आनन्दकन्दĀnandakanda

ĀK, 1, 15

15 of 35 · 1,309 verses

Select a line for its word-by-word analysis.

1.1१.१

दिव्यौषधिरसायनानिश्रीभैरवी । (१।१)

divyauṣadhirasāyanāniśrībhairavī |

1.2१.२

मलमायाविहीनेश जराजन्मगदापह । (१।२)

malamāyāvihīneśa jarājanmagadāpaha |

1.3१.३

त्वत्प्रसादेन विदितं रसादीनां रसायनम् ॥ (१।३)

tvatprasādena viditaṃ rasādīnāṃ rasāyanam ||

2.1२.१

इतःपरमपि स्वामिन् शुश्रूषे किमपि प्रभो । (२।१)

itaḥparamapi svāmin śuśrūṣe kimapi prabho |

2.2२.२

सुखोपायोपयोग्यं च दिव्यौषधिरसायनम् ॥ (२।२)

sukhopāyopayogyaṃ ca divyauṣadhirasāyanam ||

3.1३.१

ब्रूहि मे तद्विधं दिव्यं सर्वसिद्धिप्रदायकम् । (३।१)

brūhi me tadvidhaṃ divyaṃ sarvasiddhipradāyakam |

3.2३.२

श्रीभैरवः । (३।२)

śrībhairavaḥ |

3.3३.३

१। ब्रह्मकल्पः; ब्रह्मवृक्षतैलकल्पःवक्ष्यामि ब्रह्मवृक्षादि दिव्यौषधिरसायनम् ॥ (३।३)

1. brahmakalpaḥ; brahmavṛkṣatailakalpaḥvakṣyāmi brahmavṛkṣādi divyauṣadhirasāyanam ||

4.1४.१

तत्रादौ ब्रह्मवृक्षस्य शृणु देवि रसायनम् । (४।१)

tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam |

4.2४.२

ब्रह्मवृक्षस्य बीजानि विदध्यान् निस्तुषाणि च ॥ (४।२)

brahmavṛkṣasya bījāni vidadhyān nistuṣāṇi ca ||

5.1५.१

परिशोष्यातपे तीव्रे सूक्ष्मचूर्णानि कारयेत् । (५।१)

pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet |

5.2५.२

धात्रीफलेन सप्ताहं भावयेत्पयसाथवा ॥ (५।२)

dhātrīphalena saptāhaṃ bhāvayetpayasāthavā ||

6.1६.१

चक्रयन्त्रे क्षिपेत्तानि ततस्तत्तैलमाहरेत् । (६।१)

cakrayantre kṣipettāni tatastattailamāharet |

6.2६.२

इत्थमुत्थापितं तैलं दोषघ्नं च रसायनम् ॥ (६।२)

itthamutthāpitaṃ tailaṃ doṣaghnaṃ ca rasāyanam ||

7.1७.१

ब्रह्मबीजजतैलस्य प्रस्थमाज्यं च तत्समम् । (७।१)

brahmabījajatailasya prasthamājyaṃ ca tatsamam |

7.2७.२

निक्षिप्तं स्निग्धभाण्डे च धान्यराशौ विनिक्षिपेत् ॥ (७।२)

nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet ||

8.1८.१

मासार्धमासं देवेशि तस्मात्तैलं समाहरेत् । (८।१)

māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet |

8.2८.२

शुद्धदेहो विरेकाद्यैरर्चिताग्निगुरुद्विजः ॥ (८।२)

śuddhadeho virekādyairarcitāgnigurudvijaḥ ||

9.1९.१

द्विपलं च गवां क्षीरं तत्तैलं निष्कमात्रकम् । (९।१)

dvipalaṃ ca gavāṃ kṣīraṃ tattailaṃ niṣkamātrakam |

9.2९.२

संमिश्र्य च पिबेत्प्रातः पथ्याशी स्याज्जितेन्द्रियः ॥ (९।२)

saṃmiśrya ca pibetprātaḥ pathyāśī syājjitendriyaḥ ||

10.1१०.१

एवं द्वितीयेऽपि दिने ह्येकाहान्तरिते क्रमात् । (१०।१)

evaṃ dvitīye'pi dine hyekāhāntarite kramāt |

10.2१०.२

निष्कवृद्धिर् भवेदेवं यावत्षोडशनिष्ककम् ॥ (१०।२)

niṣkavṛddhir bhavedevaṃ yāvatṣoḍaśaniṣkakam ||

11.1११.१

एतत्तैलस्य परमा मात्रा ह्यस्यैवम् ईरिता । (११।१)

etattailasya paramā mātrā hyasyaivam īritā |

11.2११.२

पीतमात्रे क्षणं मूर्च्छा जायते सिञ्चयेन्मुखम् ॥ (११।२)

pītamātre kṣaṇaṃ mūrcchā jāyate siñcayenmukham ||

12.1१२.१

प्रबुद्धे सघृतं दद्याद्दुग्धान्नं शर्करान्वितम् । (१२।१)

prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam |

12.2१२.२

एवं तैलोपयोगेन मासाज्ज्ञानी भवेन्नरः ॥ (१२।२)

evaṃ tailopayogena māsājjñānī bhavennaraḥ ||

13.1१३.१

सकृद्ग्राही सुकान्तश्च षोडशाब्द इव स्थितः । (१३।१)

sakṛdgrāhī sukāntaśca ṣoḍaśābda iva sthitaḥ |

13.2१३.२

द्वितीये नागबलवान् सर्वव्याधिविवर्जितः ॥ (१३।२)

dvitīye nāgabalavān sarvavyādhivivarjitaḥ ||

14.1१४.१

इन्द्रोपमबलो धीरश्चतुर्थे मासि च क्रमात् । (१४।१)

indropamabalo dhīraścaturthe māsi ca kramāt |

14.2१४.२

वज्रदेहो दिव्यदृष्टिः पञ्चमे खेचरो भवेत् ॥ (१४।२)

vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet ||

15.1१५.१

अणिमादिगुणोपेतः सर्वगः सर्वकालिकः । (१५।१)

aṇimādiguṇopetaḥ sarvagaḥ sarvakālikaḥ |

15.2१५.२

षष्ठे मासि स्वयं स्रष्टा भोक्ता हर्ता त्रिमूर्तिवत् ॥ (१५।२)

ṣaṣṭhe māsi svayaṃ sraṣṭā bhoktā hartā trimūrtivat ||

16.1१६.१

वर्षैकसेवनाद्देवि भवेत्साक्षात्सदाशिवः । (१६।१)

varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ |

16.2१६.२

यावत्तैलोपजीवी स्यात् तावत् क्षीरौदनाशनः ॥ (१६।२)

yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ ||

17.1१७.१

वमनादिविशुद्धाङ्गः कृत्वा वैद्यद्विजार्चनम् । (१७।१)

vamanādiviśuddhāṅgaḥ kṛtvā vaidyadvijārcanam |

17.2१७.२

प्रातर्गोक्षीरकुडुबं तैलं किंशुकबीजजम् ॥ (१७।२)

prātargokṣīrakuḍubaṃ tailaṃ kiṃśukabījajam ||

18.1१८.१

कुडुबं पूर्ववज्जातमेकीकृत्य द्वयं पिबेत् । (१८।१)

kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet |

18.2१८.२

तत्पानमात्रे मूर्छा स्यात्कुर्यात्तं भस्मशायिनम् ॥ (१८।२)

tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam ||

19.1१९.१

सप्तरात्रे प्रबुद्धः स्याद्बद्धवच्छयने स्थितः । (१९।१)

saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ |

19.2१९.२

नाङ्गानि चालयेदेष जायते विचलेक्षणः ॥ (१९।२)

nāṅgāni cālayedeṣa jāyate vicalekṣaṇaḥ ||

20.1२०.१

तैले जीर्णे समापन्ने संज्ञा भवति भैरवि । (२०।१)

taile jīrṇe samāpanne saṃjñā bhavati bhairavi |

20.2२०.२

गोक्षीरं तस्य दातव्यं प्रत्यहं दशवासरम् ॥ (२०।२)

gokṣīraṃ tasya dātavyaṃ pratyahaṃ daśavāsaram ||

21.1२१.१

स त्वचं च त्यजेद्देहात् कञ्चुकं भुजगो यथा । (२१।१)

sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā |

21.2२१.२

क्षीराहारी भवेन्नित्यमेकविंशतिवासरम् ॥ (२१।२)

kṣīrāhārī bhavennityamekaviṃśativāsaram ||

22.1२२.१

वाचां पतिर्भवेद्धीरः श्रुतं धारयते क्षणात् । (२२।१)

vācāṃ patirbhaveddhīraḥ śrutaṃ dhārayate kṣaṇāt |

22.2२२.२

दूरश्रावी दिव्यदृष्टिर् जीवेद्ब्रह्मदिनं सुधीः ॥ (२२।२)

dūraśrāvī divyadṛṣṭir jīvedbrahmadinaṃ sudhīḥ ||

23.1२३.१

ब्रह्मवृक्षपल्लवकल्पःपुण्यर्क्षे ब्रह्मवृक्षस्य पल्लवानि समाहरेत् । (२३।१)

brahmavṛkṣapallavakalpaḥpuṇyarkṣe brahmavṛkṣasya pallavāni samāharet |

23.2२३.२

क्रिमिकीटविहीनानि कोमलानि शुभानि च ॥ (२३।२)

krimikīṭavihīnāni komalāni śubhāni ca ||

24.1२४.१

आतपे शोषयेत्तीव्रे चूर्णितं वस्त्रगालितम् । (२४।१)

ātape śoṣayettīvre cūrṇitaṃ vastragālitam |

24.2२४.२

कुर्यान्नूतनभाण्डे च निक्षिपेच्च प्रयत्नतः ॥ (२४।२)

kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ ||

25.1२५.१

वमनाद्यैर्विशुद्धाङ्गो ब्रह्मचारी जितेन्द्रियः । (२५।१)

vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ |

25.2२५.२

क्षाराम्लवर्जिताहारः क्षीरशाल्यन्नभोजनः ॥ (२५।२)

kṣārāmlavarjitāhāraḥ kṣīraśālyannabhojanaḥ ||

26.1२६.१

कोष्णं जलं पिबेन्नित्यं निवाते शयनं भजेत् । (२६।१)

koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet |

26.2२६.२

कर्षमात्रं च सेवेत मासं गोतक्रसंयुतम् ॥ (२६।२)

karṣamātraṃ ca seveta māsaṃ gotakrasaṃyutam ||

27.1२७.१

द्वितीये च तृतीये च वृद्धिः कर्षाधिका क्रमात् । (२७।१)

dvitīye ca tṛtīye ca vṛddhiḥ karṣādhikā kramāt |

27.2२७.२

एवं षोडशमासान्तं सतक्रं कुडुबं पिबेत् ॥ (२७।२)

evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet ||

28.1२८.१

एवं नित्योपसेवी यः कुञ्चितस्निग्धकुन्तलः । (२८।१)

evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ |

28.2२८.२

मत्तमातङ्गबलवान् जीवेद्ब्रह्मदिनं नरः ॥ (२८।२)

mattamātaṅgabalavān jīvedbrahmadinaṃ naraḥ ||

29.1२९.१

ब्रह्मवृक्षपुष्पकल्पःब्रह्मवृक्षस्य पुष्पाणि छायायां शोषयेत्सुधीः । (२९।१)

brahmavṛkṣapuṣpakalpaḥbrahmavṛkṣasya puṣpāṇi chāyāyāṃ śoṣayetsudhīḥ |

29.2२९.२

चूर्णयेद्गालयेद्वस्त्रे नवभाण्डे विनिक्षिपेत् ॥ (२९।२)

cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet ||

30.1३०.१

विंशत्पलं पुष्पचूर्णं चतुर्विंशतिगोघृतम् । (३०।१)

viṃśatpalaṃ puṣpacūrṇaṃ caturviṃśatigoghṛtam |

30.2३०.२

पलमेकत्र संमिश्रं धान्यराशौ निवेशयेत् ॥ (३०।२)

palamekatra saṃmiśraṃ dhānyarāśau niveśayet ||

31.1३१.१

तदुद्धरेच्च मासान्ते कृत्वा भागांश्चतुर्दश । (३१।१)

taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa |

31.2३१.२

एकैकं प्रत्येकं सेव्यमेवं मासत्रयं भवेत् ॥ (३१।२)

ekaikaṃ pratyekaṃ sevyamevaṃ māsatrayaṃ bhavet ||

32.1३२.१

भुञ्जीत शुल्बपात्रे च लवणाम्लादिवर्जितम् । (३२।१)

bhuñjīta śulbapātre ca lavaṇāmlādivarjitam |

32.2३२.२

पायसाशी कषायं तृषार्तः खादिरं पिबेत् ॥ (३२।२)

pāyasāśī kaṣāyaṃ tṛṣārtaḥ khādiraṃ pibet ||

33.1३३.१

त्रिमासाज्जायते गात्रं वज्रवन् नात्र संशयः । (३३।१)

trimāsājjāyate gātraṃ vajravan nātra saṃśayaḥ |

33.2३३.२

नागायुतबलो धीरो वायुवेगगतिर्भवेत् ॥ (३३।२)

nāgāyutabalo dhīro vāyuvegagatirbhavet ||

34.1३४.१

अस्य वर्षोपयोगेन पुरीषमपि मूत्रकम् । (३४।१)

asya varṣopayogena purīṣamapi mūtrakam |

34.2३४.२

वेधयेत्सर्वलोहानि काञ्चनानि च कारयेत् ॥ (३४।२)

vedhayetsarvalohāni kāñcanāni ca kārayet ||

35.1३५.१

जीवेद्ब्रह्मदिनं साक्षाद्दैवतैः सह मोदते । (३५।१)

jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate |

35.2३५.२

ब्रह्मवृक्षबीजकल्पःब्रह्मवृक्षस्य बीजानि चूर्णयेन्निक्षिपेद्घटे ॥ (३५।२)

brahmavṛkṣabījakalpaḥbrahmavṛkṣasya bījāni cūrṇayennikṣipedghaṭe ||

36.1३६.१

मध्वाज्यशर्करायुक्तं धान्यराशौ विनिक्षिपेत् । (३६।१)

madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet |

36.2३६.२

मासादूर्ध्वं समाहृत्य प्रत्यहं कर्षमात्रकम् ॥ (३६।२)

māsādūrdhvaṃ samāhṛtya pratyahaṃ karṣamātrakam ||

37.1३७.१

उपयुञ्जीत शुद्धात्मा गोक्षीरं च पिबेदनु । (३७।१)

upayuñjīta śuddhātmā gokṣīraṃ ca pibedanu |

37.2३७.२

यावत्पलं भवेद्वृद्धिस्तावदेवाधिकं न हि ॥ (३७।२)

yāvatpalaṃ bhavedvṛddhistāvadevādhikaṃ na hi ||

38.1३८.१

एवं संवत्सरात्सिद्धिर्जायते मृत्युवर्जिता । (३८।१)

evaṃ saṃvatsarātsiddhirjāyate mṛtyuvarjitā |

38.2३८.२

जीवेद्ब्रह्मदिनं शुद्धो मतङ्गजबलोपमः ॥ (३८।२)

jīvedbrahmadinaṃ śuddho mataṅgajabalopamaḥ ||

39.1३९.१

ब्रह्मवृक्षवल्कलकल्पःसूक्ष्मचूर्णं प्रकुर्वीत ब्रह्मवृक्षस्य वल्कलम् । (३९।१)

brahmavṛkṣavalkalakalpaḥsūkṣmacūrṇaṃ prakurvīta brahmavṛkṣasya valkalam |

39.2३९.२

भावयेद्गव्यपयसा पलं चानुदिनं पिबेत् ॥ (३९।२)

bhāvayedgavyapayasā palaṃ cānudinaṃ pibet ||

40.1४०.१

जितेन्द्रियश्च पथ्याशी भवेद् आ वत्सरं सुधीः । (४०।१)

jitendriyaśca pathyāśī bhaved ā vatsaraṃ sudhīḥ |

40.2४०.२

दशवर्षसहस्राणि जीवेत्सिद्धो भवेद्ध्रुवम् ॥ (४०।२)

daśavarṣasahasrāṇi jīvetsiddho bhaveddhruvam ||

41.1४१.१

ब्रह्मवृक्षनिर्यासकल्पःब्राह्मी च मधुकं साज्यं निर्यासं ब्रह्मवृक्षजम् । (४१।१)

brahmavṛkṣaniryāsakalpaḥbrāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam |

41.2४१.२

समभागानि सेवेत पलं चानुपिबेत्पयः ॥ (४१।२)

samabhāgāni seveta palaṃ cānupibetpayaḥ ||

42.1४२.१

एवमेकाब्दयोगेन शुभंयुदर्शनः शुचिः । (४२।१)

evamekābdayogena śubhaṃyudarśanaḥ śuciḥ |

42.2४२.२

जीवेद्ब्रह्मदिनं ज्ञानी वलीपलितवर्जितः ॥ (४२।२)

jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ ||

43.1४३.१

ब्रह्मवृक्षपञ्चाङ्गकल्पःपञ्चाङ्गं ब्रह्मवृक्षस्य विधिवत्तत्समाहरेत् । (४३।१)

brahmavṛkṣapañcāṅgakalpaḥpañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet |

43.2४३.२

छायाशुष्कं प्रकुर्वीत चूर्णितं पटशोधितम् ॥ (४३।२)

chāyāśuṣkaṃ prakurvīta cūrṇitaṃ paṭaśodhitam ||

44.1४४.१

कर्षमात्रं लिहेच्छुद्धः क्षौद्राज्याभ्यां दिनोदये । (४४।१)

karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye |

44.2४४.२

वलीपलितनिर्मुक्तो वत्सराज्जायते नरः ॥ (४४।२)

valīpalitanirmukto vatsarājjāyate naraḥ ||

45.1४५.१

ब्रह्मवृक्षमूलगुप्तधात्रीकल्पःअतिस्थूलतरं दीर्घं भेदयेद्ब्रह्मभूरुहम् । (४५।१)

brahmavṛkṣamūlaguptadhātrīkalpaḥatisthūlataraṃ dīrghaṃ bhedayedbrahmabhūruham |

45.2४५.२

मूले त्रिहस्तशेषं च तदग्रे गर्तम् आरचेत् ॥ (४५।२)

mūle trihastaśeṣaṃ ca tadagre gartam āracet ||

46.1४६.१

धात्रीफलानि पक्वानि तत्र सम्पूरयेत्प्रिये । (४६।१)

dhātrīphalāni pakvāni tatra sampūrayetpriye |

46.2४६.२

तच्छिन्नकाष्ठशेषेण तद्गर्तं च निरोधयेत् ॥ (४६।२)

tacchinnakāṣṭhaśeṣeṇa tadgartaṃ ca nirodhayet ||

47.1४७.१

कुशैः संवेष्टयेत्सम्यग् आ मूलाग्रं च लेपयेत् । (४७।१)

kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet |

47.2४७.२

मृद्गोमयाभ्यां मतिमांस्ततो वस्त्रेण वेष्टयेत् ॥ (४७।२)

mṛdgomayābhyāṃ matimāṃstato vastreṇa veṣṭayet ||

48.1४८.१

पुनर्मृद्गोमयाभ्यां च लेपयेच्छोषयेत्सुधीः । (४८।१)

punarmṛdgomayābhyāṃ ca lepayecchoṣayetsudhīḥ |

48.2४८.२

सम्यक् शुष्के च परितः करीषैः परिपूरयेत् ॥ (४८।२)

samyak śuṣke ca paritaḥ karīṣaiḥ paripūrayet ||

49.1४९.१

दहेत्तं शीतलीभूते सान्द्रं तत्फलमाहरेत् । (४९।१)

dahettaṃ śītalībhūte sāndraṃ tatphalamāharet |

49.2४९.२

भाण्डे क्षौद्राज्यभरिते क्षिपेद्धात्रीफलं च तत् ॥ (४९।२)

bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat ||

50.1५०.१

भूगृहे वा निवाते वा प्रदेशे च वसन्सुखी । (५०।१)

bhūgṛhe vā nivāte vā pradeśe ca vasansukhī |

50.2५०.२

यथेष्टं भक्षयेन्नित्यं क्षीराहारी जितेन्द्रियः ॥ (५०।२)

yatheṣṭaṃ bhakṣayennityaṃ kṣīrāhārī jitendriyaḥ ||

51.1५१.१

षण्मासात्पश्यति छिद्रं निधानानि च भूतले । (५१।१)

ṣaṇmāsātpaśyati chidraṃ nidhānāni ca bhūtale |

51.2५१.२

त्यजेत्त्वचं सर्प इव जीवेद्ब्रह्मयुगं नरः ॥ (५१।२)

tyajettvacaṃ sarpa iva jīvedbrahmayugaṃ naraḥ ||

52.1५२.१

२। श्वेतब्रह्मवृक्षकल्पः; श्वेतब्रह्मवृक्षपञ्चाङ्गकल्पःचूर्णयेच्छ्वेतपालाशपञ्चाङ्गं शोषयेत्प्रिये । (५२।१)

2. śvetabrahmavṛkṣakalpaḥ; śvetabrahmavṛkṣapañcāṅgakalpaḥcūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye |

52.2५२.२

छायायां वस्त्रगलितं मधुना च लिहेत्प्रिये ॥ (५२।२)

chāyāyāṃ vastragalitaṃ madhunā ca lihetpriye ||

53.1५३.१

कर्षमात्रं त्रिमासान्तर् जरामृत्युं जयेन्नरः । (५३।१)

karṣamātraṃ trimāsāntar jarāmṛtyuṃ jayennaraḥ |

53.2५३.२

संवत्सराच्च ब्रह्मायुः सिद्धः सर्वगतो भवेत् ॥ (५३।२)

saṃvatsarācca brahmāyuḥ siddhaḥ sarvagato bhavet ||

54.1५४.१

श्वेतब्रह्मबीजकल्पःश्वेतपालाशबीजानि चैकैकानि समाहरेत् । (५४।१)

śvetabrahmabījakalpaḥśvetapālāśabījāni caikaikāni samāharet |

54.2५४.२

अजाघृतेनानुदिनं मासान्मृत्युं जरां जयेत् ॥ (५४।२)

ajāghṛtenānudinaṃ māsānmṛtyuṃ jarāṃ jayet ||

55.1५५.१

संवत्सराद् ब्रह्मयुगं जीवेत् सिद्धिपुरोगमः । (५५।१)

saṃvatsarād brahmayugaṃ jīvet siddhipurogamaḥ |

55.2५५.२

ये प्रोक्ता रक्तपालाशतैलत्वक्पर्णकादिषु ॥ (५५।२)

ye proktā raktapālāśatailatvakparṇakādiṣu ||

56.1५६.१

ते गुणाः श्वेतपालाशे सन्ति साधकसिद्धिदाः । (५६।१)

te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ |

56.2५६.२

ब्रह्मवृक्षकल्पसिद्धिःवक्ष्यामि ब्रह्मवृक्षस्य कल्पसिद्धिं मनुम् ॥ (५६।२)

brahmavṛkṣakalpasiddhiḥvakṣyāmi brahmavṛkṣasya kalpasiddhiṃ manum ||

57.1५७.१

ॐ ह्रीं अमृतं कुरु कुरु अमृतमालिन्यै नमः । (५७।१)

oṃ hrīṃ amṛtaṃ kuru kuru amṛtamālinyai namaḥ |

57.2५७.२

पूर्वं विंशतिसाहस्रं पुरश्चरणमाचरेत् । (५७।२)

pūrvaṃ viṃśatisāhasraṃ puraścaraṇamācaret |

57.3५७.३

सुधाकुम्भवराक्षस्रग्ज्ञानमुद्रां करांबुजैः ॥ (५७।३)

sudhākumbhavarākṣasragjñānamudrāṃ karāṃbujaiḥ ||

58.1५८.१

बिभ्राणां मौक्तिकं पाशं ध्यायेदमृतमालिनीम् । (५८।१)

bibhrāṇāṃ mauktikaṃ pāśaṃ dhyāyedamṛtamālinīm |

58.2५८.२

ग्रहणेऽष्टोत्तरशतं भक्षयेत्सप्तवारकम् ॥ (५८।२)

grahaṇe'ṣṭottaraśataṃ bhakṣayetsaptavārakam ||

59.1५९.१

चन्द्रसूर्योपरागादिकालेष्वष्टसहस्रकम् । (५९।१)

candrasūryoparāgādikāleṣvaṣṭasahasrakam |

59.2५९.२

मन्त्रं विना न सिद्धिः स्यात्कल्पकोटिशतैरपि ॥ (५९।२)

mantraṃ vinā na siddhiḥ syātkalpakoṭiśatairapi ||

60.1६०.१

समन्त्रे शीघ्रसिद्धिः स्याच्चरेन्मन्त्रपुरःसरः । (६०।१)

samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ |

60.2६०.२

३। मुण्डीकल्पःअथ मुण्डीं प्रवक्ष्यामि साधकेष्टार्थदायिनीम् ॥ (६०।२)

3. muṇḍīkalpaḥatha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm ||

61.1६१.१

चतुर्विधा भवेत् च रक्ता पीता सितासिता । (६१।१)

caturvidhā bhavet ca raktā pītā sitāsitā |

61.2६१.२

पुष्यार्के पूर्णमास्यां वा रेवत्यां श्रवणेऽपि वा ॥ (६१।२)

puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā ||

62.1६२.१

उपरागादिकाले वा सिद्धयोगेषु वा हरेत् । (६२।१)

uparāgādikāle vā siddhayogeṣu vā haret |

62.2६२.२

कैदारीं मुण्डिनीं तां च बलिपूजनपूर्वकम् ॥ (६२।२)

kaidārīṃ muṇḍinīṃ tāṃ ca balipūjanapūrvakam ||

63.1६३.१

समाहरेत्कृतस्नानो मौनी मन्त्रं समुच्चरन् । (६३।१)

samāharetkṛtasnāno maunī mantraṃ samuccaran |

63.2६३.२

ॐ अमृतोद्भवाय अमृतं कुरु कुरु स्वाहा ह्रीं सः । (६३।२)

oṃ amṛtodbhavāya amṛtaṃ kuru kuru svāhā hrīṃ saḥ |

63.3६३.३

मन्त्रं द्वादशसाहस्रं पुरश्चर्यां समाचरेत् ॥ (६३।३)

mantraṃ dvādaśasāhasraṃ puraścaryāṃ samācaret ||

64.1६४.१

मूलं नालं फलं पुष्पं पत्रं पञ्चाङ्गम् ईरितम् । (६४।१)

mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam |

64.2६४.२

स पञ्चाङ्गं हरेन्मुण्डीं सम्यक् शीतेन वारिणा ॥ (६४।२)

sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā ||

65.1६५.१

प्रक्षाल्य शोषयेत्तां च छायायां चूर्णयेत्ततः । (६५।१)

prakṣālya śoṣayettāṃ ca chāyāyāṃ cūrṇayettataḥ |

65.2६५.२

वस्त्रेण शोधयेत्कुम्भे नूतने स्थापयेत्क्रमात् ॥ (६५।२)

vastreṇa śodhayetkumbhe nūtane sthāpayetkramāt ||

66.1६६.१

विशुद्धदेहस्तच्चूर्णं कर्षं गोपयसा सह । (६६।१)

viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha |

66.2६६.२

पिबेज्जीर्णे च भैषज्ये घृतमादौ पिबेन्नरः ॥ (६६।२)

pibejjīrṇe ca bhaiṣajye ghṛtamādau pibennaraḥ ||

67.1६७.१

ततो भुञ्जीत लवणतैलाम्लादिविवर्जितम् । (६७।१)

tato bhuñjīta lavaṇatailāmlādivivarjitam |

67.2६७.२

घृतपक्वं समधुरं षष्टिकान्नं पयोऽधिकम् ॥ (६७।२)

ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam ||

68.1६८.१

षण्मासाज्जायते सिद्धिस्त्वचं सर्प इव त्यजेत् । (६८।१)

ṣaṇmāsājjāyate siddhistvacaṃ sarpa iva tyajet |

68.2६८.२

पलितादिविनिर्मुक्तो दिव्यदृष्टिर्दृढं वपुः ॥ (६८।२)

palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ ||

69.1६९.१

मत्तनागबलो धीरो युवा दर्पविग्रहः । (६९।१)

mattanāgabalo dhīro yuvā darpavigrahaḥ |

69.2६९.२

संवत्सरात् सर्वसिद्धिर् भवेद्ब्रह्मायुषो नरः ॥ (६९।२)

saṃvatsarāt sarvasiddhir bhavedbrahmāyuṣo naraḥ ||

70.1७०.१

घृतोपयुक्ता सा मुण्डी पूर्वफलदा भवेत् । (७०।१)

ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet |

70.2७०.२

४। देवदालीकल्पःअथ वक्ष्याम्यहं देवि देवदालीरसायनम् ॥ (७०।२)

4. devadālīkalpaḥatha vakṣyāmyahaṃ devi devadālīrasāyanam ||

71.1७१.१

श्वेता कृष्णा च पीता च देवदाली त्रिधा मता । (७१।१)

śvetā kṛṣṇā ca pītā ca devadālī tridhā matā |

71.2७१.२

श्वेता रोगप्रशमनी कृष्णा पीता विशेषतः ॥ (७१।२)

śvetā rogapraśamanī kṛṣṇā pītā viśeṣataḥ ||

72.1७२.१

रसायने च फलदा लोहकर्मणि पार्वति । (७२।१)

rasāyane ca phaladā lohakarmaṇi pārvati |

72.2७२.२

चन्द्रसूर्योपरागेषु पूर्णिमायां सुरार्चिते ॥ (७२।२)

candrasūryoparāgeṣu pūrṇimāyāṃ surārcite ||

73.1७३.१

त्रयोदश्यां कृष्णपक्षे पञ्चम्यां वा यथाविधि । (७३।१)

trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi |

73.2७३.२

शुभाहे शुभनक्षत्रे चाहरेन्मन्त्रपूर्वकम् ॥ (७३।२)

śubhāhe śubhanakṣatre cāharenmantrapūrvakam ||

74.1७४.१

ॐ अमृतगणरुद्रगणान्ताय स्वाहा । (७४।१)

oṃ amṛtagaṇarudragaṇāntāya svāhā |

74.2७४.२

अष्टोत्तरशतं जप्त्वा बलिपूर्वं समाहरेत् । (७४।२)

aṣṭottaraśataṃ japtvā balipūrvaṃ samāharet |

74.3७४.३

ॐ नमो भगवते रुद्राय फट् स्वाहा । (७४।३)

oṃ namo bhagavate rudrāya phaṭ svāhā |

74.4७४.४

साधकस्य शिखाबन्धनमन्त्रः । (७४।४)

sādhakasya śikhābandhanamantraḥ |

74.5७४.५

देवदाल्याश्च पञ्चाङ्गं छायायां शोषयेत्सुधीः ॥ (७४।५)

devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ ||

75.1७५.१

वस्त्रेण शोधयेत्सम्यग्गव्यक्षीरेण भक्षयेत् । (७५।१)

vastreṇa śodhayetsamyaggavyakṣīreṇa bhakṣayet |

75.2७५.२

पचेत्तां लौहपात्रेण ततो मन्दाग्निना सुधीः ॥ (७५।२)

pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ ||

76.1७६.१

मध्वाज्याभ्यां लिहेत्कर्षं शुद्धात्मा सप्तवासरम् । (७६।१)

madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram |

76.2७६.२

तस्य दिव्या भवेत्प्रज्ञा रोगहृन्माससेवया ॥ (७६।२)

tasya divyā bhavetprajñā rogahṛnmāsasevayā ||

77.1७७.१

द्विमासभक्षणेनैव निध्यादिं पश्यति ध्रुवम् । (७७।१)

dvimāsabhakṣaṇenaiva nidhyādiṃ paśyati dhruvam |

77.2७७.२

धात्रीफलरसं क्षौद्रं देवदालीरसं घृतम् ॥ (७७।२)

dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam ||

78.1७८.१

प्रत्येकं कर्षमात्रं स्यात्प्रत्यहं च पिबेल्लघु । (७८।१)

pratyekaṃ karṣamātraṃ syātpratyahaṃ ca pibellaghu |

78.2७८.२

एकविंशद्दिनादूर्ध्वं मेधावी श्रुतधारकः ॥ (७८।२)

ekaviṃśaddinādūrdhvaṃ medhāvī śrutadhārakaḥ ||

79.1७९.१

पञ्चाङ्गं चूर्णयेद्देवदाल्या वस्त्रेण शोधयेत् । (७९।१)

pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet |

79.2७९.२

शिवाम्बुना वा पयसा गोमूत्रैर्वा पिबेत्सदा ॥ (७९।२)

śivāmbunā vā payasā gomūtrairvā pibetsadā ||

80.1८०.१

पूर्ववत्सिद्धिदा सा स्यात्सर्वकुष्ठापहारिणी । (८०।१)

pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī |

80.2८०.२

कामिलाप्लीहपवनशूलं हन्ति भगन्दरान् ॥ (८०।२)

kāmilāplīhapavanaśūlaṃ hanti bhagandarān ||

81.1८१.१

तद्रसो गन्धकोपेतः सर्वलोहं विलापयेत् । (८१।१)

tadraso gandhakopetaḥ sarvalohaṃ vilāpayet |

81.2८१.२

बध्नाति च रसं सम्यक् समं मूर्छति तत्क्षणात् ॥ (८१।२)

badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt ||

82.1८२.१

गन्धर्वलज्जागान्धारीदेवदालीरसस्तथा । (८२।१)

gandharvalajjāgāndhārīdevadālīrasastathā |

82.2८२.२

लेपनं मेषतैलेन स्तम्भयेदग्निमुज्ज्वलम् ॥ (८२।२)

lepanaṃ meṣatailena stambhayedagnimujjvalam ||

83.1८३.१

बीजानि देवदाल्याश्च सगुडानि च मर्दयेत् । (८३।१)

bījāni devadālyāśca saguḍāni ca mardayet |

83.2८३.२

तेन वर्तिं प्रकुर्वीत अर्शोघ्नी स्याद्गुदाङ्कुरे ॥ (८३।२)

tena vartiṃ prakurvīta arśoghnī syādgudāṅkure ||

84.1८४.१

रसेन देवदाल्याश्च नयनं त्वञ्जयेन्नरः । (८४।१)

rasena devadālyāśca nayanaṃ tvañjayennaraḥ |

84.2८४.२

पश्यत्यसौ भूतजालं तस्मै सर्वं प्रयच्छति ॥ (८४।२)

paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati ||

85.1८५.१

घृतं धात्रीफलरसं देवदालीरसं मधु । (८५।१)

ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu |

85.2८५.२

रसं च लक्ष्मणायाश्च सर्वमेकपलं पिबेत् ॥ (८५।२)

rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet ||

86.1८६.१

त्रिदिनम् ऋतुकाले तु स्त्रीणां पुत्रप्रदायकम् । (८६।१)

tridinam ṛtukāle tu strīṇāṃ putrapradāyakam |

86.2८६.२

देवदालीरसं क्षीरं मध्वाज्याभ्यां समं लिहेत् ॥ (८६।२)

devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet ||

87.1८७.१

पुंसः कोमलबीजानां बीजं गर्भप्रदं भवेत् । (८७।१)

puṃsaḥ komalabījānāṃ bījaṃ garbhapradaṃ bhavet |

87.2८७.२

भृङ्गराड् वाकुची वह्निः सर्पाक्षी देवदालिकम् ॥ (८७।२)

bhṛṅgarāḍ vākucī vahniḥ sarpākṣī devadālikam ||

88.1८८.१

शिवाम्बुना चानुदिनं पिबेत्कर्षं महेश्वरि । (८८।१)

śivāmbunā cānudinaṃ pibetkarṣaṃ maheśvari |

88.2८८.२

धरित्र्याः पश्यति छिद्रं वर्षान्मृत्युं जरां जयेत् ॥ (८८।२)

dharitryāḥ paśyati chidraṃ varṣānmṛtyuṃ jarāṃ jayet ||

89.1८९.१

पुनर्नवादेवदाल्योः पलं क्षीरयुतं पिबेत् । (८९।१)

punarnavādevadālyoḥ palaṃ kṣīrayutaṃ pibet |

89.2८९.२

शिवाम्बुना देवदालीं ससर्पाक्षीपलं पिबेत् ॥ (८९।२)

śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet ||

90.1९०.१

पूर्ववज्जायते सिद्धिः शीघ्रमेव वरानने । (९०।१)

pūrvavajjāyate siddhiḥ śīghrameva varānane |

90.2९०.२

शिवांबुना देवदाल्या निर्गुण्ड्याश्च पलं पिबेत् ॥ (९०।२)

śivāṃbunā devadālyā nirguṇḍyāśca palaṃ pibet ||

91.1९१.१

संवत्सराज्जरां हन्याज्जीवेदाचन्द्रतारकम् । (९१।१)

saṃvatsarājjarāṃ hanyājjīvedācandratārakam |

91.2९१.२

ॐ अमृतं कुरु कुरु अमृतेश्वराय स्वाहा । (९१।२)

oṃ amṛtaṃ kuru kuru amṛteśvarāya svāhā |

91.3९१.३

एतन्मन्त्रं जपेदादौ देवदाल्युपयोगके ॥ (९१।३)

etanmantraṃ japedādau devadālyupayogake ||

92.1९२.१

५। श्वेतार्ककल्पः; श्वेतार्कमूलकल्पःअथ श्वेतार्कमूलस्य कल्पं वक्ष्याम्यहं शृणु । (९२।१)

5. śvetārkakalpaḥ; śvetārkamūlakalpaḥatha śvetārkamūlasya kalpaṃ vakṣyāmyahaṃ śṛṇu |

92.2९२.२

श्वेतार्कमूलं पुष्यर्क्षे गृहीत्वा काष्ठवर्जितम् ॥ (९२।२)

śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam ||

93.1९३.१

शुद्धां त्वचं च छायायां शोषयेत्पटशोधितम् । (९३।१)

śuddhāṃ tvacaṃ ca chāyāyāṃ śoṣayetpaṭaśodhitam |

93.2९३.२

चूर्णं कृत्वा कर्षमेकं सेव्यं गोपयसा सह ॥ (९३।२)

cūrṇaṃ kṛtvā karṣamekaṃ sevyaṃ gopayasā saha ||

94.1९४.१

पलद्वयेन षण्मासात्सर्वव्याधीञ्जरां हरेत् । (९४।१)

paladvayena ṣaṇmāsātsarvavyādhīñjarāṃ haret |

94.2९४.२

संवत्सराद्ब्रह्मदिनत्रयं जीवेन्न संशयः ॥ (९४।२)

saṃvatsarādbrahmadinatrayaṃ jīvenna saṃśayaḥ ||

95.1९५.१

श्वेतार्कपर्णकल्पःश्वेतार्कपर्णस्वरसं भृङ्गराजरसं समम् । (९५।१)

śvetārkaparṇakalpaḥśvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam |

95.2९५.२

एकीकृत्यातपे शोष्यं यावच्चूर्णत्वमाप्नुयात् ॥ (९५।२)

ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt ||

96.1९६.१

चतुर्गुणे गवां क्षीरे तत्पचेन्मृदुवह्निना । (९६।१)

caturguṇe gavāṃ kṣīre tatpacenmṛduvahninā |

96.2९६.२

यावत्पिण्डं भवेत्तावत्सेव्यं तत्कर्षमात्रकम् ॥ (९६।२)

yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam ||

97.1९७.१

गवां क्षीरं पलं पेयं पूर्ववत्फलमाप्नुयात् । (९७।१)

gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt |

97.2९७.२

ॐ आं हंसमालिनि स्वाहा अयं भक्षणमन्त्रः । (९७।२)

oṃ āṃ haṃsamālini svāhā ayaṃ bhakṣaṇamantraḥ |

97.3९७.३

६। हस्तिकर्णीकल्पः; हस्तिकर्णीपत्रकल्पःअथेन्दुवारसंयुक्तत्रयोदश्यां समाहरेत् ॥ (९७।३)

6. hastikarṇīkalpaḥ; hastikarṇīpatrakalpaḥathenduvārasaṃyuktatrayodaśyāṃ samāharet ||

98.1९८.१

हस्तिकर्णीपलाशानि छायाशुष्काणि चूर्णयेत् । (९८।१)

hastikarṇīpalāśāni chāyāśuṣkāṇi cūrṇayet |

98.2९८.२

पलं सेव्यं गवां क्षीरं वर्षान्मृत्युं जरां जयेत् ॥ (९८।२)

palaṃ sevyaṃ gavāṃ kṣīraṃ varṣānmṛtyuṃ jarāṃ jayet ||

99.1९९.१

जीवेद्ब्रह्मायुषं मर्त्यः सिद्धसाध्यादिसेवितः । (९९।१)

jīvedbrahmāyuṣaṃ martyaḥ siddhasādhyādisevitaḥ |

99.2९९.२

हस्तिकर्णीपञ्चाङ्गकल्पःपञ्चाङ्गं हस्तिकर्ण्याश्च कुर्याच्छायाविशोषितम् ॥ (९९।२)

hastikarṇīpañcāṅgakalpaḥpañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam ||

100.1१००.१

मासैकमुदकैः सार्धं कर्षं प्रत्यहमश्नुयात् । (१००।१)

māsaikamudakaiḥ sārdhaṃ karṣaṃ pratyahamaśnuyāt |

100.2१००.२

सौवीरदधिदुग्धाज्यतक्रक्षौद्रैर्यथाक्रमम् ॥ (१००।२)

sauvīradadhidugdhājyatakrakṣaudrairyathākramam ||

101.1१०१.१

एकैकं प्रतिमासं च सेव्यं वर्षाच्च सिध्यति । (१०१।१)

ekaikaṃ pratimāsaṃ ca sevyaṃ varṣācca sidhyati |

101.2१०१.२

जीवेद्ब्रह्मदिनं सिद्धो वज्रकायो महाबलः ॥ (१०१।२)

jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ ||

102.1१०२.१

ॐ अमृताय अमृतं गृह्णामि स्वाहा । (१०२।१)

oṃ amṛtāya amṛtaṃ gṛhṇāmi svāhā |

102.2१०२.२

अयं ग्रहणमन्त्रः । (१०२।२)

ayaṃ grahaṇamantraḥ |

102.3१०२.३

अमृतकुटीजातानाम् अमृतं कुरु कुरु स्वाहा । (१०२।३)

amṛtakuṭījātānām amṛtaṃ kuru kuru svāhā |

102.4१०२.४

अनेन मन्त्रेण पूजयेत् । (१०२।४)

anena mantreṇa pūjayet |

102.5१०२.५

ॐ अमृतोद्भवाय अमृतं कुरु कुरु नित्यं नमो नमः । (१०२।५)

oṃ amṛtodbhavāya amṛtaṃ kuru kuru nityaṃ namo namaḥ |

102.6१०२.६

अयं भक्षणमन्त्रः । (१०२।६)

ayaṃ bhakṣaṇamantraḥ |

102.7१०२.७

७। रुदन्तीकल्पःअथ वक्ष्याम्यहं दिव्यं रुदन्तीकल्पमुत्तमम् । (१०२।७)

7. rudantīkalpaḥatha vakṣyāmyahaṃ divyaṃ rudantīkalpamuttamam |

102.8१०२.८

चणपत्रोपमैः पत्रैः पुष्पैरपि च तादृशैः ॥ (१०२।८)

caṇapatropamaiḥ patraiḥ puṣpairapi ca tādṛśaiḥ ||

103.1१०३.१

रुदन्ती नाम विख्याता ह्यधस्ताज्जलवर्षिणी । (१०३।१)

rudantī nāma vikhyātā hyadhastājjalavarṣiṇī |

103.2१०३.२

रोदितीव जनान्दृष्ट्वा म्रियमाणान्गदाकुलान् ॥ (१०३।२)

roditīva janāndṛṣṭvā mriyamāṇāngadākulān ||

104.1१०४.१

चतुर्विधा च सा ज्ञेया पीता रक्ता सितासिता । (१०४।१)

caturvidhā ca sā jñeyā pītā raktā sitāsitā |

104.2१०४.२

शुक्लपक्षे शुभदिने रुदन्तीं तां समाहरेत् ॥ (१०४।२)

śuklapakṣe śubhadine rudantīṃ tāṃ samāharet ||

105.1१०५.१

समूलां शोषयेद्धीमान् छायायां वस्त्रशोधिताम् । (१०५।१)

samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām |

105.2१०५.२

विशुद्धदेहः सेवेत बिडालपदमात्रकम् ॥ (१०५।२)

viśuddhadehaḥ seveta biḍālapadamātrakam ||

106.1१०६.१

क्षौद्राज्याभ्यामनुदिनं भुक्तिः क्षीराज्यसंयुता । (१०६।१)

kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā |

106.2१०६.२

जीर्णायां संयमी भूत्वा वर्षात्तेजोबलान्वितः ॥ (१०६।२)

jīrṇāyāṃ saṃyamī bhūtvā varṣāttejobalānvitaḥ ||

107.1१०७.१

परमायुर्भवेन्मर्त्यो जराव्याधिविवर्जितः । (१०७।१)

paramāyurbhavenmartyo jarāvyādhivivarjitaḥ |

107.2१०७.२

तैलं कतकमूलोत्थं कुर्यात्पातालयन्त्रके ॥ (१०७।२)

tailaṃ katakamūlotthaṃ kuryātpātālayantrake ||

108.1१०८.१

गर्भयन्त्रेऽथवा क्षाल्यं पञ्चाशद्वारमम्बुना । (१०८।१)

garbhayantre'thavā kṣālyaṃ pañcāśadvāramambunā |

108.2१०८.२

नालिकेराम्बुना वाथ कृत्वेत्थं तैलशोधनम् ॥ (१०८।२)

nālikerāmbunā vātha kṛtvetthaṃ tailaśodhanam ||

109.1१०९.१

पञ्चाङ्गं च रुदन्त्याश्च छायाशुष्कं विचूर्णयेत् । (१०९।१)

pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet |

109.2१०९.२

तदर्धं मुसलीचूर्णं मुसल्यर्धपलत्रयम् ॥ (१०९।२)

tadardhaṃ musalīcūrṇaṃ musalyardhapalatrayam ||

110.1११०.१

एतत्त्रिचूर्णं संमिश्रं कर्षं कतकतैलतः । (११०।१)

etattricūrṇaṃ saṃmiśraṃ karṣaṃ katakatailataḥ |

110.2११०.२

लिहेदनुदिनं शुद्धस्तद्वृद्धिः स्यात्पलावधि ॥ (११०।२)

lihedanudinaṃ śuddhastadvṛddhiḥ syātpalāvadhi ||

111.1१११.१

संवत्सराद्वज्रकायः स जीवेद्ब्रह्मणो दिनम् । (१११।१)

saṃvatsarādvajrakāyaḥ sa jīvedbrahmaṇo dinam |

111.2१११.२

८। निर्गुण्डीकल्पः; निर्गुण्डीमूलकल्पःअथ वच्मि शुभं दिव्यं निर्गुण्डीकल्पमुत्तमम् ॥ (१११।२)

8. nirguṇḍīkalpaḥ; nirguṇḍīmūlakalpaḥatha vacmi śubhaṃ divyaṃ nirguṇḍīkalpamuttamam ||

112.1११२.१

प्रातः पुष्यरवौ ग्राह्या निर्गुण्डीमूलसंभवा । (११२।१)

prātaḥ puṣyaravau grāhyā nirguṇḍīmūlasaṃbhavā |

112.2११२.२

त्वक् शोषणीया छायायां तच्चूर्णं कर्षमात्रकम् ॥ (११२।२)

tvak śoṣaṇīyā chāyāyāṃ taccūrṇaṃ karṣamātrakam ||

113.1११३.१

पलमात्राजमूत्रेण पिबेच्छुद्धो ऽनुवासरम् । (११३।१)

palamātrājamūtreṇa pibecchuddho 'nuvāsaram |

113.2११३.२

षण्मासाद् दिव्यदेहः स्यान्मत्तनागबलान्वितः ॥ (११३।२)

ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ ||

114.1११४.१

मध्वाज्यक्षीरलुलितं तच्चूर्णं स्निग्धभाण्डके । (११४।१)

madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake |

114.2११४.२

पिधाय धान्यराशौ तु मासमेकं तु निक्षिपेत् ॥ (११४।२)

pidhāya dhānyarāśau tu māsamekaṃ tu nikṣipet ||

115.1११५.१

मासान्ते तत्समुद्धृत्य शुद्धाङ्गो द्विपलं सदा । (११५।१)

māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā |

115.2११५.२

सेवेत वर्षपर्यन्तं जीवेदाचन्द्रतारकम् ॥ (११५।२)

seveta varṣaparyantaṃ jīvedācandratārakam ||

116.1११६.१

अथवार्धपलं चूर्णं तदीयं सघृतं पिबेत् । (११६।१)

athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet |

116.2११६.२

पूर्ववज्जायते सिद्धिर्जरारोगविवर्जितः ॥ (११६।२)

pūrvavajjāyate siddhirjarārogavivarjitaḥ ||

117.1११७.१

वचामुण्डीनिम्बवरागुडूचीभृङ्गराट् समाः । (११७।१)

vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ |

117.2११७.२

एषां समांशं संयोज्य निर्गुण्डीमूलचूर्णतः ॥ (११७।२)

eṣāṃ samāṃśaṃ saṃyojya nirguṇḍīmūlacūrṇataḥ ||

118.1११८.१

क्षौद्राज्याभ्यां लिहेद्धस्तादन्वहं पलमात्रकम् । (११८।१)

kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam |

118.2११८.२

आयुर्विरिञ्चित्रिदिनं भवेन्मृत्युजरोज्झितम् ॥ (११८।२)

āyurviriñcitridinaṃ bhavenmṛtyujarojjhitam ||

119.1११९.१

निर्गुण्डीमूलचूर्णं तु क्रिमिघ्नकटुकैः समम् । (११९।१)

nirguṇḍīmūlacūrṇaṃ tu krimighnakaṭukaiḥ samam |

119.2११९.२

पलमात्रमजाक्षीरैर्नित्यं शुद्धः पिबेद्बुधः ॥ (११९।२)

palamātramajākṣīrairnityaṃ śuddhaḥ pibedbudhaḥ ||

120.1१२०.१

वलीपलितनिर्मुक्तो निर्गदः स्यात्त्रिमासतः । (१२०।१)

valīpalitanirmukto nirgadaḥ syāttrimāsataḥ |

120.2१२०.२

निर्गुण्डीपत्रकल्पःनिर्गुण्डीपत्रजद्रावं भाण्डे मृद्वग्निना पचेत् ॥ (१२०।२)

nirguṇḍīpatrakalpaḥnirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet ||

121.1१२१.१

गुडवत्पाकमापन्नं तं पिबेन्निष्कमात्रकम् । (१२१।१)

guḍavatpākamāpannaṃ taṃ pibenniṣkamātrakam |

121.2१२१.२

दिने दिने निष्कवृद्धिर्यावद्द्विपलिकं भवेत् ॥ (१२१।२)

dine dine niṣkavṛddhiryāvaddvipalikaṃ bhavet ||

122.1१२२.१

तेन वान्तिर्विरेकः स्यान्निर्यान्ति क्रिमयः परम् । (१२२।१)

tena vāntirvirekaḥ syānniryānti krimayaḥ param |

122.2१२२.२

अपानतो देहगता मुखनासाक्षिकर्णतः ॥ (१२२।२)

apānato dehagatā mukhanāsākṣikarṇataḥ ||

123.1१२३.१

क्षयकुष्ठादिरोगाश्च नश्यन्ति मुनिवासरात् । (१२३।१)

kṣayakuṣṭhādirogāśca naśyanti munivāsarāt |

123.2१२३.२

मासत्रये जरां हन्ति जीवेद्वर्षशतत्रयम् ॥ (१२३।२)

māsatraye jarāṃ hanti jīvedvarṣaśatatrayam ||

124.1१२४.१

निर्गुण्डीपञ्चाङ्गकल्पःपञ्चाङ्गचूर्णं निर्गुण्ड्यास्तिलतैलेन सेवितम् । (१२४।१)

nirguṇḍīpañcāṅgakalpaḥpañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam |

124.2१२४.२

निष्कादिपलपर्यन्तं त्रिमासेन जरां जयेत् ॥ (१२४।२)

niṣkādipalaparyantaṃ trimāsena jarāṃ jayet ||

125.1१२५.१

अशीतिं वातजान्रोगान् कुष्ठानपि गलामयान् । (१२५।१)

aśītiṃ vātajānrogān kuṣṭhānapi galāmayān |

125.2१२५.२

आस्यार्त्युपकुशादींश्च जयेत्तत्पर्णचर्वणात् ॥ (१२५।२)

āsyārtyupakuśādīṃśca jayettatparṇacarvaṇāt ||

126.1१२६.१

सिन्धुवारकपञ्चाङ्गचूर्णं मधुघृतप्लुतम् । (१२६।१)

sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam |

126.2१२६.२

पलमात्रं लिहेत्प्रातस्ततो जीर्णे गवां पयः ॥ (१२६।२)

palamātraṃ lihetprātastato jīrṇe gavāṃ payaḥ ||

127.1१२७.१

पिबेद् यथानलबलं भुञ्जीताग्नौ क्रमेण च । (१२७।१)

pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca |

127.2१२७.२

निर्वाते निवसेद्धीमान्सिद्धिमाप्नोति वत्सरात् ॥ (१२७।२)

nirvāte nivaseddhīmānsiddhimāpnoti vatsarāt ||

128.1१२८.१

सिद्धदेहस्य पूर्वेण म्रियेते विषपारदौ । (१२८।१)

siddhadehasya pūrveṇa mriyete viṣapāradau |

128.2१२८.२

काले काले यथाप्राप्तं पञ्चाङ्गं सिन्धुवारकात् ॥ (१२८।२)

kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt ||

129.1१२९.१

छायायां शोषितं चूर्णं त्रिमधुत्रिफलायुतम् । (१२९।१)

chāyāyāṃ śoṣitaṃ cūrṇaṃ trimadhutriphalāyutam |

129.2१२९.२

स्निग्धभाण्डे धान्यराशौ त्रिमासं स्थापयेत्ततः ॥ (१२९।२)

snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ ||

130.1१३०.१

निष्कादिपलपर्यन्तं सेवेताकर्षकं सुधीः । (१३०।१)

niṣkādipalaparyantaṃ sevetākarṣakaṃ sudhīḥ |

130.2१३०.२

सर्वव्याधिविनिर्मुक्तो जरामरणवर्जितः ॥ (१३०।२)

sarvavyādhivinirmukto jarāmaraṇavarjitaḥ ||

131.1१३१.१

ॐ नमो मायागणपतये कुबेराय स्वाहा । (१३१।१)

oṃ namo māyāgaṇapataye kuberāya svāhā |

131.2१३१.२

अयं भक्षणमन्त्रः । (१३१।२)

ayaṃ bhakṣaṇamantraḥ |

131.3१३१.३

९। शुनकशाल्मलीकल्पःअथ वक्ष्यामि देवेशि कल्पं शुनकशाल्मलेः । (१३१।३)

9. śunakaśālmalīkalpaḥatha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ |

131.4१३१.४

अष्टम्यां कृष्णपक्षस्य स्नात्वा रात्रौ समाहितः ॥ (१३१।४)

aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ ||

132.1१३२.१

आवेष्ट्य कृष्णसूत्रैश्च वृक्षं शुनकशाल्मलिम् । (१३२।१)

āveṣṭya kṛṣṇasūtraiśca vṛkṣaṃ śunakaśālmalim |

132.2१३२.२

तत्राघोरं जपेद्धीरः सहस्रवसुसंमितम् ॥ (१३२।२)

tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam ||

133.1१३३.१

९। शुनकशाल्मलीमूलकल्पःतन्मूलवल्कलं ग्राह्यं छायायां शोषयेत्ततः । (१३३।१)

9. śunakaśālmalīmūlakalpaḥtanmūlavalkalaṃ grāhyaṃ chāyāyāṃ śoṣayettataḥ |

133.2१३३.२

चूर्णं कृत्वा तु मध्वाज्यैः खादेत्प्रातः पलं पलम् ॥ (१३३।२)

cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam ||

134.1१३४.१

वर्षाद्वलिजरामुक्तः स जीवेद् ब्रह्मणो दिनम् । (१३४।१)

varṣādvalijarāmuktaḥ sa jīved brahmaṇo dinam |

134.2१३४.२

शुनकशाल्मलीपुष्पकल्पःतस्याष्टादश पुष्पाणि गोक्षीरे ऽष्टपले पचेत् ॥ (१३४।२)

śunakaśālmalīpuṣpakalpaḥtasyāṣṭādaśa puṣpāṇi gokṣīre 'ṣṭapale pacet ||

135.1१३५.१

पुष्पवर्ज्यं पिबेत्क्षारमेवं च प्रतिवासरम् । (१३५।१)

puṣpavarjyaṃ pibetkṣāramevaṃ ca prativāsaram |

135.2१३५.२

मासेन दिव्यदेहः स्याज्जीवेद् ब्रह्मदिनत्रयम् ॥ (१३५।२)

māsena divyadehaḥ syājjīved brahmadinatrayam ||

136.1१३६.१

शुनकशाल्मलीफलकल्पःतत्फलं तु गवां क्षीरे पाचयेत्कान्तपात्रके । (१३६।१)

śunakaśālmalīphalakalpaḥtatphalaṃ tu gavāṃ kṣīre pācayetkāntapātrake |

136.2१३६.२

फलं त्यक्त्वा पिबेत्क्षीरं दीप्तेऽग्नौ क्षीरभोजनम् ॥ (१३६।२)

phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam ||

137.1१३७.१

मासषट्कप्रयोगेण दिव्यदेहो भवेन्नरः । (१३७।१)

māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ |

137.2१३७.२

जीवेत्कल्पान्तपर्यन्तं वायुवेगी महाबलः ॥ (१३७।२)

jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ ||

138.1१३८.१

तस्य मूत्रपुरीषाभ्यां शुल्बं स्वर्णं भवेद्ध्रुवम् । (१३८।१)

tasya mūtrapurīṣābhyāṃ śulbaṃ svarṇaṃ bhaveddhruvam |

138.2१३८.२

१०। पथ्याकल्पः; पथ्योत्पत्तिःअथातः सम्प्रवक्ष्यामि पथ्याकल्पम् अनूपमम् ॥ (१३८।२)

10. pathyākalpaḥ; pathyotpattiḥathātaḥ sampravakṣyāmi pathyākalpam anūpamam ||

139.1१३९.१

येन रोगा विनश्यन्ति सिध्यन्ति च मनोरथाः । (१३९।१)

yena rogā vinaśyanti sidhyanti ca manorathāḥ |

139.2१३९.२

पीत्वामृतं शचीनाथः प्रीत्या शच्यै समापिबत् ॥ (१३९।२)

pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat ||

140.1१४०.१

तयोर् हृष्टमुखाम्भोजगलितामृतबिन्दवः । (१४०।१)

tayor hṛṣṭamukhāmbhojagalitāmṛtabindavaḥ |

140.2१४०.२

सप्तधा भुवि ते जाता महावीर्याः स्थिरायुषः ॥ (१४०।२)

saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ ||

141.1१४१.१

ते सप्तदेशेषूत्पन्नाः सप्तधा नाम धारकाः । (१४१।१)

te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ |

141.2१४१.२

विन्ध्यदेशे कान्यकुब्जे सौराष्ट्रे हिमवद्गिरौ ॥ (१४१।२)

vindhyadeśe kānyakubje saurāṣṭre himavadgirau ||

142.1१४२.१

गङ्गातटे च काश्मीरे वैन्यदेशे यथाक्रमम् । (१४२।१)

gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam |

142.2१४२.२

विजया रोहिणी चैव पूता स्यात्त्रिवृतामृता ॥ (१४२।२)

vijayā rohiṇī caiva pūtā syāttrivṛtāmṛtā ||

143.1१४३.१

जीवन्ती त्वभया जाता देशे देशे यथाक्रमम् । (१४३।१)

jīvantī tvabhayā jātā deśe deśe yathākramam |

143.2१४३.२

उत्तमा मध्यमा नीचाः स्वयं पक्वास्तु शोभनाः ॥ (१४३।२)

uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ ||

144.1१४४.१

हरीतक्यां रसाः पञ्च विद्यन्ते लवणोज्झिताः । (१४४।१)

harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ |

144.2१४४.२

स्वाद्वम्लतिक्तकटुकतुवराश्च यथाक्रमम् ॥ (१४४।२)

svādvamlatiktakaṭukatuvarāśca yathākramam ||

145.1१४५.१

स्युर् मज्जस्नायुवृन्तत्वङ्मांसेषु क्रमशो रसाः । (१४५।१)

syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ |

145.2१४५.२

अलाबुकर्णी वृत्ता च चतुरङ्ग्यल्पचर्मका ॥ (१४५।२)

alābukarṇī vṛttā ca caturaṅgyalpacarmakā ||

146.1१४६.१

पञ्चास्रा मांसला स्वर्णवर्णा कृष्णा स्मृताः क्रमात् । (१४६।१)

pañcāsrā māṃsalā svarṇavarṇā kṛṣṇā smṛtāḥ kramāt |

146.2१४६.२

या मज्जन्ती जले ग्राह्या गुर्वी स्निग्धा घनाघनाः ॥ (१४६।२)

yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ ||

147.1१४७.१

द्विकर्षमात्रा सा श्रेष्ठा कर्षमात्रा तु मध्यमा । (१४७।१)

dvikarṣamātrā sā śreṣṭhā karṣamātrā tu madhyamā |

147.2१४७.२

अर्धकर्षा भवेन्नीचा पथ्या फलमुदाहृतम् ॥ (१४७।२)

ardhakarṣā bhavennīcā pathyā phalamudāhṛtam ||

148.1१४८.१

क्रिमिजुष्टा वह्निदग्धा नष्टा पङ्कजलार्द्रिता । (१४८।१)

krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā |

148.2१४८.२

स्फुटिता चोषरस्था च वर्जनीया हरीतकी ॥ (१४८।२)

sphuṭitā coṣarasthā ca varjanīyā harītakī ||

149.1१४९.१

पथ्याकल्पःशुद्धदेशे पुण्यदिने ग्रहणे चन्द्रसूर्ययोः । (१४९।१)

pathyākalpaḥśuddhadeśe puṇyadine grahaṇe candrasūryayoḥ |

149.2१४९.२

गन्धाद्यैः पूजयित्वादौ प्रार्थयित्वा जपेत्सुधीः ॥ (१४९।२)

gandhādyaiḥ pūjayitvādau prārthayitvā japetsudhīḥ ||

150.1१५०.१

गायत्रीशतम् आवृत्त्य पथ्यामेवं समाहरेत् । (१५०।१)

gāyatrīśatam āvṛttya pathyāmevaṃ samāharet |

150.2१५०.२

शुण्ठ्या वाथ गुडेनापि सैन्धवेनाथवा शिवाम् ॥ (१५०।२)

śuṇṭhyā vātha guḍenāpi saindhavenāthavā śivām ||

151.1१५१.१

सेवेत दीपनं तेन करोत्यामविनाशनम् । (१५१।१)

seveta dīpanaṃ tena karotyāmavināśanam |

151.2१५१.२

क्षौद्रेण वा गुडेनापि पिप्पल्या नागरेण वा ॥ (१५१।२)

kṣaudreṇa vā guḍenāpi pippalyā nāgareṇa vā ||

152.1१५२.१

सैन्धवेनाथवा सेव्या शुद्धाङ्गः प्रतिवासरम् । (१५२।१)

saindhavenāthavā sevyā śuddhāṅgaḥ prativāsaram |

152.2१५२.२

द्वे द्वे पथ्ये द्वादशाब्दं तेन जीवेच्छतं समाः ॥ (१५२।२)

dve dve pathye dvādaśābdaṃ tena jīvecchataṃ samāḥ ||

153.1१५३.१

द्विनिष्कचूर्णं पथ्याया निष्कैकं लोहभस्म च । (१५३।१)

dviniṣkacūrṇaṃ pathyāyā niṣkaikaṃ lohabhasma ca |

153.2१५३.२

लोलयित्वा गोघृतेन कान्तपात्रे च लेपयेत् ॥ (१५३।२)

lolayitvā goghṛtena kāntapātre ca lepayet ||

154.1१५४.१

अधोमुखीकृतं पात्रं स्थापयेत्तद्दिवानिशम् । (१५४।१)

adhomukhīkṛtaṃ pātraṃ sthāpayettaddivāniśam |

154.2१५४.२

प्रातः शुद्धवपुर्लेह्यं जरां मृत्युं जयेत्सुधीः ॥ (१५४।२)

prātaḥ śuddhavapurlehyaṃ jarāṃ mṛtyuṃ jayetsudhīḥ ||

155.1१५५.१

शाल्मलीं छिद्रयित्वादौ तदन्तर्निक्षिपेच्छिवाः । (१५५।१)

śālmalīṃ chidrayitvādau tadantarnikṣipecchivāḥ |

155.2१५५.२

आ षण्मासं परस्तास्तु ग्राह्या चैकैकशोऽन्वहम् ॥ (१५५।२)

ā ṣaṇmāsaṃ parastāstu grāhyā caikaikaśo'nvaham ||

156.1१५६.१

सेवेत पथ्यां शुद्धाङ्गस्तस्य मृत्युर्जरा न हि । (१५६।१)

seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi |

156.2१५६.२

११। आमलकीकल्पःअथ वक्ष्यामि देवेशि कल्पमामलकीभवम् ॥ (१५६।२)

11. āmalakīkalpaḥatha vakṣyāmi deveśi kalpamāmalakībhavam ||

157.1१५७.१

चैत्रादौ ग्राहयेद्धात्र्याः सुपक्वानि फलानि च । (१५७।१)

caitrādau grāhayeddhātryāḥ supakvāni phalāni ca |

157.2१५७.२

हरीतकीवद् ग्राह्यानि छायाशुष्काणि चूर्णयेत् ॥ (१५७।२)

harītakīvad grāhyāni chāyāśuṣkāṇi cūrṇayet ||

158.1१५८.१

कर्षं जलेन वाज्येन मधुना वा फलं निशि । (१५८।१)

karṣaṃ jalena vājyena madhunā vā phalaṃ niśi |

158.2१५८.२

वर्धयेज्जाठरं वह्निमिन्द्रियाणां प्रसादकृत् ॥ (१५८।२)

vardhayejjāṭharaṃ vahnimindriyāṇāṃ prasādakṛt ||

159.1१५९.१

धात्रीचूर्णं लोहभस्म क्षौद्राज्यालुलितं लिहेत् । (१५९।१)

dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet |

159.2१५९.२

वलीपलितमृत्युघ्नं वत्सरात्पूर्ववद्विधिः ॥ (१५९।२)

valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ ||

160.1१६०.१

क्षीरपक्वं च तद्भक्ष्यं पूर्ववत्सिद्धिदायकः । (१६०।१)

kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ |

160.2१६०.२

धात्रीचूर्णं भृङ्गचूर्णं मध्वाज्यसहितं लिहेत् ॥ (१६०।२)

dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet ||

161.1१६१.१

वलीपलितनिर्मुक्तो वत्सराद्भवति ध्रुवम् । (१६१।१)

valīpalitanirmukto vatsarādbhavati dhruvam |

161.2१६१.२

निंबामलकयोश्चूर्णं मध्वाज्यसहितं लिहेत् ॥ (१६१।२)

niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet ||

162.1१६२.१

पूर्ववच्च फलं देवि नात्र कार्या विचारणा । (१६२।१)

pūrvavacca phalaṃ devi nātra kāryā vicāraṇā |

162.2१६२.२

१२। त्रिफलाकल्पःअथ ब्रवीमि ते देवि त्रिफलाया रसायनम् ॥ (१६२।२)

12. triphalākalpaḥatha bravīmi te devi triphalāyā rasāyanam ||

163.1१६३.१

एकं हरीतकीभागं द्विभागं च विभीतकम् । (१६३।१)

ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam |

163.2१६३.२

चतुर्भागं तथा धात्री सर्वमेकत्र चूर्णयेत् ॥ (१६३।२)

caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet ||

164.1१६४.१

पिप्पल्या वा तुगाक्षीर्या सैन्धवैर्मधुकेन वा । (१६४।१)

pippalyā vā tugākṣīryā saindhavairmadhukena vā |

164.2१६४.२

क्षौद्रेण वा सर्पिषा वा वचया सितयाथवा ॥ (१६४।२)

kṣaudreṇa vā sarpiṣā vā vacayā sitayāthavā ||

165.1१६५.१

सुवर्णै रजतैः शुल्बैर् वङ्गैर् नागैस्तथायसैः । (१६५।१)

suvarṇai rajataiḥ śulbair vaṅgair nāgaistathāyasaiḥ |

165.2१६५.२

संयुक्ता त्रिफला लीढा जरामरणनाशिनी ॥ (१६५।२)

saṃyuktā triphalā līḍhā jarāmaraṇanāśinī ||

166.1१६६.१

त्रिफलायाः समांशास्तु योज्याश्चैकैकशस्तु ताः । (१६६।१)

triphalāyāḥ samāṃśāstu yojyāścaikaikaśastu tāḥ |

166.2१६६.२

पिप्पल्याद्यास्तु सौवर्णभस्मादीनां च कथ्यते ॥ (१६६।२)

pippalyādyāstu sauvarṇabhasmādīnāṃ ca kathyate ||

167.1१६७.१

सौवर्णं पणमात्रं च द्विपणं राजतं भवेत् । (१६७।१)

sauvarṇaṃ paṇamātraṃ ca dvipaṇaṃ rājataṃ bhavet |

167.2१६७.२

पणार्धं शुल्बचूर्णं च द्विपणं नागवङ्गजम् ॥ (१६७।२)

paṇārdhaṃ śulbacūrṇaṃ ca dvipaṇaṃ nāgavaṅgajam ||

168.1१६८.१

चूर्णं तथायसं प्रोक्तं पणपञ्चकमात्रकम् । (१६८।१)

cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam |

168.2१६८.२

एवं यस् त्रिफलासेवी जीवेदाचन्द्रतारकम् ॥ (१६८।२)

evaṃ yas triphalāsevī jīvedācandratārakam ||

169.1१६९.१

एकां हरीतकीं प्रातर्भुक्तेः प्राग् द्विविभीतकम् । (१६९।१)

ekāṃ harītakīṃ prātarbhukteḥ prāg dvivibhītakam |

169.2१६९.२

चतुरामलकं रात्रौ सर्वे ते घृतपाचिताः ॥ (१६९।२)

caturāmalakaṃ rātrau sarve te ghṛtapācitāḥ ||

170.1१७०.१

सेवेतावत्सरं धीमान्वलीपलितवर्जितः । (१७०।१)

sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ |

170.2१७०.२

अन्नोदकेन संपेष्य कान्तपात्रे लिहेन्निशि ॥ (१७०।२)

annodakena saṃpeṣya kāntapātre lihenniśi ||

171.1१७१.१

सक्षौद्रं तल्लिहेत्प्रातरायुरारोग्यवर्धनम् । (१७१।१)

sakṣaudraṃ tallihetprātarāyurārogyavardhanam |

171.2१७१.२

त्रिफलां भावयेत्पूर्वं खदिरासनयूषतः ॥ (१७१।२)

triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ ||

172.1१७२.१

त्रिः सप्तवारं देवेशि ततः क्षौद्रघृताप्लुताम् । (१७२।१)

triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām |

172.2१७२.२

सेवेतानुदिनं कर्षं वर्षादिन्द्रायुषो भवेत् ॥ (१७२।२)

sevetānudinaṃ karṣaṃ varṣādindrāyuṣo bhavet ||

173.1१७३.१

विडङ्गभृङ्गखदिरब्रह्मवृक्षरसैः पृथक् । (१७३।१)

viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak |

173.2१७३.२

पृथक्सप्तदिनं घर्मे भावयेत्त्रिफलां प्रिये ॥ (१७३।२)

pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye ||

174.1१७४.१

भक्षयेद्गुडसर्पिर्भ्यां कर्षं वर्षात्सुरोपमः । (१७४।१)

bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ |

174.2१७४.२

त्रिफलायाः शतफलं चूर्णं भृङ्गरसैः पुरा ॥ (१७४।२)

triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā ||

175.1१७५.१

त्रिः सप्तवासरं भाव्यं लिहेन्मधुघृतान्वितम् । (१७५।१)

triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam |

175.2१७५.२

पलार्धं प्रत्यहं प्रातर्जीर्णेऽद्याद् दधिभक्तकम् ॥ (१७५।२)

palārdhaṃ pratyahaṃ prātarjīrṇe'dyād dadhibhaktakam ||

176.1१७६.१

वर्षात्प्रसन्नदृष्टिश्च जीवेत् षट्शतवत्सरम् । (१७६।१)

varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram |

176.2१७६.२

महाबलः कृष्णकेशः स्मृतिबुद्धिसमन्वितः ॥ (१७६।२)

mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ ||

177.1१७७.१

युवा शतस्त्रीरन्ता च धीरः स सुभगो भवेत् । (१७७।१)

yuvā śatastrīrantā ca dhīraḥ sa subhago bhavet |

177.2१७७.२

१३। शुण्ठीकल्पःअथ वक्ष्यामि गिरिजे दिव्यं शुण्ठीरसायनम् ॥ (१७७।२)

13. śuṇṭhīkalpaḥatha vakṣyāmi girije divyaṃ śuṇṭhīrasāyanam ||

178.1१७८.१

श्रेष्ठं नागरमादाय चूर्णयेत् पटगालितम् । (१७८।१)

śreṣṭhaṃ nāgaramādāya cūrṇayet paṭagālitam |

178.2१७८.२

गुडं चास्य समं योज्यं मधुना गोघृतेन च ॥ (१७८।२)

guḍaṃ cāsya samaṃ yojyaṃ madhunā goghṛtena ca ||

179.1१७९.१

स्निग्धभाण्डे विनिक्षिप्य धान्यराशौ सुयन्त्रितम् । (१७९।१)

snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam |

179.2१७९.२

द्विमण्डलात् समाहृत्य शुद्धाङ्गः पुण्यवासरे ॥ (१७९।२)

dvimaṇḍalāt samāhṛtya śuddhāṅgaḥ puṇyavāsare ||

180.1१८०.१

कर्षं कर्षं लिहेन्नित्यं सप्ताहाद्रोगवर्जितः । (१८०।१)

karṣaṃ karṣaṃ lihennityaṃ saptāhādrogavarjitaḥ |

180.2१८०.२

षण्मासमुपभुञ्जानो जीवेद्वर्षशतद्वयम् ॥ (१८०।२)

ṣaṇmāsamupabhuñjāno jīvedvarṣaśatadvayam ||

181.1१८१.१

बुद्ध्या वाचस्पतिसमः पुराणागमशास्त्रवित् । (१८१।१)

buddhyā vācaspatisamaḥ purāṇāgamaśāstravit |

181.2१८१.२

मयानुभूतं देवेशि कथितं तव सौहृदात् ॥ (१८१।२)

mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt ||

182.1१८२.१

१४। पिप्पलीकल्पःअथ प्रिये प्रवक्ष्यामि पिप्पलीनां रसायनम् । (१८२।१)

14. pippalīkalpaḥatha priye pravakṣyāmi pippalīnāṃ rasāyanam |

182.2१८२.२

पिप्पलीं शोधयेत्पूर्वं किंशुकक्षारवारिणा ॥ (१८२।२)

pippalīṃ śodhayetpūrvaṃ kiṃśukakṣāravāriṇā ||

183.1१८३.१

सप्तधा च ततः कुर्यात्तासां च घृतभर्जनम् । (१८३।१)

saptadhā ca tataḥ kuryāttāsāṃ ca ghṛtabharjanam |

183.2१८३.२

ततः सेवेत शुद्धाङ्गः पञ्चाष्टौ दश सप्तधा ॥ (१८३।२)

tataḥ seveta śuddhāṅgaḥ pañcāṣṭau daśa saptadhā ||

184.1१८४.१

वर्षमेकं तु मध्वाज्यै रोगास्तस्य न सन्ति च । (१८४।१)

varṣamekaṃ tu madhvājyai rogāstasya na santi ca |

184.2१८४.२

वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥ (१८४।२)

valīpalitanirmukto jīvecca śaradaḥ śatam ||

185.1१८५.१

प्रातः प्राग्भोजनात्पश्चाद्भक्षयेत् त्रित्रिपिप्पलीः । (१८५।१)

prātaḥ prāgbhojanātpaścādbhakṣayet tritripippalīḥ |

185.2१८५.२

वर्षाद्व्याधिं जरां हन्ति शतायुष्यमवाप्नुयात् ॥ (१८५।२)

varṣādvyādhiṃ jarāṃ hanti śatāyuṣyamavāpnuyāt ||

186.1१८६.१

एकद्वित्रिक्रमेणैव वर्धयेद्दशवासरम् । (१८६।१)

ekadvitrikrameṇaiva vardhayeddaśavāsaram |

186.2१८६.२

ह्रासयेत्पिप्पलीस्तद्वद्ध्रासवृद्धी पुनः पुनः ॥ (१८६।२)

hrāsayetpippalīstadvaddhrāsavṛddhī punaḥ punaḥ ||

187.1१८७.१

गोक्षीरेण युतं यावत्पिप्पलीनां सहस्रकम् । (१८७।१)

gokṣīreṇa yutaṃ yāvatpippalīnāṃ sahasrakam |

187.2१८७.२

तावत्सेवेत शुद्धाङ्गो जरारोगविवर्जितः ॥ (१८७।२)

tāvatseveta śuddhāṅgo jarārogavivarjitaḥ ||

188.1१८८.१

अजाक्षीरेण संपेष्य पिबेद्युक्ता बलाधिका । (१८८।१)

ajākṣīreṇa saṃpeṣya pibedyuktā balādhikā |

188.2१८८.२

क्षीरशृता मध्यफला पूर्ववद्ध्रासवृद्धयः ॥ (१८८।२)

kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ ||

189.1१८९.१

यावत्सहस्रद्वितयं तावत्सेव्यं रसायनम् । (१८९।१)

yāvatsahasradvitayaṃ tāvatsevyaṃ rasāyanam |

189.2१८९.२

कासश्वासक्षयाः पाण्डुप्लीहशोणितमारुताः ॥ (१८९।२)

kāsaśvāsakṣayāḥ pāṇḍuplīhaśoṇitamārutāḥ ||

190.1१९०.१

मेहार्शोग्रहणीशोफहिध्मवमिगलग्रहाः । (१९०।१)

mehārśograhaṇīśophahidhmavamigalagrahāḥ |

190.2१९०.२

रसायनेन पिप्पल्या नश्यन्ति विषमज्वराः ॥ (१९०।२)

rasāyanena pippalyā naśyanti viṣamajvarāḥ ||

191.1१९१.१

जीवेद्वर्षशतं पूर्णं वलीपलितवर्जितः । (१९१।१)

jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ |

191.2१९१.२

१५। चित्रककल्पःअथ चित्रककल्पं ते वक्ष्यामि शृणु पार्वति ॥ (१९१।२)

15. citrakakalpaḥatha citrakakalpaṃ te vakṣyāmi śṛṇu pārvati ||

192.1१९२.१

चित्रकस्त्रिविधो ज्ञेयः कृष्णो रक्तः सितः शिवे । (१९२।१)

citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive |

192.2१९२.२

कृष्णो रसायने रक्तो लोहे रोगे सितो भवेत् ॥ (१९२।२)

kṛṣṇo rasāyane rakto lohe roge sito bhavet ||

193.1१९३.१

श्रेष्ठमध्यकनीयांसो न हेमन्ते समाहरेत् । (१९३।१)

śreṣṭhamadhyakanīyāṃso na hemante samāharet |

193.2१९३.२

वसन्ते कृष्णपञ्चम्यां कृष्णाम्बरधरः शुचिः ॥ (१९३।२)

vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ ||

194.1१९४.१

कृष्णगन्धाक्षतैः पुष्पैः पूजयेत्कृष्णसूत्रकैः । (१९४।१)

kṛṣṇagandhākṣataiḥ puṣpaiḥ pūjayetkṛṣṇasūtrakaiḥ |

194.2१९४.२

परिवेष्ट्य च पूर्वेद्युर्दद्यात् कृष्णौदनं बलिम् ॥ (१९४।२)

pariveṣṭya ca pūrvedyurdadyāt kṛṣṇaudanaṃ balim ||

195.1१९५.१

प्रातर्मौनी खनेच्छुद्धः समूलं चित्रकं हरेत् । (१९५।१)

prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret |

195.2१९५.२

न गोघ्रातं पदा स्पृष्टं शुचौ देशे विनिक्षिपेत् ॥ (१९५।२)

na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet ||

196.1१९६.१

क्षिप्तं क्षीरान्तरे कृष्णं वह्नौ क्षीरं तु कृष्णति । (१९६।१)

kṣiptaṃ kṣīrāntare kṛṣṇaṃ vahnau kṣīraṃ tu kṛṣṇati |

196.2१९६.२

रक्तचित्रं परीक्ष्यैवं क्षीरं रक्तत्वमाप्नुयात् ॥ (१९६।२)

raktacitraṃ parīkṣyaivaṃ kṣīraṃ raktatvamāpnuyāt ||

197.1१९७.१

एवं च रक्तचित्रस्य रक्तपुष्पाक्षतादिभिः । (१९७।१)

evaṃ ca raktacitrasya raktapuṣpākṣatādibhiḥ |

197.2१९७.२

कृष्णं वा लोहितं वापि समूलमपि खण्डयेत् ॥ (१९७।२)

kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet ||

198.1१९८.१

सप्तधामलकाम्भोभिर् भावयेच्छोषयेत् क्रमात् । (१९८।१)

saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt |

198.2१९८.२

संचूर्ण्य तार्क्षीतालत्वक्चित्रकत्रिफलाः समाः ॥ (१९८।२)

saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ ||

199.1१९९.१

एषां समं चाग्निचूर्णं सर्वं भाण्डे नवे क्षिपेत् । (१९९।१)

eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet |

199.2१९९.२

ततः शुद्धः शुभदिने निष्कं निष्कं घृताप्लुतम् ॥ (१९९।२)

tataḥ śuddhaḥ śubhadine niṣkaṃ niṣkaṃ ghṛtāplutam ||

200.1२००.१

भक्षयेन्मासमात्रेण व्रणकुष्ठादिकृन्तनम् । (२००।१)

bhakṣayenmāsamātreṇa vraṇakuṣṭhādikṛntanam |

200.2२००.२

दन्तकेशनखा यान्ति पतनं च पुनर्भवम् ॥ (२००।२)

dantakeśanakhā yānti patanaṃ ca punarbhavam ||

201.1२०१.१

वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् । (२०१।१)

valīpalitanirmukto jīvecca śaradaḥ śatam |

201.2२०१.२

एवं च रक्तचित्रस्य योजना च फलं तथा ॥ (२०१।२)

evaṃ ca raktacitrasya yojanā ca phalaṃ tathā ||

202.1२०२.१

१६। भल्लातकीकल्पःअथ भल्लातकीकल्पं शृणु वक्ष्यामि पार्वति । (२०२।१)

16. bhallātakīkalpaḥatha bhallātakīkalpaṃ śṛṇu vakṣyāmi pārvati |

202.2२०२.२

पक्वं नवं सुतीक्ष्णं च भल्लातकफलं हरेत् ॥ (२०२।२)

pakvaṃ navaṃ sutīkṣṇaṃ ca bhallātakaphalaṃ haret ||

203.1२०३.१

गोक्षीरे फलमेकं तु सूचीभिन्नं पचेत्सुधीः । (२०३।१)

gokṣīre phalamekaṃ tu sūcībhinnaṃ pacetsudhīḥ |

203.2२०३.२

मध्वाज्यशर्करायुक्तं फलं त्यक्त्वा पयः पिबेत् ॥ (२०३।२)

madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet ||

204.1२०४.१

एकद्वित्रिक्रमेणैवं वर्धयेदेकविंशतिम् । (२०४।१)

ekadvitrikrameṇaivaṃ vardhayedekaviṃśatim |

204.2२०४.२

फलानि च दिनान्येकविंशतिः क्रमशः प्रिये ॥ (२०४।२)

phalāni ca dinānyekaviṃśatiḥ kramaśaḥ priye ||

205.1२०५.१

सर्वे रोगा विनश्यन्ति षण्मासाद्दिव्यविग्रहः । (२०५।१)

sarve rogā vinaśyanti ṣaṇmāsāddivyavigrahaḥ |

205.2२०५.२

१७। भूमिकदम्बकल्पःअथ भूमिकदम्बस्य कल्पं वक्ष्यामि पार्वति ॥ (२०५।२)

17. bhūmikadambakalpaḥatha bhūmikadambasya kalpaṃ vakṣyāmi pārvati ||

206.1२०६.१

त्रिविधः स तु विज्ञेयः श्वेतो रक्तश्च मेचकः । (२०६।१)

trividhaḥ sa tu vijñeyaḥ śveto raktaśca mecakaḥ |

206.2२०६.२

शुक्लपक्षे च पुष्यार्के विधिवत्तं समाहरेत् ॥ (२०६।२)

śuklapakṣe ca puṣyārke vidhivattaṃ samāharet ||

207.1२०७.१

समूलं शोषयेत्तं च छायायां चूर्णयेत्ततः । (२०७।१)

samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ |

207.2२०७.२

तच्चूर्णं कर्षमाज्येन लिहेच्छुद्धवपुः प्रिये ॥ (२०७।२)

taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye ||

208.1२०८.१

तस्मिञ्जीर्णे प्रकुर्वीत क्षीरान्नं विजितेन्द्रियः । (२०८।१)

tasmiñjīrṇe prakurvīta kṣīrānnaṃ vijitendriyaḥ |

208.2२०८.२

नश्यन्ति वलयस्तस्य षण्मासात्पलितानि च ॥ (२०८।२)

naśyanti valayastasya ṣaṇmāsātpalitāni ca ||

209.1२०९.१

संवत्सरप्रयोगेण जीवेद्वर्षशतत्रयम् । (२०९।१)

saṃvatsaraprayogeṇa jīvedvarṣaśatatrayam |

209.2२०९.२

१८। पुनर्नवाकल्पःदिव्यं पुनर्नवाकल्पं वक्ष्यामि शृणु पार्वति ॥ (२०९।२)

18. punarnavākalpaḥdivyaṃ punarnavākalpaṃ vakṣyāmi śṛṇu pārvati ||

210.1२१०.१

पुनर्नवाख्या द्विविधा लोहिता धवला तथा । (२१०।१)

punarnavākhyā dvividhā lohitā dhavalā tathā |

210.2२१०.२

रसे रसायने श्वेता रोगे रक्ता प्रशस्यते ॥ (२१०।२)

rase rasāyane śvetā roge raktā praśasyate ||

211.1२११.१

पुष्यार्के श्वेतशोफघ्नीं समूलामाहरेत्सुधीः । (२११।१)

puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ |

211.2२११.२

छायाशुष्कं चूर्णयित्वा गोक्षीरेण पलार्धकम् ॥ (२११।२)

chāyāśuṣkaṃ cūrṇayitvā gokṣīreṇa palārdhakam ||

212.1२१२.१

पलं वाथ पिबेत्प्रातः शुद्धाङ्गो वत्सरावधि । (२१२।१)

palaṃ vātha pibetprātaḥ śuddhāṅgo vatsarāvadhi |

212.2२१२.२

युवा भवति वृद्धोऽपि स जीवेच्छरदः शतम् ॥ (२१२।२)

yuvā bhavati vṛddho'pi sa jīveccharadaḥ śatam ||

213.1२१३.१

गोक्षीरेण च तन्मूलं क्षीरक्षीणं पचेत्प्रिये । (२१३।१)

gokṣīreṇa ca tanmūlaṃ kṣīrakṣīṇaṃ pacetpriye |

213.2२१३.२

चूर्णीकृत्य च तन्मूलं पक्वीकृतगुडे समम् ॥ (२१३।२)

cūrṇīkṛtya ca tanmūlaṃ pakvīkṛtaguḍe samam ||

214.1२१४.१

गोघृतं च क्षिपेत्तत्र त्वेकीकृत्यावतारयेत् । (२१४।१)

goghṛtaṃ ca kṣipettatra tvekīkṛtyāvatārayet |

214.2२१४.२

पलं चानुदिनं लेह्यं क्षीरान्नाशी जितेन्द्रियः ॥ (२१४।२)

palaṃ cānudinaṃ lehyaṃ kṣīrānnāśī jitendriyaḥ ||

215.1२१५.१

संवत्सरप्रयोगेण वलीपलितवर्जितः । (२१५।१)

saṃvatsaraprayogeṇa valīpalitavarjitaḥ |

215.2२१५.२

तत्सेवकस्य नश्यन्ति विषाणि विविधानि च ॥ (२१५।२)

tatsevakasya naśyanti viṣāṇi vividhāni ca ||

216.1२१६.१

त्वग्दोषः कफपाण्ड्वाद्या औदरा गुल्मपायुजाः । (२१६।१)

tvagdoṣaḥ kaphapāṇḍvādyā audarā gulmapāyujāḥ |

216.2२१६.२

नश्यन्ति सकला रोगाश्छर्दिहिक्काक्षिकर्णजाः ॥ (२१६।२)

naśyanti sakalā rogāśchardihikkākṣikarṇajāḥ ||

217.1२१७.१

पुष्पितां फलितां पक्वाम् आदाय च पुनर्नवाम् । (२१७।१)

puṣpitāṃ phalitāṃ pakvām ādāya ca punarnavām |

217.2२१७.२

खण्डितां नागरक्वाथसुस्विन्नां क्षीरपेषिताम् ॥ (२१७।२)

khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām ||

218.1२१८.१

पिबेद्दिवा च चूर्णान्ते निशि क्षीरघृताशनः । (२१८।१)

pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ |

218.2२१८.२

षण्मासात् सिद्धिमाप्नोति योषिच्छतरतो भवेत् ॥ (२१८।२)

ṣaṇmāsāt siddhimāpnoti yoṣicchatarato bhavet ||

219.1२१९.१

१९। भृङ्गराजकल्पःअथ श्रीभृङ्गराजस्य कल्पं वच्मि महेश्वरि । (२१९।१)

19. bhṛṅgarājakalpaḥatha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari |

219.2२१९.२

समूलं तच्च पुष्यार्के समाहृत्याथ शोषयेत् ॥ (२१९।२)

samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet ||

220.1२२०.१

छायायां पूर्णितं कृत्वा कर्षं सौवीरलोडितम् । (२२०।१)

chāyāyāṃ pūrṇitaṃ kṛtvā karṣaṃ sauvīraloḍitam |

220.2२२०.२

प्रातः पिबेच्छुद्धदेहो मासाद्रोगान्व्यपोहति ॥ (२२०।२)

prātaḥ pibecchuddhadeho māsādrogānvyapohati ||

221.1२२१.१

ततः षण्मासयोगेन वलीपलितखण्डनम् । (२२१।१)

tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam |

221.2२२१.२

घृतक्षीराशनो नित्यं जीवेद्वर्षशतत्रयम् ॥ (२२१।२)

ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam ||

222.1२२२.१

युक्तः कृष्णतिलैर् अर्धैर् भृङ्गराजस्य पल्लवम् । (२२२।१)

yuktaḥ kṛṣṇatilair ardhair bhṛṅgarājasya pallavam |

222.2२२२.२

उपयुञ्जीत षण्मासं वलीपलितकृन्तनम् ॥ (२२२।२)

upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam ||

223.1२२३.१

भृङ्गराजफलं पुष्पं पत्रं मूलं च चूर्णयेत् । (२२३।१)

bhṛṅgarājaphalaṃ puṣpaṃ patraṃ mūlaṃ ca cūrṇayet |

223.2२२३.२

एतच्चूर्णस्य सदृशांश्चित्राद्यान्परिकल्पयेत् ॥ (२२३।२)

etaccūrṇasya sadṛśāṃścitrādyānparikalpayet ||

224.1२२४.१

चित्रविश्वकणाबिल्वपथ्याधात्रीविडङ्गकम् । (२२४।१)

citraviśvakaṇābilvapathyādhātrīviḍaṅgakam |

224.2२२४.२

मरीचं व्याधिघातं च चक्रमर्दस्य बीजकम् ॥ (२२४।२)

marīcaṃ vyādhighātaṃ ca cakramardasya bījakam ||

225.1२२५.१

लोध्रसर्षपराज्यश्च चूर्णिताश्च समाहृताः । (२२५।१)

lodhrasarṣaparājyaśca cūrṇitāśca samāhṛtāḥ |

225.2२२५.२

एकीकृत्यैव भृङ्गस्य रसेन परिभावयेत् ॥ (२२५।२)

ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet ||

226.1२२६.१

सप्तधा च ततः सर्वं चूर्णीकृत्य पुनः प्रिये । (२२६।१)

saptadhā ca tataḥ sarvaṃ cūrṇīkṛtya punaḥ priye |

226.2२२६.२

कर्षं गोपयसा सार्धं शुद्धकोष्ठो लिहेत्प्रिये ॥ (२२६।२)

karṣaṃ gopayasā sārdhaṃ śuddhakoṣṭho lihetpriye ||

227.1२२७.१

षण्मासाज्जायते सिद्धिर्वलीपलितवर्जितः । (२२७।१)

ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ |

227.2२२७.२

पूर्वोक्तवद्विधिः प्रोक्तः स्वर्णभृङ्गस्य पार्वति ॥ (२२७।२)

pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati ||

228.1२२८.१

ॐ नमो भगवते रुद्राय तिष्ठ तिष्ठ संगृहाण स्वाहा । (२२८।१)

oṃ namo bhagavate rudrāya tiṣṭha tiṣṭha saṃgṛhāṇa svāhā |

228.2२२८.२

अयं ग्रहणमन्त्रः । (२२८।२)

ayaṃ grahaṇamantraḥ |

228.3२२८.३

ॐ नमो रुद्राय अमृतात्मने स्वाहा । (२२८।३)

oṃ namo rudrāya amṛtātmane svāhā |

228.4२२८.४

अयम् आलोडनमन्त्रः । (२२८।४)

ayam āloḍanamantraḥ |

228.5२२८.५

ॐ उत्तिष्ठोत्तिष्ठ कल्याणि स्वाहा । (२२८।५)

oṃ uttiṣṭhottiṣṭha kalyāṇi svāhā |

228.6२२८.६

अयं भक्षणमन्त्रः । (२२८।६)

ayaṃ bhakṣaṇamantraḥ |

228.7२२८.७

२०। कुमारीकल्पःअथ वक्ष्याम्यहं देवि कुमारीकल्पमुत्तमम् । (२२८।७)

20. kumārīkalpaḥatha vakṣyāmyahaṃ devi kumārīkalpamuttamam |

228.8२२८.८

नदीतीरेऽथवा ग्रामे नगरेऽब्धितटेऽथवा ॥ (२२८।८)

nadītīre'thavā grāme nagare'bdhitaṭe'thavā ||

229.1२२९.१

मृदुकर्णकपत्राणि पीतान्यहिसमानि च । (२२९।१)

mṛdukarṇakapatrāṇi pītānyahisamāni ca |

229.2२२९.२

प्रवालसमपुष्पाणि सक्लेदहस्तीनि च ॥ (२२९।२)

pravālasamapuṣpāṇi sakledahastīni ca ||

230.1२३०.१

यस्याः पत्राणि तिष्ठन्ति सा कुमारीति कथ्यते । (२३०।१)

yasyāḥ patrāṇi tiṣṭhanti sā kumārīti kathyate |

230.2२३०.२

शुचिः पुण्यदिने कन्यां सोपवासः समाहरेत् ॥ (२३०।२)

śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet ||

231.1२३१.१

अर्चयित्वा बलिं दत्त्वा कुमारीं सिद्धिदायिनीम् । (२३१।१)

arcayitvā baliṃ dattvā kumārīṃ siddhidāyinīm |

231.2२३१.२

शुद्धकोष्ठः प्रगे खादेच्चतुरङ्गुलमात्रतः ॥ (२३१।२)

śuddhakoṣṭhaḥ prage khādeccaturaṅgulamātrataḥ ||

232.1२३२.१

एवं मासं ततः खाद्यं यथा वृद्धिः शनैः शनैः । (२३२।१)

evaṃ māsaṃ tataḥ khādyaṃ yathā vṛddhiḥ śanaiḥ śanaiḥ |

232.2२३२.२

अत्यन्तं वर्जयेन्मध्यं खाद्यं भवति सर्वदा ॥ (२३२।२)

atyantaṃ varjayenmadhyaṃ khādyaṃ bhavati sarvadā ||

233.1२३३.१

स्वशक्त्यनुगुणं सेव्यं स्वेच्छाहारविहारवान् । (२३३।१)

svaśaktyanuguṇaṃ sevyaṃ svecchāhāravihāravān |

233.2२३३.२

स्निग्धैर्मांसरसक्षीरैर्युक्त्या सेव्या कुमारिका ॥ (२३३।२)

snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā ||

234.1२३४.१

हरत्यखिलरोगांश्च राजयक्ष्मादिकान्प्रिये । (२३४।१)

haratyakhilarogāṃśca rājayakṣmādikānpriye |

234.2२३४.२

किन्नरैः सदृशं गायेद् गृध्रदृष्टिर्महाबलः ॥ (२३४।२)

kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ ||

235.1२३५.१

स्निग्धकेशश्च मतिमान् बालादित्यसमप्रभः । (२३५।१)

snigdhakeśaśca matimān bālādityasamaprabhaḥ |

235.2२३५.२

दशनागबलोपेतः समीरसदृशो गतौ ॥ (२३५।२)

daśanāgabalopetaḥ samīrasadṛśo gatau ||

236.1२३६.१

वलीपलितनिर्मुक्तः षोडशाब्दवया भवेत् । (२३६।१)

valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet |

236.2२३६.२

एवं वर्षप्रयोगेण भवत्येतैर् गुणैर्युतः ॥ (२३६।२)

evaṃ varṣaprayogeṇa bhavatyetair guṇairyutaḥ ||

237.1२३७.१

यस्तु द्वादशवर्षान्तं सेवेत स सुरासुरैः । (२३७।१)

yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ |

237.2२३७.२

महोरगैरवध्यश्च त्रिंशन्नागबलान्वितः ॥ (२३७।२)

mahoragairavadhyaśca triṃśannāgabalānvitaḥ ||

238.1२३८.१

मयूरदृष्टिः सर्वज्ञः सर्वशास्त्रविशारदः । (२३८।१)

mayūradṛṣṭiḥ sarvajñaḥ sarvaśāstraviśāradaḥ |

238.2२३८.२

विद्याधरो भवेन्मर्त्यो नात्र कार्या विचारणा ॥ (२३८।२)

vidyādharo bhavenmartyo nātra kāryā vicāraṇā ||

239.1२३९.१

कुमार्या दलमादाय हस्तर्क्षे साधकेऽहनि । (२३९।१)

kumāryā dalamādāya hastarkṣe sādhake'hani |

239.2२३९.२

प्रातः प्रत्यहमास्वाद्य शुचिरग्निबलं यथा ॥ (२३९।२)

prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā ||

240.1२४०.१

तन्मज्जां वा लिहेद्यस्तु मध्वाज्यव्योषसंयुताम् । (२४०।१)

tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām |

240.2२४०.२

मासं सेवेत नियमात्सर्वरोगैः प्रमुच्यते ॥ (२४०।२)

māsaṃ seveta niyamātsarvarogaiḥ pramucyate ||

241.1२४१.१

षण्मासमुपयुञ्जानो वलीपलितवर्जितः । (२४१।१)

ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ |

241.2२४१.२

तस्याः क्लेदं समानीय व्योषक्षौद्राज्यसंयुतम् ॥ (२४१।२)

tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam ||

242.1२४२.१

स्विन्नं मृद्वग्निना सेव्यं क्षीराहारो जितेन्द्रियः । (२४२।१)

svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ |

242.2२४२.२

मासाद्रोगा विनश्यन्ति द्विमासाद्दृढविग्रहः ॥ (२४२।२)

māsādrogā vinaśyanti dvimāsāddṛḍhavigrahaḥ ||

243.1२४३.१

दिव्यदृष्टिश्च तेजस्वी द्विमासाद् द्विषहृद्भवेत् । (२४३।१)

divyadṛṣṭiśca tejasvī dvimāsād dviṣahṛdbhavet |

243.2२४३.२

षण्मासयोगाद् वृद्धोऽपि युवा स्यात्सत्यमीश्वरि ॥ (२४३।२)

ṣaṇmāsayogād vṛddho'pi yuvā syātsatyamīśvari ||

244.1२४४.१

एवं वर्षोपयोगेन जीवेद्द्विशतवत्सरम् । (२४४।१)

evaṃ varṣopayogena jīveddviśatavatsaram |

244.2२४४.२

तस्या दलं युगैः सार्धं भक्षयेच्छुद्धकोष्ठवान् ॥ (२४४।२)

tasyā dalaṃ yugaiḥ sārdhaṃ bhakṣayecchuddhakoṣṭhavān ||

245.1२४५.१

वलीपलितनाशः स्याद्वत्सरान्नात्र संशयः । (२४५।१)

valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ |

245.2२४५.२

२१। नीलीकल्पःअथ देवि प्रवक्ष्यामि महानीलीरसायनम् ॥ (२४५।२)

21. nīlīkalpaḥatha devi pravakṣyāmi mahānīlīrasāyanam ||

246.1२४६.१

पुष्यार्के शुचिरादद्यान्महानीलीं विधानतः । (२४६।१)

puṣyārke śucirādadyānmahānīlīṃ vidhānataḥ |

246.2२४६.२

मूलपुष्पफलोपेतां छायायां शोषयेत्प्रिये ॥ (२४६।२)

mūlapuṣpaphalopetāṃ chāyāyāṃ śoṣayetpriye ||

247.1२४७.१

पटचूर्णं द्विनिष्कं स्यान्निष्कमभ्रं च योजयेत् । (२४७।१)

paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet |

247.2२४७.२

सर्वं च मधुनालोड्य स्निग्धभाण्डे विनिक्षिपेत् ॥ (२४७।२)

sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet ||

248.1२४८.१

धान्यराशौ न्यसेन्मासम् उद्धृत्य च ततः प्रिये । (२४८।१)

dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye |

248.2२४८.२

शुद्धकोष्ठो लिहेत्प्रातर्बिडालपदमात्रकम् ॥ (२४८।२)

śuddhakoṣṭho lihetprātarbiḍālapadamātrakam ||

249.1२४९.१

षण्मासाज्जायते मर्त्यो वलीपलितवर्जितः । (२४९।१)

ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ |

249.2२४९.२

महानीलीं च कृष्णाभ्रं मुसलीममृतालताम् ॥ (२४९।२)

mahānīlīṃ ca kṛṣṇābhraṃ musalīmamṛtālatām ||

250.1२५०.१

समांशं चूर्णितान्कृत्वा मधुना कर्षम् आलिहेत् । (२५०।१)

samāṃśaṃ cūrṇitānkṛtvā madhunā karṣam ālihet |

250.2२५०.२

एवं वर्षोपयोगेन जीर्णोऽपि तरुणायते ॥ (२५०।२)

evaṃ varṣopayogena jīrṇo'pi taruṇāyate ||

251.1२५१.१

बलवान्मतिमान्धीरो जीवेद्वर्षशतद्वयम् । (२५१।१)

balavānmatimāndhīro jīvedvarṣaśatadvayam |

251.2२५१.२

अभ्रकं च कुमारीं च काकजङ्घां शतावरीम् ॥ (२५१।२)

abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm ||

252.1२५२.१

एतत्समां महानीलीं चूर्णयेत् स्निग्धभाण्डके । (२५२।१)

etatsamāṃ mahānīlīṃ cūrṇayet snigdhabhāṇḍake |

252.2२५२.२

मधुना सहितं सप्तरात्र्यन्ते च समुद्धरेत् ॥ (२५२।२)

madhunā sahitaṃ saptarātryante ca samuddharet ||

253.1२५३.१

कर्षं लिहेत्क्षीरभोजी वर्षाद्वलिजरां जयेत् । (२५३।१)

karṣaṃ lihetkṣīrabhojī varṣādvalijarāṃ jayet |

253.2२५३.२

२२। मुसलीकल्पःअथ ब्रवीमि देवेशि मुसलीकल्पमुत्तमम् ॥ (२५३।२)

22. musalīkalpaḥatha bravīmi deveśi musalīkalpamuttamam ||

254.1२५४.१

स्वर्णपुष्पी च खर्जूरपत्रवत् पत्रशोभिता । (२५४।१)

svarṇapuṣpī ca kharjūrapatravat patraśobhitā |

254.2२५४.२

अन्तः श्वेता च नाराचमूला सा मुसली स्मृता ॥ (२५४।२)

antaḥ śvetā ca nārācamūlā sā musalī smṛtā ||

255.1२५५.१

तन्मूलं च समुद्धृत्य छायाशुष्कं च चूर्णयेत् । (२५५।१)

tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet |

255.2२५५.२

कर्षं मध्वाज्यलुलितं प्रातः शुद्धतनुर्लिहेत् ॥ (२५५।२)

karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet ||

256.1२५६.१

जीर्णे दुग्धान्नभोजी स्याद्रूक्षान्नं वर्जयेत् प्रिये । (२५६।१)

jīrṇe dugdhānnabhojī syādrūkṣānnaṃ varjayet priye |

256.2२५६.२

षष्ठे मासि भवेद्बालो वृद्धोऽपि बलबुद्धिमान् ॥ (२५६।२)

ṣaṣṭhe māsi bhavedbālo vṛddho'pi balabuddhimān ||

257.1२५७.१

पयसा मुसलीचूर्णं दध्ना वापि पिबेच्छुचिः । (२५७।१)

payasā musalīcūrṇaṃ dadhnā vāpi pibecchuciḥ |

257.2२५७.२

वर्षाद् यौवनम् आप्नोति शतस्त्रीगमने पटुः ॥ (२५७।२)

varṣād yauvanam āpnoti śatastrīgamane paṭuḥ ||

258.1२५८.१

२३। इन्द्रवल्लीकल्पःअथेन्द्रवल्लीकल्पं च व्याख्यामि शृणु पार्वति । (२५८।१)

23. indravallīkalpaḥathendravallīkalpaṃ ca vyākhyāmi śṛṇu pārvati |

258.2२५८.२

मयोदिता सुरेन्द्रस्य दैत्यानां विजयाय च ॥ (२५८।२)

mayoditā surendrasya daityānāṃ vijayāya ca ||

259.1२५९.१

तदा प्रभृति लोकेषु ख्याता सा चेन्द्रवल्लिका । (२५९।१)

tadā prabhṛti lokeṣu khyātā sā cendravallikā |

259.2२५९.२

तामिमां भजतां पुंसां देहसिद्धिर्भवेद्ध्रुवम् ॥ (२५९।२)

tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam ||

260.1२६०.१

समूलां तां समुद्धृत्य छायाशुष्कां विचूर्णयेत् । (२६०।१)

samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet |

260.2२६०.२

तच्चूर्णं द्वादशपलं वचाचूर्णं च तत्समम् ॥ (२६०।२)

taccūrṇaṃ dvādaśapalaṃ vacācūrṇaṃ ca tatsamam ||

261.1२६१.१

व्रणघ्नीचूर्णम् एतस्य समांशं त्रिकटूद्भवम् । (२६१।१)

vraṇaghnīcūrṇam etasya samāṃśaṃ trikaṭūdbhavam |

261.2२६१.२

षट्पलं सर्वमेकत्र कृत्वा भाण्डे विनिक्षिपेत् ॥ (२६१।२)

ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet ||

262.1२६२.१

कर्षं कर्षं मधुयुतं प्रातः प्रातर्लिहेत्सदा । (२६२।१)

karṣaṃ karṣaṃ madhuyutaṃ prātaḥ prātarlihetsadā |

262.2२६२.२

षण्मासात् सर्वरोगघ्नं वत्सराद्देहसिद्धिदम् ॥ (२६२।२)

ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam ||

263.1२६३.१

भूयो भूयश्च षण्मासान्नवं चूर्णं प्रकल्पयेत् । (२६३।१)

bhūyo bhūyaśca ṣaṇmāsānnavaṃ cūrṇaṃ prakalpayet |

263.2२६३.२

२४। ज्योतिर्द्रुमकल्पःअथ ज्योतिर्द्रुमस्यापि पञ्चाङ्गान्याहरेत् प्रिये ॥ (२६३।२)

24. jyotirdrumakalpaḥatha jyotirdrumasyāpi pañcāṅgānyāharet priye ||

264.1२६४.१

त्रिः सप्तरात्रं सक्षौद्राण्याश्रयेद्धान्यराशिके । (२६४।१)

triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike |

264.2२६४.२

भक्षयेद्रोगनिर्मुक्तस्तेजस्वी देहसिद्धिभाक् ॥ (२६४।२)

bhakṣayedroganirmuktastejasvī dehasiddhibhāk ||

265.1२६५.१

२५। अश्वगन्धाकल्पःअथाश्वगन्धाकन्दं च पौत्रीकोरण्टयोः समम् । (२६५।१)

25. aśvagandhākalpaḥathāśvagandhākandaṃ ca pautrīkoraṇṭayoḥ samam |

265.2२६५.२

चूर्णितं मधुसर्पिर्भ्यां कर्षं प्रातर्लिहेच्छुचिः ॥ (२६५।२)

cūrṇitaṃ madhusarpirbhyāṃ karṣaṃ prātarlihecchuciḥ ||

266.1२६६.१

संवत्सरप्रयोगेण त्रिशतायुर्भवेन्नरः । (२६६।१)

saṃvatsaraprayogeṇa triśatāyurbhavennaraḥ |

266.2२६६.२

२६। ज्योतिष्मतीकल्पःअथ ज्योतिष्मतीकल्पं वक्ष्यामि शृणु पार्वति ॥ (२६६।२)

26. jyotiṣmatīkalpaḥatha jyotiṣmatīkalpaṃ vakṣyāmi śṛṇu pārvati ||

267.1२६७.१

दिव्या ज्योतिष्मती वल्ली तप्तकाञ्चनसन्निभा । (२६७।१)

divyā jyotiṣmatī vallī taptakāñcanasannibhā |

267.2२६७.२

बहुप्रताना स्वर्णाभा फलबीजा शुभप्रदा ॥ (२६७।२)

bahupratānā svarṇābhā phalabījā śubhapradā ||

268.1२६८.१

आषाढे शुक्लपक्षे च शुभर्क्षे शुभवासरे । (२६८।१)

āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare |

268.2२६८.२

कुङ्कुमाक्तेन सूत्रेण तां वल्लीं परिवेष्टयेत् ॥ (२६८।२)

kuṅkumāktena sūtreṇa tāṃ vallīṃ pariveṣṭayet ||

269.1२६९.१

रक्तगन्धाक्षतैः पुष्पैरर्चयित्वा प्रणम्य च । (२६९।१)

raktagandhākṣataiḥ puṣpairarcayitvā praṇamya ca |

269.2२६९.२

रक्तमाल्याम्बरधरः कुङ्कुमागरुचर्चितः ॥ (२६९।२)

raktamālyāmbaradharaḥ kuṅkumāgarucarcitaḥ ||

270.1२७०.१

तांबूलचर्वणं कुर्वन्हृष्टो नियतमानसः । (२७०।१)

tāṃbūlacarvaṇaṃ kurvanhṛṣṭo niyatamānasaḥ |

270.2२७०.२

अभीष्टदेवतामन्त्रैस्तारामन्त्रेण वार्चयेत् ॥ (२७०।२)

abhīṣṭadevatāmantraistārāmantreṇa vārcayet ||

271.1२७१.१

अभीष्टदेवतां ध्यात्वा ततश्चोदङ्मुखः प्रिये । (२७१।१)

abhīṣṭadevatāṃ dhyātvā tataścodaṅmukhaḥ priye |

271.2२७१.२

पक्वबीजानि गृह्णीयादातपे शोषयेत्ततः ॥ (२७१।२)

pakvabījāni gṛhṇīyādātape śoṣayettataḥ ||

272.1२७२.१

त्वग्वर्ज्यानि निधायादौ चूर्णितानि विशेषतः । (२७२।१)

tvagvarjyāni nidhāyādau cūrṇitāni viśeṣataḥ |

272.2२७२.२

तेभ्यस्तैलं समाहृत्य तत्तैलसदृशं पयः ॥ (२७२।२)

tebhyastailaṃ samāhṛtya tattailasadṛśaṃ payaḥ ||

273.1२७३.१

पादांशं मधु संयोज्य तैलशेषं पचेच्छनैः । (२७३।१)

pādāṃśaṃ madhu saṃyojya tailaśeṣaṃ pacecchanaiḥ |

273.2२७३.२

तस्मिन्कर्पूरतक्कोलत्वग्जातीफलमेव च ॥ (२७३।२)

tasminkarpūratakkolatvagjātīphalameva ca ||

274.1२७४.१

एतानि समभागानि चूर्णयित्वा च कोविदः । (२७४।१)

etāni samabhāgāni cūrṇayitvā ca kovidaḥ |

274.2२७४.२

तत्तैलं षोडशपलं तच्चूर्णं पलमात्रकम् ॥ (२७४।२)

tattailaṃ ṣoḍaśapalaṃ taccūrṇaṃ palamātrakam ||

275.1२७५.१

एकीकृत्यावलोड्याथ स्नेहभाण्डे विनिक्षिपेत् । (२७५।१)

ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet |

275.2२७५.२

त्रिः सप्तवासरं धान्यराशौ भाण्डे विनिक्षिपेत् ॥ (२७५।२)

triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet ||

276.1२७६.१

दशाहमथवा त्रिंशत्षष्टिर्वा नवतिस्तथा । (२७६।१)

daśāhamathavā triṃśatṣaṣṭirvā navatistathā |

276.2२७६.२

अधिकं वा यथायोगं पश्चात्तैलं समाहरेत् ॥ (२७६।२)

adhikaṃ vā yathāyogaṃ paścāttailaṃ samāharet ||

277.1२७७.१

शुद्धकोष्ठः शुभदिने कृतदेवद्विजार्चनः । (२७७।१)

śuddhakoṣṭhaḥ śubhadine kṛtadevadvijārcanaḥ |

277.2२७७.२

सूर्योदये पिबेद्धीरो बिन्दुवृद्ध्या क्रमात्प्रिये ॥ (२७७।२)

sūryodaye pibeddhīro binduvṛddhyā kramātpriye ||

278.1२७८.१

पलान्तं साधकस्तेन निःसंज्ञत्वम् अवाप्यते । (२७८।१)

palāntaṃ sādhakastena niḥsaṃjñatvam avāpyate |

278.2२७८.२

मन्दं मन्दं लब्धसंज्ञो मुहुः क्रन्दति नन्दति ॥ (२७८।२)

mandaṃ mandaṃ labdhasaṃjño muhuḥ krandati nandati ||

279.1२७९.१

रोदित्येव मुहुः कृच्छ्राल्लब्धसंज्ञो भवेन्नरः । (२७९।१)

rodityeva muhuḥ kṛcchrāllabdhasaṃjño bhavennaraḥ |

279.2२७९.२

गोक्षीरं पाययेत्पश्चात्सक्षौद्रं श्रान्तचेतसे ॥ (२७९।२)

gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase ||

280.1२८०.१

क्रमादेवं भवेत्स्वस्थः साधकोऽसौ न संशयः । (२८०।१)

kramādevaṃ bhavetsvasthaḥ sādhako'sau na saṃśayaḥ |

280.2२८०.२

षष्टिकान्नं सगोक्षीरं तैले जीर्णे च भोजनम् ॥ (२८०।२)

ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam ||

281.1२८१.१

एवं कुर्यात्प्रतिदिनं मासमेकं निरन्तरम् । (२८१।१)

evaṃ kuryātpratidinaṃ māsamekaṃ nirantaram |

281.2२८१.२

मासात्सूर्यसमः साक्षात्तेजसा मन्त्रशास्त्रवित् ॥ (२८१।२)

māsātsūryasamaḥ sākṣāttejasā mantraśāstravit ||

282.1२८२.१

साङ्गोपाङ्गश्रुतिं वेत्ति त्वनधीतोऽपि मानवः । (२८२।१)

sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ |

282.2२८२.२

मध्याह्ने भास्करं पश्येत्पूर्णचन्द्रमिवापरम् ॥ (२८२।२)

madhyāhne bhāskaraṃ paśyetpūrṇacandramivāparam ||

283.1२८३.१

वैनतेयसमा दृष्टिर्दिवा पश्यति तारकाः । (२८३।१)

vainateyasamā dṛṣṭirdivā paśyati tārakāḥ |

283.2२८३.२

अन्नवज्जीर्यते क्ष्वेलं सुप्तोऽप्याकर्णयेद्ध्वनिम् ॥ (२८३।२)

annavajjīryate kṣvelaṃ supto'pyākarṇayeddhvanim ||

284.1२८४.१

अष्टादशविधं कुष्ठं सर्वरोगान्विनाशयेत् । (२८४।१)

aṣṭādaśavidhaṃ kuṣṭhaṃ sarvarogānvināśayet |

284.2२८४.२

फलं द्वितीयमासस्य शृणु वक्ष्यामि भैरवि ॥ (२८४।२)

phalaṃ dvitīyamāsasya śṛṇu vakṣyāmi bhairavi ||

285.1२८५.१

गन्धर्वोरगरक्षोभिः सेव्यते तैलसेवकः । (२८५।१)

gandharvoragarakṣobhiḥ sevyate tailasevakaḥ |

285.2२८५.२

महापातककर्तारो देवतापितृनिन्दकाः ॥ (२८५।२)

mahāpātakakartāro devatāpitṛnindakāḥ ||

286.1२८६.१

समयाचाररहितास् त एते मुक्तकिल्बिषाः । (२८६।१)

samayācārarahitās ta ete muktakilbiṣāḥ |

286.2२८६.२

अमुष्य सेवया मुक्ताः प्रयान्ति परमां गतिम् ॥ (२८६।२)

amuṣya sevayā muktāḥ prayānti paramāṃ gatim ||

287.1२८७.१

फलं तृतीयमासस्य शृणु पार्वति वक्ष्यते । (२८७।१)

phalaṃ tṛtīyamāsasya śṛṇu pārvati vakṣyate |

287.2२८७.२

देवाश्च दिव्या ऋषयो वसवोऽष्टौ महोरगाः ॥ (२८७।२)

devāśca divyā ṛṣayo vasavo'ṣṭau mahoragāḥ ||

288.1२८८.१

अमुष्य सेवां कुर्वन्ति प्रियं नित्यहितं तथा । (२८८।१)

amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā |

288.2२८८.२

तस्य मूत्रं ताम्रघटे पूरयित्वा खनेद्भुवम् ॥ (२८८।२)

tasya mūtraṃ tāmraghaṭe pūrayitvā khanedbhuvam ||

289.1२८९.१

तद्गर्ते विहितं कृत्वा षण्मासात्कनकं भवेत् । (२८९।१)

tadgarte vihitaṃ kṛtvā ṣaṇmāsātkanakaṃ bhavet |

289.2२८९.२

चतुर्थमासस्य फलं शर्वाणि शृणु सांप्रतम् ॥ (२८९।२)

caturthamāsasya phalaṃ śarvāṇi śṛṇu sāṃpratam ||

290.1२९०.१

अदृश्योऽसौ भवेन्मर्त्यः सर्वैश्वर्ययुतो बली । (२९०।१)

adṛśyo'sau bhavenmartyaḥ sarvaiśvaryayuto balī |

290.2२९०.२

दशब्रह्मदिनं जीवेत्सर्वलोकगतौ पटुः ॥ (२९०।२)

daśabrahmadinaṃ jīvetsarvalokagatau paṭuḥ ||

291.1२९१.१

तन्मूत्रमलघर्माम्बूद्वर्तनैस् ताम्रलेपनम् । (२९१।१)

tanmūtramalagharmāmbūdvartanais tāmralepanam |

291.2२९१.२

कुर्याद्वह्नौ प्रतपनं तच्छुल्बं काञ्चनं भवेत् ॥ (२९१।२)

kuryādvahnau pratapanaṃ tacchulbaṃ kāñcanaṃ bhavet ||

292.1२९२.१

अथ पञ्चममासे तु सदेहः खेचरो भवेत् । (२९२।१)

atha pañcamamāse tu sadehaḥ khecaro bhavet |

292.2२९२.२

साक्षाद्ब्रह्मा भवेद् देवि शृणु षाण्मासिकं फलम् ॥ (२९२।२)

sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam ||

293.1२९३.१

महासिद्धैः परिवृतः सर्वलोकान् यदृच्छया । (२९३।१)

mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā |

293.2२९३.२

विचरेच्छिवतुल्यः स्यान्महातेजा महायशाः ॥ (२९३।२)

vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ ||

294.1२९४.१

अथ सप्तममासस्य फलं कल्याणि वक्ष्यते । (२९४।१)

atha saptamamāsasya phalaṃ kalyāṇi vakṣyate |

294.2२९४.२

जितारिषड्वर्गमनाः सर्वभूतहिते रतः ॥ (२९४।२)

jitāriṣaḍvargamanāḥ sarvabhūtahite rataḥ ||

295.1२९५.१

विष्ण्वायुष्यमवाप्नोति पुण्यापुण्यविवर्जितः । (२९५।१)

viṣṇvāyuṣyamavāpnoti puṇyāpuṇyavivarjitaḥ |

295.2२९५.२

विचरेच्च महावीर्यः श्रीमान् विष्णुरिवापरः ॥ (२९५।२)

vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ ||

296.1२९६.१

अष्टमासफलं वच्मि शृणु त्वं सर्वमङ्गले । (२९६।१)

aṣṭamāsaphalaṃ vacmi śṛṇu tvaṃ sarvamaṅgale |

296.2२९६.२

मत्प्रियो दिव्यकर्मा च सर्वज्ञो मुक्तिमाप्नुयात् ॥ (२९६।२)

matpriyo divyakarmā ca sarvajño muktimāpnuyāt ||

297.1२९७.१

फलं नवममासस्य शृणु कात्यायनि प्रिये । (२९७।१)

phalaṃ navamamāsasya śṛṇu kātyāyani priye |

297.2२९७.२

द्वितीयचिन्तामणिवद् वीरोऽसौ कामरूपवान् ॥ (२९७।२)

dvitīyacintāmaṇivad vīro'sau kāmarūpavān ||

298.1२९८.१

ब्रह्मविष्ण्विन्द्रचन्द्राणां रूपं सृजति साधकः । (२९८।१)

brahmaviṣṇvindracandrāṇāṃ rūpaṃ sṛjati sādhakaḥ |

298.2२९८.२

मनसा चिन्तितं यद्यत्तत्तत्कर्तुं स्वयं प्रभुः ॥ (२९८।२)

manasā cintitaṃ yadyattattatkartuṃ svayaṃ prabhuḥ ||

299.1२९९.१

एतद्रसायनं दिव्यं सुकरं मोक्षसाधनम् । (२९९।१)

etadrasāyanaṃ divyaṃ sukaraṃ mokṣasādhanam |

299.2२९९.२

पुण्यं परमगुह्यं च गोपनीयं त्वया प्रिये ॥ (२९९।२)

puṇyaṃ paramaguhyaṃ ca gopanīyaṃ tvayā priye ||

300.1३००.१

एतस्य सदृशं नास्ति देवानामपि दुर्लभम् । (३००।१)

etasya sadṛśaṃ nāsti devānāmapi durlabham |

300.2३००.२

बहुनात्र किमुक्तेन त्वत्प्रियार्थं मयोदितम् ॥ (३००।२)

bahunātra kimuktena tvatpriyārthaṃ mayoditam ||

301.1३०१.१

रसायनम् इदं दिव्यं न कुर्वन्ति च मानवाः । (३०१।१)

rasāyanam idaṃ divyaṃ na kurvanti ca mānavāḥ |

301.2३०१.२

अज्ञानोपहताः केचित् केचिन् नास्तीति शङ्कया ॥ (३०१।२)

ajñānopahatāḥ kecit kecin nāstīti śaṅkayā ||

302.1३०२.१

अन्तरायेण केचिच् च तदलाभेन केचन । (३०२।१)

antarāyeṇa kecic ca tadalābhena kecana |

302.2३०२.२

तत्कल्पाज्ञानतः केचित्केचिद् गुरुविवर्जिताः ॥ (३०२।२)

tatkalpājñānataḥ kecitkecid guruvivarjitāḥ ||

303.1३०३.१

केचिद् रोगाकुला देवि त्वित्थं तैरपि विघ्निताः । (३०३।१)

kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ |

303.2३०३.२

यत्र ज्योतिष्मती वल्ली सा भूमिः पुण्यभूमिका ॥ (३०३।२)

yatra jyotiṣmatī vallī sā bhūmiḥ puṇyabhūmikā ||

304.1३०४.१

तत्रैव सर्वतीर्थानि सिद्धयो विविधा अपि । (३०४।१)

tatraiva sarvatīrthāni siddhayo vividhā api |

304.2३०४.२

ज्योतिष्मतीफलभवं सेव्यं दिव्यरसायनम् ॥ (३०४।२)

jyotiṣmatīphalabhavaṃ sevyaṃ divyarasāyanam ||

305.1३०५.१

२७। गुग्गुलुकल्पःअथ गुग्गुलुकल्पं च शृणु त्वं चण्डिकेऽधुना । (३०५।१)

27. guggulukalpaḥatha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā |

305.2३०५.२

चतुर्विधो गुग्गुलुः स्यात्कुमुदः पद्मकस्तथा ॥ (३०५।२)

caturvidho gugguluḥ syātkumudaḥ padmakastathā ||

306.1३०६.१

महिषाक्षं च हेमाख्यस् तत्तद्वर्णसमुज्ज्वलः । (३०६।१)

mahiṣākṣaṃ ca hemākhyas tattadvarṇasamujjvalaḥ |

306.2३०६.२

हेमाख्यं च मनुष्याणां रसायनम् उदाहृतम् ॥ (३०६।२)

hemākhyaṃ ca manuṣyāṇāṃ rasāyanam udāhṛtam ||

307.1३०७.१

कणशो गुग्गुलुं कृत्वा गोघृतेन शनैः पचेत् । (३०७।१)

kaṇaśo gugguluṃ kṛtvā goghṛtena śanaiḥ pacet |

307.2३०७.२

डोलायन्त्रे युक्तिपरो घृतभर्जितमांसवत् ॥ (३०७।२)

ḍolāyantre yuktiparo ghṛtabharjitamāṃsavat ||

308.1३०८.१

पथ्याविभीतकौ धात्री गन्धकश्च पृथक्पृथक् । (३०८।१)

pathyāvibhītakau dhātrī gandhakaśca pṛthakpṛthak |

308.2३०८.२

समांशं तान्विचूर्ण्यैव एतत्सर्वसमं पुरम् ॥ (३०८।२)

samāṃśaṃ tānvicūrṇyaiva etatsarvasamaṃ puram ||

309.1३०९.१

शुद्धकोष्ठो लिहेत्प्रातस्तैलं ह्येरण्डसंभवम् । (३०९।१)

śuddhakoṣṭho lihetprātastailaṃ hyeraṇḍasaṃbhavam |

309.2३०९.२

लोलयित्वा निष्कमात्रं वृद्धिः कर्षावधिर्भवेत् ॥ (३०९।२)

lolayitvā niṣkamātraṃ vṛddhiḥ karṣāvadhirbhavet ||

310.1३१०.१

एवं वर्षप्रयोगेण शीतवातव्रणास्तथा । (३१०।१)

evaṃ varṣaprayogeṇa śītavātavraṇāstathā |

310.2३१०.२

पिडकागण्डमालाद्या विनश्यन्ति महारुजः ॥ (३१०।२)

piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ ||

311.1३११.१

द्वादशाब्दप्रयोगेण वज्रकायो भवेन्नरः । (३११।१)

dvādaśābdaprayogeṇa vajrakāyo bhavennaraḥ |

311.2३११.२

यद्यद्द्रव्यं च सात्म्यं स्यात् तत्तद्द्रव्येण वा भजेत् ॥ (३११।२)

yadyaddravyaṃ ca sātmyaṃ syāt tattaddravyeṇa vā bhajet ||

312.1३१२.१

यस्य यस्य च रोगस्य यद्यद्भेषजमीरितम् । (३१२।१)

yasya yasya ca rogasya yadyadbheṣajamīritam |

312.2३१२.२

तैस्तैः सहैव सेवेत तत्तद्रोगहरं भवेत् ॥ (३१२।२)

taistaiḥ sahaiva seveta tattadrogaharaṃ bhavet ||

313.1३१३.१

२८। विजयाकल्पः; विजयोत्पत्तिःश्रीभैरवी । (३१३।१)

28. vijayākalpaḥ; vijayotpattiḥśrībhairavī |

313.2३१३.२

देवदेव जगन्नाथ सुरासुरनमस्कृत । (३१३।२)

devadeva jagannātha surāsuranamaskṛta |

313.3३१३.३

पञ्चकृत्यप्रधानेश नमस्तुभ्यं परात्पर ॥ (३१३।३)

pañcakṛtyapradhāneśa namastubhyaṃ parātpara ||

314.1३१४.१

सर्वेऽप्यौषधकल्पाश्च मत्प्रीत्या कथितास्त्वया । (३१४।१)

sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā |

314.2३१४.२

आश्चर्यं भूतदेवेश सद्यः सिद्धिप्रदायकम् ॥ (३१४।२)

āścaryaṃ bhūtadeveśa sadyaḥ siddhipradāyakam ||

315.1३१५.१

सुखसेव्यं सुखकरं ज्ञानदं भुक्तिदं शुचिम् । (३१५।१)

sukhasevyaṃ sukhakaraṃ jñānadaṃ bhuktidaṃ śucim |

315.2३१५.२

अस्मत्सायुज्यदं ब्रूहि प्रीत्या मम रसायनम् ॥ (३१५।२)

asmatsāyujyadaṃ brūhi prītyā mama rasāyanam ||

316.1३१६.१

ततः स्मितमुखो भूत्वा शङ्करो लोकशंकरः । (३१६।१)

tataḥ smitamukho bhūtvā śaṅkaro lokaśaṃkaraḥ |

316.2३१६.२

श्रीभैरवः । (३१६।२)

śrībhairavaḥ |

316.3३१६.३

देवि वक्ष्याम्यहं कल्पं स्पृहणीयं सुरासुरैः ॥ (३१६।३)

devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ ||

317.1३१७.१

सिद्धैश्च मुनिभिः स्त्रीभिः सर्ववर्णैश्च योगिभिः । (३१७।१)

siddhaiśca munibhiḥ strībhiḥ sarvavarṇaiśca yogibhiḥ |

317.2३१७.२

बालैर्वृद्धैश्च रुग्णैश्च षण्ढैश्च बहुयोषितैः ॥ (३१७।२)

bālairvṛddhaiśca rugṇaiśca ṣaṇḍhaiśca bahuyoṣitaiḥ ||

318.1३१८.१

शृणु त्वममृतोद्भूतं सावधानेन चेतसा । (३१८।१)

śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā |

318.2३१८.२

आग्नेयो मामको ऽंशः स्यात्सौम्यांशस्तावकः प्रिये ॥ (३१८।२)

āgneyo māmako 'ṃśaḥ syātsaumyāṃśastāvakaḥ priye ||

319.1३१९.१

अग्नीषोमात्मकं सर्वमौषधं जलधौ सुराः । (३१९।१)

agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ |

319.2३१९.२

असुराः प्राक्षिपंश्चक्रुर्मथनं मन्दराद्रिणा ॥ (३१९।२)

asurāḥ prākṣipaṃścakrurmathanaṃ mandarādriṇā ||

320.1३२०.१

अतीव मथनात्तत्र देव्याग्नेयो ममांशकः । (३२०।१)

atīva mathanāttatra devyāgneyo mamāṃśakaḥ |

320.2३२०.२

ज्वलन्महाविषं घोरं जातं हालाहलाख्यकम् ॥ (३२०।२)

jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam ||

321.1३२१.१

तेन व्याकुलिता म्लाना गतवेगाः सुरासुराः । (३२१।१)

tena vyākulitā mlānā gatavegāḥ surāsurāḥ |

321.2३२१.२

कृपया तन्मया सर्वं विषं च कबलीकृतम् ॥ (३२१।२)

kṛpayā tanmayā sarvaṃ viṣaṃ ca kabalīkṛtam ||

322.1३२२.१

ततो देवा दितिसुता ममन्थुर्हृष्टमानसाः । (३२२।१)

tato devā ditisutā mamanthurhṛṣṭamānasāḥ |

322.2३२२.२

ततो लक्ष्मीप्रभृतयः प्रादुरासंस्ततोऽमृतम् ॥ (३२२।२)

tato lakṣmīprabhṛtayaḥ prādurāsaṃstato'mṛtam ||

323.1३२३.१

तद् उद्भूतं परं दिव्यं जरामरणकृन्तनम् । (३२३।१)

tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam |

323.2३२३.२

तदा तदा महाविष्णुर्मम हस्ताम्बुजेऽर्पयत् ॥ (३२३।२)

tadā tadā mahāviṣṇurmama hastāmbuje'rpayat ||

324.1३२४.१

त्रिवारं बिन्दवो दत्ताः परस्मै परमात्मने । (३२४।१)

trivāraṃ bindavo dattāḥ parasmai paramātmane |

324.2३२४.२

पराशक्तियुजे पश्चात्तुभ्यं दत्ते मया प्रिये ॥ (३२४।२)

parāśaktiyuje paścāttubhyaṃ datte mayā priye ||

325.1३२५.१

पीतं त्वया च मे दत्तं मधुसूक्तमुदीर्य च । (३२५।१)

pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca |

325.2३२५.२

स्वीकृतं च मया कान्ते चिदानन्दात्मकामृतम् ॥ (३२५।२)

svīkṛtaṃ ca mayā kānte cidānandātmakāmṛtam ||

326.1३२६.१

सान्द्रानन्देन च मया स्फूत्कृतिर् लज्जया कृता । (३२६।१)

sāndrānandena ca mayā sphūtkṛtir lajjayā kṛtā |

326.2३२६.२

पतिता बिन्दवः सूक्ष्मास्तेभ्यो जाता महौषधिः ॥ (३२६।२)

patitā bindavaḥ sūkṣmāstebhyo jātā mahauṣadhiḥ ||

327.1३२७.१

तामालोक्य शुभां दिव्यां मुदिताः पर्यपालयन् । (३२७।१)

tāmālokya śubhāṃ divyāṃ muditāḥ paryapālayan |

327.2३२७.२

मत्करांबुजनीतेन पीयूषेण विवर्धितम् ॥ (३२७।२)

matkarāṃbujanītena pīyūṣeṇa vivardhitam ||

328.1३२८.१

तस्मात्त्रिशूलसदृशपर्णं च पटलं बहु । (३२८।१)

tasmāttriśūlasadṛśaparṇaṃ ca paṭalaṃ bahu |

328.2३२८.२

तस्मान्महौषधिर्जाता मदादिष्टैर्गुणैर्वृता ॥ (३२८।२)

tasmānmahauṣadhirjātā madādiṣṭairguṇairvṛtā ||

329.1३२९.१

कदाचिद्भैरवो दृष्ट्वा हृष्टस्तां प्रार्थयन्मया । (३२९।१)

kadācidbhairavo dṛṣṭvā hṛṣṭastāṃ prārthayanmayā |

329.2३२९.२

दत्ता तस्मै भैरवोऽपि योगिनीभ्यः समर्पिपत् ॥ (३२९।२)

dattā tasmai bhairavo'pi yoginībhyaḥ samarpipat ||

330.1३३०.१

ताश्च प्रीताः स्वभक्तेभ्यो भक्तेभ्यः प्रददुश्च ते । (३३०।१)

tāśca prītāḥ svabhaktebhyo bhaktebhyaḥ pradaduśca te |

330.2३३०.२

निन्युश्च भूतलं दिव्यामौषधिं सर्वसिद्धिदाम् ॥ (३३०।२)

ninyuśca bhūtalaṃ divyāmauṣadhiṃ sarvasiddhidām ||

331.1३३१.१

विजयाभेदाःश्रीभैरवी । (३३१।१)

vijayābhedāḥśrībhairavī |

331.2३३१.२

किंनाम्नी सा कथंवीर्या सेवनीया कथं प्रभो । (३३१।२)

kiṃnāmnī sā kathaṃvīryā sevanīyā kathaṃ prabho |

331.3३३१.३

कीदृग्वर्णा कियद्भेदा कीदृग्रूपगुणा च सा ॥ (३३१।३)

kīdṛgvarṇā kiyadbhedā kīdṛgrūpaguṇā ca sā ||

332.1३३२.१

कथं वा सिद्धिदा सा स्यात्क्रमान्मे ब्रूहि वल्लभ । (३३२।१)

kathaṃ vā siddhidā sā syātkramānme brūhi vallabha |

332.2३३२.२

श्रीभैरवः । (३३२।२)

śrībhairavaḥ |

332.3३३२.३

अथ तस्याश्चतुर्वर्णा युगधर्माश्रिताः प्रिये ॥ (३३२।३)

atha tasyāścaturvarṇā yugadharmāśritāḥ priye ||

333.1३३३.१

शुक्लवर्णा कृतयुगे त्रेतायां शोणितप्रभा । (३३३।१)

śuklavarṇā kṛtayuge tretāyāṃ śoṇitaprabhā |

333.2३३३.२

द्वापरे पीतवर्णा च नीलवर्णा कलौ युगे ॥ (३३३।२)

dvāpare pītavarṇā ca nīlavarṇā kalau yuge ||

334.1३३४.१

एकपर्णा त्रिपर्णा च पञ्चपर्णा मुनिच्छदा । (३३४।१)

ekaparṇā triparṇā ca pañcaparṇā municchadā |

334.2३३४.२

दशपर्णा रुद्रपर्णा त्रयोदशदलान्विता ॥ (३३४।२)

daśaparṇā rudraparṇā trayodaśadalānvitā ||

335.1३३५.१

नवपर्णेति विज्ञेया भेदा ह्येते सुरेश्वरि । (३३५।१)

navaparṇeti vijñeyā bhedā hyete sureśvari |

335.2३३५.२

विजयालक्षणम्स्त्रीरूपा सफला वल्ली पुंरूपा च द्रुमाकृतिः ॥ (३३५।२)

vijayālakṣaṇamstrīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ ||

336.1३३६.१

सफला तु मदं मूर्छां सुखं सत्वं करोति च । (३३६।१)

saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca |

336.2३३६.२

योगवाहा तिक्तरसा सा कटुश् चूग्रगन्धिनी ॥ (३३६।२)

yogavāhā tiktarasā sā kaṭuś cūgragandhinī ||

337.1३३७.१

शिवमूली च विजया भङ्गी गञ्जा विमर्दिनी । (३३७।१)

śivamūlī ca vijayā bhaṅgī gañjā vimardinī |

337.2३३७.२

दिव्या सिद्धा सिद्धिदा च सिद्धमूली मनोन्मनी ॥ (३३७।२)

divyā siddhā siddhidā ca siddhamūlī manonmanī ||

338.1३३८.१

मधुद्रवा चिदाह्लादा पशुपाशविनाशिनी । (३३८।१)

madhudravā cidāhlādā paśupāśavināśinī |

338.2३३८.२

कालघ्नी सर्वरोगघ्नी नामान्येतानि पार्वति ॥ (३३८।२)

kālaghnī sarvarogaghnī nāmānyetāni pārvati ||

339.1३३९.१

शिवो मूलं भवेद्यस्याः शिवमूलीति कथ्यते । (३३९।१)

śivo mūlaṃ bhavedyasyāḥ śivamūlīti kathyate |

339.2३३९.२

त्रिलोकान् अरिषड्वर्गान् विजयाख्या जयेदिति ॥ (३३९।२)

trilokān ariṣaḍvargān vijayākhyā jayediti ||

340.1३४०.१

तापत्रयादिदुःखानां भञ्जनाद् भङ्गिनी स्मृता । (३४०।१)

tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā |

340.2३४०.२

गञ्जेति मादयत्येषा मदिरास्थानकारिणी ॥ (३४०।२)

gañjeti mādayatyeṣā madirāsthānakāriṇī ||

341.1३४१.१

सदृशं मर्शनं यस्याः सैव प्रोक्ता विमर्शिनी । (३४१।१)

sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī |

341.2३४१.२

क्रीडामोदद्युतिमदकान्तिदत्वाच्च दिव्यका ॥ (३४१।२)

krīḍāmodadyutimadakāntidatvācca divyakā ||

342.1३४२.१

स्वतःसिद्धेति सिद्धाख्या दिष्टसिद्धिप्रदायिका । (३४२।१)

svataḥsiddheti siddhākhyā diṣṭasiddhipradāyikā |

342.2३४२.२

सिद्धिदेति महासिद्धैः सा नीता सिद्धमूलिका ॥ (३४२।२)

siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā ||

343.1३४३.१

मनश्चिन्तितकार्याणां साधनाच्च मनोन्मना । (३४३।१)

manaścintitakāryāṇāṃ sādhanācca manonmanā |

343.2३४३.२

संविदानन्ददत्वाच्च चिदाह्लादेति कीर्तिता ॥ (३४३।२)

saṃvidānandadatvācca cidāhlādeti kīrtitā ||

344.1३४४.१

ब्रह्मरन्ध्रस्थितसुधाद्रावणाच्च मधुद्रवा । (३४४।१)

brahmarandhrasthitasudhādrāvaṇācca madhudravā |

344.2३४४.२

जन्तूनां पाशनाशत्वात्पशुपाशविनाशिनी ॥ (३४४।२)

jantūnāṃ pāśanāśatvātpaśupāśavināśinī ||

345.1३४५.१

मृत्युञ्जयत्वात् कालघ्नी रोगघ्नी सार्थनामिका । (३४५।१)

mṛtyuñjayatvāt kālaghnī rogaghnī sārthanāmikā |

345.2३४५.२

विजयावर्धनक्रमःवर्धनक्रममाचक्षे शृणु लोकशिवंकरि ॥ (३४५।२)

vijayāvardhanakramaḥvardhanakramamācakṣe śṛṇu lokaśivaṃkari ||

346.1३४६.१

शिलालोष्टादितो वर्ज्या वालुकाशर्करादितः । (३४६।१)

śilāloṣṭādito varjyā vālukāśarkarāditaḥ |

346.2३४६.२

भूमिः कृष्णा पांसुला च मृदुला सकरीषका ॥ (३४६।२)

bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā ||

347.1३४७.१

भुजङ्गमांससहिता तत्र बीजानि वापयेत् । (३४७।१)

bhujaṅgamāṃsasahitā tatra bījāni vāpayet |

347.2३४७.२

अहिवक्त्रेषु सत्वञ्चि स्निग्धानि च गुरूणि च ॥ (३४७।२)

ahivaktreṣu satvañci snigdhāni ca gurūṇi ca ||

348.1३४८.१

पुष्यार्के सिद्धयोगे वा श्रवणे शुक्लपक्षके । (३४८।१)

puṣyārke siddhayoge vā śravaṇe śuklapakṣake |

348.2३४८.२

स्नातो लिप्ततनुर्गन्धैः कृतन्यासजपार्चनः ॥ (३४८।२)

snāto liptatanurgandhaiḥ kṛtanyāsajapārcanaḥ ||

349.1३४९.१

उदङ्मुखः प्राङ्मुखो वा ध्यात्वा च गुरुपादुकाम् । (३४९।१)

udaṅmukhaḥ prāṅmukho vā dhyātvā ca gurupādukām |

349.2३४९.२

सक्षीराङ्कोलतैलेन जलेन परिषेचयेत् ॥ (३४९।२)

sakṣīrāṅkolatailena jalena pariṣecayet ||

350.1३५०.१

अङ्कुरे च समुत्पन्ने सिञ्चेत्सघृतवारिणा । (३५०।१)

aṅkure ca samutpanne siñcetsaghṛtavāriṇā |

350.2३५०.२

पर्णे कीटे समुत्पन्ने सामुद्रं वारि सेचयेत् ॥ (३५०।२)

parṇe kīṭe samutpanne sāmudraṃ vāri secayet ||

351.1३५१.१

ततोऽस्यां विततायां च शिरश्छित्त्वा च रन्ध्रयेत् । (३५१।१)

tato'syāṃ vitatāyāṃ ca śiraśchittvā ca randhrayet |

351.2३५१.२

तत्र सूतं क्षिपेन्निष्कं निष्कं प्रत्येकमादरात् ॥ (३५१।२)

tatra sūtaṃ kṣipenniṣkaṃ niṣkaṃ pratyekamādarāt ||

352.1३५२.१

निरोधयेत्तन्मुखानि कौशिकेन प्रयत्नतः । (३५२।१)

nirodhayettanmukhāni kauśikena prayatnataḥ |

352.2३५२.२

पुष्पिते फलिते मद्यमांसाम्बु च निषेचयेत् ॥ (३५२।२)

puṣpite phalite madyamāṃsāmbu ca niṣecayet ||

353.1३५३.१

एकैकपक्षपर्यन्तं क्षीरादि परिषेचयेत् । (३५३।१)

ekaikapakṣaparyantaṃ kṣīrādi pariṣecayet |

353.2३५३.२

अस्यां बद्ध्वा जटामांसीं सक्षौद्रं वारि सेचयेत् ॥ (३५३।२)

asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet ||

354.1३५४.१

शेषं मद्येन वा वारा वर्धनीया महौषधिः । (३५४।१)

śeṣaṃ madyena vā vārā vardhanīyā mahauṣadhiḥ |

354.2३५४.२

आदौ वा परमं मन्त्रं पश्चात् सेवनमन्त्रकम् ॥ (३५४।२)

ādau vā paramaṃ mantraṃ paścāt sevanamantrakam ||

355.1३५५.१

ॐ क्षां क्षीं क्षूं क्षेत्रपालाय नमः सवीर्यं कुरु कुरु सिद्धिं देहि देहि स्वाहा । (३५५।१)

oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā |

355.2३५५.२

अयं स्थापनमन्त्रः । (३५५।२)

ayaṃ sthāpanamantraḥ |

355.3३५५.३

ॐ श्रीं ह्रीं क्लीं यरलवशषसह अमृतेश्वरि अमृतं कुरु कुरु आं ह्रां क्र्ॐ स्वाहा । (३५५।३)

oṃ śrīṃ hrīṃ klīṃ yaralavaśaṣasaha amṛteśvari amṛtaṃ kuru kuru āṃ hrāṃ kroṃ svāhā |

355.4३५५.४

अयं सेवनमन्त्रः । (३५५।४)

ayaṃ sevanamantraḥ |

355.5३५५.५

फाल्गुने कृष्णपक्षस्य चतुर्दश्यां च साधकः । (३५५।५)

phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ |

355.6३५५.६

स्नातः शुद्धाम्बरो गन्धपुष्पभूषणसंयुतः ॥ (३५५।६)

snātaḥ śuddhāmbaro gandhapuṣpabhūṣaṇasaṃyutaḥ ||

356.1३५६.१

अर्चयेद्भैरवं तत्र नन्दीशं च क्रमेण च । (३५६।१)

arcayedbhairavaṃ tatra nandīśaṃ ca krameṇa ca |

356.2३५६.२

मद्यमांसोपहारेण रक्तपीतसितासितैः ॥ (३५६।२)

madyamāṃsopahāreṇa raktapītasitāsitaiḥ ||

357.1३५७.१

तन्तुभिर्वेष्टयेद्देवि तन्मन्त्रं च निगद्यते । (३५७।१)

tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate |

357.2३५७.२

ॐ ग्लौं सौं ह्रीं खेचरभूचरदिव्ययोगिनि इमां रक्ष रक्ष सर्वशत्रुप्रमथिनि स्वाहा । (३५७।२)

oṃ glauṃ sauṃ hrīṃ khecarabhūcaradivyayogini imāṃ rakṣa rakṣa sarvaśatrupramathini svāhā |

357.3३५७.३

अयं तन्तुबन्धनमन्त्रः । (३५७।३)

ayaṃ tantubandhanamantraḥ |

357.4३५७.४

सहस्रं प्रत्यहं जप्यमघोरं मन्त्रनायकम् ॥ (३५७।४)

sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam ||

358.1३५८.१

एवं सप्तदिनं कार्यं पञ्चम्याम् अमृतेश्वरीम् । (३५८।१)

evaṃ saptadinaṃ kāryaṃ pañcamyām amṛteśvarīm |

358.2३५८.२

ध्यात्वा कुन्देन्दुकर्पूरसंकाशां धवलांबराम् ॥ (३५८।२)

dhyātvā kundendukarpūrasaṃkāśāṃ dhavalāṃbarām ||

359.1३५९.१

सितमाल्यानुलेपार्द्रां मुक्ताभरणमण्डिताम् । (३५९।१)

sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām |

359.2३५९.२

दक्षिणेऽक्षगुणं वामे सुधापूर्णघटं ततः ॥ (३५९।२)

dakṣiṇe'kṣaguṇaṃ vāme sudhāpūrṇaghaṭaṃ tataḥ ||

360.1३६०.१

तदधो दक्षिणे वामे संवित्पुस्तकधारिणीम् । (३६०।१)

tadadho dakṣiṇe vāme saṃvitpustakadhāriṇīm |

360.2३६०.२

तत्र स्थितां ततः कुर्याल् लवनं च समन्त्रकम् ॥ (३६०।२)

tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam ||

361.1३६१.१

स्निग्धानि च सबीजानि सपर्णानि समाहरेत् । (३६१।१)

snigdhāni ca sabījāni saparṇāni samāharet |

361.2३६१.२

ॐ क्लीं वं सं क्रौं शिवानन्दामृतोद्भवे त्रिभुवनविजये विजयं प्रयच्छ स्वाहा । (३६१।२)

oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā |

361.3३६१.३

अयं लावनमन्त्रः । (३६१।३)

ayaṃ lāvanamantraḥ |

361.4३६१.४

मन्दातपे शुद्धदेशे शोषयेत्सप्तवासरम् ॥ (३६१।४)

mandātape śuddhadeśe śoṣayetsaptavāsaram ||

362.1३६२.१

निक्षिपेन्नूतने भाण्डे तत्पर्णानि सुचूर्णयेत् । (३६२।१)

nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet |

362.2३६२.२

स्थालीद्वयं प्रताप्यादावेकस्यां प्रथमं पुटेत् ॥ (३६२।२)

sthālīdvayaṃ pratāpyādāvekasyāṃ prathamaṃ puṭet ||

363.1३६३.१

ततोऽपरस्यां पुटयेदेवं कार्यं मुहुर्मुहुः । (३६३।१)

tato'parasyāṃ puṭayedevaṃ kāryaṃ muhurmuhuḥ |

363.2३६३.२

यावत्सुपाकतां याति तज्ज्ञस्तावद्विपाचयेत् ॥ (३६३।२)

yāvatsupākatāṃ yāti tajjñastāvadvipācayet ||

364.1३६४.१

गुञ्जोन्मत्तश्च वल्ली च तासां पर्णरसैर्मुहुः । (३६४।१)

guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ |

364.2३६४.२

स्थाल्यौ पृथक्पृथक् देवि सप्तधा सप्तधा प्रिये ॥ (३६४।२)

sthālyau pṛthakpṛthak devi saptadhā saptadhā priye ||

365.1३६५.१

मुण्डी ब्राह्मी कुमारी च वरी धात्री कटुद्वयम् । (३६५।१)

muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam |

365.2३६५.२

सुगन्धिका क्रमाज्ज्ञेया चैकैकपलमानतः ॥ (३६५।२)

sugandhikā kramājjñeyā caikaikapalamānataḥ ||

366.1३६६.१

योजनीयाश्चूर्णिताश्च तत्सर्वसदृशा जयाः । (३६६।१)

yojanīyāścūrṇitāśca tatsarvasadṛśā jayāḥ |

366.2३६६.२

सिता सर्वसमा योज्या तत्समं गोपयः क्षिपेत् ॥ (३६६।२)

sitā sarvasamā yojyā tatsamaṃ gopayaḥ kṣipet ||

367.1३६७.१

क्षीरमध्ये सितां क्षिप्त्वा तन्तुपाकं भवेद्भिषक् । (३६७।१)

kṣīramadhye sitāṃ kṣiptvā tantupākaṃ bhavedbhiṣak |

367.2३६७.२

मुण्डादिविजयान्तं च तच्चूर्णं तत्र निक्षिपेत् ॥ (३६७।२)

muṇḍādivijayāntaṃ ca taccūrṇaṃ tatra nikṣipet ||

368.1३६८.१

लोलयित्वावतार्यैवं शैत्ये क्षौद्रं सितार्धकम् । (३६८।१)

lolayitvāvatāryaivaṃ śaitye kṣaudraṃ sitārdhakam |

368.2३६८.२

निक्षिप्य गोघृतं तुल्यं क्षौद्रस्य परिमेलयेत् ॥ (३६८।२)

nikṣipya goghṛtaṃ tulyaṃ kṣaudrasya parimelayet ||

369.1३६९.१

पक्षद्वयं धान्यराशौ निधाय प्रत्यहं जपेत् । (३६९।१)

pakṣadvayaṃ dhānyarāśau nidhāya pratyahaṃ japet |

369.2३६९.२

सहस्रं वा यथाशक्त्या महावटुकमन्त्रकम् ॥ (३६९।२)

sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam ||

370.1३७०.१

ह्रीं श्रीं महाकालाग्निभैरवाय सर्वसिद्धिमातृब्रह्मा लिङ्गितविग्रहाय सर्वापदां शोषकाय हुं फट् ठं । (३७०।१)

hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ |

370.2३७०.२

अयम् अग्निपाकमन्त्रः । (३७०।२)

ayam agnipākamantraḥ |

370.3३७०.३

मासादुद्धृत्य विधिवद् ग्रसेदामलकोपमम् । (३७०।३)

māsāduddhṛtya vidhivad grasedāmalakopamam |

370.4३७०.४

निवातमन्दिरे स्थायी क्षीरान्नाशी जितेन्द्रियः ॥ (३७०।४)

nivātamandire sthāyī kṣīrānnāśī jitendriyaḥ ||

371.1३७१.१

गुरूपदिष्टदेवं वा तत्त्वं वा परमं स्मरेत् । (३७१।१)

gurūpadiṣṭadevaṃ vā tattvaṃ vā paramaṃ smaret |

371.2३७१.२

द्विकालं वा त्रिकालं वा यथा सेवाबलं क्रमात् ॥ (३७१।२)

dvikālaṃ vā trikālaṃ vā yathā sevābalaṃ kramāt ||

372.1३७२.१

एवं त्रिवर्षाज्जरया वलीभिश्च विवर्जितः । (३७२।१)

evaṃ trivarṣājjarayā valībhiśca vivarjitaḥ |

372.2३७२.२

भूचरीसिद्धिम् आप्नोति जीवेत्त्रिशतवत्सरम् ॥ (३७२।२)

bhūcarīsiddhim āpnoti jīvettriśatavatsaram ||

373.1३७३.१

वाराही त्रिफला चित्रमश्वगन्धा क्रमेण च । (३७३।१)

vārāhī triphalā citramaśvagandhā krameṇa ca |

373.2३७३.२

एवं द्वित्रिचतुर्भागम् अश्वगन्धादि योजयेत् ॥ (३७३।२)

evaṃ dvitricaturbhāgam aśvagandhādi yojayet ||

374.1३७४.१

एतत्समा च विजया मधुना लोलयेत्सुखम् । (३७४।१)

etatsamā ca vijayā madhunā lolayetsukham |

374.2३७४.२

आतपे पक्षपर्यन्तं स्थापयेत् प्रतितापयेत् ॥ (३७४।२)

ātape pakṣaparyantaṃ sthāpayet pratitāpayet ||

375.1३७५.१

धात्रीफलोपमं सेव्यं सूर्याभश्चाष्टमासतः । (३७५।१)

dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ |

375.2३७५.२

साधको जायते वर्षाज्जरामरणवर्जितः ॥ (३७५।२)

sādhako jāyate varṣājjarāmaraṇavarjitaḥ ||

376.1३७६.१

जपन्मन्त्रम् इमं भक्त्या देहसिद्ध्यै सुरेश्वरि । (३७६।१)

japanmantram imaṃ bhaktyā dehasiddhyai sureśvari |

376.2३७६.२

ह्रीं श्रीं महाव्योमभास्कराय दीपिमातृकालिङ्गितविग्रहाय तेजसां निधिं कुरु कुरु ठं । (३७६।२)

hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ |

376.3३७६.३

इति सूर्यपाकमन्त्रः । (३७६।३)

iti sūryapākamantraḥ |

376.4३७६.४

पलत्रयं जयायाश्च यष्टीचूर्णं पलद्वयम् ॥ (३७६।४)

palatrayaṃ jayāyāśca yaṣṭīcūrṇaṃ paladvayam ||

377.1३७७.१

पलमेलाभद्रचूर्णं चित्रमूलं पलार्धकम् । (३७७।१)

palamelābhadracūrṇaṃ citramūlaṃ palārdhakam |

377.2३७७.२

श्रीखण्डचूर्णं च पलं चैतत्सर्वसमा सिता ॥ (३७७।२)

śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā ||

378.1३७८.१

स्वर्णचूर्णं च निष्कार्धं निष्कं च हिमवालुकम् । (३७८।१)

svarṇacūrṇaṃ ca niṣkārdhaṃ niṣkaṃ ca himavālukam |

378.2३७८.२

सर्वमाज्येन लुलितं ज्योत्स्नायां निक्षिपेत्सुधीः ॥ (३७८।२)

sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ ||

379.1३७९.१

शुक्लपञ्चमीम् आरभ्य पक्षान्तं शशिभावना । (३७९।१)

śuklapañcamīm ārabhya pakṣāntaṃ śaśibhāvanā |

379.2३७९.२

विधिवत्पूजयित्वा तु शुद्धकोष्ठो लिहेत्प्रिये ॥ (३७९।२)

vidhivatpūjayitvā tu śuddhakoṣṭho lihetpriye ||

380.1३८०.१

अस्य मन्त्रं पुनर्वच्मि सर्वसिद्धिप्रदायकम् । (३८०।१)

asya mantraṃ punarvacmi sarvasiddhipradāyakam |

380.2३८०.२

ह्रीं श्रीं महाशशाङ्ककिरणविस्फारभैरवाय अमृतेश्वरी मातृकालिङ्गितविग्रहाय विस्फुरणं कुरु कुरु हुं फट् ठं । (३८०।२)

hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ |

380.3३८०.३

इति चन्द्रपाकमन्त्रः । (३८०।३)

iti candrapākamantraḥ |

380.4३८०.४

एवंविधस्य कल्पस्य त्रिविधं मन्त्रमीरितम् ॥ (३८०।४)

evaṃvidhasya kalpasya trividhaṃ mantramīritam ||

381.1३८१.१

एकैकमन्त्रमयुतं पुरश्चरणमाचरेत् । (३८१।१)

ekaikamantramayutaṃ puraścaraṇamācaret |

381.2३८१.२

वह्निपाकं चतुर्मासेष्वाषाढादिषु तन्यते ॥ (३८१।२)

vahnipākaṃ caturmāseṣvāṣāḍhādiṣu tanyate ||

382.1३८२.१

फाल्गुनादौ प्रकुर्वीत रविपाकं सुरेश्वरि । (३८२।१)

phālgunādau prakurvīta ravipākaṃ sureśvari |

382.2३८२.२

कार्त्तिकादिषु चन्द्रस्य पाकः स्यात् सिद्धिदायकः ॥ (३८२।२)

kārttikādiṣu candrasya pākaḥ syāt siddhidāyakaḥ ||

383.1३८३.१

मुण्डीचित्रकनिर्गुण्डीसहिता कुष्ठनाशिनी । (३८३।१)

muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī |

383.2३८३.२

ब्राह्मी कुमार्या युक्ता चेदम् अपस्मारविनाशिनी ॥ (३८३।२)

brāhmī kumāryā yuktā cedam apasmāravināśinī ||

384.1३८४.१

जया वराव्योषयुता क्षयस्य क्षयकारिणी । (३८४।१)

jayā varāvyoṣayutā kṣayasya kṣayakāriṇī |

384.2३८४.२

जया कार्पासमत्स्याक्षीपत्रयुक्ता च पित्तनुत् ॥ (३८४।२)

jayā kārpāsamatsyākṣīpatrayuktā ca pittanut ||

385.1३८५.१

स्नुह्यर्कपत्रक्षारेण संयुता गुल्मशूलहृत् । (३८५।१)

snuhyarkapatrakṣāreṇa saṃyutā gulmaśūlahṛt |

385.2३८५.२

वचादूर्वारजोयुक्ता ज्ञानवृद्धिप्रदायिनी ॥ (३८५।२)

vacādūrvārajoyuktā jñānavṛddhipradāyinī ||

386.1३८६.१

यष्टीगन्धकसंयुक्ता कुष्ठनुत्पुष्टिदायिनी । (३८६।१)

yaṣṭīgandhakasaṃyuktā kuṣṭhanutpuṣṭidāyinī |

386.2३८६.२

शाल्मलीपिच्छसंयुक्ता ससिता वीर्यवर्धिनी ॥ (३८६।२)

śālmalīpicchasaṃyuktā sasitā vīryavardhinī ||

387.1३८७.१

पाठातिक्तात्रिकटुकैर्युक्ता कफगदापहा । (३८७।१)

pāṭhātiktātrikaṭukairyuktā kaphagadāpahā |

387.2३८७.२

शुक्लगुञ्जायुता नॄणां महाविषविनाशिनी ॥ (३८७।२)

śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī ||

388.1३८८.१

व्याघातचूर्णसहिता कुष्ठरोगविनाशिनी । (३८८।१)

vyāghātacūrṇasahitā kuṣṭharogavināśinī |

388.2३८८.२

आरण्यमरिचैरण्डयुक्ता वातविनाशिनी ॥ (३८८।२)

āraṇyamaricairaṇḍayuktā vātavināśinī ||

389.1३८९.१

एते द्वादशयोगाश्च मासेषु द्वादशेषु च । (३८९।१)

ete dvādaśayogāśca māseṣu dvādaśeṣu ca |

389.2३८९.२

मन्त्रत्रयं च प्रजपेत्प्रतिमासेषु साधकः ॥ (३८९।२)

mantratrayaṃ ca prajapetpratimāseṣu sādhakaḥ ||

390.1३९०.१

साधकोऽनेन योगेन जरामरणवर्जितः । (३९०।१)

sādhako'nena yogena jarāmaraṇavarjitaḥ |

390.2३९०.२

भवत्येव न सन्देहः सत्यं सत्यं वरानने ॥ (३९०।२)

bhavatyeva na sandehaḥ satyaṃ satyaṃ varānane ||

391.1३९१.१

रसत्रिगन्धकृष्णाभ्ररुद्राक्षस्वर्णभस्म च । (३९१।१)

rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca |

391.2३९१.२

जयारसेन संमर्द्यं पक्षमेकं तु भावयेत् ॥ (३९१।२)

jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet ||

392.1३९२.१

भूधरे संपुटे यन्त्रे पुटयेच्चूर्णयेत्ततः । (३९२।१)

bhūdhare saṃpuṭe yantre puṭayeccūrṇayettataḥ |

392.2३९२.२

एतच्चतुर्गुणजया शर्कराघृतसंयुता ॥ (३९२।२)

etaccaturguṇajayā śarkarāghṛtasaṃyutā ||

393.1३९३.१

सेव्या निष्कप्रमाणेन प्रातः सायन्तनेऽथवा । (३९३।१)

sevyā niṣkapramāṇena prātaḥ sāyantane'thavā |

393.2३९३.२

महावटुकमन्त्रं च जपेल्लक्षावधि प्रिये ॥ (३९३।२)

mahāvaṭukamantraṃ ca japellakṣāvadhi priye ||

394.1३९४.१

षष्ठमासे भवेत्सिद्धिर् जरामरणवर्जितः । (३९४।१)

ṣaṣṭhamāse bhavetsiddhir jarāmaraṇavarjitaḥ |

394.2३९४.२

वर्षान्मनोजवगतिर् नागायुतबलो भवेत् ॥ (३९४।२)

varṣānmanojavagatir nāgāyutabalo bhavet ||

395.1३९५.१

वज्रकायश्च सिद्धोऽसौ जीवेदाचन्द्रतारकम् । (३९५।१)

vajrakāyaśca siddho'sau jīvedācandratārakam |

395.2३९५.२

वटाङ्कुरस्य चूर्णेन सितामध्वाज्यसंयुता ॥ (३९५।२)

vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā ||

396.1३९६.१

त्रिपक्षात्सेवितजया सर्वलोकवशंकरी । (३९६।१)

tripakṣātsevitajayā sarvalokavaśaṃkarī |

396.2३९६.२

अपामार्गरजोयुक्ता जया घृतसमन्विता ॥ (३९६।२)

apāmārgarajoyuktā jayā ghṛtasamanvitā ||

397.1३९७.१

मन्त्रजापी भवेन्नित्यं षण्मासादमरो भवेत् । (३९७।१)

mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet |

397.2३९७.२

वरा सितजया चित्रस्त्रिवृता त्रिकटुर्वृषा ॥ (३९७।२)

varā sitajayā citrastrivṛtā trikaṭurvṛṣā ||

398.1३९८.१

दूर्वा भृङ्गो मरीचश्च मधुकाजाजिसैन्धवम् । (३९८।१)

dūrvā bhṛṅgo marīcaśca madhukājājisaindhavam |

398.2३९८.२

कर्पूरं च कचोरं च सर्वतुल्यं जयारजः ॥ (३९८।२)

karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ ||

399.1३९९.१

मधुत्रयेण लुलितं स्निग्धभाण्डे विनिक्षिपेत् । (३९९।१)

madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet |

399.2३९९.२

कर्षं प्रभाते सेवेत मण्डलात्सिद्धिभाग्भवेत् ॥ (३९९।२)

karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet ||

400.1४००.१

स्याद्वर्षाद्देवसदृशो जीवेद्देवदिनत्रयम् । (४००।१)

syādvarṣāddevasadṛśo jīveddevadinatrayam |

400.2४००.२

अश्वगन्धा वचा व्योषं जयाचूर्णं च तत्समम् ॥ (४००।२)

aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam ||

401.1४०१.१

लिहेत्त्रिमधुरैर् युक्तं त्रिवर्षाद्देवतासमः । (४०१।१)

lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ |

401.2४०१.२

गञ्जाचूर्णं चाष्टभागं चतुर्भागा च मुण्डिका ॥ (४०१।२)

gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā ||

402.1४०२.१

ब्राह्मीरजो द्विभागं स्याद्वाजिगन्धैकभागिका । (४०२।१)

brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā |

402.2४०२.२

द्विभागस्त्र्यूषणस्यापि वराभागद्वयं तथा ॥ (४०२।२)

dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā ||

403.1४०३.१

भागमेकं शिलायाश्च भागैकं गन्धकस्य च । (४०३।१)

bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca |

403.2४०३.२

रसराड् एकभागः स्यात्तदर्धं स्वर्णभस्म च ॥ (४०३।२)

rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca ||

404.1४०४.१

तत्समं मौक्तिकं योज्यं मुक्तातुल्यं प्रवालकम् । (४०४।१)

tatsamaṃ mauktikaṃ yojyaṃ muktātulyaṃ pravālakam |

404.2४०४.२

मध्वाज्याभ्यां विलुलितं स्निग्धभाण्डे विनिक्षिपेत् ॥ (४०४।२)

madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet ||

405.1४०५.१

सप्तरात्रं धान्यपाकं कृत्वा लक्षत्रयं जपम् । (४०५।१)

saptarātraṃ dhānyapākaṃ kṛtvā lakṣatrayaṃ japam |

405.2४०५.२

निष्कमात्रवटी सेव्या क्षीराहारो जितेन्द्रियः ॥ (४०५।२)

niṣkamātravaṭī sevyā kṣīrāhāro jitendriyaḥ ||

406.1४०६.१

मण्डलात्सर्वरोगघ्नं त्वब्दात्पुष्पवद् अग्निभाक् । (४०६।१)

maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk |

406.2४०६.२

अर्धवर्षाद्भैरवः स्याज्जीवेदाचन्द्रतारकम् ॥ (४०६।२)

ardhavarṣādbhairavaḥ syājjīvedācandratārakam ||

407.1४०७.१

त्रिसुगन्धिवराव्योषैः समांशा शिवमूलिका । (४०७।१)

trisugandhivarāvyoṣaiḥ samāṃśā śivamūlikā |

407.2४०७.२

मध्वाज्याभ्यां युता लेह्या कासघ्नी वह्निवर्धनी ॥ (४०७।२)

madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī ||

408.1४०८.१

मधुरप्रायभोजी चेत्सकासश्वासरोगजित् । (४०८।१)

madhuraprāyabhojī cetsakāsaśvāsarogajit |

408.2४०८.२

हरिद्रया च सहिता सर्वमेहविनाशिनी ॥ (४०८।२)

haridrayā ca sahitā sarvamehavināśinī ||

409.1४०९.१

मण्डूकपर्ण्या सहिता वचया वाङ्मतिप्रदा । (४०९।१)

maṇḍūkaparṇyā sahitā vacayā vāṅmatipradā |

409.2४०९.२

द्राक्षा सिता वल्लकी च खर्जूरी दुग्धपिण्डिका ॥ (४०९।२)

drākṣā sitā vallakī ca kharjūrī dugdhapiṇḍikā ||

410.1४१०.१

सहिता कन्दलीनीरसैः सर्वस्वादुरिति स्मृतः । (४१०।१)

sahitā kandalīnīrasaiḥ sarvasvāduriti smṛtaḥ |

410.2४१०.२

नारिकेलोदकैर्युक्ता कर्पूरसुरभीकृता ॥ (४१०।२)

nārikelodakairyuktā karpūrasurabhīkṛtā ||

411.1४११.१

सर्वस्वादुयुता सिद्धा पित्तघ्नी वीर्यवर्धनी । (४११।१)

sarvasvāduyutā siddhā pittaghnī vīryavardhanī |

411.2४११.२

स्वादोश्चतुर्गुणं क्षीरं मधुपाकं यथा भवेत् ॥ (४११।२)

svādoścaturguṇaṃ kṣīraṃ madhupākaṃ yathā bhavet ||

412.1४१२.१

तद्वस्त्रगालितं कृत्वा कर्पूरं तत्र निक्षिपेत् । (४१२।१)

tadvastragālitaṃ kṛtvā karpūraṃ tatra nikṣipet |

412.2४१२.२

एलां च सर्वमधुरं जयां च पिबतस्ततः ॥ (४१२।२)

elāṃ ca sarvamadhuraṃ jayāṃ ca pibatastataḥ ||

413.1४१३.१

शतस्त्रीगमने शक्तिः पित्तहृत्पुष्टिवर्धनम् । (४१३।१)

śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam |

413.2४१३.२

समाम्बुपयसि क्षिप्त्वा जयाबीजं सवस्त्रकम् ॥ (४१३।२)

samāmbupayasi kṣiptvā jayābījaṃ savastrakam ||

414.1४१४.१

अवशिष्टं चतुर्थांशं पचेन्मृद्वग्निना प्रिये । (४१४।१)

avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye |

414.2४१४.२

तद् दधीकृत्य विधिवन्मन्थयेत्तत उद्धरेत् ॥ (४१४।२)

tad dadhīkṛtya vidhivanmanthayettata uddharet ||

415.1४१५.१

नवनीतं क्षिपेत्तत्र कर्पूरैला सिता मधु । (४१५।१)

navanītaṃ kṣipettatra karpūrailā sitā madhu |

415.2४१५.२

पुष्ट्यायुष्यद्युतिकरं बलारोग्यविवर्धनम् ॥ (४१५।२)

puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam ||

416.1४१६.१

शतधा स्तन्यधौतं तच्छतधौतमितीरितम् । (४१६।१)

śatadhā stanyadhautaṃ tacchatadhautamitīritam |

416.2४१६.२

नागकेसरकच्छूरलवङ्गैलागरुं तथा ॥ (४१६।२)

nāgakesarakacchūralavaṅgailāgaruṃ tathā ||

417.1४१७.१

कर्पूरचन्दनमृगनाभितक्कोलकुङ्कुमम् । (४१७।१)

karpūracandanamṛganābhitakkolakuṅkumam |

417.2४१७.२

एतत्समं जयाबीजं गोक्षीरेण च मर्दयेत् ॥ (४१७।२)

etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet ||

418.1४१८.१

निष्कनिष्कप्रमाणेन विदध्याद्वटिकाः सुधीः । (४१८।१)

niṣkaniṣkapramāṇena vidadhyādvaṭikāḥ sudhīḥ |

418.2४१८.२

सुपुष्पवासिताः कृत्वा सताम्बूलं मुखे क्षिपेत् ॥ (४१८।२)

supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet ||

419.1४१९.१

प्रसेकमुखवैरस्यमलपूतिहरी शुचिः । (४१९।१)

prasekamukhavairasyamalapūtiharī śuciḥ |

419.2४१९.२

सौगन्ध्यवैशद्यकरी चित्तहर्षप्रदायिनी ॥ (४१९।२)

saugandhyavaiśadyakarī cittaharṣapradāyinī ||

420.1४२०.१

गोक्षीरे चार्धसलिले धातकीकुसुमं क्षिपेत् । (४२०।१)

gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet |

420.2४२०.२

जातीफलं नागरं च तत्सर्वसदृशां जयाम् ॥ (४२०।२)

jātīphalaṃ nāgaraṃ ca tatsarvasadṛśāṃ jayām ||

421.1४२१.१

क्षीरावशिष्टं वस्त्रेण गालयेत्त्रिमधुप्लुतम् । (४२१।१)

kṣīrāvaśiṣṭaṃ vastreṇa gālayettrimadhuplutam |

421.2४२१.२

सिद्धयोग इति ख्यातो वृष्यायुष्यबलप्रदः ॥ (४२१।२)

siddhayoga iti khyāto vṛṣyāyuṣyabalapradaḥ ||

422.1४२२.१

अजमोदयुता वापि निशारजोयुताथवा । (४२२।१)

ajamodayutā vāpi niśārajoyutāthavā |

422.2४२२.२

तन्मात्रसेविता चूर्णा पामाकिट्टिभनाशिनी ॥ (४२२।२)

tanmātrasevitā cūrṇā pāmākiṭṭibhanāśinī ||

423.1४२३.१

जया तालयुता हन्यात्प्रदरं श्वयथुं तथा । (४२३।१)

jayā tālayutā hanyātpradaraṃ śvayathuṃ tathā |

423.2४२३.२

कण्डूप्रशमनी ज्ञेया विजया शिलया युता ॥ (४२३।२)

kaṇḍūpraśamanī jñeyā vijayā śilayā yutā ||

424.1४२४.१

तैलेन भावयेत्स्थाल्यां जयां पश्चाच्च फाणिते । (४२४।१)

tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite |

424.2४२४.२

सान्द्रपाकं भवेद्धीमान् सघृतं भक्षयेत्सदा ॥ (४२४।२)

sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā ||

425.1४२५.१

साक्षात्पर्यायमदनोऽनेकयोषित्सुखप्रदः । (४२५।१)

sākṣātparyāyamadano'nekayoṣitsukhapradaḥ |

425.2४२५.२

पथ्या भल्लातकगुडं तिलाश्चैते समांशिनः ॥ (४२५।२)

pathyā bhallātakaguḍaṃ tilāścaite samāṃśinaḥ ||

426.1४२६.१

तत्समा विजया हन्ति गुदकीलांश्च षड्विधान् । (४२६।१)

tatsamā vijayā hanti gudakīlāṃśca ṣaḍvidhān |

426.2४२६.२

यवानी जीरकयुगमजमोदा समांशिनः ॥ (४२६।२)

yavānī jīrakayugamajamodā samāṃśinaḥ ||

427.1४२७.१

एतत्समा च विजया सर्पिषा सेव्यतां बुधैः । (४२७।१)

etatsamā ca vijayā sarpiṣā sevyatāṃ budhaiḥ |

427.2४२७.२

सन्धिवातं भ्रमं छर्दिमुन्मादं मस्तकव्यथाम् ॥ (४२७।२)

sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām ||

428.1४२८.१

शर्करां मधु विश्वं च मागधीं तत्समां जयाम् । (४२८।१)

śarkarāṃ madhu viśvaṃ ca māgadhīṃ tatsamāṃ jayām |

428.2४२८.२

कृत्वाज्यगलितां गोलीम् इमां पञ्चागदं विदुः ॥ (४२८।२)

kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ ||

429.1४२९.१

हृद्रोगप्लीहजठरभगन्दरनिकृन्तनीम् । (४२९।१)

hṛdrogaplīhajaṭharabhagandaranikṛntanīm |

429.2४२९.२

सचित्रका वह्निकरी सवरा शूलभञ्जिनी ॥ (४२९।२)

sacitrakā vahnikarī savarā śūlabhañjinī ||

430.1४३०.१

सव्योषा वातसंहर्त्री पित्तघ्नी शर्करायुता । (४३०।१)

savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā |

430.2४३०.२

श्वेताद्रिकर्णिकाबीजं विजयां खरमूत्रतः ॥ (४३०।२)

śvetādrikarṇikābījaṃ vijayāṃ kharamūtrataḥ ||

431.1४३१.१

नस्येनापस्मृतिहरा भूतप्रेतादिभञ्जनी । (४३१।१)

nasyenāpasmṛtiharā bhūtapretādibhañjanī |

431.2४३१.२

जयाचूर्णं समध्वाज्यं भजेद् आमलकोपमम् ॥ (४३१।२)

jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam ||

432.1४३२.१

वाक्पाटवं वीर्यवृद्धिं कुरुते विजया परम् । (४३२।१)

vākpāṭavaṃ vīryavṛddhiṃ kurute vijayā param |

432.2४३२.२

मधुनाज्येन वा धात्र्या मुस्तया स्वरसेन वा ॥ (४३२।२)

madhunājyena vā dhātryā mustayā svarasena vā ||

433.1४३३.१

उपयुक्ता जया रात्रौ दृक्प्रसादकरी नृणाम् । (४३३।१)

upayuktā jayā rātrau dṛkprasādakarī nṛṇām |

433.2४३३.२

यौवनस्थैर्यमातन्यादायुष्यं परमं भवेत् ॥ (४३३।२)

yauvanasthairyamātanyādāyuṣyaṃ paramaṃ bhavet ||

434.1४३४.१

गुडो ऽभया च विजया दुर्नामकुलभञ्जनी । (४३४।१)

guḍo 'bhayā ca vijayā durnāmakulabhañjanī |

434.2४३४.२

जयाकाष्ठेन दन्तानां शोधनं दन्तदार्ढ्यकृत् ॥ (४३४।२)

jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt ||

435.1४३५.१

तैलाक्तविजयाकाष्ठाद् रसज्ञाशोधनं यदि । (४३५।१)

tailāktavijayākāṣṭhād rasajñāśodhanaṃ yadi |

435.2४३५.२

जिह्वापूतिमलान् हन्याद् यथार्था स्याद्रसज्ञता ॥ (४३५।२)

jihvāpūtimalān hanyād yathārthā syādrasajñatā ||

436.1४३६.१

नालिकेरभवक्षीरे पचेन्मृद्वग्निना जयाम् । (४३६।१)

nālikerabhavakṣīre pacenmṛdvagninā jayām |

436.2४३६.२

त्रिमध्वक्तां पिबेद्रात्रौ ततो रामाशतं भजेत् ॥ (४३६।२)

trimadhvaktāṃ pibedrātrau tato rāmāśataṃ bhajet ||

437.1४३७.१

शुण्ठी हरीतकी तुल्ये तत्समा च जया तथा । (४३७।१)

śuṇṭhī harītakī tulye tatsamā ca jayā tathā |

437.2४३७.२

सर्वतुल्या सिता योज्या योगस् त्रैलोक्यमोहनम् ॥ (४३७।२)

sarvatulyā sitā yojyā yogas trailokyamohanam ||

438.1४३८.१

त्र्यूषणं मधुकं चव्यं चातुर्जातं फलं वरा । (४३८।१)

tryūṣaṇaṃ madhukaṃ cavyaṃ cāturjātaṃ phalaṃ varā |

438.2४३८.२

गोस्तनी पिप्पलीमूलं समांशं परिकल्पयेत् ॥ (४३८।२)

gostanī pippalīmūlaṃ samāṃśaṃ parikalpayet ||

439.1४३९.१

प्रियालमज्जा तैस्तुल्या चैतत्सर्वसमा जया । (४३९।१)

priyālamajjā taistulyā caitatsarvasamā jayā |

439.2४३९.२

त्रिगुणेन गुडे पक्वे तेषां चूर्णं क्षिपेच्छिवे ॥ (४३९।२)

triguṇena guḍe pakve teṣāṃ cūrṇaṃ kṣipecchive ||

440.1४४०.१

आलोड्य मोदकान्कुर्यात्कामी कन्दर्पमोदकान् । (४४०।१)

āloḍya modakānkuryātkāmī kandarpamodakān |

440.2४४०.२

सर्वरोगोपशमनांस्त्रिदोषघ्नान्बलप्रदान् ॥ (४४०।२)

sarvarogopaśamanāṃstridoṣaghnānbalapradān ||

441.1४४१.१

वृष्यान्पुष्टिकरान् धीमांस्त्रिसंध्यमनुवासरम् । (४४१।१)

vṛṣyānpuṣṭikarān dhīmāṃstrisaṃdhyamanuvāsaram |

441.2४४१.२

भक्षयेच्छुद्धकोष्ठे तु त्रिवर्षात्सिद्धिरीदृशी ॥ (४४१।२)

bhakṣayecchuddhakoṣṭhe tu trivarṣātsiddhirīdṛśī ||

442.1४४२.१

सदैवमुपयुञ्जानो जरामरणवर्जितः । (४४२।१)

sadaivamupayuñjāno jarāmaraṇavarjitaḥ |

442.2४४२.२

मरीचं पिप्पली शुण्ठी त्वगेलां पत्रकं समम् ॥ (४४२।२)

marīcaṃ pippalī śuṇṭhī tvagelāṃ patrakaṃ samam ||

443.1४४३.१

एतैश्च विजया तुल्या समगोधूमपिष्टकैः । (४४३।१)

etaiśca vijayā tulyā samagodhūmapiṣṭakaiḥ |

443.2४४३.२

द्विगुणेन गुडेनैव मोदकान्परिकल्पयेत् ॥ (४४३।२)

dviguṇena guḍenaiva modakānparikalpayet ||

444.1४४४.१

कर्षमात्रान्प्रतिदिनं भक्षयेन्नियतेन्द्रियः । (४४४।१)

karṣamātrānpratidinaṃ bhakṣayenniyatendriyaḥ |

444.2४४४.२

बलपुष्टियुतो वर्षाद्वलीपलितवर्जितः ॥ (४४४।२)

balapuṣṭiyuto varṣādvalīpalitavarjitaḥ ||

445.1४४५.१

चणकैर्माषकैर्मुद्गैर् आढकैर्वा तिलैस्तथा । (४४५।१)

caṇakairmāṣakairmudgair āḍhakairvā tilaistathā |

445.2४४५.२

निष्पावैर्वितुषैराज्यभर्जितैर्गुडसंयुतैः ॥ (४४५।२)

niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ ||

446.1४४६.१

सत्रिजातैश्च सव्योषैः सजीरैः समभागतः । (४४६।१)

satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ |

446.2४४६.२

संयोज्य विजयां कुर्यान्मोदकान् कर्षमात्रकान् ॥ (४४६।२)

saṃyojya vijayāṃ kuryānmodakān karṣamātrakān ||

447.1४४७.१

एकैकं प्रत्यहं खादेत्सायं प्रातर्विशुद्धधीः । (४४७।१)

ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ |

447.2४४७.२

सर्वरोगहरान् वृष्यान् बुद्धीन्द्रियबलप्रदान् ॥ (४४७।२)

sarvarogaharān vṛṣyān buddhīndriyabalapradān ||

448.1४४८.१

तक्कोलं चन्दनं सेव्यं कर्पूरं नागकेसरम् । (४४८।१)

takkolaṃ candanaṃ sevyaṃ karpūraṃ nāgakesaram |

448.2४४८.२

एलालवङ्गमधुकं पिप्पली मरिचं तथा ॥ (४४८।२)

elālavaṅgamadhukaṃ pippalī maricaṃ tathā ||

449.1४४९.१

सर्वैः समांशा विजया सिता सर्वसमा शुभा । (४४९।१)

sarvaiḥ samāṃśā vijayā sitā sarvasamā śubhā |

449.2४४९.२

पञ्चबाणाभिधानोऽयं चूर्णं सर्वरुजापहम् ॥ (४४९।२)

pañcabāṇābhidhāno'yaṃ cūrṇaṃ sarvarujāpaham ||

450.1४५०.१

द्वादशाब्दोपयोगेन वलीपलितहा भवेत् । (४५०।१)

dvādaśābdopayogena valīpalitahā bhavet |

450.2४५०.२

वरा त्रिजातकश्चन्द्रखण्डबीजं कटुत्रयम् ॥ (४५०।२)

varā trijātakaścandrakhaṇḍabījaṃ kaṭutrayam ||

451.1४५१.१

एतैः समा सिद्धमूली सर्वतुल्या च शर्करा । (४५१।१)

etaiḥ samā siddhamūlī sarvatulyā ca śarkarā |

451.2४५१.२

मधुना लोलिता लीढा दीपनी देहसिद्धिदा ॥ (४५१।२)

madhunā lolitā līḍhā dīpanī dehasiddhidā ||

452.1४५२.१

शतावर्युत्तमाव्योषमुसलीद्विगुणान्वितः । (४५२।१)

śatāvaryuttamāvyoṣamusalīdviguṇānvitaḥ |

452.2४५२.२

जया समा समसिता वृष्यायुष्यबलप्रदा ॥ (४५२।२)

jayā samā samasitā vṛṣyāyuṣyabalapradā ||

453.1४५३.१

आयुर्घृतयुता धत्ते प्रातः शुण्ठीसितायुता । (४५३।१)

āyurghṛtayutā dhatte prātaḥ śuṇṭhīsitāyutā |

453.2४५३.२

क्षीरसिद्धा जया वृष्या बल्या च निशि सेविता ॥ (४५३।२)

kṣīrasiddhā jayā vṛṣyā balyā ca niśi sevitā ||

454.1४५४.१

मधुना सेविता भुक्तेः पूर्वं सा वाजिगन्धया । (४५४।१)

madhunā sevitā bhukteḥ pūrvaṃ sā vājigandhayā |

454.2४५४.२

बलपुष्टिकरा सिद्धा रसायनमिदं परम् ॥ (४५४।२)

balapuṣṭikarā siddhā rasāyanamidaṃ param ||

455.1४५५.१

निस्त्वङ्मर्कटिकाबीजं माषचूर्णं समा जया । (४५५।१)

nistvaṅmarkaṭikābījaṃ māṣacūrṇaṃ samā jayā |

455.2४५५.२

क्षीरे च माहिषे पक्त्वा रात्रौ सेव्यातिवृष्यकृत् ॥ (४५५।२)

kṣīre ca māhiṣe paktvā rātrau sevyātivṛṣyakṛt ||

456.1४५६.१

विधिवच्छाल्मलीपिच्छवरीभृङ्गामृतारसैः । (४५६।१)

vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ |

456.2४५६.२

कान्तपात्रे प्रतिरसैः सप्तधा सप्तधातपे ॥ (४५६।२)

kāntapātre pratirasaiḥ saptadhā saptadhātape ||

457.1४५७.१

कुर्वीत भावनां पश्चाच्चूर्णयेत्तत्समां जयाम् । (४५७।१)

kurvīta bhāvanāṃ paścāccūrṇayettatsamāṃ jayām |

457.2४५७.२

मधुना च लिहेत्कर्षं जरामरणनाशिनी ॥ (४५७।२)

madhunā ca lihetkarṣaṃ jarāmaraṇanāśinī ||

458.1४५८.१

पञ्चाङ्गं शाल्मलेर्ग्राह्यं तत्समं विजयारजः । (४५८।१)

pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ |

458.2४५८.२

मध्वाज्याभ्यां लिहेत्कर्षं वलीपलितखण्डनम् ॥ (४५८।२)

madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam ||

459.1४५९.१

अथ पुष्यरवौ हस्तिकन्दं ग्राह्यं समूलकम् । (४५९।१)

atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam |

459.2४५९.२

अनातपे च संशोष्य चूर्णयेत्तत्समां जयाम् ॥ (४५९।२)

anātape ca saṃśoṣya cūrṇayettatsamāṃ jayām ||

460.1४६०.१

मधुनालोडयेत् पश्चात् स्निग्धभाण्डे विनिक्षिपेत् । (४६०।१)

madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet |

460.2४६०.२

एकविंशद्दिनं धान्यराशौ स्थाप्यं तत उद्धरेत् ॥ (४६०।२)

ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet ||

461.1४६१.१

प्रत्यहं पलमेकं तु भक्षयेन्मण्डलद्वयम् । (४६१।१)

pratyahaṃ palamekaṃ tu bhakṣayenmaṇḍaladvayam |

461.2४६१.२

कट्वम्लौ वर्जयेत्तावन्मृदु यूषान्नभोजनम् ॥ (४६१।२)

kaṭvamlau varjayettāvanmṛdu yūṣānnabhojanam ||

462.1४६२.१

मधुरं लघु पित्तघ्नं पललं जाङ्गलं हितम् । (४६२।१)

madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam |

462.2४६२.२

बालार्काभश्च मतिमान् पिकालापो बलान्वितः ॥ (४६२।२)

bālārkābhaśca matimān pikālāpo balānvitaḥ ||

463.1४६३.१

शतयोजनपर्यन्तं दिनेनैकेन गच्छति । (४६३।१)

śatayojanaparyantaṃ dinenaikena gacchati |

463.2४६३.२

मुण्डीचूर्णं जयाचूर्णं समं मधुघृतान्वितम् ॥ (४६३।२)

muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam ||

464.1४६४.१

कर्षं प्रातः प्रतिदिनं लिहेदायुष्यपुष्टिकृत् । (४६४।१)

karṣaṃ prātaḥ pratidinaṃ lihedāyuṣyapuṣṭikṛt |

464.2४६४.२

द्वादशाब्दं तु सेवेत भुञ्जीत घृतसंयुतम् ॥ (४६४।२)

dvādaśābdaṃ tu seveta bhuñjīta ghṛtasaṃyutam ||

465.1४६५.१

गोक्षीरं षष्टिकान्नं च लोणाम्लक्षारहीनकम् । (४६५।१)

gokṣīraṃ ṣaṣṭikānnaṃ ca loṇāmlakṣārahīnakam |

465.2४६५.२

भवेद्वलिजराहीनो दृश्यः स्याल्लघुदेहवान् ॥ (४६५।२)

bhavedvalijarāhīno dṛśyaḥ syāllaghudehavān ||

466.1४६६.१

पत्रं पुष्पं फलं श्वेतब्रह्मवृक्षस्य चाहरेत् । (४६६।१)

patraṃ puṣpaṃ phalaṃ śvetabrahmavṛkṣasya cāharet |

466.2४६६.२

छायायां शोषयेच्चूर्णं तत्समं विजयारजः ॥ (४६६।२)

chāyāyāṃ śoṣayeccūrṇaṃ tatsamaṃ vijayārajaḥ ||

467.1४६७.१

मध्वाज्याभ्यां लिहेत्कर्षमब्दाद्यौवनमाप्नुयात् । (४६७।१)

madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt |

467.2४६७.२

जयाबीजानि च तिलान्भर्जयेत्सगुडान्प्रिये ॥ (४६७।२)

jayābījāni ca tilānbharjayetsaguḍānpriye ||

468.1४६८.१

विधाय लड्डुकान्प्रातर्भक्षयेद् गोघृताप्लुतान् । (४६८।१)

vidhāya laḍḍukānprātarbhakṣayed goghṛtāplutān |

468.2४६८.२

मनःसंमोहनकरान् कान्तासङ्गमसाधकान् ॥ (४६८।२)

manaḥsaṃmohanakarān kāntāsaṅgamasādhakān ||

469.1४६९.१

पाकार्हव्यञ्जनैः सार्धं जयापत्राणि पाचयेत् । (४६९।१)

pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet |

469.2४६९.२

भर्जयेद्गोघृतेनैव गुडैलातीक्ष्णजीरकैः ॥ (४६९।२)

bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ ||

470.1४७०.१

संस्कृतः सुखसेव्योऽयं नाम्ना व्यञ्जनयोगराट् । (४७०।१)

saṃskṛtaḥ sukhasevyo'yaṃ nāmnā vyañjanayogarāṭ |

470.2४७०.२

तण्डुलान्विजयाबीजं मुद्गं च विगतत्वचः ॥ (४७०।२)

taṇḍulānvijayābījaṃ mudgaṃ ca vigatatvacaḥ ||

471.1४७१.१

सुरन्ध्रनालिकेरान्तः क्षिपेद्रन्ध्रं निरोधयेत् । (४७१।१)

surandhranālikerāntaḥ kṣipedrandhraṃ nirodhayet |

471.2४७१.२

बहिर्गोमयमृल्लिप्तं शोषयेन्मृदुवह्निना ॥ (४७१।२)

bahirgomayamṛlliptaṃ śoṣayenmṛduvahninā ||

472.1४७२.१

पाचयेन्नालिकेरस्थं समज्जं तत्समाहरेत् । (४७२।१)

pācayennālikerasthaṃ samajjaṃ tatsamāharet |

472.2४७२.२

मधुत्रयेण सहितं भुञ्जीत च यथाबलम् ॥ (४७२।२)

madhutrayeṇa sahitaṃ bhuñjīta ca yathābalam ||

473.1४७३.१

महावृष्यकरो योगः षण्ढानाम् अपि पुंस्त्वदः । (४७३।१)

mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ |

473.2४७३.२

गोक्षीरे विजयाबीजं वस्त्रबद्धं विनिक्षिपेत् ॥ (४७३।२)

gokṣīre vijayābījaṃ vastrabaddhaṃ vinikṣipet ||

474.1४७४.१

अर्धावशिष्टे तत्क्षीरे व्यजनानिलशीतले । (४७४।१)

ardhāvaśiṣṭe tatkṣīre vyajanānilaśītale |

474.2४७४.२

वाराहीमर्कटीबीजकर्पूरैलालवङ्गकम् ॥ (४७४।२)

vārāhīmarkaṭībījakarpūrailālavaṅgakam ||

475.1४७५.१

त्रिमधु त्रिसुगन्धं च निक्षिपेच्च समांशतः । (४७५।१)

trimadhu trisugandhaṃ ca nikṣipecca samāṃśataḥ |

475.2४७५.२

एकीकृत्य पिबेद्रात्रौ महावृष्यकरः परः ॥ (४७५।२)

ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ ||

476.1४७६.१

वाराहीयोग एषोऽयं षण्ढत्वादिनिकृन्तनः । (४७६।१)

vārāhīyoga eṣo'yaṃ ṣaṇḍhatvādinikṛntanaḥ |

476.2४७६.२

क्षीरशृतं च तद्बीजं पेषयेच्छिलया तनु ॥ (४७६।२)

kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu ||

477.1४७७.१

रसेनोत्तमकन्यायाः कांस्यपात्रे प्रलेपयेत् । (४७७।१)

rasenottamakanyāyāḥ kāṃsyapātre pralepayet |

477.2४७७.२

तीव्रातपे धारयेत्तं तस्मात्स्नेहं समाहरेत् ॥ (४७७।२)

tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet ||

478.1४७८.१

स्नेहान्तरयुजा तेन नस्यकर्म समाचरेत् । (४७८।१)

snehāntarayujā tena nasyakarma samācaret |

478.2४७८.२

जत्रूर्ध्वगतरोगांश्च कासश्वासादिकान्हरेत् ॥ (४७८।२)

jatrūrdhvagatarogāṃśca kāsaśvāsādikānharet ||

479.1४७९.१

यस्य यस्य च रोगस्य विहितं यद्यदौषधम् । (४७९।१)

yasya yasya ca rogasya vihitaṃ yadyadauṣadham |

479.2४७९.२

तेन तेन युता सिद्धा तत्तद्रोगहरा भवेत् ॥ (४७९।२)

tena tena yutā siddhā tattadrogaharā bhavet ||

480.1४८०.१

गुणा मया च कथ्यन्ते तान् शृणुष्व महेश्वरि । (४८०।१)

guṇā mayā ca kathyante tān śṛṇuṣva maheśvari |

480.2४८०.२

जिह्वार्द्रता मनःसौख्यं तृप्तिः संकल्पसिद्धता ॥ (४८०।२)

jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā ||

481.1४८१.१

वाक्पटुत्वं मुखोल्लासो भवेद्व्यायामपेशलः । (४८१।१)

vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ |

481.2४८१.२

स्नानध्यानार्चनपरो मधुरास्वादलोलुपः ॥ (४८१।२)

snānadhyānārcanaparo madhurāsvādalolupaḥ ||

482.1४८२.१

मृष्टान्नाशी शीतवारि पिबन्नालापतत्परः । (४८२।१)

mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ |

482.2४८२.२

यथेष्टालोकनपरः कामिनीसङ्गलोलुपः ॥ (४८२।२)

yatheṣṭālokanaparaḥ kāminīsaṅgalolupaḥ ||

483.1४८३.१

सर्वभूतदयाविष्टस् तत्त्वज्ञानविलीनधीः । (४८३।१)

sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ |

483.2४८३.२

कविताख्यानविज्ञानोपन्यासैकपरायणः ॥ (४८३।२)

kavitākhyānavijñānopanyāsaikaparāyaṇaḥ ||

484.1४८४.१

वादेषु विजयं कुर्यात्सङ्ग्रामे मल्लसङ्गरे । (४८४।१)

vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare |

484.2४८४.२

अन्येऽपि बहवः सन्ति गुणास्त्वन्यत्र दुर्लभाः ॥ (४८४।२)

anye'pi bahavaḥ santi guṇāstvanyatra durlabhāḥ ||

485.1४८५.१

विजयाव्यापत्सिद्धीएतस्याः सिद्धिमूल्याश्च भक्षणे त्वधिके सति । (४८५।१)

vijayāvyāpatsiddhīetasyāḥ siddhimūlyāśca bhakṣaṇe tvadhike sati |

485.2४८५.२

जायन्ते हि विकाराश्च शृणु तान्परमेश्वरि ॥ (४८५।२)

jāyante hi vikārāśca śṛṇu tānparameśvari ||

486.1४८६.१

आरक्तलोचनः शुष्कजिह्वौष्ठपुटतालुकः । (४८६।१)

āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ |

486.2४८६.२

प्रथमे शुष्कनासाग्र उष्णकृच्छ्वासपार्श्वयोः ॥ (४८६।२)

prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ ||

487.1४८७.१

द्वितीये ऽक्षिनिमीलत्वं पटलीकृतविग्रहः । (४८७।१)

dvitīye 'kṣinimīlatvaṃ paṭalīkṛtavigrahaḥ |

487.2४८७.२

तृतीये पादहस्ताक्षिदाहकृद् गद्गदध्वनिः ॥ (४८७।२)

tṛtīye pādahastākṣidāhakṛd gadgadadhvaniḥ ||

488.1४८८.१

चतुर्थे क्षुत्पिपासार्तो निद्राघूर्णितलोचनः । (४८८।१)

caturthe kṣutpipāsārto nidrāghūrṇitalocanaḥ |

488.2४८८.२

पञ्चमे गद्गदा वाणी स्वप्रोक्तं विस्मरेत्क्षणात् ॥ (४८८।२)

pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt ||

489.1४८९.१

षष्ठे विकारे संजाते चित्तापस्मृतिकारणम् । (४८९।१)

ṣaṣṭhe vikāre saṃjāte cittāpasmṛtikāraṇam |

489.2४८९.२

सप्तमे करसादश्च देहे च रुचिरायते ॥ (४८९।२)

saptame karasādaśca dehe ca rucirāyate ||

490.1४९०.१

महोर्मय इवोल्लासा जायन्ते च पुनः पुनः । (४९०।१)

mahormaya ivollāsā jāyante ca punaḥ punaḥ |

490.2४९०.२

अष्टमे दिग्भ्रमः शान्तिर्भ्रूभङ्गश्चातिरोदनम् ॥ (४९०।२)

aṣṭame digbhramaḥ śāntirbhrūbhaṅgaścātirodanam ||

491.1४९१.१

नवमे श्रोत्रहुङ्कारो मूर्च्छापस्मृतिकातरः । (४९१।१)

navame śrotrahuṅkāro mūrcchāpasmṛtikātaraḥ |

491.2४९१.२

उद्गारः कूजनं भूमौ लुठनं दैन्यभाषणम् ॥ (४९१।२)

udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam ||

492.1४९२.१

अन्यथा भाषणं गुह्यं ब्रवन्सौख्यं न वेत्ति च । (४९२।१)

anyathā bhāṣaṇaṃ guhyaṃ bravansaukhyaṃ na vetti ca |

492.2४९२.२

दुःखं च मृदुकल्पोऽयं स्विन्नाङ्गश्च भवेत्प्रिये ॥ (४९२।२)

duḥkhaṃ ca mṛdukalpo'yaṃ svinnāṅgaśca bhavetpriye ||

493.1४९३.१

अन्ये विकारा बहवः सन्ति तेषां चिकित्सनम् । (४९३।१)

anye vikārā bahavaḥ santi teṣāṃ cikitsanam |

493.2४९३.२

विरेकोऽम्लरसः शीर्षस्नानं शीताम्बुना ततः ॥ (४९३।२)

vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ ||

494.1४९४.१

चन्दनोशीरकर्पूरहिमाम्बुपरिलेपनम् । (४९४।१)

candanośīrakarpūrahimāmbuparilepanam |

494.2४९४.२

सुगन्धिशीतलीभूतमालालंकृतविग्रहः ॥ (४९४।२)

sugandhiśītalībhūtamālālaṃkṛtavigrahaḥ ||

495.1४९५.१

मल्लिकाजातिचाम्पेयकमलोत्पलधारिणा । (४९५।१)

mallikājāticāmpeyakamalotpaladhāriṇā |

495.2४९५.२

मृणालवलयोद्भासिशय्या च कदलीदलम् ॥ (४९५।२)

mṛṇālavalayodbhāsiśayyā ca kadalīdalam ||

496.1४९६.१

कर्पूरैलालवङ्गाश्च तक्कोलं कटुकीफलम् । (४९६।१)

karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam |

496.2४९६.२

चर्वयेत् सह ताम्बूलं तालवृन्तेन वीजनम् ॥ (४९६।२)

carvayet saha tāmbūlaṃ tālavṛntena vījanam ||

497.1४९७.१

सूक्ष्मकाषायवस्त्राणि सुगन्धीनि च धारयेत् । (४९७।१)

sūkṣmakāṣāyavastrāṇi sugandhīni ca dhārayet |

497.2४९७.२

कङ्कणे चन्द्रम् आपश्यञ्ज्योत्स्नायां द्विमुहूर्तकम् ॥ (४९७।२)

kaṅkaṇe candram āpaśyañjyotsnāyāṃ dvimuhūrtakam ||

498.1४९८.१

पीनोत्तुङ्गकुचद्वन्द्वगाढालिङ्गनतत्परः । (४९८।१)

pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ |

498.2४९८.२

शयीत शर्कराक्षीरघृतमांसरसादिकम् ॥ (४९८।२)

śayīta śarkarākṣīraghṛtamāṃsarasādikam ||

499.1४९९.१

पानकं मुद्गयूषं वा पेयं वा शार्करं मधु । (४९९।१)

pānakaṃ mudgayūṣaṃ vā peyaṃ vā śārkaraṃ madhu |

499.2४९९.२

केवलं शयनं कुर्याद्यद्यच्छीतं भजेच्च तत् ॥ (४९९।२)

kevalaṃ śayanaṃ kuryādyadyacchītaṃ bhajecca tat ||

500.1५००.१

२९। कञ्चुकीकल्पःअथ वक्ष्यामि देवेशि कञ्चुकीकल्पमुत्तमम् । (५००।१)

29. kañcukīkalpaḥatha vakṣyāmi deveśi kañcukīkalpamuttamam |

500.2५००.२

सप्ताष्टच्छदसंयुक्ता मूलकोपमकन्दुका ॥ (५००।२)

saptāṣṭacchadasaṃyuktā mūlakopamakandukā ||

501.1५०१.१

क्षीरान्विता मेषशब्दाज्जायन्ते पल्लवान्यपि । (५०१।१)

kṣīrānvitā meṣaśabdājjāyante pallavānyapi |

501.2५०१.२

सा ज्ञेया पीतरक्ताभकाण्डा श्वेततनुः प्रिये ॥ (५०१।२)

sā jñeyā pītaraktābhakāṇḍā śvetatanuḥ priye ||

502.1५०२.१

आषाढे कार्त्तिके मासे चैत्यदेशे प्ररोहति । (५०२।१)

āṣāḍhe kārttike māse caityadeśe prarohati |

502.2५०२.२

पिष्टां पलाष्टके क्षीरे त्वङ्गुष्ठद्वयमात्रकम् ॥ (५०२।२)

piṣṭāṃ palāṣṭake kṣīre tvaṅguṣṭhadvayamātrakam ||

503.1५०३.१

कुटीप्रवेशं कृत्वादौ पीत्वा पश्चात्पयः पिबेत् । (५०३।१)

kuṭīpraveśaṃ kṛtvādau pītvā paścātpayaḥ pibet |

503.2५०३.२

जीर्णे क्षीरं पुनः पेयं पेयां वा स्नेहवर्जिताम् ॥ (५०३।२)

jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām ||

504.1५०४.१

स्तोकोष्णलवणाम्लां तां न स्पृशेच्छीतलं जलम् । (५०४।१)

stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam |

504.2५०४.२

एवं सप्तदिनं सेव्यं खिलकुष्ठं विनाशयेत् ॥ (५०४।२)

evaṃ saptadinaṃ sevyaṃ khilakuṣṭhaṃ vināśayet ||

505.1५०५.१

तृतीये सप्तरात्रेण नश्यन्ति निखिला गदाः । (५०५।१)

tṛtīye saptarātreṇa naśyanti nikhilā gadāḥ |

505.2५०५.२

तृतीये सप्तरात्रेण भुजङ्गः कञ्चुकं तथा ॥ (५०५।२)

tṛtīye saptarātreṇa bhujaṅgaḥ kañcukaṃ tathā ||

506.1५०६.१

त्वक्केशनखदन्तांश्च स त्यजेत् स्वयमेवं हि । (५०६।१)

tvakkeśanakhadantāṃśca sa tyajet svayamevaṃ hi |

506.2५०६.२

जीवेत्पञ्चशतं वर्षं रूपमेधाबलान्वितः ॥ (५०६।२)

jīvetpañcaśataṃ varṣaṃ rūpamedhābalānvitaḥ ||

507.1५०७.१

चूर्णितं कञ्चुकीकन्दं तत्क्षीरेण विभावितम् । (५०७।१)

cūrṇitaṃ kañcukīkandaṃ tatkṣīreṇa vibhāvitam |

507.2५०७.२

कर्षं गोक्षीरकुडुबैः पिष्ट्वा खण्डं पलं क्षिपेत् ॥ (५०७।२)

karṣaṃ gokṣīrakuḍubaiḥ piṣṭvā khaṇḍaṃ palaṃ kṣipet ||

508.1५०८.१

नखकेशास्थिदन्तस्थान् रोगान्पानेन नाशयेत् । (५०८।१)

nakhakeśāsthidantasthān rogānpānena nāśayet |

508.2५०८.२

कञ्चुक्यास्तु पलं चूर्णं प्रस्थगोक्षीरवापितम् ॥ (५०८।२)

kañcukyāstu palaṃ cūrṇaṃ prasthagokṣīravāpitam ||

509.1५०९.१

चूर्णशेषं पचेत्तावद् गोघृतेन च भर्जयेत् । (५०९।१)

cūrṇaśeṣaṃ pacettāvad goghṛtena ca bharjayet |

509.2५०९.२

सितया मधुना लिह्यात् क्षीरान्नो मण्डलावधि ॥ (५०९।२)

sitayā madhunā lihyāt kṣīrānno maṇḍalāvadhi ||

510.1५१०.१

महागजबलोपेतो द्विरष्टवयसोज्ज्वलः । (५१०।१)

mahāgajabalopeto dviraṣṭavayasojjvalaḥ |

510.2५१०.२

जीवेत्पञ्चशतं वर्षान्कामिनीकेलिमन्मथः ॥ (५१०।२)

jīvetpañcaśataṃ varṣānkāminīkelimanmathaḥ ||

511.1५११.१

३०। कुक्कुटीकल्पःअथ वक्ष्यामि ते देवि कुक्कुटीकल्पमुत्तमम् । (५११।१)

30. kukkuṭīkalpaḥatha vakṣyāmi te devi kukkuṭīkalpamuttamam |

511.2५११.२

सुरासुरैर् मथ्यमानादब्धेरमृतबिन्दवः ॥ (५११।२)

surāsurair mathyamānādabdheramṛtabindavaḥ ||

512.1५१२.१

पतितास्तेभ्य उत्पन्ना कुक्कुटी निर्जरत्वदा । (५१२।१)

patitāstebhya utpannā kukkuṭī nirjaratvadā |

512.2५१२.२

पत्त्रैर् मरकतच्छायैः खर्जूरीदलसन्निभैः ॥ (५१२।२)

pattrair marakatacchāyaiḥ kharjūrīdalasannibhaiḥ ||

513.1५१३.१

कन्दैश्च कुक्कुटास्याभैर् ईषत् कटुकपिच्छिलैः । (५१३।१)

kandaiśca kukkuṭāsyābhair īṣat kaṭukapicchilaiḥ |

513.2५१३.२

लक्षिता कुक्कुटी ज्ञेया महारोगहरा परा ॥ (५१३।२)

lakṣitā kukkuṭī jñeyā mahārogaharā parā ||

514.1५१४.१

विशेषाद्वातरोगांश्च गुदकीलविषाणि च । (५१४।१)

viśeṣādvātarogāṃśca gudakīlaviṣāṇi ca |

514.2५१४.२

घृतेन भर्जयेत्कन्दं शुद्धकोष्ठः कुटीं व्रजेत् ॥ (५१४।२)

ghṛtena bharjayetkandaṃ śuddhakoṣṭhaḥ kuṭīṃ vrajet ||

515.1५१५.१

गुञ्जामात्रं प्रगे सेव्यं धारोष्णं गोपयः पिबेत् । (५१५।१)

guñjāmātraṃ prage sevyaṃ dhāroṣṇaṃ gopayaḥ pibet |

515.2५१५.२

जीर्णे क्षीरान्नमश्नीयाज्जलान्नं वा विचक्षणः ॥ (५१५।२)

jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ ||

516.1५१६.१

यथाबलं प्रतिदिनं वर्धयेन्मण्डलावधि । (५१६।१)

yathābalaṃ pratidinaṃ vardhayenmaṇḍalāvadhi |

516.2५१६.२

जत्रूर्ध्वरोगान् पाण्ड्वादीन् क्षयकुष्ठादिकान्हरेत् ॥ (५१६।२)

jatrūrdhvarogān pāṇḍvādīn kṣayakuṣṭhādikānharet ||

517.1५१७.१

स्थिरकेशद्विजनखो वलीपलितवर्जितः । (५१७।१)

sthirakeśadvijanakho valīpalitavarjitaḥ |

517.2५१७.२

जीवेद्द्विशतवर्षं च मेधाधैर्यबलान्वितः ॥ (५१७।२)

jīveddviśatavarṣaṃ ca medhādhairyabalānvitaḥ ||

518.1५१८.१

शुक्लप्रतिपदारभ्य चैकैकं घृतवर्जितम् । (५१८।१)

śuklapratipadārabhya caikaikaṃ ghṛtavarjitam |

518.2५१८.२

कन्दं प्राश्नीय पर्वान्तं वर्धयेत्तद्यथाबलम् ॥ (५१८।२)

kandaṃ prāśnīya parvāntaṃ vardhayettadyathābalam ||

519.1५१९.१

तथैवासितपक्षादि नूनं कुर्याद्दिनाद्दिनम् । (५१९।१)

tathaivāsitapakṣādi nūnaṃ kuryāddināddinam |

519.2५१९.२

भुक्तेः प्रागुपयुञ्जीत पश्चात्क्षीराशनो भवेत् ॥ (५१९।२)

bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet ||

520.1५२०.१

दर्शान्तमेवं सेवेत प्रतिमासं पुनः पुनः । (५२०।१)

darśāntamevaṃ seveta pratimāsaṃ punaḥ punaḥ |

520.2५२०.२

त्रिवर्षात् सिद्धिमाप्नोति जीवेद्वर्षायुतत्रयम् ॥ (५२०।२)

trivarṣāt siddhimāpnoti jīvedvarṣāyutatrayam ||

521.1५२१.१

कुक्कुटीकन्दचूर्णं च गोक्षीरेण यथाबलम् । (५२१।१)

kukkuṭīkandacūrṇaṃ ca gokṣīreṇa yathābalam |

521.2५२१.२

जीर्णे पिबेद्यवागूंश्च मासात्सिद्धिः प्रजायते ॥ (५२१।२)

jīrṇe pibedyavāgūṃśca māsātsiddhiḥ prajāyate ||

522.1५२२.१

नानाविधगदान्हन्ति जीवेद्वर्षशतद्वयम् । (५२२।१)

nānāvidhagadānhanti jīvedvarṣaśatadvayam |

522.2५२२.२

३१। सोमलताकल्पःअथ सोमलताकल्पं दिव्यं वक्ष्यामि शङ्करि ॥ (५२२।२)

31. somalatākalpaḥatha somalatākalpaṃ divyaṃ vakṣyāmi śaṅkari ||

523.1५२३.१

सोमः स्वयं मनुष्याणां हितायावनिमण्डलम् । (५२३।१)

somaḥ svayaṃ manuṣyāṇāṃ hitāyāvanimaṇḍalam |

523.2५२३.२

प्रतिपेदे च तन्नाम्ना ख्याता सोमलता भुवि ॥ (५२३।२)

pratipede ca tannāmnā khyātā somalatā bhuvi ||

524.1५२४.१

चतुर्विंशतिधा प्रोक्ता स्थाननामादिभेदतः । (५२४।१)

caturviṃśatidhā proktā sthānanāmādibhedataḥ |

524.2५२४.२

पूर्वप्रतिपदारभ्य पूर्णान्तं प्रतिवासरम् ॥ (५२४।२)

pūrvapratipadārabhya pūrṇāntaṃ prativāsaram ||

525.1५२५.१

एकैकं जायते पर्णं तथैवापरपक्षके । (५२५।१)

ekaikaṃ jāyate parṇaṃ tathaivāparapakṣake |

525.2५२५.२

पतति क्रमशः पर्णं दर्शे सैकावशिष्यते ॥ (५२५।२)

patati kramaśaḥ parṇaṃ darśe saikāvaśiṣyate ||

526.1५२६.१

पूर्णमास्यां पञ्चदशछदोपेता सदा भवेत् । (५२६।१)

pūrṇamāsyāṃ pañcadaśachadopetā sadā bhavet |

526.2५२६.२

नानाविधदलोपेताश् छदपञ्चदशात्मिकाः ॥ (५२६।२)

nānāvidhadalopetāś chadapañcadaśātmikāḥ ||

527.1५२७.१

क्षीरयुक्तलताकन्दाः सर्वाः सोमलताः स्मृताः । (५२७।१)

kṣīrayuktalatākandāḥ sarvāḥ somalatāḥ smṛtāḥ |

527.2५२७.२

तुषाराद्रावर्बुदे च सह्ये देवगिरौ तथा ॥ (५२७।२)

tuṣārādrāvarbude ca sahye devagirau tathā ||

528.1५२८.१

श्रीपर्वते च मलये महेन्द्रे पारियात्रके । (५२८।१)

śrīparvate ca malaye mahendre pāriyātrake |

528.2५२८.२

विन्ध्ये देवसहेऽद्रौ च देवसूतहृदे तथा ॥ (५२८।२)

vindhye devasahe'drau ca devasūtahṛde tathā ||

529.1५२९.१

वितस्तोत्तरतीरेऽस्ति प्रभासाख्यो महीधरः । (५२९।१)

vitastottaratīre'sti prabhāsākhyo mahīdharaḥ |

529.2५२९.२

सिन्धुह्रदोऽस्ति पाञ्चाले चन्द्रमाः प्लवतेऽत्र च ॥ (५२९।२)

sindhuhrado'sti pāñcāle candramāḥ plavate'tra ca ||

530.1५३०.१

तत्प्रदेशे च वाप्यस्ति त्वंशुमानथ मुञ्जवान् । (५३०।१)

tatpradeśe ca vāpyasti tvaṃśumānatha muñjavān |

530.2५३०.२

दिव्यं सरोऽस्ति काश्मीरे ख्यातं क्षुद्रकमानसम् ॥ (५३०।२)

divyaṃ saro'sti kāśmīre khyātaṃ kṣudrakamānasam ||

531.1५३१.१

औष्णिक् त्रैष्टुभगायत्रो जागतस् त्र्यैष्टुभस् तथा । (५३१।१)

auṣṇik traiṣṭubhagāyatro jāgatas tryaiṣṭubhas tathā |

531.2५३१.२

अन्याश्च पञ्च सन्त्यत्र मृगाङ्काभासवल्लिकाः ॥ (५३१।२)

anyāśca pañca santyatra mṛgāṅkābhāsavallikāḥ ||

532.1५३२.१

भाग्यहीना न पश्यन्ति देवाग्निद्विजनिन्दकाः । (५३२।१)

bhāgyahīnā na paśyanti devāgnidvijanindakāḥ |

532.2५३२.२

सर्वसोमलतानां च विधिरेक उपासने ॥ (५३२।२)

sarvasomalatānāṃ ca vidhireka upāsane ||

533.1५३३.१

चन्द्रमाः स्वर्णसच्छायो विशदो रजतप्रभः । (५३३।१)

candramāḥ svarṇasacchāyo viśado rajataprabhaḥ |

533.2५३३.२

तौ रंभाकृतिकन्दौ तु चन्द्रमास्तु जलेचरः ॥ (५३३।२)

tau raṃbhākṛtikandau tu candramāstu jalecaraḥ ||

534.1५३४.१

लशुनच्छदनः पुण्यो मुञ्जवान्गरुडाहृतः । (५३४।१)

laśunacchadanaḥ puṇyo muñjavāngaruḍāhṛtaḥ |

534.2५३४.२

श्येनच्छदनिभः पाण्डुः सर्पनिर्मोकवत्सदा ॥ (५३४।२)

śyenacchadanibhaḥ pāṇḍuḥ sarpanirmokavatsadā ||

535.1५३५.१

लम्बते पादपाग्रेषु विशेषं लक्षणं स्मृतम् । (५३५।१)

lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam |

535.2५३५.२

अंशुमांश्चन्द्रमाश्चैव शोनकी कर्णकोपमः ॥ (५३५।२)

aṃśumāṃścandramāścaiva śonakī karṇakopamaḥ ||

536.1५३६.१

दूर्वासोमौ जाग्रतश्च कन्याभासश्च शाक्वरः । (५३६।१)

dūrvāsomau jāgrataśca kanyābhāsaśca śākvaraḥ |

536.2५३६.२

करवीरस्तालवृन्तः प्रतानश्च गवीनसः ॥ (५३६।२)

karavīrastālavṛntaḥ pratānaśca gavīnasaḥ ||

537.1५३७.१

पथ्यः सोमप्रदश्चैव गरुडाहृतनामकः । (५३७।१)

pathyaḥ somapradaścaiva garuḍāhṛtanāmakaḥ |

537.2५३७.२

अयःप्रभो ऽग्निष्टोमः स्यादौक्थ्यो रेवतकस्तथा ॥ (५३७।२)

ayaḥprabho 'gniṣṭomaḥ syādaukthyo revatakastathā ||

538.1५३८.१

अंशुमान्सर्वमुख्यः स्यादस्य सेवां प्रचक्षते । (५३८।१)

aṃśumānsarvamukhyaḥ syādasya sevāṃ pracakṣate |

538.2५३८.२

एतद्रसायनज्ञैश्च प्रीतैर्मन्त्रविदुत्तमैः ॥ (५३८।२)

etadrasāyanajñaiśca prītairmantraviduttamaiḥ ||

539.1५३९.१

भिषग्वरैः सुहृद्भिश्च संयुक्तः शुद्धकोष्ठवान् । (५३९।१)

bhiṣagvaraiḥ suhṛdbhiśca saṃyuktaḥ śuddhakoṣṭhavān |

539.2५३९.२

कुटीं प्रविश्य निवृतां पुण्यर्क्षे शुभवासरे ॥ (५३९।२)

kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare ||

540.1५४०.१

पूर्वेद्युर्देवि विप्राग्निसिद्धसामायिकान्गुरून् । (५४०।१)

pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn |

540.2५४०.२

योगिनीश्च कुमारीश्च बालकान् सिद्धसन्ततिम् ॥ (५४०।२)

yoginīśca kumārīśca bālakān siddhasantatim ||

541.1५४१.१

गन्धपुष्पाक्षताद्यैश्च धूपैर्दीपैश्च पूजयेत् । (५४१।१)

gandhapuṣpākṣatādyaiśca dhūpairdīpaiśca pūjayet |

541.2५४१.२

भोजनैर्दक्षिणाभिश्च तोषयेच्च विधानतः ॥ (५४१।२)

bhojanairdakṣiṇābhiśca toṣayecca vidhānataḥ ||

542.1५४२.१

क्षीरमंशुमतः कन्दात्स्वर्णसूच्या विभेदितात् । (५४२।१)

kṣīramaṃśumataḥ kandātsvarṇasūcyā vibheditāt |

542.2५४२.२

हेमपात्रे समादाय तत्क्षीरं कुडुबं पिबेत् ॥ (५४२।२)

hemapātre samādāya tatkṣīraṃ kuḍubaṃ pibet ||

543.1५४३.१

सकृदेव पिबेत्सर्वं पीतशेषं जले क्षिपेत् । (५४३।१)

sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet |

543.2५४३.२

दिवा सुहृद्भिर् विहरेद्वाग्यतश्च वशी भवेत् ॥ (५४३।२)

divā suhṛdbhir viharedvāgyataśca vaśī bhavet ||

544.1५४४.१

द्रव्यदेहोपदेशज्ञैः कुट्यामास्तिकबुद्धिभिः । (५४४।१)

dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ |

544.2५४४.२

उपवासी जपरतः सायं सन्ध्यार्चनापरः ॥ (५४४।२)

upavāsī japarataḥ sāyaṃ sandhyārcanāparaḥ ||

545.1५४५.१

प्रसुप्याद् दर्भशयने कृष्णाजिनतिरोहिते । (५४५।१)

prasupyād darbhaśayane kṛṣṇājinatirohite |

545.2५४५.२

पिपासितोऽपि पानीयं शीतलं मात्रया पिबेत् ॥ (५४५।२)

pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet ||

546.1५४६.१

प्रभाते च समुत्थाय कृतप्रागेतनक्रमः । (५४६।१)

prabhāte ca samutthāya kṛtaprāgetanakramaḥ |

546.2५४६.२

विना सोमं तथासीत जीर्णे क्षीरे सशोणितम् ॥ (५४६।२)

vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam ||

547.1५४७.१

पित्तावसानं सकृमि वमनं भवति प्रिये । (५४७।१)

pittāvasānaṃ sakṛmi vamanaṃ bhavati priye |

547.2५४७.२

शृतशीतं च गोक्षीरं सायं पेयं सुसाधकैः ॥ (५४७।२)

śṛtaśītaṃ ca gokṣīraṃ sāyaṃ peyaṃ susādhakaiḥ ||

548.1५४८.१

विरेको जायते तस्य तृतीयदिवसे महान् । (५४८।१)

vireko jāyate tasya tṛtīyadivase mahān |

548.2५४८.२

तेन प्रमुच्यते मर्त्यः पूर्वकैर् दुष्टभोजनैः ॥ (५४८।२)

tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ ||

549.1५४९.१

स्नानं कुर्याद्दिनान्ते स शृतशीतं पिबेत्पयः । (५४९।१)

snānaṃ kuryāddinānte sa śṛtaśītaṃ pibetpayaḥ |

549.2५४९.२

दर्भशय्यां सुमक्षौमछादितायां शयीत सः ॥ (५४९।२)

darbhaśayyāṃ sumakṣaumachāditāyāṃ śayīta saḥ ||

550.1५५०.१

ततश्चतुर्थे दिवसे श्वयथुस्तस्य जायते । (५५०।१)

tataścaturthe divase śvayathustasya jāyate |

550.2५५०.२

अङ्गेभ्यः क्रिमयो बह्व्यः सूक्ष्मा निर्यान्ति तद्दिने ॥ (५५०।२)

aṅgebhyaḥ krimayo bahvyaḥ sūkṣmā niryānti taddine ||

551.1५५१.१

गोविड्भस्ममयीं शय्यां शोधितां मृदुलां सुधीः । (५५१।१)

goviḍbhasmamayīṃ śayyāṃ śodhitāṃ mṛdulāṃ sudhīḥ |

551.2५५१.२

अधिशेत पिपासा चेच्छृतशीतं जलं पिबेत् ॥ (५५१।२)

adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet ||

552.1५५२.१

सायं गव्यं शृतं क्षीरं पीत्वा शिष्यसुहृद्वृतः । (५५२।१)

sāyaṃ gavyaṃ śṛtaṃ kṣīraṃ pītvā śiṣyasuhṛdvṛtaḥ |

552.2५५२.२

यथासुखं प्रसुप्याच्च निशि पञ्चमषष्ठयोः ॥ (५५२।२)

yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ ||

553.1५५३.१

अह्नो विधिरयं कार्यो द्विकालं पाययेत्पयः । (५५३।१)

ahno vidhirayaṃ kāryo dvikālaṃ pāyayetpayaḥ |

553.2५५३.२

सप्तमे दिवसे देहस्त्वगस्थिस्नायुशेषितः ॥ (५५३।२)

saptame divase dehastvagasthisnāyuśeṣitaḥ ||

554.1५५४.१

मांसरक्तविहीनः स्यात्सोमपः प्राणशेषितः । (५५४।१)

māṃsaraktavihīnaḥ syātsomapaḥ prāṇaśeṣitaḥ |

554.2५५४.२

सुखोष्णैः सिञ्चयेत्क्षीरैर् गव्यैरेतस्य विग्रहम् ॥ (५५४।२)

sukhoṣṇaiḥ siñcayetkṣīrair gavyairetasya vigraham ||

555.1५५५.१

श्रीखण्डतिलयष्ट्याह्वैः पिष्टैस्तं परिलेपयेत् । (५५५।१)

śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet |

555.2५५५.२

क्षीराशी कटशायी च क्षौममय्यां शयीत सः ॥ (५५५।२)

kṣīrāśī kaṭaśāyī ca kṣaumamayyāṃ śayīta saḥ ||

556.1५५६.१

अष्टमेऽह्नि नखं श्मश्रु त्वक्केशा रदना अपि । (५५६।१)

aṣṭame'hni nakhaṃ śmaśru tvakkeśā radanā api |

556.2५५६.२

पतन्ति सद्योजातस्य देहवज्जायते वपुः ॥ (५५६।२)

patanti sadyojātasya dehavajjāyate vapuḥ ||

557.1५५७.१

क्षीराशी स्यात्तु नवमेऽणुतैलाभ्यङ्गमाचरेत् । (५५७।१)

kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret |

557.2५५७.२

स्नायात्सोमलताकल्पं क्वथितेन जलेन च ॥ (५५७।२)

snāyātsomalatākalpaṃ kvathitena jalena ca ||

558.1५५८.१

ततस्तु नवमे त्वक्च स्थिरतां प्रतियाति च । (५५८।१)

tatastu navame tvakca sthiratāṃ pratiyāti ca |

558.2५५८.२

तथैवैकादशदिनं प्रारभ्य षोडशं दिनम् ॥ (५५८।२)

tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam ||

559.1५५९.१

अभ्यङ्गं नाचरेत्स्नानं सोमवल्ककषायजम् । (५५९।१)

abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam |

559.2५५९.२

दिनात्सप्तदशादूर्ध्वं चतुर्विंशतिकावधि ॥ (५५९।२)

dinātsaptadaśādūrdhvaṃ caturviṃśatikāvadhi ||

560.1५६०.१

स्थिरत्वं त्वगवाप्नोति दन्ता वज्रनिभोज्ज्वलाः । (५६०।१)

sthiratvaṃ tvagavāpnoti dantā vajranibhojjvalāḥ |

560.2५६०.२

स्थिरा दृढतराः स्निग्धा जायन्ते समपङ्क्तयः ॥ (५६०।२)

sthirā dṛḍhatarāḥ snigdhā jāyante samapaṅktayaḥ ||

561.1५६१.१

पञ्चविंशत्तमे घस्रे षष्ट्यन्नं गोपयोऽन्वितम् । (५६१।१)

pañcaviṃśattame ghasre ṣaṣṭyannaṃ gopayo'nvitam |

561.2५६१.२

भुञ्जीत नखरास्तस्य शुकचञ्चुनिभोज्ज्वलाः ॥ (५६१।२)

bhuñjīta nakharāstasya śukacañcunibhojjvalāḥ ||

562.1५६२.१

त्वगस्य जायते स्निग्धा नीलोत्पलसमद्युतिः । (५६२।१)

tvagasya jāyate snigdhā nīlotpalasamadyutiḥ |

562.2५६२.२

सुलक्षणातसीपुष्पवैडूर्याम्बुदसन्निभा ॥ (५६२।२)

sulakṣaṇātasīpuṣpavaiḍūryāmbudasannibhā ||

563.1५६३.१

मासाद् अनन्तरं कुर्यात्तिलोशीरकचन्दनैः । (५६३।१)

māsād anantaraṃ kuryāttilośīrakacandanaiḥ |

563.2५६३.२

पिष्टैः प्रलेपनं पश्चात्पयसा स्नपनक्रिया ॥ (५६३।२)

piṣṭaiḥ pralepanaṃ paścātpayasā snapanakriyā ||

564.1५६४.१

रोहन्ति चिकुरास्तस्य भ्रमराञ्जनसन्निभाः । (५६४।१)

rohanti cikurāstasya bhramarāñjanasannibhāḥ |

564.2५६४.२

माससप्तदिनाद् ऊर्ध्वं द्वितीयावरणस्थितिः ॥ (५६४।२)

māsasaptadinād ūrdhvaṃ dvitīyāvaraṇasthitiḥ ||

565.1५६५.१

पुनस्तृतीयावरणे तिष्ठेत् सिद्धो मुहूर्तकम् । (५६५।१)

punastṛtīyāvaraṇe tiṣṭhet siddho muhūrtakam |

565.2५६५.२

कुटीं विशेद्यथापूर्वं बलातैलाज्यलेपनम् ॥ (५६५।२)

kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam ||

566.1५६६.१

कुर्याद्दिनत्रयं पश्चाच्चत्वारिंशद्दिनात्परम् । (५६६।१)

kuryāddinatrayaṃ paścāccatvāriṃśaddinātparam |

566.2५६६.२

करीषभस्मनोद्धूल्य देहं कल्कैर्विलेपयेत् ॥ (५६६।२)

karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet ||

567.1५६७.१

अजशृङ्गीत्वगुद्भूतैः स्नानं कोष्णजलेन च । (५६७।१)

ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca |

567.2५६७.२

चन्दनोशीरकर्पूरैर् लिप्ताङ्गो मुद्गधात्रिजैः ॥ (५६७।२)

candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ ||

568.1५६८.१

यूषैः षष्ट्यन्नम् अश्नीयात् क्षीरैस्त्रिमधुसंयुतैः । (५६८।१)

yūṣaiḥ ṣaṣṭyannam aśnīyāt kṣīraistrimadhusaṃyutaiḥ |

568.2५६८.२

घृतेन वा द्वितीये तु वसेदावरणे सुधीः ॥ (५६८।२)

ghṛtena vā dvitīye tu vasedāvaraṇe sudhīḥ ||

569.1५६९.१

दिवसं पञ्चकं तत्र किंचिद्वातातपे सुधीः । (५६९।१)

divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ |

569.2५६९.२

मध्ये मध्ये च सेवेत तथैव दशवासरम् ॥ (५६९।२)

madhye madhye ca seveta tathaiva daśavāsaram ||

570.1५७०.१

सोढवातातपस् तस्मात्तृतीयावरणं भजेत् । (५७०।१)

soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet |

570.2५७०.२

एकविंशद्दिनं तिष्ठन् स्थिरीकृतमनाः समुत् ॥ (५७०।२)

ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut ||

571.1५७१.१

ततो द्वाविंशतिदिने देहसिद्धिः प्रजायते । (५७१।१)

tato dvāviṃśatidine dehasiddhiḥ prajāyate |

571.2५७१.२

बहिर्निर्गत्य च तदा पूजयेद्भैरवं पुरा ॥ (५७१।२)

bahirnirgatya ca tadā pūjayedbhairavaṃ purā ||

572.1५७२.१

गुर्वग्निद्विजसिद्धानां चेतांसि परिमोदयन् । (५७२।१)

gurvagnidvijasiddhānāṃ cetāṃsi parimodayan |

572.2५७२.२

सर्वत्र स्वेच्छया नित्यं विहरेद्दुःखवर्जितः ॥ (५७२।२)

sarvatra svecchayā nityaṃ viharedduḥkhavarjitaḥ ||

573.1५७३.१

वर्षायुतं नवं दिव्यं वपुर्धत्ते सुकान्तिमत् । (५७३।१)

varṣāyutaṃ navaṃ divyaṃ vapurdhatte sukāntimat |

573.2५७३.२

बलं गजसहस्राणां भवेदस्य न संशयः ॥ (५७३।२)

balaṃ gajasahasrāṇāṃ bhavedasya na saṃśayaḥ ||

574.1५७४.१

विषाग्नितोयशस्त्रास्त्रमृगादिभ्यो भयं न हि । (५७४।१)

viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi |

574.2५७४.२

ब्रह्मलोकादिलोकेषु विचरेत् स्वेच्छया सदा ॥ (५७४।२)

brahmalokādilokeṣu vicaret svecchayā sadā ||

575.1५७५.१

कान्त्या द्वितीयश्चन्द्रः स्याद्रूपेण मकरध्वजः । (५७५।१)

kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ |

575.2५७५.२

सर्वाह्लादकरः शान्तः सषडङ्गपदक्रमान् ॥ (५७५।२)

sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān ||

576.1५७६.१

वेदान्वेत्ति च शास्त्राणि भूलोकगतिनिर्जरः । (५७६।१)

vedānvetti ca śāstrāṇi bhūlokagatinirjaraḥ |

576.2५७६.२

ह्रस्वशाखाप्रतानायाः सोमवल्ल्याः समाहरेत् ॥ (५७६।२)

hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet ||

577.1५७७.१

काण्डान्द्वात्रिंशतिं स्वर्णपात्रे पुण्ये यथाविधि । (५७७।१)

kāṇḍāndvātriṃśatiṃ svarṇapātre puṇye yathāvidhi |

577.2५७७.२

रौप्ये पात्रेऽथवा योज्यं द्विपलं गोपयस्तथा ॥ (५७७।२)

raupye pātre'thavā yojyaṃ dvipalaṃ gopayastathā ||

578.1५७८.१

सोमवल्लीरसं तद्वन्मेलयित्वा पिबेत्ततः । (५७८।१)

somavallīrasaṃ tadvanmelayitvā pibettataḥ |

578.2५७८.२

कुटीप्रवेशः पथ्यं च पूर्ववत्समुदाहृतम् ॥ (५७८।२)

kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam ||

579.1५७९.१

अणिमाद्यष्टसिद्धिः स्यात्स साक्षादमरो भवेत् । (५७९।१)

aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet |

579.2५७९.२

३२। गुडूचीकल्पःअथामृतलताकल्पं वक्ष्यामि शृणु भैरवि ॥ (५७९।२)

32. guḍūcīkalpaḥathāmṛtalatākalpaṃ vakṣyāmi śṛṇu bhairavi ||

580.1५८०.१

साक्षात्सुधामृतलता व्याधिजन्मजरापहा । (५८०।१)

sākṣātsudhāmṛtalatā vyādhijanmajarāpahā |

580.2५८०.२

अमृतायाः शतपलं त्रिप्रस्थं मधुरत्रयम् ॥ (५८०।२)

amṛtāyāḥ śatapalaṃ triprasthaṃ madhuratrayam ||

581.1५८१.१

चूर्णं लिहेत्कर्षमात्रमेवं संवत्सरावधि । (५८१।१)

cūrṇaṃ lihetkarṣamātramevaṃ saṃvatsarāvadhi |

581.2५८१.२

सर्वव्याधिप्रशमनं जीवेच्च शरदः शतम् ॥ (५८१।२)

sarvavyādhipraśamanaṃ jīvecca śaradaḥ śatam ||

582.1५८२.१

अथ छिन्नरुहाचूर्णं पञ्चविंशत्पलं सिता । (५८२।१)

atha chinnaruhācūrṇaṃ pañcaviṃśatpalaṃ sitā |

582.2५८२.२

द्विगुणा च तवक्षीरी चात्मगुप्ताश्वगन्धिका ॥ (५८२।२)

dviguṇā ca tavakṣīrī cātmaguptāśvagandhikā ||

583.1५८३.१

पुनर्नवाज्यं प्रत्येकं युञ्ज्याद्दशपलं प्रिये । (५८३।१)

punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye |

583.2५८३.२

मृद्वीकाष्टपला यष्टी ततः पञ्चपला तथा ॥ (५८३।२)

mṛdvīkāṣṭapalā yaṣṭī tataḥ pañcapalā tathā ||

584.1५८४.१

एकीकृत्य च तत्सर्वं स्निग्धभाण्डे विनिक्षिपेत् । (५८४।१)

ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet |

584.2५८४.२

पक्षमेकं धान्यराशौ निधाय प्रतिवासरम् ॥ (५८४।२)

pakṣamekaṃ dhānyarāśau nidhāya prativāsaram ||

585.1५८५.१

पलं पलं प्रयुञ्जीत मासं स्याद्व्याधिवर्जितः । (५८५।१)

palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ |

585.2५८५.२

षण्मासाद् गृध्रदृष्टिः स्याद्वर्षं जीवेच्छतायुषम् ॥ (५८५।२)

ṣaṇmāsād gṛdhradṛṣṭiḥ syādvarṣaṃ jīvecchatāyuṣam ||

586.1५८६.१

अमृतायाः शतपलं चूर्णं षष्टिपलं मधु । (५८६।१)

amṛtāyāḥ śatapalaṃ cūrṇaṃ ṣaṣṭipalaṃ madhu |

586.2५८६.२

चत्वारिंशत्पलं सर्पिर् द्विमासं धान्यराशिगम् ॥ (५८६।२)

catvāriṃśatpalaṃ sarpir dvimāsaṃ dhānyarāśigam ||

587.1५८७.१

प्रत्यहं पलमात्राशी मासात्सर्वगदान्हरेत् । (५८७।१)

pratyahaṃ palamātrāśī māsātsarvagadānharet |

587.2५८७.२

दिव्यदृष्टिः शतं जीवेन्मेधाबलमहाद्युतिः ॥ (५८७।२)

divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ ||

588.1५८८.१

३३। तुवरककल्पःअथ वक्ष्याम्यहं देवि कल्पं तुवरकस्य च । (५८८।१)

33. tuvarakakalpaḥatha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca |

588.2५८८.२

वृक्षाः पश्चिमवारीशतटे तिष्ठन्ति संततम् ॥ (५८८।२)

vṛkṣāḥ paścimavārīśataṭe tiṣṭhanti saṃtatam ||

589.1५८९.१

तरङ्गानिलसंक्षुब्धशीकारार्द्रितपल्लवाः । (५८९।१)

taraṅgānilasaṃkṣubdhaśīkārārdritapallavāḥ |

589.2५८९.२

वर्षर्तौ च सुपक्वानि तत्फलानि समाहरेत् ॥ (५८९।२)

varṣartau ca supakvāni tatphalāni samāharet ||

590.1५९०.१

शोषयित्वाथ संचूर्ण्य तिलवत्तैलमाहरेत् । (५९०।१)

śoṣayitvātha saṃcūrṇya tilavattailamāharet |

590.2५९०.२

अथवैरण्डवत्तैलं प्रयत्नेन समाहरेत् ॥ (५९०।२)

athavairaṇḍavattailaṃ prayatnena samāharet ||

591.1५९१.१

पुनर्वह्नौ पचेत्तैलं यावदंभःक्षयं भवेत् । (५९१।१)

punarvahnau pacettailaṃ yāvadaṃbhaḥkṣayaṃ bhavet |

591.2५९१.२

तत्कर्षं निक्षिपेत्पक्षं तत उद्धृत्य प्रयत्नतः ॥ (५९१।२)

tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ ||

592.1५९२.१

चतुर्भक्तविहीनः सन् शुद्धः कर्षं पिबेत्प्रिये । (५९२।१)

caturbhaktavihīnaḥ san śuddhaḥ karṣaṃ pibetpriye |

592.2५९२.२

शङ्खचक्रगदापाणिस् त्वामाज्ञापयद् अच्युतः ॥ (५९२।२)

śaṅkhacakragadāpāṇis tvāmājñāpayad acyutaḥ ||

593.1५९३.१

मन्त्रेणानेन सेवेत सर्वो दोषो विनश्यति । (५९३।१)

mantreṇānena seveta sarvo doṣo vinaśyati |

593.2५९३.२

एवं पञ्चदिनं सेव्यमहितानि च वर्जयेत् ॥ (५९३।२)

evaṃ pañcadinaṃ sevyamahitāni ca varjayet ||

594.1५९४.१

मासं मुद्गरसाशी स्यात्सर्वकुष्ठविवर्जितः । (५९४।१)

māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ |

594.2५९४.२

ततः क्षौद्रघृताभ्यां च लिहेत् षाण्मासिकावधि ॥ (५९४।२)

tataḥ kṣaudraghṛtābhyāṃ ca lihet ṣāṇmāsikāvadhi ||

595.1५९५.१

वलीपलितहीनश्च जीवेद्वर्षशतद्वयम् । (५९५।१)

valīpalitahīnaśca jīvedvarṣaśatadvayam |

595.2५९५.२

तत्तैलं दिनपञ्चाशं नस्येद्धीरकवद् द्विजः ॥ (५९५।२)

tattailaṃ dinapañcāśaṃ nasyeddhīrakavad dvijaḥ ||

596.1५९६.१

वलीपलितनिर्मुक्तः श्रुतधारी दृढाङ्गवान् । (५९६।१)

valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān |

596.2५९६.२

जीवेद् द्विशतवर्षं च मेधावी गृध्रलोचनः ॥ (५९६।२)

jīved dviśatavarṣaṃ ca medhāvī gṛdhralocanaḥ ||

597.1५९७.१

३४। सोमराजीकल्पःअथ वक्ष्याम्यहं देवि सोमराजीरसायनम् । (५९७।१)

34. somarājīkalpaḥatha vakṣyāmyahaṃ devi somarājīrasāyanam |

597.2५९७.२

संग्रहेत्तां पुष्यरवावातपे शोषयेत्ततः ॥ (५९७।२)

saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ ||

598.1५९८.१

चूर्णितां कोष्णसलिलैः पिबेत्प्रातर्विशुद्धये । (५९८।१)

cūrṇitāṃ koṣṇasalilaiḥ pibetprātarviśuddhaye |

598.2५९८.२

त्रिदिवं च ततः क्षौद्रैः कर्षमात्रं लिहेत्प्रगे ॥ (५९८।२)

tridivaṃ ca tataḥ kṣaudraiḥ karṣamātraṃ lihetprage ||

599.1५९९.१

मासेन रोगा नश्यन्ति षण्मासात्सिद्धिमाप्नुयात् । (५९९।१)

māsena rogā naśyanti ṣaṇmāsātsiddhimāpnuyāt |

599.2५९९.२

३५। वृद्धदारुककल्पःअथ ब्रवीमि देवेशि वृद्धदारुककल्पकम् ॥ (५९९।२)

35. vṛddhadārukakalpaḥatha bravīmi deveśi vṛddhadārukakalpakam ||

600.1६००.१

नागवल्लीदलक्षौद्रैः सदुग्धैर्मृदुरोमकैः । (६००।१)

nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ |

600.2६००.२

पत्रैर्युतापि सफला रक्तपुष्पा प्रतानिका ॥ (६००।२)

patrairyutāpi saphalā raktapuṣpā pratānikā ||

601.1६०१.१

तिक्तोषणं काम्बुतेति महिषाख्यलता स्मृता । (६०१।१)

tiktoṣaṇaṃ kāmbuteti mahiṣākhyalatā smṛtā |

601.2६०१.२

तुलोन्मितं च तन्मूलं चूर्णितं सर्षपायुतम् ॥ (६०१।२)

tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam ||

602.1६०२.१

धान्यराशौ न्यसेत् पक्षम् उद्धृत्योन्मितकर्षकम् । (६०२।१)

dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam |

602.2६०२.२

अनुपेयं च गोक्षीरं जीर्णे क्षीरान्नभोजनम् ॥ (६०२।२)

anupeyaṃ ca gokṣīraṃ jīrṇe kṣīrānnabhojanam ||

603.1६०३.१

वृद्धोऽपि तरुणो भूयाद्वर्षात्सर्वगदोज्झितः । (६०३।१)

vṛddho'pi taruṇo bhūyādvarṣātsarvagadojjhitaḥ |

603.2६०३.२

एवं द्वादशवर्षाणि सेवेतालस्यवर्जितः ॥ (६०३।२)

evaṃ dvādaśavarṣāṇi sevetālasyavarjitaḥ ||

604.1६०४.१

जीवेत्षट्शतवर्षं च वलीपलितवर्जितः । (६०४।१)

jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ |

604.2६०४.२

वृद्धदारुकचूर्णं च शुद्धं शतपलोन्मितम् ॥ (६०४।२)

vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam ||

605.1६०५.१

वाजिगन्धाकन्दचूर्णं शतत्रयपलं घृतैः । (६०५।१)

vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ |

605.2६०५.२

आलोड्य भक्षयेत्कर्षं स जीवेच्छरदां शतम् ॥ (६०५।२)

āloḍya bhakṣayetkarṣaṃ sa jīveccharadāṃ śatam ||

606.1६०६.१

तुरंगमसमो वेगे बले दन्ताबलोपमः । (६०६।१)

turaṃgamasamo vege bale dantābalopamaḥ |

606.2६०६.२

कान्त्या हिमांशुसदृशस्तेजसा भास्करोपमः ॥ (६०६।२)

kāntyā himāṃśusadṛśastejasā bhāskaropamaḥ ||

607.1६०७.१

शतावर्याश्वगन्धा च गोक्षुरो वृद्धदारुकः । (६०७।१)

śatāvaryāśvagandhā ca gokṣuro vṛddhadārukaḥ |

607.2६०७.२

समांशमखिलं सर्पिर्युक्तं कर्षं च खादयेत् ॥ (६०७।२)

samāṃśamakhilaṃ sarpiryuktaṃ karṣaṃ ca khādayet ||

608.1६०८.१

सप्ताहात् किन्नरध्वानो वत्सरात् सिद्धिभाग्भवेत् । (६०८।१)

saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet |

608.2६०८.२

वृद्धदारुकमूलं च वरीस्वरसपेषितम् ॥ (६०८।२)

vṛddhadārukamūlaṃ ca varīsvarasapeṣitam ||

609.1६०९.१

कर्षं पिबेद्वत्सरं यत्स जीवेच्छरदः शतम् । (६०९।१)

karṣaṃ pibedvatsaraṃ yatsa jīveccharadaḥ śatam |

609.2६०९.२

वृद्धदारुकचूर्णं च धात्रीस्वरसभावितम् ॥ (६०९।२)

vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam ||

610.1६१०.१

एकविंशतिधा प्रातर्मध्वाज्याभ्यां तु कर्षकम् । (६१०।१)

ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam |

610.2६१०.२

लिहेदब्दं स जीवेच्च वर्षाणि च शतद्वयम् ॥ (६१०।२)

lihedabdaṃ sa jīvecca varṣāṇi ca śatadvayam ||

611.1६११.१

योवसापस्तधा जीवेन्नीरुजः स महान्भवेत् । (६११।१)

yovasāpastadhā jīvennīrujaḥ sa mahānbhavet |

611.2६११.२

गोदुग्धेन च तन्मूलं रसं धात्र्याश्च संमितम् ॥ (६११।२)

godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam ||

612.1६१२.१

पिबेत्संवत्सरं यस्तु स जीवेच्छरदः शतम् । (६१२।१)

pibetsaṃvatsaraṃ yastu sa jīveccharadaḥ śatam |

612.2६१२.२

तत्सिद्धं सर्पिरश्नीयात् पूर्ववत्फलम् आप्नुयात् ॥ (६१२।२)

tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt ||

613.1६१३.१

पुनर्नवा वरी शुण्ठी मागधी रजनीद्वयम् । (६१३।१)

punarnavā varī śuṇṭhī māgadhī rajanīdvayam |

613.2६१३.२

एतत्सर्वं समं वृद्धदारुकं काञ्जिकान्वितम् ॥ (६१३।२)

etatsarvaṃ samaṃ vṛddhadārukaṃ kāñjikānvitam ||

614.1६१४.१

पलं प्रातः पिबेद्धीमान् दच्छदाद्धारमाचरेत् । (६१४।१)

palaṃ prātaḥ pibeddhīmān dacchadāddhāramācaret |

614.2६१४.२

मासात्सर्वामयान् हन्ति वर्षादायुः शतं भवेत् ॥ (६१४।२)

māsātsarvāmayān hanti varṣādāyuḥ śataṃ bhavet ||

615.1६१५.१

द्वीपी शौण्डी वरा विश्वं मुस्तमेला समांशकम् । (६१५।१)

dvīpī śauṇḍī varā viśvaṃ mustamelā samāṃśakam |

615.2६१५.२

एतत्संयोज्य सिद्धं तच्चूर्णं वेल्लरिकं भवेत् ॥ (६१५।२)

etatsaṃyojya siddhaṃ taccūrṇaṃ vellarikaṃ bhavet ||

616.1६१६.१

क्षौद्राज्यलुलितं खादेत्कर्षं वर्षेण सिध्यति । (६१६।१)

kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati |

616.2६१६.२

तत्फलं स्वरसं कर्षं घृतं क्षौद्रं च तत्समम् ॥ (६१६।२)

tatphalaṃ svarasaṃ karṣaṃ ghṛtaṃ kṣaudraṃ ca tatsamam ||

617.1६१७.१

पिबेदनु गवां क्षीरं माहिषं वा पलोन्मितम् । (६१७।१)

pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam |

617.2६१७.२

मासेन सर्वरोगघ्नं वर्षाज्जीवेच्छतायुषम् ॥ (६१७।२)

māsena sarvarogaghnaṃ varṣājjīvecchatāyuṣam ||

618.1६१८.१

चूर्णं वेल्लरिकामूलं फलं पिप्पलिकाभवम् । (६१८।१)

cūrṇaṃ vellarikāmūlaṃ phalaṃ pippalikābhavam |

618.2६१८.२

समवेल्लरिकामूलफलजैश्च रसैस्तथा ॥ (६१८।२)

samavellarikāmūlaphalajaiśca rasaistathā ||

619.1६१९.१

गुडूचीस्वरसेनापि भावयेदेकविंशतिम् । (६१९।१)

guḍūcīsvarasenāpi bhāvayedekaviṃśatim |

619.2६१९.२

शुष्कं घृतप्लुतं भाण्डे स्निग्धे धान्यचये स्थितः ॥ (६१९।२)

śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ ||

620.1६२०.१

त्रिसप्ताहात्तदुद्धृत्य कर्षं प्रातर्लिहेन्नरः । (६२०।१)

trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ |

620.2६२०.२

वर्षाद्वर्षसहस्रायुः सर्वरोगविवर्जितः ॥ (६२०।२)

varṣādvarṣasahasrāyuḥ sarvarogavivarjitaḥ ||

621.1६२१.१

३६। वज्रवल्लीकल्पःअथ व्याख्याम्यहं देवि वज्रवल्लीरसायनम् । (६२१।१)

36. vajravallīkalpaḥatha vyākhyāmyahaṃ devi vajravallīrasāyanam |

621.2६२१.२

वज्रवल्लीं समूलां च छायाशुष्कां विचूर्णयेत् ॥ (६२१।२)

vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet ||

622.1६२२.१

वरा व्रणारिमूलं च प्रत्येकं भास्करं पलम् । (६२२।१)

varā vraṇārimūlaṃ ca pratyekaṃ bhāskaraṃ palam |

622.2६२२.२

रोगानशेषान् षण्मासाद्धन्यात् संवत्सराद्भवेत् ॥ (६२२।२)

rogānaśeṣān ṣaṇmāsāddhanyāt saṃvatsarādbhavet ||

623.1६२३.१

देहसिद्धिश्च षण्मासाच्चूर्णमन्यत्प्रकल्पयेत् । (६२३।१)

dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet |

623.2६२३.२

३७। तिलक्षीरिणिकाकल्पःतिलक्षीरिणिकाकल्पं कथयिष्यामि शाम्भवि ॥ (६२३।२)

37. tilakṣīriṇikākalpaḥtilakṣīriṇikākalpaṃ kathayiṣyāmi śāmbhavi ||

624.1६२४.१

तिलक्षीरिणिकामूलं मौनेनोत्पाट्य साधकः । (६२४।१)

tilakṣīriṇikāmūlaṃ maunenotpāṭya sādhakaḥ |

624.2६२४.२

कोष्णेन वारिणा पिष्ट्वा प्राङ्मुखोदङ्मुखः पिबेत् ॥ (६२४।२)

koṣṇena vāriṇā piṣṭvā prāṅmukhodaṅmukhaḥ pibet ||

625.1६२५.१

गिलेद्वा गुलिकां कृत्वा क्षीराज्यानाशयेच्छुचिः । (६२५।१)

giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ |

625.2६२५.२

क्रमेणार्धद्वित्रिनिष्कं सेवेताब्दं स सिद्धिभाक् ॥ (६२५।२)

krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk ||

626.1६२६.१

दशाहाच्छुक्रवृद्धिः स्यात्त्रिमासात् सर्वरोगजित् । (६२६।१)

daśāhācchukravṛddhiḥ syāttrimāsāt sarvarogajit |

626.2६२६.२

षण्मासात्सिद्धिमाप्नोति नात्र कार्या विचारणा ॥ (६२६।२)

ṣaṇmāsātsiddhimāpnoti nātra kāryā vicāraṇā ||

627.1६२७.१

३८। ब्राह्मीकल्पःअथ वक्ष्यामि देवेशि ब्राह्मीकल्पमनुत्तमम् । (६२७।१)

38. brāhmīkalpaḥatha vakṣyāmi deveśi brāhmīkalpamanuttamam |

627.2६२७.२

समूलामुद्धरेद् ब्राह्मीं प्रक्षाल्य सलिलेन च ॥ (६२७।२)

samūlāmuddhared brāhmīṃ prakṣālya salilena ca ||

628.1६२८.१

उलूखले कुट्टयित्वा पात्रे तत्र समाहरेत् । (६२८।१)

ulūkhale kuṭṭayitvā pātre tatra samāharet |

628.2६२८.२

जुहुयाच्छारदामन्त्रैस्तद्रसैश्च सहस्रकम् ॥ (६२८।२)

juhuyācchāradāmantraistadrasaiśca sahasrakam ||

629.1६२९.१

अर्चयित्वा गुरून्विप्रान्प्राश्नीत हुतशेषकम् । (६२९।१)

arcayitvā gurūnviprānprāśnīta hutaśeṣakam |

629.2६२९.२

पलमात्रं तद्रसं च जीर्णे क्षीरान्नभोजनम् ॥ (६२९।२)

palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam ||

630.1६३०.१

एवं सप्तदिनं सेव्यं ब्रह्मचारी जपे रतः । (६३०।१)

evaṃ saptadinaṃ sevyaṃ brahmacārī jape rataḥ |

630.2६३०.२

मेधावी ब्रह्मवर्चस्वी वाग्विशुद्धः प्रजायते ॥ (६३०।२)

medhāvī brahmavarcasvī vāgviśuddhaḥ prajāyate ||

631.1६३१.१

ऊर्ध्वं सप्तदिनात्सेव्यं प्रबध्नातीच्छया अपि । (६३१।१)

ūrdhvaṃ saptadinātsevyaṃ prabadhnātīcchayā api |

631.2६३१.२

विस्मृतानपि वेत्त्येव श्रुतं शीघ्रं च धारयेत् ॥ (६३१।२)

vismṛtānapi vettyeva śrutaṃ śīghraṃ ca dhārayet ||

632.1६३२.१

द्वितीये सप्तमाद् ऊर्ध्वं पूर्ववत्तद्रसं पिबेत् । (६३२।१)

dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet |

632.2६३२.२

सकृच्छ्रुतं श्लोकशतं सहस्रमपि धारयेत् ॥ (६३२।२)

sakṛcchrutaṃ ślokaśataṃ sahasramapi dhārayet ||

633.1६३३.१

एवं त्रिसप्तदिवसं पिबेद् ब्राह्मीरसं शुचिः । (६३३।१)

evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ |

633.2६३३.२

देहाद् अलक्ष्मीर्निर्याति वाणी विशति शाश्वती ॥ (६३३।२)

dehād alakṣmīrniryāti vāṇī viśati śāśvatī ||

634.1६३४.१

भवेत्पुंरूपवाग्देवी सर्वशास्त्रार्थवेदिनी । (६३४।१)

bhavetpuṃrūpavāgdevī sarvaśāstrārthavedinī |

634.2६३४.२

वेदवेदान्तविद्धीमाञ्जीवेत् पञ्चशताब्दकम् ॥ (६३४।२)

vedavedāntaviddhīmāñjīvet pañcaśatābdakam ||

Data courtesy of The Digital Corpus of Sanskrit.

ĀK, 1, 15

Word analysis

Select a line of the text

Each word appears with its dictionary form and grammar. Select a word to read its meanings in the DCS, Apte and Monier-Williams dictionaries.

j k next and previous line · ← → chapters

Analysis: Digital Corpus of Sanskrit