ĀK, 2, 8
Select a line for its word-by-word analysis.
रुब्य्:: स्य्नोन्य्म्स्माणिक्यं शोणरत्नं च रत्नराट् रविरत्नकम् । (४।१)
ruby:: synonymsmāṇikyaṃ śoṇaratnaṃ ca ratnarāṭ raviratnakam |
सौगन्धिकं लोहितकं कुरुविन्दं शरेन्दुकम् ॥ (५।२)
saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam ||
नीलगन्धिकमाणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च । (६।१)
nīlagandhikamāṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca |
रुब्य्:: परीक्षा:: गोओद् क़ुअलित्य्कुशेशयदलच्छायं स्वच्छं स्निग्धं गुरु स्फुटम् ॥ (६।२)
ruby:: parīkṣā:: good qualitykuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ guru sphuṭam ||
वृत्तायतं समं गात्रं माणिक्यं श्रेष्ठम् उच्यते । (७।१)
vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭham ucyate |
धारणं सर्वदा कार्यं श्रेयःश्रीकीर्तिकाङ्क्षिणा । (८।१)
dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā |
माणिक्यभेदाःयत् सिंहलं कालपुरम् अन्ध्रं तुम्बुरुसंस्थितम् । (९।१)
māṇikyabhedāḥyat siṃhalaṃ kālapuram andhraṃ tumburusaṃsthitam |
क्षेत्रं चतुर्विधं तस्य माणिक्यस्य समुद्भवे ॥ (९।२)
kṣetraṃ caturvidhaṃ tasya māṇikyasya samudbhave ||
सिंहले तु भवेद्रक्तं पद्मरागम् अनुत्तमम् । (१०।१)
siṃhale tu bhavedraktaṃ padmarāgam anuttamam |
पीतं कालपुरोद्भूतं कुरुविन्दमिति स्मृतम् ॥ (१०।२)
pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam ||
अशोकपल्लवच्छायम् अन्ध्रं सौगन्धिकं प्रिये । (११।१)
aśokapallavacchāyam andhraṃ saugandhikaṃ priye |
तुम्बुरौ छायमानीलं नीलगन्धि च कीर्तितम् ॥ (११।२)
tumburau chāyamānīlaṃ nīlagandhi ca kīrtitam ||
मध्यमे मध्यमं ज्ञेयं माणिक्यं क्षेत्रभेदतः । (१२।१)
madhyame madhyamaṃ jñeyaṃ māṇikyaṃ kṣetrabhedataḥ |
माणिक्यस्य गुणाः प्रोक्ताश्चत्वारो मुनिपुङ्गवैः ॥ (१२।२)
māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ ||
स्निग्धच्छाया गुरुत्वं च नैर्मल्यम् अतिरक्तता । (१३।१)
snigdhacchāyā gurutvaṃ ca nairmalyam atiraktatā |
माणिक्यगुणाःमाणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ॥ (१३।२)
māṇikyaguṇāḥmāṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt ||
माणिक्यं च महापुण्यं महाभाग्यकरं परम् ॥ (१४।२)
māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param ||
मुक्तामुक्ता सौम्या मौक्तिकं शौक्तिकेयं तारं तारा शौक्तिकं तारका च । (१५।२)
muktāmuktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca |
अम्भःसारं शीतलं नीरजं च नक्षत्रं स्याद् इन्दुरत्नं वलक्षम् ॥ (१५।३)
ambhaḥsāraṃ śītalaṃ nīrajaṃ ca nakṣatraṃ syād induratnaṃ valakṣam ||
मुक्ताफलं बिन्दुफलं च मुक्ता शौक्तेयकं शुक्तिमणिः शशिप्रियम् । (१६।१)
muktāphalaṃ binduphalaṃ ca muktā śaukteyakaṃ śuktimaṇiḥ śaśipriyam |
स्वच्छं हिमं हैमवतं च शुभ्रं सुधांशुरत्नं च भसंख्यकाह्वम् ॥ (१६।२)
svacchaṃ himaṃ haimavataṃ ca śubhraṃ sudhāṃśuratnaṃ ca bhasaṃkhyakāhvam ||
पेअर्ल्:: ओरिगिन्मातङ्गोरगमीनपोत्रिशिरसस्त्वक्सारशङ्खाम्बुभृच्छुक्तीनाम् उदराच्च मौक्तिकमणिः स्पष्टं भवेदष्टधा । (१७।१)
pearl:: originmātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā |
छायाः पाटलनीलपीतधवलास्तत्रापि सामान्यतः सप्तानां बहुशो न लब्धिर् इतरच्छौक्तेयकं तूल्वणम् ॥ (१७।२)
chāyāḥ pāṭalanīlapītadhavalāstatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam ||
पेअर्ल्:: परीक्षा:: गोओद् क़ुअलित्य्नक्षत्राभं शुद्धमत्यन्तमुक्तं स्निग्धं स्थूलं निर्मलं निर्व्रणं च । (१८।१)
pearl:: parīkṣā:: good qualitynakṣatrābhaṃ śuddhamatyantamuktaṃ snigdhaṃ sthūlaṃ nirmalaṃ nirvraṇaṃ ca |
यस्तं धत्ते गौरवं यत्तुलायां तन्निर्मौल्यं मौक्तिकं सौख्यदायि ॥ (१८।२)
yastaṃ dhatte gauravaṃ yattulāyāṃ tannirmaulyaṃ mauktikaṃ saukhyadāyi ||
पेअर्ल्:: मेदिच्। प्रोपेर्तिएस्मौक्तिकं च मधुरं सुशीतलं दृष्टिरोगशमनं विषापहम् । (१९।१)
pearl:: medic. propertiesmauktikaṃ ca madhuraṃ suśītalaṃ dṛṣṭirogaśamanaṃ viṣāpaham |
राजयक्षपरिकोपनाशनं क्षीणवीर्यबलपुष्टिवर्धकम् ॥ (१९।२)
rājayakṣaparikopanāśanaṃ kṣīṇavīryabalapuṣṭivardhakam ||
मौक्तिकं शिशिरं स्निग्धं विशदं कान्तिवर्धनम् ॥ (२०।०)
mauktikaṃ śiśiraṃ snigdhaṃ viśadaṃ kāntivardhanam ||
दाहतृड्भ्रममूर्च्छासृक्पित्तज्वरविषापहम् । (२१।१)
dāhatṛḍbhramamūrcchāsṛkpittajvaraviṣāpaham |
चक्षुष्यं पवनास्रपित्तविषजित् सर्वेन्द्रियाह्लादनं तृड्दाहज्वरशोकमोहशमनं शीतं श्रमघ्नं हितम् । (२१।२)
cakṣuṣyaṃ pavanāsrapittaviṣajit sarvendriyāhlādanaṃ tṛḍdāhajvaraśokamohaśamanaṃ śītaṃ śramaghnaṃ hitam |
धन्यं मङ्गलमायुषः स्थितिकरं सौभाग्यकान्तिप्रदं मुक्ता हारविभूषणं तद् अखिलं मूलं शशी प्रीयते ॥ (२१।३)
dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate ||
चोरल्:: स्य्नोन्य्म्स्प्रवालोऽङ्गारकमणिर्विद्रुमो ऽम्भोधिपल्लवः ॥ (२२।०)
coral:: synonymspravālo'ṅgārakamaṇirvidrumo 'mbhodhipallavaḥ ||
भौमरत्नं च रक्ताङ्गो रक्ताङ्कुरलतामणिः । (२३।१)
bhaumaratnaṃ ca raktāṅgo raktāṅkuralatāmaṇiḥ |
चोरल्:: प्लचे ओड़् ओरिगिन्सेतौ सागरमध्ये या जायते वल्लरी शुभा ॥ (२३।२)
coral:: place of originsetau sāgaramadhye yā jāyate vallarī śubhā ||
विद्रुमाख्या सुरक्ता सा दुर्लभा दीप्तरूपिणी । (२४।१)
vidrumākhyā suraktā sā durlabhā dīptarūpiṇī |
चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्पाषाणत्वं भजत्येषा पाकतः कठिना सती ॥ (२४।२)
coral:: parīkṣā:: good qualitypāṣāṇatvaṃ bhajatyeṣā pākataḥ kaṭhinā satī ||
प्रवालनाम तद्रक्तं वर्णसौभाग्यकान्तिदम् । (२५।१)
pravālanāma tadraktaṃ varṇasaubhāgyakāntidam |
सिद्धं स्वच्छं स्निग्धरूपं वृत्तं कान्तं समं गुरु ॥ (२५।२)
siddhaṃ svacchaṃ snigdharūpaṃ vṛttaṃ kāntaṃ samaṃ guru ||
रङ्गगात्रं दृढं पिण्डं प्रवालं श्रेष्ठमुच्यते । (२६।१)
raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate |
चोरल्:: परीक्षा:: बद् क़ुअलित्य्शारदाभं दलं सूक्ष्मं वक्रं रूक्षं सकोटरम् ॥ (२७।२)
coral:: parīkṣā:: bad qualityśāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram ||
विद्धं कृष्णं लघुतमं प्रवालं दोषकृद् भवेत् । (२८।१)
viddhaṃ kṛṣṇaṃ laghutamaṃ pravālaṃ doṣakṛd bhavet |
गौररङ्गं जलाक्रान्तं प्रवालमशुभं त्यजेत् ॥ (२८।२)
gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet ||
चोरल्:: परीक्षा:: गोओद् क़ुअलित्य्प्रवालं कोमलं स्निग्धं सुरागं विद्रुमं हितम् । (२९।१)
coral:: parīkṣā:: good qualitypravālaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hitam |
चोरल्:: मेदिच्। प्रोपेर्तिएस्प्रवालो मधुराम्लश्च कफपित्तादिदोषनुत् । (३०।१)
coral:: medic. propertiespravālo madhurāmlaśca kaphapittādidoṣanut |
वीर्यकान्तिकरः स्त्रीणां धृतो मङ्गलदायकः ॥ (३०।२)
vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ ||
मरकतमरकतं रौहिणेयं गारुत्मन्तं हरिन्मणिः । (३१।१)
marakatamarakataṃ rauhiṇeyaṃ gārutmantaṃ harinmaṇiḥ |
सौपर्णं गरुडोद्गीर्णं बुधरत्नाश्मगर्भजे ॥ (३१।२)
sauparṇaṃ garuḍodgīrṇaṃ budharatnāśmagarbhaje ||
दोषाः सप्तविधास्तस्य गुणाः पञ्चविधाः स्मृताः । (३४।१)
doṣāḥ saptavidhāstasya guṇāḥ pañcavidhāḥ smṛtāḥ |
अस्निग्धं रूक्षमित्युक्तं विस्फोटं पिटकं तथा । (३५।१)
asnigdhaṃ rūkṣamityuktaṃ visphoṭaṃ piṭakaṃ tathā |
जठरं कान्तिहीनं च विच्छायं मलिनं तथा ॥ (३५।२)
jaṭharaṃ kāntihīnaṃ ca vicchāyaṃ malinaṃ tathā ||
निर्मलं कथितं स्वच्छं गुरु स्याद् गुरुदायुतम् । (३७।१)
nirmalaṃ kathitaṃ svacchaṃ guru syād gurudāyutam |
स्निग्धं रूक्षं विनिर्मुक्तम् अरजस्कम् अरेणुकम् ॥ (३७।२)
snigdhaṃ rūkṣaṃ vinirmuktam arajaskam areṇukam ||
स्निग्धं मरकतं स्वच्छं सर्वदोषहरं शुभम् । (४०।१)
snigdhaṃ marakataṃ svacchaṃ sarvadoṣaharaṃ śubham |
कान्तिसौभाग्यदं मेध्यं भूतग्रहविषापहम् ॥ (४०।२)
kāntisaubhāgyadaṃ medhyaṃ bhūtagrahaviṣāpaham ||
पुष्पराग:: स्य्नोन्य्म्स्पीतस्तु पुष्परागः पीतस्फुटिकं च पीतरत्नं च । (४१।१)
puṣparāga:: synonymspītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca |
पुष्पराग:: परीक्षा:: त्रुएईषत् पीतं पविच्छायं स्वच्छं कान्त्या मनोहरम् । (४२।१)
puṣparāga:: parīkṣā:: trueīṣat pītaṃ pavicchāyaṃ svacchaṃ kāntyā manoharam |
पुष्यराग इति ख्यातं रत्नं रत्नपरीक्षकैः ॥ (४२।२)
puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ ||
पुष्पराग:: परीक्षा:: गोओद् क़ुअलित्य्हेमच्छायं शिरोवृत्तं ज्योतिरङ्गारनिर्मलम् । (४३।१)
puṣparāga:: parīkṣā:: good qualityhemacchāyaṃ śirovṛttaṃ jyotiraṅgāranirmalam |
पीतगात्रं गुरु स्निग्धं पुष्यरागं प्रशस्यते ॥ (४३।२)
pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate ||
पुष्पराग:: परीक्षा:: बद् क़ुअलित्य्रूक्षं क्षतलघु श्वेतं कृष्णं गौरं सशर्करम् । (४४।१)
puṣparāga:: parīkṣā:: bad qualityrūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram |
मलिनं बिन्दुमद्रत्नं पुष्यरागं न शस्यते ॥ (४४।२)
malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate ||
पुष्पराग:: मेदिच्। प्रोपेर्तिएस्पुष्यरागोऽम्लशीतश्च वातजिद्दीपनः परम् । (४५।१)
puṣparāga:: medic. propertiespuṣyarāgo'mlaśītaśca vātajiddīpanaḥ param |
आयुः श्रियं च प्रज्ञां च धारणात्कुरुते नृणाम् ॥ (४५।२)
āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām ||
पुष्यरागं शुभं मेध्यं वस्तुसौभाग्यकीर्तिदम् । (४६।१)
puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam |
वाक्पटुत्वकरं हृद्यं विषघ्नं दोषजित्परम् ॥ (४६।२)
vākpaṭutvakaraṃ hṛdyaṃ viṣaghnaṃ doṣajitparam ||
वज्रवज्रमिन्द्रायुधं वीरं भिदुरं कुलिशं पविः । (४७।१)
vajravajramindrāyudhaṃ vīraṃ bhiduraṃ kuliśaṃ paviḥ |
अभेद्यम् असिरं रत्नं दृढं भार्गवकं स्मृतम् ॥ (४७।२)
abhedyam asiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam ||
वज्र:: परीक्षा:: गोओद् क़ुअलित्य्स्वच्छं विद्युत्प्रभं स्निग्धं सुन्दरं लघु लेखनम् । (४८।१)
vajra:: parīkṣā:: good qualitysvacchaṃ vidyutprabhaṃ snigdhaṃ sundaraṃ laghu lekhanam |
षडारं तीक्ष्णधारं च सुसौम्यारं श्रियं दिशेत् ॥ (४८।२)
ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet ||
वज्राकरा वज्रभेदाश्चपौण्ड्रमतङ्गहिमाचलसौराष्ट्रसुपारकोसलकलिङ्गाः । (४९।१)
vajrākarā vajrabhedāścapauṇḍramataṅgahimācalasaurāṣṭrasupārakosalakaliṅgāḥ |
पेण्णानदीतटश् चेत्यष्टौ वज्राकरा विनिर्दिष्टाः ॥ (४९।२)
peṇṇānadītaṭaś cetyaṣṭau vajrākarā vinirdiṣṭāḥ ||
श्यामं प्रपौण्ड्रप्रभवं किंचित् पीतं मतङ्गगिरिजातम् । (५०।१)
śyāmaṃ prapauṇḍraprabhavaṃ kiṃcit pītaṃ mataṅgagirijātam |
हिमवत्सुराष्ट्रसंभवम् आताम्रं कृष्णकान्ति सौपारम् ॥ (५०।२)
himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram ||
फुल्लशिरीषच्छायं कोसलजं कनककान्ति कालिङ्गम् । (५१।१)
phullaśirīṣacchāyaṃ kosalajaṃ kanakakānti kāliṅgam |
पेण्णानदीतटोद्भवम् आहुर् वज्रं सुधांशुनिभम् ॥ (५१।२)
peṇṇānadītaṭodbhavam āhur vajraṃ sudhāṃśunibham ||
आकरेष्वेव वज्राणां खनिः स्रोतः प्रकीर्णकम् ॥ (५३।२)
ākareṣveva vajrāṇāṃ khaniḥ srotaḥ prakīrṇakam ||
समुत्पत्तिस्थलं त्रेधा निर्दिष्टं सुरनायिके । (५४।१)
samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike |
कोट्यः पार्श्वानि धाराश्च षडष्टौ द्वादशैव च ॥ (५४।२)
koṭyaḥ pārśvāni dhārāśca ṣaḍaṣṭau dvādaśaiva ca ||
इत्यच्छतीक्ष्णधाराग्रा वज्रस्याहुरथो गुणान् । (५५।१)
ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān |
वज्र:: ५ दोषस्मलो बिन्दुश्च रेखा च त्रासः काकपदं तथा ॥ (५५।२)
vajra:: 5 doṣasmalo binduśca rekhā ca trāsaḥ kākapadaṃ tathā ||
एते दोषाः समाख्याताः पञ्च वज्रेषु संस्थिताः । (५६।१)
ete doṣāḥ samākhyātāḥ pañca vajreṣu saṃsthitāḥ |
कुर्यादशोधितं वज्रं कुष्ठदाहाङ्गगौरवम् ॥ (५६।२)
kuryādaśodhitaṃ vajraṃ kuṣṭhadāhāṅgagauravam ||
हृत्पार्श्वपीडां पाण्डुं च ततस्तच्छुद्धिरुच्यते । (५७।१)
hṛtpārśvapīḍāṃ pāṇḍuṃ ca tatastacchuddhirucyate |
वज्रशुद्धिगृहीत्वाथ शुभ्रं वज्रं व्याघ्रीकन्दोदरे क्षिपेत् ॥ (५७।२)
vajraśuddhigṛhītvātha śubhraṃ vajraṃ vyāghrīkandodare kṣipet ||
एवं पुनः पुनः पक्वं सप्तरात्राद्विशुध्यति । (५९।१)
evaṃ punaḥ punaḥ pakvaṃ saptarātrādviśudhyati |
जम्बीरे कुलिशं क्षिप्त्वा हयमूत्रैस्त्र्यहं पचेत् । (६१।१)
jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet |
डोलायन्त्रविधानेन ततः शुद्धिमवाप्नुयात् ॥ (६१।२)
ḍolāyantravidhānena tataḥ śuddhimavāpnuyāt ||
कुलुत्थकोद्रवक्वाथैर्डोलायन्त्रे विपाचयेत् । (६२।१)
kulutthakodravakvāthairḍolāyantre vipācayet |
व्याघ्रीकन्दगतं वज्रं सप्ताहाच्छुद्धिमाप्नुयात् ॥ (६२।२)
vyāghrīkandagataṃ vajraṃ saptāhācchuddhimāpnuyāt ||
कुलत्थकोद्रवक्वाथं हयमूत्रं स्नुहीपयः । (६३।१)
kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ |
क्षिप्त्वा भाण्डे पचेत्तस्मिन् व्याघ्रीकन्दगतं पविम् ॥ (६३।२)
kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim ||
डोलायन्त्रे दिवारात्रं समुद्धृत्य पुनः क्षिपेत् । (६४।१)
ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet |
वज्रकन्दे मृदा कन्दं लिप्त्वा गजपुटे पचेत् ॥ (६४।२)
vajrakande mṛdā kandaṃ liptvā gajapuṭe pacet ||
तत्पक्वं पाचनद्रावैः सेचितं शुद्धिमाप्नुयात् । (६५।१)
tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt |
व्याघ्रीकन्दगतं वज्रं मृदा लिप्तं पुटे पचेत् ॥ (६५।२)
vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet ||
वज्रीक्षीरेण वा सिञ्च्यादेवं शुद्धं तु मारयेत् ॥ (६६।२)
vajrīkṣīreṇa vā siñcyādevaṃ śuddhaṃ tu mārayet ||
विप्रजातीयवज्रमारणम्वक्ष्यते विप्रजात्यादेः शुद्धवज्रस्य मारणम् । (६७।१)
viprajātīyavajramāraṇamvakṣyate viprajātyādeḥ śuddhavajrasya māraṇam |
अश्वत्थबदरीभण्डीमाक्षिकं कर्कटास्थि च ॥ (६७।२)
aśvatthabadarībhaṇḍīmākṣikaṃ karkaṭāsthi ca ||
समं स्नुक्पयसा पिष्ट्वा मूषामध्ये प्रलेपयेत् । (६८।१)
samaṃ snukpayasā piṣṭvā mūṣāmadhye pralepayet |
तन्मध्ये प्रक्षिपेद्वज्रमौषधैस्तैस्ततः परम् ॥ (६८।२)
tanmadhye prakṣipedvajramauṣadhaistaistataḥ param ||
वज्रमाच्छाद्य यत्नेन ततो मूषां निरोधयेत् । (६९।१)
vajramācchādya yatnena tato mūṣāṃ nirodhayet |
अर्कदुग्धैः समं पिष्ट्वा तत्कृते गोलके क्षिपेत् । (७१।१)
arkadugdhaiḥ samaṃ piṣṭvā tatkṛte golake kṣipet |
वज्रं क्षत्रियजातीयं पूर्ववन्मारयेद् ध्रुवम् ॥ (७१।२)
vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam ||
वैश्यजातीयवज्रमारणम्सूरणं लशुनं शंखं शिलायां पेषयेत्समम् । (७२।१)
vaiśyajātīyavajramāraṇamsūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam |
बलामतिबलां गन्धं कच्छपास्थि च पेषयेत् ॥ (७२।२)
balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet ||
उत्तरावारुणीदुग्धैस्तत्कृते गोलके क्षिपेत् । (७३।१)
uttarāvāruṇīdugdhaistatkṛte golake kṣipet |
वज्रं तु वैश्यजातीयं पूर्ववत्तन्मृतं भवेत् ॥ (७३।२)
vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet ||
शूद्रजातीयवज्रमारणम्सूरणं लशुनं शङ्खं शिलां संपेषयेत्समम् । (७४।१)
śūdrajātīyavajramāraṇamsūraṇaṃ laśunaṃ śaṅkhaṃ śilāṃ saṃpeṣayetsamam |
वटक्षीरेण तत्कॢप्ते गोलके पूर्ववत्पचेत् ॥ (७४।२)
vaṭakṣīreṇa tatkḷpte golake pūrvavatpacet ||
वज्रं तच्छूद्रजातीयं तेन सम्यग्भवेन्मृतम् । (७५।१)
vajraṃ tacchūdrajātīyaṃ tena samyagbhavenmṛtam |
स्त्रीपुंवज्रं तु पूर्वोक्तैर्म्रियते तत्तदौषधैः ॥ (७५।२)
strīpuṃvajraṃ tu pūrvoktairmriyate tattadauṣadhaiḥ ||
वज्रमारण (१)सामान्यः सर्ववज्राणां वक्ष्यते मारणक्रमः ॥ (७६।२)
vajramāraṇa (1)sāmānyaḥ sarvavajrāṇāṃ vakṣyate māraṇakramaḥ ||
शुद्धं वज्रं मत्कुणानां रक्तैर्लिप्त्वा धमेत्पुनः । (७७।१)
śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhametpunaḥ |
अग्निवर्णं क्षिपेन्मूत्रे गर्दभस्य पुनः पुनः ॥ (७७।२)
agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ ||
लेपितं ध्मापितं तद्वदेवं कुर्यात्त्रिसप्तधा । (७८।१)
lepitaṃ dhmāpitaṃ tadvadevaṃ kuryāttrisaptadhā |
तालकं मत्कुणैः पिष्ट्वा तस्मिन्गोले क्षिपेत्तु तम् ॥ (७८।२)
tālakaṃ matkuṇaiḥ piṣṭvā tasmingole kṣipettu tam ||
रुद्ध्वा मूषां धमेद्गाढं हयमूत्रे विनिक्षिपेत् । (७९।१)
ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet |
समुद्धृत्य पुनस्तद्वत्सप्तवारैर्मृतो भवेत् ॥ (७९।२)
samuddhṛtya punastadvatsaptavārairmṛto bhavet ||
वज्रमारण (२)मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु । (८०।१)
vajramāraṇa (2)meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu |
गन्धकं कान्तपाषाणं मुनिपुष्पं सतालकम् ॥ (८०।२)
gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam ||
त्रिक्षारं पञ्चलवणं मेषशृङ्गीन्द्रवारुणी । (८१।१)
trikṣāraṃ pañcalavaṇaṃ meṣaśṛṅgīndravāruṇī |
मूषकस्य मलं स्तन्यं स्नुह्यर्कक्षीरमत्कुणम् । (८२।१)
mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam |
पञ्चाङ्गं शरपुंखस्य ह्यस्थिनी खरमेषयोः ॥ (८२।२)
pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ ||
पुष्पाणि चैव वाकुच्याः पञ्चाङ्गं तिमिरस्य च ॥ (८३।२)
puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca ||
धात्रीवृक्षस्य पञ्चाङ्गं गोरम्भा वाजिमूत्रकम् । (८४।१)
dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam |
गोजिह्वा कर्कटं मांसं मूत्रवर्गं च मिश्रयेत् । (८५।१)
gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet |
एतत्समस्तं व्यस्तं वा यथालाभं सुपिण्डितम् ॥ (८५।२)
etatsamastaṃ vyastaṃ vā yathālābhaṃ supiṇḍitam ||
तत्पिण्डे निक्षिपेद्वज्रमन्धमूषागतं पुटेत् । (८६।१)
tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet |
कुलुत्थकोद्रवं पिष्ट्वा हयमूत्रे विलोलयेत् ॥ (८६।२)
kulutthakodravaṃ piṣṭvā hayamūtre vilolayet ||
तन्मध्ये सेचयेत्तप्तां मूषापुटविनिर्गताम् । (८७।१)
tanmadhye secayettaptāṃ mūṣāpuṭavinirgatām |
गोलके निक्षिपेद् रुद्ध्वा मूषां तीव्रानले धमेत् ॥ (८८।२)
golake nikṣiped ruddhvā mūṣāṃ tīvrānale dhamet ||
इत्येवं सप्तधा ध्मातं हयमूत्रे निषेचयेत् । (८९।१)
ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet |
तन्मृतं चूर्णयेत् खल्वे सिद्धयोग उदाहृतः । (९०।१)
tanmṛtaṃ cūrṇayet khalve siddhayoga udāhṛtaḥ |
वज्रमारण (३)भ्रामकं च मृतं ताप्यं पेटालीबीजटङ्कणम् ॥ (९०।२)
vajramāraṇa (3)bhrāmakaṃ ca mṛtaṃ tāpyaṃ peṭālībījaṭaṅkaṇam ||
क्षीरं चोत्तरवारुण्या गन्धकं तालकं शिला । (९१।१)
kṣīraṃ cottaravāruṇyā gandhakaṃ tālakaṃ śilā |
चिञ्चाबीजं मेषशृङ्गी स्त्रीपुष्पं चाम्लवेतसः ॥ (९१।२)
ciñcābījaṃ meṣaśṛṅgī strīpuṣpaṃ cāmlavetasaḥ ||
एतत्समस्तं व्यस्तं वा यथालाभं सुचूर्णयेत् ॥ (९२।२)
etatsamastaṃ vyastaṃ vā yathālābhaṃ sucūrṇayet ||
स्नुह्यर्कोत्तरवारुण्याः क्षीरैः स्तन्यैर्विमर्दयेत् । (९३।१)
snuhyarkottaravāruṇyāḥ kṣīraiḥ stanyairvimardayet |
तद्गोलके क्षिपेद् वज्रं रुद्ध्वा चैतान्धमेद्दृढम् ॥ (९३।२)
tadgolake kṣiped vajraṃ ruddhvā caitāndhameddṛḍham ||
गुडूची सैन्धवं हिङ्गु समुस्तोत्तरवारुणी । (९४।१)
guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī |
क्वाथैः कौलुत्थकैः पिष्ट्वा तस्मिन्क्वाथे विनिक्षिपेत् ॥ (९४।२)
kvāthaiḥ kaulutthakaiḥ piṣṭvā tasminkvāthe vinikṣipet ||
तं वज्रं पूर्ववद्गोले कृत्वा रुद्ध्वा धमेत्तथा । (९५।१)
taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā |
सेचयेदश्वमूत्रेण तद् वज्रं म्रियते ध्रुवम् ॥ (९६।२)
secayedaśvamūtreṇa tad vajraṃ mriyate dhruvam ||
वज्रमारण (४)त्रिवर्षीयोत्थकार्पासमूलमादाय पेषयेत् । (९७।१)
vajramāraṇa (4)trivarṣīyotthakārpāsamūlamādāya peṣayet |
त्रिवर्षनागवल्ल्या वा निजद्रावैः प्रपेषयेत् ॥ (९७।२)
trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet ||
तद्गोलके क्षिपेद्वज्रं रुद्ध्वा गजपुटे पचेत् । (९८।१)
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet |
एवं सप्तपुटैः पक्वमेकैकेन कृतं भवेत् ॥ (९८।२)
evaṃ saptapuṭaiḥ pakvamekaikena kṛtaṃ bhavet ||
वज्रमारण (५)तालकासीससौराष्ट्रीमपामार्गस्य भस्म च । (९९।१)
vajramāraṇa (5)tālakāsīsasaurāṣṭrīmapāmārgasya bhasma ca |
पिष्ट्वा कौलुत्थकैः क्वाथैस्तस्मिन्वज्रं सुतापितम् ॥ (९९।२)
piṣṭvā kaulutthakaiḥ kvāthaistasminvajraṃ sutāpitam ||
क्षिपेत्त्रिसप्तवाराणि म्रियते नात्र संशयः । (१००।१)
kṣipettrisaptavārāṇi mriyate nātra saṃśayaḥ |
वैक्रान्तभस्मना सार्धं पेषयेदम्लवेतसम् ॥ (१००।२)
vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam ||
तद्गोले निक्षिपेद्वज्रमन्धमूषागतं धमेत् । (१०१।१)
tadgole nikṣipedvajramandhamūṣāgataṃ dhamet |
सेचयेदश्वमूत्रेण पूर्वगोले पुनः क्षिपेत् ॥ (१०१।२)
secayedaśvamūtreṇa pūrvagole punaḥ kṣipet ||
रुद्ध्वा ध्मातः पुनः सेच्यमेवं कुर्यात् त्रिसप्तधा । (१०२।१)
ruddhvā dhmātaḥ punaḥ secyamevaṃ kuryāt trisaptadhā |
म्रियते नात्र सन्देहः सर्वयोगेषु योजयेत् ॥ (१०२।२)
mriyate nātra sandehaḥ sarvayogeṣu yojayet ||
वज्रमारण (७)उत्तरावारुणीक्षीरैः कान्तपाषाणजं मुखम् । (१०३।१)
vajramāraṇa (7)uttarāvāruṇīkṣīraiḥ kāntapāṣāṇajaṃ mukham |
क्षणं पिष्ट्वा तु तद्गोलं क्षिप्त्वा तस्मिन्पचेद्दिनम् ॥ (१०३।२)
kṣaṇaṃ piṣṭvā tu tadgolaṃ kṣiptvā tasminpaceddinam ||
नृतैले गन्धतैलेन म्रियते नात्र संशयः । (१०४।१)
nṛtaile gandhatailena mriyate nātra saṃśayaḥ |
वज्रमारण (८)भूनागं गन्धकं चाथ नारीस्तन्येन पेषयेत् ॥ (१०४।२)
vajramāraṇa (8)bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet ||
तद्गोलस्थं पचेद्वज्रं पूर्वतैले मृतं भवेत् । (१०५।१)
tadgolasthaṃ pacedvajraṃ pūrvataile mṛtaṃ bhavet |
वज्रमारण (९)स्नुहीक्षीरेण विमलां पिष्ट्वा तद्गोलके क्षिपेत् ॥ (१०५।२)
vajramāraṇa (9)snuhīkṣīreṇa vimalāṃ piṣṭvā tadgolake kṣipet ||
वज्रं निरुध्य मूषां तु शुष्कां तीव्राग्निना धमेत् । (१०६।१)
vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet |
क्षिप्तामश्वस्य मूत्रे तु क्षिप्त्वा वज्रं समाहरेत् ॥ (१०६।२)
kṣiptāmaśvasya mūtre tu kṣiptvā vajraṃ samāharet ||
इत्येवं सप्तधा कुर्यात्ततस्तालकमत्कुणैः । (१०७।१)
ityevaṃ saptadhā kuryāttatastālakamatkuṇaiḥ |
पिष्ट्वा गोलं क्षिपेत्तस्मिन्वज्रमूषां निरुध्य च ॥ (१०७।२)
piṣṭvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca ||
ध्मापितं पूर्ववत्सेच्यं सप्तवारैर्मृतं भवेत् । (१०८।१)
dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet |
वज्रमारण (१०)वज्रं मत्कुणरक्तेन लिप्त्वा लिप्त्वातपे क्षिपेत् ॥ (१०८।२)
vajramāraṇa (10)vajraṃ matkuṇaraktena liptvā liptvātape kṣipet ||
शुष्कं लेप्यं पुनः शोष्यं यावत्सप्तदिनावधि । (१०९।१)
śuṣkaṃ lepyaṃ punaḥ śoṣyaṃ yāvatsaptadināvadhi |
विष्णुक्रान्तापेटकार्योर् द्रवैः सिञ्चेत्पुनः पुनः ॥ (१०९।२)
viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ ||
तप्तं तप्तं च तद्वज्रं शतवारैर्मृतं भवेत् । (११०।१)
taptaṃ taptaṃ ca tadvajraṃ śatavārairmṛtaṃ bhavet |
वज्रमारण (११)गन्धकं चूर्णितं भाव्यं स्त्रीपुष्पेण तु सप्तधा ॥ (११०।२)
vajramāraṇa (11)gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā ||
पुनः स्त्रीरजसालोड्यं तस्मिन् वज्रं सुतापितम् । (१११।१)
punaḥ strīrajasāloḍyaṃ tasmin vajraṃ sutāpitam |
सेचयेत्तापयेदेकविंशद्वारान्मृतं भवेत् ॥ (१११।२)
secayettāpayedekaviṃśadvārānmṛtaṃ bhavet ||
वज्रमारण (१२)वज्रं नदीमहाशुक्तौ क्षिप्त्वा भाव्यं मुहुर्मुहुः । (११२।१)
vajramāraṇa (12)vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ |
स्नुह्यर्कोत्तमकन्यानां द्रवेणैकेन चातपे ॥ (११२।२)
snuhyarkottamakanyānāṃ draveṇaikena cātape ||
भूनागस्य मृदा सम्यग्धृतं भस्मत्वमाप्नुयात् ॥ (११३।२)
bhūnāgasya mṛdā samyagdhṛtaṃ bhasmatvamāpnuyāt ||
वज्रमारण (१३)रक्तमूलस्य मूलैश्च मेघनादस्य कुड्मलैः । (११४।१)
vajramāraṇa (13)raktamūlasya mūlaiśca meghanādasya kuḍmalaiḥ |
पेषितैर्वेष्टितं ध्मातं वज्रं भस्म भवत्यलम् ॥ (११४।२)
peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam ||
वज्रमारण (१४)मातुलुङ्गगतं वज्रं रुद्ध्वा लिम्पेन्मृदा बहिः । (११५।१)
vajramāraṇa (14)mātuluṅgagataṃ vajraṃ ruddhvā limpenmṛdā bahiḥ |
पुटे पचेत्समुद्धृत्य तद्वच्छतपुटे पचेत् ॥ (११५।२)
puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet ||
वज्रमृदूकरण (१)नागपर्णीद्रवैर्लिप्तं तत्पत्रेणैव वेष्टितम् । (११६।१)
vajramṛdūkaraṇa (1)nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam |
जानुमध्ये स्थितं यामं तद् वज्रं मृदुतां व्रजेत् ॥ (११६।२)
jānumadhye sthitaṃ yāmaṃ tad vajraṃ mṛdutāṃ vrajet ||
वज्रमृदूकरण (२)मातृवाहकबीजस्य मध्ये वज्रं विनिक्षिपेत् । (११७।१)
vajramṛdūkaraṇa (2)mātṛvāhakabījasya madhye vajraṃ vinikṣipet |
जम्बीरोदरगं वाथ दोलायन्त्रे दिनं पचेत् ॥ (११७।२)
jambīrodaragaṃ vātha dolāyantre dinaṃ pacet ||
कुलुत्थकोद्रवक्वाथे त्रैफले वा कषायके । (११८।१)
kulutthakodravakvāthe traiphale vā kaṣāyake |
अहोरात्रात्समुद्धृत्य जम्बीरान्तः पुनः क्षिपेत् ॥ (११८।२)
ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet ||
मातृवाहकबीजे वा पचेत्प्रक्षिप्य पूर्ववत् । (११९।१)
mātṛvāhakabīje vā pacetprakṣipya pūrvavat |
पुनः क्षेप्यं पुनः पाच्यं त्रिदिनान्ते समुद्धरेत् ॥ (११९।२)
punaḥ kṣepyaṃ punaḥ pācyaṃ tridinānte samuddharet ||
पिष्ट्वा तद्गोलके वज्रं पूर्वपक्वं विनिक्षिपेत् ॥ (१२०।२)
piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet ||
अश्वत्थपत्रके वेष्ट्य तद्गोलं जानुमध्यगम् । (१२१।१)
aśvatthapatrake veṣṭya tadgolaṃ jānumadhyagam |
दिनं वा धारयेत्कक्षे मृदुर्भवति निश्चितम् ॥ (१२१।२)
dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam ||
वज्रमृदूकरण (३)पारदं तीक्ष्णचूर्णं च दिनमम्लेन मर्दयेत् । (१२२।१)
vajramṛdūkaraṇa (3)pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet |
तद्गोले निक्षिपेद्वज्रं सूत्रेणावेष्टयेद्बहिः ॥ (१२२।२)
tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ ||
नागवल्लीदलैश्चैव वेष्टितं धान्यराशिगम् । (१२३।१)
nāgavallīdalaiścaiva veṣṭitaṃ dhānyarāśigam |
मासान्ते तत्समुद्धृत्य लिम्पेन्नागलताद्रवैः ॥ (१२३।२)
māsānte tatsamuddhṛtya limpennāgalatādravaiḥ ||
तद्दलैर्वेष्टितं जानुमध्यस्थं मृदुतां व्रजेत् । (१२४।१)
taddalairveṣṭitaṃ jānumadhyasthaṃ mṛdutāṃ vrajet |
वज्रमृदूकरण (४)कान्तपाषाणवक्त्रं वा चूर्णं वा कान्तलोहजम् ॥ (१२४।२)
vajramṛdūkaraṇa (4)kāntapāṣāṇavaktraṃ vā cūrṇaṃ vā kāntalohajam ||
तद्गोले निक्षिपेद्वज्रं निम्बकार्पासकोद्रवैः ॥ (१२५।२)
tadgole nikṣipedvajraṃ nimbakārpāsakodravaiḥ ||
पत्रैः पिष्टैः सुसंपेष्य नागवल्लीदलैस्ततः । (१२६।१)
patraiḥ piṣṭaiḥ susaṃpeṣya nāgavallīdalaistataḥ |
वेष्टितं जानुमध्यस्थं दिनान्ते मृदुतां व्रजेत् ॥ (१२६।२)
veṣṭitaṃ jānumadhyasthaṃ dinānte mṛdutāṃ vrajet ||
वज्रमृदूकरण (५)एरण्डवृक्षमध्ये तु तत्फले वा क्षिपेत्पविम् । (१२७।१)
vajramṛdūkaraṇa (5)eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim |
मासमात्रात्समुद्धृत्य जानुमध्ये च पूर्ववत् ॥ (१२७।२)
māsamātrātsamuddhṛtya jānumadhye ca pūrvavat ||
कोमलं जायते वज्रं दिनान्ते नात्र संशयः । (१२८।१)
komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ |
वज्रमृदूकरण (६)वज्रं तित्तिरिमांसेन वेष्टितं निक्षिपेन्मुखे ॥ (१२८।२)
vajramṛdūkaraṇa (6)vajraṃ tittirimāṃsena veṣṭitaṃ nikṣipenmukhe ||
अतिस्थूलस्य भेकस्य मुखं सूत्रेण वेष्टयेत् । (१२९।१)
atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet |
निखनेद्धस्तमात्रायां क्षोण्यां मासात्समुद्धरेत् ॥ (१२९।२)
nikhaneddhastamātrāyāṃ kṣoṇyāṃ māsātsamuddharet ||
मण्डूकं सम्पुटे रुद्ध्वा सम्यग्गजपुटे पचेत् । (१३०।१)
maṇḍūkaṃ sampuṭe ruddhvā samyaggajapuṭe pacet |
तद्वज्रं पूर्वगोलस्थं जानुमध्यगतं दिनम् ॥ (१३०।२)
tadvajraṃ pūrvagolasthaṃ jānumadhyagataṃ dinam ||
भवेद्वज्रौदनं साक्षात्पश्चादाहार्य योजयेत् । (१३१।१)
bhavedvajraudanaṃ sākṣātpaścādāhārya yojayet |
सर्ववज्रौदनानां तु मारणं पूर्ववद्भवेत् ॥ (१३१।२)
sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet ||
वज्रद्रुतिक्षारत्रयं रामठं च चणकाम्लाम्लवेतसम् । (१३२।१)
vajradrutikṣāratrayaṃ rāmaṭhaṃ ca caṇakāmlāmlavetasam |
ज्वालामुखीं चेक्षुरकं स्थलकुम्भीफलानि च ॥ (१३२।२)
jvālāmukhīṃ cekṣurakaṃ sthalakumbhīphalāni ca ||
स्नुह्यर्कपयसा श्लक्ष्णं पिष्ट्वा तद्गोलके क्षिपेत् । (१३३।१)
snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolake kṣipet |
वज्रं विशोधितं सम्यग्वस्त्रे बद्ध्वा हठात्पचेत् ॥ (१३३।२)
vajraṃ viśodhitaṃ samyagvastre baddhvā haṭhātpacet ||
डोलायन्त्रेण धान्याम्ले द्रुतं मासाष्टकाद्भवेत् । (१३४।१)
ḍolāyantreṇa dhānyāmle drutaṃ māsāṣṭakādbhavet |
वज्रवल्ल्यन्तरस्थं वा कृत्वा वज्रं निरोधितम् ॥ (१३४।२)
vajravallyantarasthaṃ vā kṛtvā vajraṃ nirodhitam ||
अम्लभाण्डगतं सेच्यं सप्ताहाद् द्रवतां व्रजेत् । (१३५।१)
amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet |
भस्मौदनं द्रुतिश्चेति त्रिविधं वज्रमारणम् ॥ (१३५।२)
bhasmaudanaṃ drutiśceti trividhaṃ vajramāraṇam ||
रसबन्धकरं प्रोक्तं नागार्जुनपुरःसरैः । (१३६।१)
rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ |
वज्रगुणाःवज्रं च षड्रसोपेतं सर्वरोगापहारकम् ॥ (१३६।२)
vajraguṇāḥvajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam ||
सर्वाघशमनं सौख्यं देहदार्ढ्यं रसायनम् । (१३७।१)
sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam |
वज्रं रत्नोत्तमं पुण्यं श्रीसौभाग्यविवर्धनम् ॥ (१३७।२)
vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam ||
आयुष्यं धन्यमोजस्यं यशस्यं सर्वपाप्मजित् । (१३८।१)
āyuṣyaṃ dhanyamojasyaṃ yaśasyaṃ sarvapāpmajit |
आयुर्बलं देहसौख्यं रूपं कान्तिं करोति च ॥ (१३८।२)
āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca ||
सेवितं हन्ति रोगांश्च मृतं वज्रं न संशयः । (१३९।१)
sevitaṃ hanti rogāṃśca mṛtaṃ vajraṃ na saṃśayaḥ |
नीलनीलस्तु सौरिरत्नं स्यान्नीलाश्मा नीलरत्नकः ॥ (१३९।२)
nīlanīlastu sauriratnaṃ syānnīlāśmā nīlaratnakaḥ ||
इन्द्रनीलमणिस्तत्र चतुर्धा जातिभेदतः ॥ (१४०।२)
indranīlamaṇistatra caturdhā jātibhedataḥ ||
सप्फिरे:: सुब्त्य्पेस्:: चस्तेसितच्छायो भवेद्विप्रो रक्तः क्षत्रियजातिकः । (१४१।१)
sapphire:: subtypes:: castesitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ |
पीतस्तु वैश्यजातिर्यो वृषलः कृष्णदीधितिः ॥ (१४१।२)
pītastu vaiśyajātiryo vṛṣalaḥ kṛṣṇadīdhitiḥ ||
नीलस्य गुणदोषाःनीलीरससमाभासा वैष्णवीपुष्पसंनिभा । (१४२।१)
nīlasya guṇadoṣāḥnīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā |
मयूरकण्ठसच्छाया शम्भोः कण्ठनिभा तथा । (१४४।१)
mayūrakaṇṭhasacchāyā śambhoḥ kaṇṭhanibhā tathā |
गुरुत्वं स्निग्धकान्तित्वं सुरागं पार्श्वरञ्जनम् ॥ (१४५।२)
gurutvaṃ snigdhakāntitvaṃ surāgaṃ pārśvarañjanam ||
तृणग्राहित्वमित्येते गुणाः पञ्च प्रकीर्तिताः । (१४६।१)
tṛṇagrāhitvamityete guṇāḥ pañca prakīrtitāḥ |
न विम्लो निर्मलो गात्रो मसृणो गुरुदीप्तिकः ॥ (१४६।२)
na vimlo nirmalo gātro masṛṇo gurudīptikaḥ ||
तृणग्राही मृदुर्नीलो दुर्लभो लक्षणान्वितः । (१४७।१)
tṛṇagrāhī mṛdurnīlo durlabho lakṣaṇānvitaḥ |
इन्द्रनीलं शुभं वर्ण्यं सर्वपापनिबर्हणम् ॥ (१४७।२)
indranīlaṃ śubhaṃ varṇyaṃ sarvapāpanibarhaṇam ||
आयुर्यशो बलं लक्ष्मीमारोग्यं च प्रयच्छति । (१४८।१)
āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati |
यो दधाति शरीरेऽस्य सौरिर् मङ्गलदो भवेत् । (१४९।१)
yo dadhāti śarīre'sya saurir maṅgalado bhavet |
गोमेदकगोमेदकस्तु गोमेदो राहुरत्नं तमोमणिः ॥ (१४९।२)
gomedakagomedakastu gomedo rāhuratnaṃ tamomaṇiḥ ||
स्वर्भानवः षडाह्वोऽयं पिङ्गस्फटिक इत्यपि । (१५०।१)
svarbhānavaḥ ṣaḍāhvo'yaṃ piṅgasphaṭika ityapi |
गोमूत्राभं यन्मृदु स्निग्धमुष्णं शुद्धच्छायं गौरवं यच्च धत्ते । (१५०।२)
gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte |
हेमारक्तं श्रीमतां योग्यमेतत् गोमेदाख्यं रत्नम् आख्याति सन्तः ॥ (१५०।३)
hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyāti santaḥ ||
मधुबिन्दुसमच्छायं गोमूत्राज्यसमप्रभम् ॥ (१५१।०)
madhubindusamacchāyaṃ gomūtrājyasamaprabham ||
हेमरक्तं गुरु स्वच्छं स्निग्धं गोमेदकं शुभम् । (१५२।१)
hemaraktaṃ guru svacchaṃ snigdhaṃ gomedakaṃ śubham |
श्वेतं कृष्णं रङ्गहीनं त्रासरेखादिदूषितम् ॥ (१५२।२)
śvetaṃ kṛṣṇaṃ raṅgahīnaṃ trāsarekhādidūṣitam ||
कर्कशं पाटलाकारं दुष्टं गोमेदकं त्यजेत् । (१५३।१)
karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet |
गोमेदगुणाःमेध्यं गोमेदकं रत्नं यशस्यं श्रीविवर्धनम् ॥ (१५३।२)
gomedaguṇāḥmedhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam ||
मङ्गल्यं कान्तिजननं स्निग्धं सर्वविषापहम् । (१५४।१)
maṅgalyaṃ kāntijananaṃ snigdhaṃ sarvaviṣāpaham |
वैडूर्यवैडूर्यं केतुरत्नं च खशब्दाङ्कुरजं तथा ॥ (१५५।२)
vaiḍūryavaiḍūryaṃ keturatnaṃ ca khaśabdāṅkurajaṃ tathā ||
विडूरभूमिजं रत्नं प्रावृष्यं पञ्चनाम च । (१५६।१)
viḍūrabhūmijaṃ ratnaṃ prāvṛṣyaṃ pañcanāma ca |
कल्पान्तकालक्षुभिताम्बुराशिनिदाहकल्पाद् दितिजेन्द्रनादात् । (१५६।२)
kalpāntakālakṣubhitāmburāśinidāhakalpād ditijendranādāt |
वैडूर्यमुत्पन्नमनेकवर्णं शोभाभिरामद्युतिरत्नवर्यम् ॥ (१५६।३)
vaiḍūryamutpannamanekavarṇaṃ śobhābhirāmadyutiratnavaryam ||
कोङ्कचोलकसीमान्ते मणेस्तस्याकरः स्मृतः । (१५८।१)
koṅkacolakasīmānte maṇestasyākaraḥ smṛtaḥ |
तत्र दैत्येन्द्रनिनदं प्रति मेघसुगर्जितैः ॥ (१५८।२)
tatra daityendraninadaṃ prati meghasugarjitaiḥ ||
सिताभ्रधूमसङ्काशमीषत्कृष्णं सितं तु यत् ॥ (१५९।२)
sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat ||
वैडूर्यं नाम तत्प्रोक्तं रत्नवर्णपरीक्षकैः । (१६०।१)
vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ |
स्निग्धगात्रं गुरु स्वच्छं वैडूर्यं गुणवन्मतम् । (१६१।१)
snigdhagātraṃ guru svacchaṃ vaiḍūryaṃ guṇavanmatam |
रेखाभिन्नं लघु स्पष्टं शिलाङ्गारककर्दमम् ॥ (१६१।२)
rekhābhinnaṃ laghu spaṣṭaṃ śilāṅgārakakardamam ||
विवर्णं परुषं कृष्णं वैडूर्यं दोषवत्त्यजेत् । (१६२।१)
vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet |
वैडूर्यलक्षणवैडूर्यं विशदं स्निग्धं प्रीत्यायुर्बलवर्धनम् ॥ (१६२।२)
vaiḍūryalakṣaṇavaiḍūryaṃ viśadaṃ snigdhaṃ prītyāyurbalavardhanam ||
मङ्गल्यं धारणात्तद्धि सर्वग्रहविषापहम् । (१६३।१)
maṅgalyaṃ dhāraṇāttaddhi sarvagrahaviṣāpaham |
पञ्चरत्नानिमाणिक्यं मौक्तिकं वज्रं नीलं मरकतं तथा ॥ (१६४।२)
pañcaratnānimāṇikyaṃ mauktikaṃ vajraṃ nīlaṃ marakataṃ tathā ||
पञ्चरत्नम् इति प्रोक्तं पाप्मालक्ष्मीविषापहम् । (१६५।१)
pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham |
नवरत्नानिगोमेदकं पुष्परागं वैडूर्यमपि विद्रुमम् ॥ (१६५।२)
navaratnānigomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam ||
पञ्चरत्नैः सहैतानि नवरत्नानि निर्दिशेत् । (१६६।१)
pañcaratnaiḥ sahaitāni navaratnāni nirdiśet |
सूर्यकान्तअथ भवति सूर्यकान्तः तपनमणिस्तापनश्च रविकान्तः । (१६६।२)
sūryakāntaatha bhavati sūryakāntaḥ tapanamaṇistāpanaśca ravikāntaḥ |
दीप्तोपलोऽग्निगर्भो ज्वलनाश्मार्कोपलश्च वसुनामा ॥ (१६६।३)
dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā ||
स्फटिकश्वेताभ्रकसमं वर्णैर्हिमाद्रौ चन्द्रसन्निभम् ॥ (१६७।०)
sphaṭikaśvetābhrakasamaṃ varṇairhimādrau candrasannibham ||
निर्मलं च प्रभायुक्तं स्फटिकं श्रेष्ठमुच्यते । (१६८।१)
nirmalaṃ ca prabhāyuktaṃ sphaṭikaṃ śreṣṭhamucyate |
हिमालये सिंहले च विन्ध्ये रेवातटे तथा ॥ (१६८।२)
himālaye siṃhale ca vindhye revātaṭe tathā ||
पद्मरागोद्भवे स्थाने विविधं स्फटिकं भवेत् । (१६९।१)
padmarāgodbhave sthāne vividhaṃ sphaṭikaṃ bhavet |
सूर्यकान्तं च तत्रैकं चन्द्रकान्तं तथापरम् ॥ (१६९।२)
sūryakāntaṃ ca tatraikaṃ candrakāntaṃ tathāparam ||
सूर्यांशुस्पर्शमात्रेण वह्निं वमति तत्क्षणात् । (१७०।१)
sūryāṃśusparśamātreṇa vahniṃ vamati tatkṣaṇāt |
सूर्यकान्तं तदाख्यातं स्फटिकं रत्नवेधितम् ॥ (१७०।२)
sūryakāntaṃ tadākhyātaṃ sphaṭikaṃ ratnavedhitam ||
सूर्यकान्तो भवेदुष्णो निर्मलश्च रसायनम् । (१७१।१)
sūryakānto bhaveduṣṇo nirmalaśca rasāyanam |
वातश्लेष्महरो मेध्यः पूजनाद्रवितुष्टिदः ॥ (१७१।२)
vātaśleṣmaharo medhyaḥ pūjanādravituṣṭidaḥ ||
चन्द्रकान्तैन्दुकान्तश्चन्द्रकान्तश्चन्द्राश्मा संस्रवोपलः । (१७२।१)
candrakāntaindukāntaścandrakāntaścandrāśmā saṃsravopalaḥ |
शीताश्मा चन्द्रिकाद्रावः शशिकान्तश्च सप्तधा ॥ (१७२।२)
śītāśmā candrikādrāvaḥ śaśikāntaśca saptadhā ||
स्निग्धं श्वेतं पीतम् अत्रासमन्ताद् धत्ते चित्तं स्वस्थतां यन्मुनीनाम् । (१७३।१)
snigdhaṃ śvetaṃ pītam atrāsamantād dhatte cittaṃ svasthatāṃ yanmunīnām |
यच्च द्रावं याति चन्द्रांशुसङ्गे जात्यं रत्नं चन्द्रकान्ताख्यमेतत् ॥ (१७३।२)
yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat ||
चन्द्रकान्तस् तु शिशिरः स्निग्धः पित्तास्रदाहनुत् । (१७४।१)
candrakāntas tu śiśiraḥ snigdhaḥ pittāsradāhanut |
शिवप्रीतिकरः स्वच्छो ग्रहालक्ष्मीविषापहः ॥ (१७४।२)
śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ ||
स्फटिकस्फटिकः सितोपलः स्याद् अमलमणिस् तारकोपलः स्वच्छः । (१७५।१)
sphaṭikasphaṭikaḥ sitopalaḥ syād amalamaṇis tārakopalaḥ svacchaḥ |
शीतोष्णवीर्यम् अक्ष्णः पित्तं वातं निहन्ति शोफघ्नम् ॥ (१७५।२)
śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam ||
पुरा प्रोक्तं हि कान्तस्य मया ते लक्षणादिकम् । (१७६।१)
purā proktaṃ hi kāntasya mayā te lakṣaṇādikam |
वैक्रान्तं चैव विक्रान्तं नीलवज्रं कुवज्रकम् ॥ (१७६।२)
vaikrāntaṃ caiva vikrāntaṃ nīlavajraṃ kuvajrakam ||
गोनासं क्षुद्रकुलिशं चूर्णवज्रं च गोनसम् । (१७७।१)
gonāsaṃ kṣudrakuliśaṃ cūrṇavajraṃ ca gonasam |
श्वेतो रक्तश्च पीतश्च नीलः पारावतच्छविः ॥ (१७७।२)
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ ||
श्यामलः कृष्णवर्णश्च कर्बुरश्चाष्टधा हि स । (१७८।१)
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa |
वज्राभावे तु वैक्रान्तं रसवीर्यादिके समम् ॥ (१७८।२)
vajrābhāve tu vaikrāntaṃ rasavīryādike samam ||
अष्टास्रश् चाष्टफलकः षट्कोणो मसृणो गुरुः । (१७९।१)
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ |
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रान्त उच्यते ॥ (१७९।२)
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate ||
कुलुत्थक्वाथसंस्विन्नो वैक्रान्तः परिशुध्यति । (१८०।१)
kulutthakvāthasaṃsvinno vaikrāntaḥ pariśudhyati |
त्रिक्षारैः पञ्चलवणैर्वसामूत्राम्लकोद्रवैः ॥ (१८०।२)
trikṣāraiḥ pañcalavaṇairvasāmūtrāmlakodravaiḥ ||
मत्स्यतैलघृतैस्तुल्यैः कुलुत्थैः काञ्जिकान्वितैः । (१८१।१)
matsyatailaghṛtaistulyaiḥ kulutthaiḥ kāñjikānvitaiḥ |
सप्ताहं दोलिकायन्त्रे व्याघ्रीकन्दगतं पचेत् ॥ (१८१।२)
saptāhaṃ dolikāyantre vyāghrīkandagataṃ pacet ||
वैक्रान्तभस्मतप्तवर्णं तु वैक्रान्तं शुद्धिमायाति निश्चितम् । (१८२।१)
vaikrāntabhasmataptavarṇaṃ tu vaikrāntaṃ śuddhimāyāti niścitam |
हयमूत्रेण तत्सेच्यं तप्तं तप्तं द्विसप्तधा ॥ (१८२।२)
hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā ||
ततश्चोत्तरवारुण्याः पञ्चाङ्गैर् गोलके क्षिपेत् । (१८३।१)
tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet |
रुद्ध्वा मूषां पुटे पक्त्वा पुनरुद्धृत्य गोलके ॥ (१८३।२)
ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake ||
क्षिप्त्वा रुद्ध्वा पुटेदेवं सप्तधा भस्मतां व्रजेत् । (१८४।१)
kṣiptvā ruddhvā puṭedevaṃ saptadhā bhasmatāṃ vrajet |
वैक्रान्तसत्त्व (१)वैक्रान्तस्य पलैकं तु पलैकं टङ्कणस्य च ॥ (१८४।२)
vaikrāntasattva (1)vaikrāntasya palaikaṃ tu palaikaṃ ṭaṅkaṇasya ca ||
रविक्षीरे दिनं भाव्यं मर्द्यं शिग्रुद्रवैर्दिनम् । (१८५।१)
ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam |
गुञ्जापिण्याकवह्नीनां प्रतिकर्षं वियोजयेत् ॥ (१८५।२)
guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet ||
अनेन गुलिका कृत्वा कोष्ठीयन्त्रे धमेद्दृढम् । (१८६।१)
anena gulikā kṛtvā koṣṭhīyantre dhameddṛḍham |
शङ्खकुन्देन्दुसङ्काशं सत्वं वैक्रान्तजं भवेत् ॥ (१८६।२)
śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet ||
वैक्रान्तसत्त्व (२)वैक्रान्तं वज्रकन्दं च समं स्नुक्पयसा सह । (१८७।१)
vaikrāntasattva (2)vaikrāntaṃ vajrakandaṃ ca samaṃ snukpayasā saha |
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ॥ (१८७।२)
mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam ||
पूर्ववद्धमनात्सत्वमिन्द्रगोपनिभं भवेत् । (१८८।१)
pūrvavaddhamanātsatvamindragopanibhaṃ bhavet |
वैक्रान्तसत्त्व (३)वन्ध्याचूर्णं सवैक्रान्तं छायायां मर्दयेत्समम् ॥ (१८८।२)
vaikrāntasattva (3)vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam ||
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद्भवेत् । (१८९।१)
ajāmūtrairdinaikaṃ tu sattvaṃ rajatavadbhavet |
वैक्रान्तसत्त्व (४)म्रियते ऽष्टपुटैर्गन्धनिम्बुकद्रवसंयुतः ॥ (१८९।२)
vaikrāntasattva (4)mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ ||
मूषायां घटिकां ध्मातो वैक्रान्तः सत्त्वमुत्सृजेत् ॥ (१९०।२)
mūṣāyāṃ ghaṭikāṃ dhmāto vaikrāntaḥ sattvamutsṛjet ||
वैक्रान्तद्रुतिश्वेतवर्णं तु वैक्रान्तमम्लवेतसभावितम् । (१९१।१)
vaikrāntadrutiśvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam |
सप्ताहान्नात्र सन्देहः खरे घर्मे द्रवत्यलम् ॥ (१९१।२)
saptāhānnātra sandehaḥ khare gharme dravatyalam ||
केतकीस्वरसं तुत्थं सैन्धवं स्वर्णपुष्पिकम् । (१९२।१)
ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam |
इन्द्रगोपसमं युक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ (१९२।२)
indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet ||
सप्ताहं स्वेदयेत्तस्मिन्वैक्रान्तं द्रवतां व्रजेत् । (१९३।१)
saptāhaṃ svedayettasminvaikrāntaṃ dravatāṃ vrajet |
आयुःप्रदश्च बलवर्णकरोऽतिवृष्यः प्रज्ञाप्रदः सकलदोषमदापहारी । (१९३।२)
āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī |
दीप्ताग्निकृत् पविसमानगुणस्तरस्वी वैक्रान्तकः खलु वपुर्बललोहकारी ॥ (१९३।३)
dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī ||
राजावर्तआवर्तमणिरावर्तो राजावर्तोऽनलाह्वयः ॥ (१९४।०)
rājāvartaāvartamaṇirāvarto rājāvarto'nalāhvayaḥ ||
वर्णेन भ्रमराभः स्याद् द्विःप्रकारः प्रकर्मतः ॥ (१९५।२)
varṇena bhramarābhaḥ syād dviḥprakāraḥ prakarmataḥ ||
एकश्चूर्णाकृतिर्ज्ञेयो द्वितीयो गोलकात्मकः । (१९६।१)
ekaścūrṇākṛtirjñeyo dvitīyo golakātmakaḥ |
स्वर्णबिन्दुसमायुक्तः स्थिररागः स्थिरत्वदः ॥ (१९६।२)
svarṇabindusamāyuktaḥ sthirarāgaḥ sthiratvadaḥ ||
रसदोद्भवरागस्य वर्णोत्कर्षेऽतिदक्षिणः । (१९७।१)
rasadodbhavarāgasya varṇotkarṣe'tidakṣiṇaḥ |
नागस्य रञ्जने श्रेष्ठस्तारे रञ्जनकर्मणि ॥ (१९७।२)
nāgasya rañjane śreṣṭhastāre rañjanakarmaṇi ||
राजावर्तो ऽल्परक्तोरुनीलिकामिश्रितप्रभः ॥ (१९८।२)
rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ ||
गुरुश्च मसृणः श्रेष्ठस्तदन्यो मध्यमः स्मृतः । (१९९।१)
guruśca masṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ |
निम्बुद्रवैः सगोमूत्रैः सक्षारैः स्वेदिताः खलु ॥ (१९९।२)
nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu ||
द्वित्रिवारेण शुध्यन्ति राजावर्तादिधातवः । (२००।१)
dvitrivāreṇa śudhyanti rājāvartādidhātavaḥ |
राजावर्तभस्मलुङ्गाम्बुगन्धकोपेतो राजावर्तो विचूर्णितः ॥ (२००।२)
rājāvartabhasmaluṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ ||
पुटनात् सप्तवारेण राजावर्तो मृतो भवेत् । (२०१।१)
puṭanāt saptavāreṇa rājāvarto mṛto bhavet |
राजावर्तसत्त्वराजावर्तम् अयःपात्रे पाचयेन्माहिषैर्घृतैः ॥ (२०१।२)
rājāvartasattvarājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ ||
पयोभिश्च दिनं चैकं मित्रपञ्चकमिश्रितम् । (२०२।१)
payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam |
रजन्या पञ्चरात्रेण पिण्डीभूतं तु कारयेत् ॥ (२०२।२)
rajanyā pañcarātreṇa piṇḍībhūtaṃ tu kārayet ||
खादिराङ्गारयोगेन कोष्ठ्यां सत्वं विमुञ्चति । (२०३।१)
khādirāṅgārayogena koṣṭhyāṃ satvaṃ vimuñcati |
प्रमेहक्षयदुर्नामपाण्डुश्लेष्मानिलापहः ॥ (२०३।२)
pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ ||
गरुडोद्गारसस्यको गरुडोद्गारः कालजिद् विषसारकः ॥ (२०४।२)
garuḍodgārasasyako garuḍodgāraḥ kālajid viṣasārakaḥ ||
तदा निर्गत्य तच्चञ्चोर् बहुधा सस्यकोऽभवत् ॥ (२०५।२)
tadā nirgatya taccañcor bahudhā sasyako'bhavat ||
महारसः सस्यकः स्यात्प्रभाभिः पञ्चभिर्युतः । (२०६।१)
mahārasaḥ sasyakaḥ syātprabhābhiḥ pañcabhiryutaḥ |
अतिस्थितो वीतिहोत्रः सर्वतः सर्वरूपभाक् । (२०७।१)
atisthito vītihotraḥ sarvataḥ sarvarūpabhāk |
विमलविमलो निर्मलः स्वच्छो विमलः स्वच्छधातुकः । (२०९।१)
vimalavimalo nirmalaḥ svaccho vimalaḥ svacchadhātukaḥ |
बाणसंख्याभिधं शस्तं तारहेम द्विधाकृतः ॥ (२०९।२)
bāṇasaṃkhyābhidhaṃ śastaṃ tārahema dvidhākṛtaḥ ||
विमलस्त्रिविधः प्रोक्तो हेमाद्यस्तारपूर्विकः । (२१०।१)
vimalastrividhaḥ prokto hemādyastārapūrvikaḥ |
तृतीयः कांस्यविमलस्तत्र कान्त्या स लक्ष्यते ॥ (२१०।२)
tṛtīyaḥ kāṃsyavimalastatra kāntyā sa lakṣyate ||
वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । (२११।१)
vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ |
पूर्वो हेमक्रियासूक्तो द्वितीयो वृष्यकर्मणि । (२१२।१)
pūrvo hemakriyāsūkto dvitīyo vṛṣyakarmaṇi |
तृतीयो भेषजे तेषु पूर्वपूर्वो गुणोत्तरः ॥ (२१२।२)
tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ ||
विमलशुद्धिआटरूषरसे स्विन्नो विमलो विमलो भवेत् । (२१३।१)
vimalaśuddhiāṭarūṣarase svinno vimalo vimalo bhavet |
डोलायन्त्रे चतुर्यामं शुद्धिरेषां महोत्तमा ॥ (२१४।२)
ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā ||
कार्कोटीमेषशृङ्ग्युत्थैर् द्रवैर् जंबीरजैर् दिनम् । (२१५।१)
kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam |
भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम् ॥ (२१५।२)
bhāvayedātape tīvre vimalā śudhyati dhruvam ||
विमलसत्त्वविमलं शिग्रुतोयेन कांक्षीकासीसटङ्कणैः । (२१६।१)
vimalasattvavimalaṃ śigrutoyena kāṃkṣīkāsīsaṭaṅkaṇaiḥ |
सत्वं चन्द्रार्कसङ्काशं पतत्यस्य न संशयः ॥ (२१७।२)
satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ ||
पेरोजहरिताश्मा च पेरोजो विषारातिर्हरिन्मणिः । (२१८।१)
perojaharitāśmā ca perojo viṣārātirharinmaṇiḥ |
Data courtesy of The Digital Corpus of Sanskrit.