्पट्टे शरावे तं निरोधयेत् । (३१।१)
tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet |
मर्दनं पुटपाकं च कुर्यादेवं तु सप्तधा । (३२।१)
mardanaṃ puṭapākaṃ ca kuryādevaṃ tu saptadhā |
एतत् सिद्धघनं श्रेष्ठं निश्चन्द्रं सत्त्वपातने । (३३।१)
etat siddhaghanaṃ śreṣṭhaṃ niścandraṃ sattvapātane |
घनमारकसारैर् वा व्यस्तैर् वाथ समस्तकैः ॥ (३३।२)
ghanamārakasārair vā vyastair vātha samastakaiḥ ||
पिष्ट्वा धान्याभ्रकं श्लक्ष्णं रुद्ध्वा गजपुटे पचेत् । (३४।१)
piṣṭvā dhānyābhrakaṃ ślakṣṇaṃ ruddhvā gajapuṭe pacet |
शशास्थि क्षुद्रमत्स्याश्च हरिद्रा मित्रपञ्चकम् । (३५।१)
śaśāsthi kṣudramatsyāśca haridrā mitrapañcakam |
सर्वतुल्यं सिद्धघनं निश्चन्द्रं पेषयेद्दिनम् । (३६।१)
sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam |
तत्सर्वं तेन वटकाः कार्यास्ते कर्षमात्रकाः ॥ (३६।२)
tatsarvaṃ tena vaṭakāḥ kāryāste karṣamātrakāḥ ||
कोष्ठीयन्त्रे धमेद्गाढमङ्गारैः खदिरोद्भवैः । (३७।१)
koṣṭhīyantre dhamedgāḍhamaṅgāraiḥ khadirodbhavaiḥ |
त्रियामधमनाद् एव सत्त्वं पतति निर्मलम् ॥ (३७।२)
triyāmadhamanād eva sattvaṃ patati nirmalam ||
त्रिवारमेवं कुर्वीत तत्किट्टैः सत्त्वपातने ॥ (३८।२)
trivāramevaṃ kurvīta tatkiṭṭaiḥ sattvapātane ||
अभ्रकमृदुसत्त्व (१)पुनरन्यं प्रवक्ष्यामि मृदुसत्त्वं सुरेश्वरि । (३९।१)
abhrakamṛdusattva (1)punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari |
गुग्गुलुं टङ्कणं गुञ्जां सर्जसर्जरसं गुडम् ॥ (३९।२)
gugguluṃ ṭaṅkaṇaṃ guñjāṃ sarjasarjarasaṃ guḍam ||
भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवम् ॥ (४०।२)
bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam ||
गोक्षीरं पञ्चलवणं सर्वं च द्विगुणं मधु ॥ (४१।२)
gokṣīraṃ pañcalavaṇaṃ sarvaṃ ca dviguṇaṃ madhu ||
षड्बिन्दु क्षुद्रशंबूकमस्थीनि शशकस्य च । (४२।१)
ṣaḍbindu kṣudraśaṃbūkamasthīni śaśakasya ca |
पारावतमलं त्र्यूषमिन्द्रगोपं सशिग्रुकम् ॥ (४२।२)
pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam ||
गोधूमसर्षपं ताप्यं छागक्षीरेण मर्दयेत् । (४३।१)
godhūmasarṣapaṃ tāpyaṃ chāgakṣīreṇa mardayet |
एवं व्यस्तं समस्तं वा याममात्रेण मर्दितम् ॥ (४३।२)
evaṃ vyastaṃ samastaṃ vā yāmamātreṇa marditam ||
अस्य पिण्डस्य भागैकं द्विभागं सिद्धम् अभ्रकम् । (४४।१)
asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam |
कर्षाभा वटिकाः कार्याः किंचिच्छायाविशोषिताः । (४५।१)
karṣābhā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ |
खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपेत्क्षिपेत् ॥ (४५।२)
khadirāṅgārasaṃtapte koṣṭhīyantre kṣipetkṣipet ||
मृदुसत्त्वं भवेच्छुभ्रं रुग्जरामृत्युनाशनम् ॥ (४६।२)
mṛdusattvaṃ bhavecchubhraṃ rugjarāmṛtyunāśanam ||
त्रिवारमेवं कुर्वीत तत्किट्टं सत्त्वपातनम् । (४७।१)
trivāramevaṃ kurvīta tatkiṭṭaṃ sattvapātanam |
कठिनोपरसाश्चान्यैः शुद्धा भूनागमृत्तिका । (४८।१)
kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā |
मुञ्चन्ति द्रुतिसङ्घातं गृह्णन्तीमं पृथक्पृथक् ॥ (४८।२)
muñcanti drutisaṅghātaṃ gṛhṇantīmaṃ pṛthakpṛthak ||
अभ्रकमृदुसत्त्व (२)अभ्रसत्वं समादाय समांशं काचटङ्कणम् । (४९।१)
abhrakamṛdusattva (2)abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam |
दत्त्वा दत्त्वा त्रिवारं तद्वज्रमूषागतं धमेत् ॥ (४९।२)
dattvā dattvā trivāraṃ tadvajramūṣāgataṃ dhamet ||
अम्लवर्गं स्नुहीपत्रं बिम्बीबीजं सवल्कलम् । (५०।१)
amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam |
कल्कयेत्तत्र संतप्तं सप्तवारं निषेचयेत् ॥ (५०।२)
kalkayettatra saṃtaptaṃ saptavāraṃ niṣecayet ||
मृदु शुभ्रं भवेत् तस्य रुग्जरामृत्युनाशनम् । (५१।१)
mṛdu śubhraṃ bhavet tasya rugjarāmṛtyunāśanam |
अभ्रकमृदुसत्त्वम् (३)सिद्धाभ्रं दशभागं स्याच्छुद्धभागं त्रिभागकम् ॥ (५१।२)
abhrakamṛdusattvam (3)siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam ||
टङ्कणं माक्षिकं सूतं भागैकं च सुशोधितम् । (५२।१)
ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam |
ऊर्णासर्जयवक्षारं भागं भागं विमिश्रयेत् ॥ (५२।२)
ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet ||
मर्द्यं मूत्राम्लवर्गाभ्यां यथा प्रोक्तं दिनावधि । (५३।१)
mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi |
अजापञ्चाङ्गसंयुक्तं पूर्ववत् सत्त्वपातनम् ॥ (५३।२)
ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam ||
कृत्वादाय मृतं साक्षान्निर्मलं मृदु जायते । (५४।१)
kṛtvādāya mṛtaṃ sākṣānnirmalaṃ mṛdu jāyate |
अभ्रकबीजपाकबीजपाकं प्रवक्ष्यामि घनस्यैतत्परं हितम् ॥ (५४।२)
abhrakabījapākabījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam ||
सिद्धाभ्रकं शतपलं स्वर्णरूप्यार्ककान्तकम् । (५५।१)
siddhābhrakaṃ śatapalaṃ svarṇarūpyārkakāntakam |
नीलाञ्जनं च कङ्कुष्ठं कासीसं दरदं तथा । (५६।१)
nīlāñjanaṃ ca kaṅkuṣṭhaṃ kāsīsaṃ daradaṃ tathā |
प्रत्येकं दशनिष्कं स्यात्ततो गैरिकटङ्कणम् ॥ (५६।२)
pratyekaṃ daśaniṣkaṃ syāttato gairikaṭaṅkaṇam ||
इन्द्रगोपं गुडं गुञ्जा मधु सर्पिश्च गुग्गुलुः । (५७।१)
indragopaṃ guḍaṃ guñjā madhu sarpiśca gugguluḥ |
पृथक्पृथक्पञ्चमूलं पञ्चमाहिषं मर्दयेत् ॥ (५८।२)
pṛthakpṛthakpañcamūlaṃ pañcamāhiṣaṃ mardayet ||
तेषां च वटिका कार्या किंचिच्छायाविशोषिता । (५९।१)
teṣāṃ ca vaṭikā kāryā kiṃcicchāyāviśoṣitā |
पूर्ववत् पातयेत् सत्त्वं रुग्जरादैन्यमृत्युहृत् ॥ (५९।२)
pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt ||
बीजसत्वमिदं श्रेष्ठं वैद्ये वादे रसायने । (६०।१)
bījasatvamidaṃ śreṣṭhaṃ vaidye vāde rasāyane |
अभ्रकसत्त्वनिर्मलीकरणनिर्मलीकरणं वक्ष्ये घनसत्वस्य पार्वति ॥ (६०।२)
abhrakasattvanirmalīkaraṇanirmalīkaraṇaṃ vakṣye ghanasatvasya pārvati ||
तत्सत्वं कणशः कृत्वा मित्रपञ्चकसंयुतम् । (६१।१)
tatsatvaṃ kaṇaśaḥ kṛtvā mitrapañcakasaṃyutam |
मूषायां तद्विनिक्षिप्य काचं तदधरोत्तरम् ॥ (६१।२)
mūṣāyāṃ tadvinikṣipya kācaṃ tadadharottaram ||
रुद्ध्वा हठाग्नौ धमयेत्खदिराङ्गारयोगतः । (६२।१)
ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ |
एवं क्रमेण धमयेत्सप्तधा निर्मलं भवेत् ॥ (६२।२)
evaṃ krameṇa dhamayetsaptadhā nirmalaṃ bhavet ||
ससत्वं निर्मलीभूतं लोहखल्वे विचूर्णयेत् । (६३।१)
sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet |
मर्दयेत् त्रिफलाक्वाथैर् यामं घर्मे विशोषयेत् ॥ (६३।२)
mardayet triphalākvāthair yāmaṃ gharme viśoṣayet ||
पाकं पुटं च विधिवत्कुर्यादेवं पुनः पुनः । (६४।१)
pākaṃ puṭaṃ ca vidhivatkuryādevaṃ punaḥ punaḥ |
चत्वारिंशत्पुटं कुर्यादेवं मार्कवजैर्द्रवैः ॥ (६४।२)
catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ ||
पृथक्पञ्चामृतैः पञ्चपुटं चेक्षुरसैस् त्रिधा । (६५।१)
pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā |
अभ्रकसत्त्वसिन्दूरविधि (१)चूर्णीकुर्याल्लोहखल्वे निर्मलीकृतमभ्रकम् । (६६।१)
abhrakasattvasindūravidhi (1)cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam |
निष्काणां शतकं तस्मिन् निष्कैकं गन्धकं क्षिपेत् ॥ (६६।२)
niṣkāṇāṃ śatakaṃ tasmin niṣkaikaṃ gandhakaṃ kṣipet ||
यामं तत्तापयेद् घर्मे ततो गजपुटे पचेत् ॥ (६७।२)
yāmaṃ tattāpayed gharme tato gajapuṭe pacet ||
एवं शतपुटं कुर्याद्गन्धं दद्यात्पुनः पुनः । (६८।१)
evaṃ śatapuṭaṃ kuryādgandhaṃ dadyātpunaḥ punaḥ |
सिन्दूरपाटलच्छायम् अभ्रसत्वं भवेच्छिवे ॥ (६८।२)
sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive ||
अभ्रकसत्त्वसिन्दूरविधि (२)घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् । (६९।१)
abhrakasattvasindūravidhi (2)ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet |
शतनिष्कं ततस्तस्मिन् निष्कार्धं माक्षिकं क्षिपेत् ॥ (६९।२)
śataniṣkaṃ tatastasmin niṣkārdhaṃ mākṣikaṃ kṣipet ||
अर्कक्षीरैर्दिनं मर्द्य रुद्ध्वा गजपुटे पचेत् । (७०।१)
arkakṣīrairdinaṃ mardya ruddhvā gajapuṭe pacet |
एवं शतपुटं कुर्यान्माक्षीकं च पुटे पुटे ॥ (७०।२)
evaṃ śatapuṭaṃ kuryānmākṣīkaṃ ca puṭe puṭe ||
एतत्स्यात् सत्त्वसिन्दूरं रुग्जरामृत्युनाशनम् । (७१।१)
etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam |
अभ्रकसत्त्वसिन्दूरविधि (३)तत्सत्वं रवकान्हित्वा लोहखल्वे सुबुद्धिमान् ॥ (७१।२)
abhrakasattvasindūravidhi (3)tatsatvaṃ ravakānhitvā lohakhalve subuddhimān ||
याममात्रं खरे घर्मे स्थापयेल्लोहपात्रगम् ॥ (७२।२)
yāmamātraṃ khare gharme sthāpayellohapātragam ||
स्थालीपाकं खरं कृत्वा रात्रौ गजपुटे पचेत् । (७३।१)
sthālīpākaṃ kharaṃ kṛtvā rātrau gajapuṭe pacet |
एवं सप्तपुटं कुर्यान्मार्कवस्वरसैस्तथा ॥ (७३।२)
evaṃ saptapuṭaṃ kuryānmārkavasvarasaistathā ||
मेघनादद्रवैः सप्त क्वाथैर्वटजटोद्भवैः । (७५।१)
meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ |
एवं सुसूक्ष्मचूर्णं तु शतांशं गन्धकं क्षिपेत् ॥ (७५।२)
evaṃ susūkṣmacūrṇaṃ tu śatāṃśaṃ gandhakaṃ kṣipet ||
मर्दयेदारनालेन घर्मे स्थाल्यां पुटे पचेत् । (७६।१)
mardayedāranālena gharme sthālyāṃ puṭe pacet |
एवं दशदिनं कुर्यात् पुनस्ताप्यं शतांशतः ॥ (७६।२)
evaṃ daśadinaṃ kuryāt punastāpyaṃ śatāṃśataḥ ||
क्षिप्त्वारनालैः संमर्द्य घर्मे स्थाल्यां पुटे पचेत् । (७७।१)
kṣiptvāranālaiḥ saṃmardya gharme sthālyāṃ puṭe pacet |
एवं दशदिनं कुर्यात्पुनः पञ्चामृतैः पचेत् ॥ (७७।२)
evaṃ daśadinaṃ kuryātpunaḥ pañcāmṛtaiḥ pacet ||
सिन्दूराभेऽभ्रभसिते निक्षिपेच्छुद्धहिङ्गुलम् ॥ (७८।२)
sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam ||
विंशत्यंशं घनस्याथ स्तन्यैः संमर्द्य संपुटे । (७९।१)
viṃśatyaṃśaṃ ghanasyātha stanyaiḥ saṃmardya saṃpuṭe |
रुद्ध्वाथ भूधरे यन्त्रे क्षिप्त्वा लघुपुटं विधेत् ॥ (७९।२)
ruddhvātha bhūdhare yantre kṣiptvā laghupuṭaṃ vidhet ||
एवं विंशत्पुटं कुर्याद् दत्त्वा दत्त्वाथ हिङ्गुलम् । (८०।१)
evaṃ viṃśatpuṭaṃ kuryād dattvā dattvātha hiṅgulam |
यद्यद्रोगहरैर् द्रव्यैस् तत्तद्रोगहरं भवेत् ॥ (८१।२)
yadyadrogaharair dravyais tattadrogaharaṃ bhavet ||
अभ्रकसत्त्वसिन्दूरविधि (४)घनसत्वं सुविमलं लोहखल्वे विचूर्णयेत् । (८२।१)
abhrakasattvasindūravidhi (4)ghanasatvaṃ suvimalaṃ lohakhalve vicūrṇayet |
मुण्डीपत्ररसैर् मर्द्यं दिनं गजपुटे पचेत् ॥ (८२।२)
muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet ||
एवं दशपुटं कार्यं निर्गुण्डीस्वरसैस्तथा । (८३।१)
evaṃ daśapuṭaṃ kāryaṃ nirguṇḍīsvarasaistathā |
ककुभस्य रसैस्तद्वज्जम्बूत्वक्स्वरसैस्तथा । (८४।१)
kakubhasya rasaistadvajjambūtvaksvarasaistathā |
एवं षष्टिपुटं कार्यं ततस्तस्मिन्विनिक्षिपेत् ॥ (८४।२)
evaṃ ṣaṣṭipuṭaṃ kāryaṃ tatastasminvinikṣipet ||
विंशत्यंशेन दरदं स्तन्यैः संमर्दयेद् दिनम् । (८५।१)
viṃśatyaṃśena daradaṃ stanyaiḥ saṃmardayed dinam |
ततस्तत्सम्पुटे रुद्ध्वा भूधरे तु पुटं लघु ॥ (८५।२)
tatastatsampuṭe ruddhvā bhūdhare tu puṭaṃ laghu ||
एवं विंशतिधा कुर्यात्सिन्दूराभं भवेद्ध्रुवम् । (८६।१)
evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam |
स्थालीपाकस्थालीपाकस्त्रिधा प्रोक्तो मृदुर् मध्यः खरात्मकः ॥ (८६।२)
sthālīpākasthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ ||
पङ्कोत्करसमः पूर्वः पिण्डपाकस्तु मध्यमः । (८७।१)
paṅkotkarasamaḥ pūrvaḥ piṇḍapākastu madhyamaḥ |
तृतीयः खरपाकः स्याद् वालुकासदृशः प्रिये ॥ (८७।२)
tṛtīyaḥ kharapākaḥ syād vālukāsadṛśaḥ priye ||
स्थालीपाको रसे युक्तः संयुक्तो दरदेन वा । (८८।१)
sthālīpāko rase yuktaḥ saṃyukto daradena vā |
मृदुमध्यमपाकाभ्यां कर्तव्यो भूधरे ततः ॥ (८८।२)
mṛdumadhyamapākābhyāṃ kartavyo bhūdhare tataḥ ||
क्षिप्त्वा लघुपुटे देयं रसहिङ्गुलवर्जितः । (८९।१)
kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ |
खरपाकः प्रकर्तव्यो विधिर्गजपुटे पचेत् ॥ (८९।२)
kharapākaḥ prakartavyo vidhirgajapuṭe pacet ||
लोहभस्मनाममृतीकरणविधिःसर्वेषां मारितानां च लोहानामभ्रकस्य च । (९०।१)
lohabhasmanāmamṛtīkaraṇavidhiḥsarveṣāṃ māritānāṃ ca lohānāmabhrakasya ca |
कठिनस्याभ्रसत्वस्य सिन्दूरं पलितं वलिम् । (९४।१)
kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim |
इन्द्रियाणां पटुत्वं च पत्राभ्रकगुणा अपि ॥ (९४।२)
indriyāṇāṃ paṭutvaṃ ca patrābhrakaguṇā api ||
त्रिदोषशमनं सौम्यं दीपनं पाचनं शुभम् । (९६।१)
tridoṣaśamanaṃ saumyaṃ dīpanaṃ pācanaṃ śubham |
अश्मरीं मूत्रकृच्छ्रं च क्षयं पाण्डुहलीमकम् । (९७।१)
aśmarīṃ mūtrakṛcchraṃ ca kṣayaṃ pāṇḍuhalīmakam |
कफजान्दुस्तरान्रोगान् विद्रध्यादिव्रणानपि । (९८।१)
kaphajāndustarānrogān vidradhyādivraṇānapi |
नानाविधानि शूलानि पुंस्त्रीवन्ध्यत्वभञ्जनम् ॥ (९८।२)
nānāvidhāni śūlāni puṃstrīvandhyatvabhañjanam ||
यद्यद्रोगहरैर् योगैस् तत्तद्रोगनिबर्हणम् । (९९।१)
yadyadrogaharair yogais tattadroganibarhaṇam |
पारदे ये गुणाः सन्ति बीजसत्वेऽपि ते गुणाः ॥ (९९।२)
pārade ye guṇāḥ santi bījasatve'pi te guṇāḥ ||
मण्डूर, शुद्धिअक्षाङ्गारैर्धमेत् किट्टं लोहजं तद्गवां जलैः । (१००।१)
maṇḍūra, śuddhiakṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ |
सेचयेदक्षपात्रान्तः षड्वारं च पुनः पुनः ॥ (१००।२)
secayedakṣapātrāntaḥ ṣaḍvāraṃ ca punaḥ punaḥ ||
मण्डूरोऽयं समाख्यातः शुद्धं श्लक्ष्णं नियोजयेत् । (१०१।१)
maṇḍūro'yaṃ samākhyātaḥ śuddhaṃ ślakṣṇaṃ niyojayet |
गोमूत्रे त्रिफला क्वाथ्या तत्क्वाथे सेचयेच्छनैः ॥ (१०१।२)
gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ ||
मण्डूरभस्मलोहकिट्टं सुतप्तं च यावच्छीर्यति तत्स्वयम् । (१०२।१)
maṇḍūrabhasmalohakiṭṭaṃ sutaptaṃ ca yāvacchīryati tatsvayam |
तच्छीर्णं ग्राहयेत्पेष्यं मण्डूरं यं प्रयोजयेत् ॥ (१०२।२)
tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet ||
ये गुणा मारिते मुण्डे ते गुणा मुण्डकिट्टके । (१०३।१)
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake |
तस्मात्सर्वत्र मण्डूरं रोगशान्त्यै प्रयोजयेत् ॥ (१०३।२)
tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet ||
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शतोन्मितम् । (१०४।१)
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam |
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात् कुरुते गुणम् ॥ (१०४।२)
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam ||
सर्वशूलप्रमेहघ्नं दीपनं परमं हितम् ॥ (१०५।२)
sarvaśūlapramehaghnaṃ dīpanaṃ paramaṃ hitam ||
शीतं तिक्तं कषायाम्लं हृद्रोगप्लीहनाशनम् । (१०६।१)
śītaṃ tiktaṃ kaṣāyāmlaṃ hṛdrogaplīhanāśanam |
रसादिमारणायद्रव्यमानम्रसेन्द्रं शोधयेद्देवि पलानां द्विसहस्रकम् ॥ (१०६।२)
rasādimāraṇāyadravyamānamrasendraṃ śodhayeddevi palānāṃ dvisahasrakam ||
सहस्रं वा शतं वापि पञ्चाशद्वा तदर्धकम् । (१०७।१)
sahasraṃ vā śataṃ vāpi pañcāśadvā tadardhakam |
न कुर्याद्रसकर्माणि हीनं वै पञ्चविंशतेः ॥ (१०७।२)
na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ ||
लोहस्य पचनं त्रिंशत्पलादूर्ध्वं न कारयेत् । (१०८।१)
lohasya pacanaṃ triṃśatpalādūrdhvaṃ na kārayet |
अर्वाक् पञ्चपलाद्देवि घनसत्वं तथा पचेत् ॥ (१०८।२)
arvāk pañcapalāddevi ghanasatvaṃ tathā pacet ||
स्वर्णं पञ्चपलाद् ऊर्ध्वं पलादर्वाङ्न शोधयेत् । (१०९।१)
svarṇaṃ pañcapalād ūrdhvaṃ palādarvāṅna śodhayet |
तथा रूप्यं च ताम्रं च शोधयेन्मारयेत् प्रिये ॥ (१०९।२)
tathā rūpyaṃ ca tāmraṃ ca śodhayenmārayet priye ||
हीनं पञ्चपलादूर्ध्वं न कुर्यात्पलविंशतेः ॥ (११०।२)
hīnaṃ pañcapalādūrdhvaṃ na kuryātpalaviṃśateḥ ||
द्रावणं शोधनं देवि मारणं नागवङ्गयोः । (१११।१)
drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ |
वज्रं निष्कादधश्चोर्ध्वं न कुर्याच्छोधनं मृतिम् ॥ (१११।२)
vajraṃ niṣkādadhaścordhvaṃ na kuryācchodhanaṃ mṛtim ||
पद्मरागादिरत्नानि तथा कुर्यात्सुरेश्वरि ॥ (११२।१)
padmarāgādiratnāni tathā kuryātsureśvari ||
Data courtesy of The Digital Corpus of Sanskrit.